अक्षपञ्चकम्
गिरान्तेऽर्थानुसन्धातॄंश्चिरान्तेवासिनो हरे ।
पुरान्ते दर्शनोत्कान्नः स्मरान्ते स्वीयमुन्नयन् ॥ १॥
पोषायाऽऽषाढाब्दनादवेषशेषादिकेकिनाम् ।
द्वेषान्तासुरपाषाणपेषायाशनिरोषधूः ॥ २॥
भाषाशेषाङ्गभूषाणां घोषाभा शोषदा द्विषाम् ।
हेषा तवैषा निर्दोषा तोषाय स्याद्धयास्य मे ॥ ३॥
हृद्यविद्याब्धिशब्दाभा मार्गे कलकलप्रभ ।
स्वर्गिणामुपदेशे सा वल्गुवाद्यस्वनायते ॥ ४॥
सेनाया वैरिसेनाया नाकिनां सपिनाकिनाम् ।
भयाभयप्रद स्यान्नोऽभयायांहोभयाय सा ॥ ५॥
भीरुणा वैरिणः पापाद्दारुणादक्षपञ्चकात् ।
यतिना वादिराजेन कृतिनेयं कृतिः कृता ॥ ६॥
इति श्रीमद्वादिराजपूज्यचरणविरचितं अक्षपञ्चकं सम्पूर्णम् ।
भारतीरमणमुख्यप्राणान्तर्गत श्रीकृष्णार्पणमस्तु ।
Proofread by Jayalakshmi Jayaraman