हयास्यदशकम्
त्रियुगेऽष्टयुगेषु स्यान्मा कलौ जन्म भूद्धरे ।
मा पापी स्यां क्रियाहीनो मा मूढो मा च नारकी ॥ १॥
यथाऽसह्यं स्वस्य दुःखं तथाऽन्यस्यापि तत्समम् ।
इति प्रायेण भूतेषु को न जानात्यथापि हि ॥ २॥
मदान्धाः केऽपि पापान्धाः स्वभावान्धाश्च केचन ।
न पश्यन्ति परक्लेशं परत्र क्लेशमात्मनाम् ॥ ३॥
हा कष्टं देव लक्ष्मीश लोकाः पापानि कुर्वते ।
पर्वतेऽपि वसन्नाथ कुर्वेऽर्चां तव केवलम् ॥ ४॥
आसहस्राब्दमाकल्पमाकोट्यब्दमथापि वा ।
नरकघ्न कथं नाथ नरकाग्नौ पथेमहि ॥ ५॥
अनन्तजन्मपापानि मनोऽन्तस्थस्त्वमच्युत ।
जानासि नाथ तत्कष्टं ज्ञानासिस्ते छिनत्तु मे ॥ ६॥
रत्या रज्वा मनश्चोरं बध्नीहि चरणे तव ।
मरणेऽपि भवत्पादशरणः स्यामहं प्रभो ॥ ७॥
भवत्प्रसादसामर्थ्यादहमेतादृशोऽच्युत ।
हयग्रीव दयासिन्धो ज्ञानरूप हिरण्मय ॥ ८॥
त्वामेवेक्षे परोक्षे त्वां सेवे ध्यायामि कीर्तये ।
त्वामर्चये त्वां नमस्ये त्वां याचेऽन्ते परां गतिम् ॥ ९॥
सहस्रनामन्नामैकं प्रयच्छानन्तरूप ते ।
स्मरणायैकरूपं मे त्रिधामन्नेकधाम ते ॥ १०॥
स्मरता वादिराजेन स्मरतातमियं कृता ।
दशश्लोकीं पठन्नेतामनन्तश्लोक्यहो भवेत् ॥ ११॥
इति श्रीमद्वादिराजपूज्यचरणविरचितं हयास्यदशकं सम्पूर्णम् ।
भारतीरमणमुख्यप्राणान्तर्गत श्रीकृष्णार्पणमस्तु ।
Proofread by Lata Murali