शिवप्रोक्तं क्षेत्रपूजनम्
हिमालयनगोत्तमे हिमसुधाममौलिस्फुर-
द्धिमाद्रिवरकन्यकाजटिलकान्तिकान्तं प्रभुम् ।
पयोधिसुतया हरिः पयसिजातपुष्पार्चनै-
र्निनाय दिवसानुमे वरसुरङ्गकेदारगः ॥ ३४॥
ओङ्कारं समवाप्य भारतिपतिस्सन्नर्मदातीरगं
पुष्पैर्बिल्वदलार्चनैश्श्रुतिगतैर्मन्त्रैस्स्तुवन्मामुमे ।
तत्याजाखिलपातकं हृदि गतं चाज्ञानमप्यन्तत -
स्सृष्टिं प्रष्टुतया स्वकीयवदनैस्तुष्टाव चाष्टाकृतिम् ॥ ३५॥
रुद्रोऽविमुक्तपदवीमविमुक्तमेतत्सम्प्राप्य लिङ्गनिलयं वरगङ्गयापि ।
विश्वेश्वरं त्रिभुवनेश्वरमीप्सितारं त्वामम्बिकामगसुतां सुविशालनेत्राम् ॥ ३६॥
अभ्यर्च्य पुष्पनिकरैः पयसो रसैश्च नीरैश्च सेच्य वरबिल्वदलैस्समर्च्य ।
लेभेऽप्यलभ्यमपि वेदशिरः प्रतीतं ज्ञानं तदा सुविमलं नगराजकन्ये ॥ ३७॥
इन्द्रोऽप्यथामरसुकण्ठकमेतदेव देवं महेश्वरमुमे वरबिल्वपत्रैः ।
सम्पूज्य तच्छ्रुतिगतं विमलं मदीयं ज्ञानं सदोदितमखण्डमवाप्य तुष्टः ॥ ३८॥
यमोऽपि वरशैलके विमलगन्धमाद्रौ शिवं
समर्च्य निजपातकैश्श्रुतिगतिञ्च लेभे शिवे ।
विमुक्तहृदयस्तदा त्रिदलबिल्वपत्रैश्शिवे
स एव सुखसम्पदां प्रवरदक्षिणाशाधिपः ॥ ३९॥
श्रीशैलनायकमुमे प्रथिते प्रदोषे श्रीदं धनाधिपतिरर्च्य विमुक्तपापः ।
ज्ञानं च यक्षपतिरक्षममाप वीक्ष्य पक्षाश्रयेण विमलं सलभेत्सुमोक्षम् ॥ ४०॥
तावश्विनौ च करहट्टपुरं तदाप्य नागेशमर्च्य विविधैर्लभतां सुपुष्पैः ।
मोक्षं तथैव भिषजामधिपौ तथा तौ वेदं तथायुषमुमे समवापतुस्तौ ॥ ४१॥
वायुः कामदवैद्यनाथविपिनाधीशं समभ्यर्च्य मां
बिल्वैः कोमलपुष्पनीरजलवैस्सम्पाप्य मोक्षं द्रुतम् ।
अग्निः पुष्करमीश्वरं त्रिभुवनाध्यक्षं समभ्यर्च्य वै
सर्वंभक्षसमुद्भवं प्रथितमप्यंहोविमुक्तोऽम्बिके ॥ ४२॥
गोकर्ण समवाप्य ते हि मरुतः पूज्येश्वरं मां शिवे
बिल्वैः कोमलपल्लवैश्च वसवो दित्यास्तवैस्तुष्टुवुः ।
श्रीमत्त्र्यम्बकमप्यगसुते ते द्वादशार्का हि मां
होमैर्हुत्वा महेशि रुद्रास्त्वभिपूज्य त्रिदलैश्च बिल्वपत्रैः ॥ ४३॥
परिणतहिमधाममण्डलोऽपि शम्भुं हृदयाम्भोजसुपुण्डरीकवासम् ।
गोपर्वते समभिपूज्य तथैव शम्भुं मार्ताण्डकोऽपि गिरिजे समवाप मुक्तिम् ॥ ४४॥
काञ्चीं काञ्चितदित्कटां दिविषदस्त्वेकाम्रमूले हरं
कामाक्षीमपि भोगभोग्यनिकरैस्सम्पूज्य मुक्तिं गताः ।
अन्येचापि ग्रहास्तथैव मुनयो देवासुरा मानवा
गन्धर्वोरगयक्षराक्षसगणा मुक्तास्समभ्यर्च्य माम् ॥ ४५॥
श्रीकण्ठे तृणशङ्करे सुविहिते रत्नाद्रिमौलिस्थिते
श्रीमातृप्रभवे गिरीन्द्रतनये श्रीकालहस्तीगिरौ ।
जम्बूलिङ्गकवेरजातटयुगे जप्ये तथा कुम्भके
पुण्ये श्रीधवलार्जुने विधिपुहे श्रीवेदकाब्जे पुरे ॥ ४६॥
पुण्ये श्वेतवने मयूरविपिने छायावने शङ्करि
सम्पूज्य त्रिदशेश्वरं गिरिजया मुक्तिं परां ते ययुः ॥ ४७॥
हालास्यनायकमुमे वरशालिवाटीनाथं च कान्तिमतिकाशपुरायताक्षीम् ।
देवाङ्गना समभिपूज्य हलीसलास्यैर्नृत्यन्ति हेमसरसीमवगाह्य मां त्वाम् ॥ ४८॥
मार्कण्डेयघटोद्भवौ घटहरं सम्पूज्य मृत्युं क्षणा-
द्योजिग्ये भुवनेश्वरि त्रिभुवने मत्पादशूलाहतम् ।
स्कन्दस्स्वामिगिरौ समर्च्य गणपस्तद्दक्षिणावर्तके
मामाराध्य गणाश्च भूसुरगणास्तत्रत्यलिङ्गेषु माम् ॥ ४९॥
क्षिप्रातीरनिकेतने मयि सदा नाम्ना महाकालजे
सम्प्राप्यार्च्य गणत्वमाप सुकृतैर्मुक्तोऽप्यभून्मद्गणः ।
भृङ्गी नन्दिकचण्डिकौ बलिसुतः पौलस्त्यहुण्डादयो
मामाराद्धय सदैव तुष्टुवुरुमे तन्मे समाकर्णय ॥ ५०॥
॥ इति शिवरहस्यान्तर्गते माहेश्वराख्ये शिवप्रोक्तं क्षेत्रपूजनम् ॥
- ॥ श्रीशिवरहस्यम् । माहेश्वराख्यः प्रथमांशः । अध्यायः ५६ - देवकृतक्षेत्रपूजनम् । ३४-५०॥
- .. shrIshivarahasyam . mAheshvarAkhyaH prathamAMshaH . adhyAyaH 56 - devakRRitakShetrapUjanam . 34-50..
Notes:
Śiva शिव outlines to Devī देवी, the various Śivakṣetra शिवक्षेत्र where Pūjā Archanā पूजा अर्चना are conducted unto Him.
Encoded and proofread by Ruma Dewan