वक्रतुण्डस्तुतिः मत्सरासुरेण
॥ श्रीगणेशाय नमः ॥
मत्सरासुर उवाच -
नमामि वक्रतुण्डं च चतुष्पादं चतुःपरम् ।
चतुर्देहविहीनं च बिन्दुमात्रे व्यवस्थितम् ॥ ३९॥
साकारं च निराकारं मायारूपधरं प्रभुम् ।
नमामि मायिनं तं च मायाहीनस्वरूपकम् ॥ ४०॥
जगन्मयं च तद्धीनं सर्वकामप्रपूरकम् ।
ब्रह्मभूयप्रदं चैव नमामि गणनायकम् ॥ ४१॥
सिंहारूढं चतुर्बाहुं विघ्ननाशं नमामि च ।
सिद्धिबुद्धिपतिं चैव सिद्धिबुद्धिप्रदायकम् ॥ ४२॥
अनन्तलीलया युक्तं लीलाहीनं नमामि तम् ।
अव्यक्तं व्यक्तरूपं वै नमामि स्वहृदिस्थितम् ॥ ४३॥
वेदान्तवेद्यं सज्योतिर्ज्योतिषामपि भासकम् ।
नमामि सच्चिदानन्ददेहरूपं जगाननम् ॥ ४४॥
योगिनां हृदि संस्थं च योगिभ्यो योगदायकम् ।
भावाभावमयं देवं नमामि भववर्जितम् ॥ ४५॥
सर्वत्र पक्षहीनं तं सर्वपक्षधरं प्रभुम् ।
नमामि वक्रतुण्डाख्यं ब्रह्मब्रह्माधिपं विभुम् ॥ ४६॥
अहो भाग्यमहो भाग्यं येन दृष्टो गजाननः ।
सर्वाकारनिराकारहीनोऽयं वक्रतुण्डकः ॥ ४७॥
शरणं ते प्रपन्नोऽस्मि पाहि मां भक्तवत्सल ।
प्रवणं त्वत्पदे नित्यं संसारोत्तारणैषिणम् ॥ ४८॥
एवं स्तुत्वा वक्रतुण्डं पादयोर्निपपात ह ।
पुनः पुनः प्रणम्याऽसौ बद्धाञ्जलिपुटः स्थितः ॥ ४९॥
स दृष्ट्वा तादृशं दैत्यं भक्तियुक्तं गजाननः ।
जगाद तं महाभागं भक्तेशो भावतोषितः ॥ ५०॥
(फलश्रुतिः ।)
वक्रतुण्ड उवाच ।
मत्सर त्वद्विनाशाय कुपितोऽहं न संशयः ।
शरणागतनाशं च नेच्छामि वृणु वाञ्छितम् ॥ ५१॥
इदं त्वया कृतं स्तोत्रं मत्प्रीतर्वर्धनं महत् ।
महैश्वर्यायुरारोग्यदायकं धनधान्यदम् ॥ ५२॥
पुत्रपौत्रकलत्रादिनानासम्पत्करं परम् ।
धर्मार्थकाममोक्षाणां दायकं प्रभविष्यति ॥ ५३॥
इति मत्सरासुरेणप्रोक्ता वक्रतुण्डस्तुतिः समाप्ता ।
द्वादशस्तोत्रं
- ॥ मुद्गलपुराणं प्रथमः खण्डः । अध्यायः ३८ । १.३८ ३९-५३॥
- .. mudgalapurANaM prathamaH khaNDaH . adhyAyaH 38 . 1.38 39-53..
Encoded by Ajit Krishnan
Proofread by Ajit Krishnan, PSA Easwaran