रेणुकास्तोत्रं श्रीवासुदेवानन्दसरस्वतीकृतम्
श्रीगणेशाय नमः ।
ऐन्द्र्यादिवन्दितपते वरदेऽभीष्टकामदे ।
कामदेवर्चितेऽनन्ते रेणुकेऽम्ब नमोऽस्तु ते ॥
एकवीरे निजाधारे रुचिरे सज्जनादरे ।
उदरे रेणुसञ्जाते रेणुकेऽम्ब नमोऽस्तु ते ॥
करुणारससम्पूर्णे नयने सुस्मितानने ।
शोभने पाहि नो भीते रेणुकेऽम्ब नमोऽस्तु ते ॥
वीरमातर्महादेवी त्वदन्या का परा भुवि ।
तारिणीदुर्गतोऽनन्ते रेणुकेऽम्ब नमोऽस्तु ते ॥
राममातर्महामाये जमदग्निप्रियाऽभये ।
विजये वेदविनुते रेणुकेऽम्ब नमोऽस्तु ते ॥
यैरर्चिते तव पदे ते धन्याः परमे पदे ।
निहितास्ते सुरनुते रेणुकेऽम्ब नमोऽस्तु ते ॥
न त्वदन्यागतिर्देवि परमा खलु शाम्भवि ।
भुक्तिमुक्तिप्रदे शान्ते रेणुकेऽम्ब नमोऽस्तु ते ॥
यः केशवेश्वरश्चापि सृष्टि-स्थित्यन्तकारिणः ।
प्रसादादेव तेऽनन्ते रेणुकेऽम्ब नमोऽस्तु ते ॥
जगदम्बे नमोऽस्तु रेणुके परिपाहीश्वरि नः सुभावुके ।
जय-लाभ-यशःप्रदे मुदे स्तुतिरेषास्तु तवाखिलार्थदे ॥
नावाहनं नार्चन पद्धतिं ते
जाने न भक्तिं त्वयि मे भवान्तके ।
अथापि मां त्वं कुलदेविभक्तं
कुलोद्भवं पाह्यपि चार्थसक्तम् ॥
मातापुरनिवासिन्याः श्रीदेव्याः स्तोत्रमुत्तमम् ।
यः पठेत्प्रयतो भक्त्या सर्वान् कामान् स आप्नुयात् ॥
इति श्रीवासुदेवानन्दसरस्वतीपण्डितविरचितं श्रीरेणुकास्तोत्रं सम्पूर्णम् ॥
Encoded and proofread by Kaushal S. Kaloo kaushalskaloo at gmail.com