जय भारतमेदिनि विश्वनुते !
हिमवत्कलहासमरीचिसिते !
यमुनाजलनीलविभामहिते ! ।
रविचुम्बितकोकनदारुणिते !
जय भारतमेदिनि विश्वनुते ! ॥ १॥
नवसर्षप-पीतदुकूलयुते !
बहुशस्यसमूहविभाहरिते ! ।
मलयानिलमोदकलाकलिते !
जय भारतमेदिनि विश्वनुते ! ॥ २॥
अतिपुण्यपुरातनपद्धतिभि-
र्नवनूतनयोगप्रयोगचयैः !
समयोचितनीतिबलैः सहिते !
जय भारतमेदिनि विश्वनुते ! ॥ ३॥
त्रिविधैः खलु तापचयैर्विकले
मनजे शुभनिर्वृतिमादधती ।
नवमङ्गलदानविधग्नकरे !
जय भारतमेदिनि विश्वनुते ! ॥ ४॥
मुनिभिर्मनुजैर्दनुजैर्विबुधैः
कविभिर्नवचित्रकलैश्च तथा ।
निजजन्म सुजन्मसु कामयिते !
जय भारतमेदिनि विश्वनुते ! ॥ ५॥
जय वेदविभासितचित्तगुहे !
बहुदर्शनगोप्य रहस्ययुते ! ।
अपवर्गसुभक्तिविधानकरे !
जय भारतमेदिनि विश्वनुते ! ॥ ६॥
अभिमानधनैः रणशौण्डभटैः
कृषिकर्मपरैः श्रमिकैर्लसिते ।
शुचिशान्तिसुधाभरिते वरदे
जय भारतमेदिनि विश्वनुते ! ॥ ७॥
जय नैकप्रदेश प्रभालसिते !
बहुवर्णजनौघविभालसिते !
बहुलोकसुरीतिरसैः सरसे
जय भारतमेदिनि विश्वनुते ! ॥ ८॥
करुणाकलिते ! मुदिताभरिते !
सरसे ! सरले ! मृदुले ! ललिते !
सुद्रुढे ! दुरितौघविनाशकरे !
जय भारतमेदिनि ! विश्वनुते ! ॥ ९॥
जय भारतभूमे ! (संस्कृतकाव्यम्)
रचना - डाॅ. रमाकान्त शुक्लः
Proofread by Mandar Kulkarni