हरिभक्ताष्टकम्
श्रीमध्वशुद्धराद्धान्तभूमयो धृतनेमयः ।
महान्तो हरिसन्तोषकराः क्लेशहरा मम ॥ १॥
रुक्षाघक्षालने दक्षा मोक्षदाधोक्षजेक्षणाः ।
रक्ष्येलक्ष्याविपक्षाक्षहर्यक्षाः परपक्षकाः ॥ २॥
सुदयानिधयो मोक्षावधयो विजिताऽऽधयः ।
हरिसन्निधयो ज्ञानेषुधयोऽम्बुधयो गुणैः ॥ ३॥
प्रभञ्जनाप्तचित्पुञ्जाक्ष्यञ्जना जनरञ्जनाः ।
निरन्जनाः कञ्जनाभव्यञ्जना भवभञ्जनाः ॥ ४॥
नृत्यन्तः स्वान्तवृत्यन्तस्सन्तो हन्तोज्झिता हरिम् ।
भजन्तोऽन्यत्यजन्तस्ते यतयो गतयो मम ॥ ५॥
सदा शास्त्रविचारस्थान् सदाऽशास्त्रजये पटून् ।
सदा शास्त्रविचारस्थान् सदा शास्त्रपयोत्स्यतः ॥ ६॥
अलं पटादिविषयैरित्यलम्पटमानसान् ।
अनलङ्कुर्वतः स्वाङ्गमनलं कुर्वतो द्विषाम् ॥ ७॥
भ्रमतो भ्रमतो देशं नमतो नमतोदयम् ।
गुरून्विद्यागुरून्सर्वान् स्मरध्वं स्मरतो हरिम् ॥ ८॥
हरिभक्ताष्टकं दृष्टादृष्टसर्वेष्ट पुष्टिदम् ।
यतिना वादिराजेन रचितं सर्वदा पठेत् ॥ ९॥
इति श्रीमद्वादिराजपूज्यचरणविरचितं हरिभक्ताष्टकं सम्पूर्णम् ।
भारतीरमणमुख्यप्राणान्तर्गत श्रीकृष्णार्पणमस्तु ।
Proofread by Sripriya