शिवस्तवः ब्रह्मविष्णुकृतः

शिवस्तवः ब्रह्मविष्णुकृतः

श्रीगणेशाय नमः । ब्रह्मविष्णू ऊचतुः । नमस्ते शङ्करायैव नमस्ते शूलपाणये । रुद्राय कालरूपाय त्र्यम्बकाय नमो नमः ॥ ४२॥ उमापते नमस्तुभ्यं वृषभेश्वरवाहन । आदिदेवाय देवाय महादेवाय ते नमः ॥ ४३॥ प्रसीद भगवन् शम्भो नान्तं पश्यावहे विभो । किंरूपं किंस्वभावं त्वां न जानीवः कथञ्चन ॥ ४४॥ दर्शय स्वात्मरूपं भो महेश्वर नमोऽस्तु ते । येन ते भजनं देव जनाः कुर्वन्ति निर्भयाः ॥ ४५॥ तयोर्वचनमाकर्ण्य शम्भुः प्राकट्यमास्थितः । ततस्तं तौ ददृशतुर्हरिश्च भगवान् विधिः ॥ ४६॥ वामभागे स्थितं विष्णुं दक्षिणाङ्गे पितामहम् । विश्वं चराचरं सर्वं लिङ्गं तत्रास्य संस्थितम् ॥ ४७॥ अपारमहिमानं तं दृष्ट्वा नेमतुरादरात् । उपसंहर रूपं तत्त्वमेव परमेश्वरः ॥ ४८॥ तयोर्वचनमाकर्ण्य हृष्टः सन् शङ्करः प्रभुः । भगवान् पूर्वरूपेण सन्तस्थौ वृषभध्वजः ॥ ४९॥ उवाच तौ महादेवो वृणुतं वरमीप्सितम् । दास्यामि भवतोर्भावात् स्तोत्रसन्तुष्टमानसः ॥ ५०॥ य एतत्पठति स्तोत्रं स कामान् लभतेऽखिलान् । मत्प्रियः सोऽपि भवति मल्लोकेऽन्ते प्रगच्छति ॥ ५१॥ इति ब्रह्मविष्णुकृतः शिवस्तवः । १.१३ - ॥ मुद्गलपुराणं प्रथमः खण्डः । अध्यायः १३ । १.१३ ४२-५१॥ - .. mudgalapurANaM prathamaH khaNDaH . adhyAyaH 13 . 1.13 42-51..
% Text title            : Shiva Stava 1 by Brahma and Vishnu
% File name             : shivastavaHbrahmaviShNukRRitaH.itx
% itxtitle              : shivastavaH 1 brahmaviShNukRitaH (mudgalapurANAntargataH)
% engtitle              : shivastavaH 1 brahmaviShNukRitaH
% Category              : shiva, stava
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : NA
% Proofread by          : NA
% Description/comments  : mudgalapurANaM prathamaH khaNDaH | adhyAyaH 13 | 1.13 42-51||
% Indexextra            : (mudgalapurANa)
% Latest update         : April 23, 2020
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org