शरणागति दीपिका

शरणागति दीपिका

श्रीः ॥ श्रीमान् वेङ्कटनाथार्यः कवितार्किककेसरी । वेदान्ताचार्यवर्यो मे सन्निधत्तां सदा हृदि ॥ पद्मापतेः स्तुतिपदेन विपच्यमानं पश्यन्त्विह प्रपदनप्रवणा महान्तः । मद्वाक्य संवलितमप्यजहत्स्वभावं मान्यं यतीश्वरमहानससम्प्रदायम् ॥ १॥ नित्यं श्रिया वसुधया च निषेव्यमाणं निर्व्याजनिर्भरदयाभरितं विभाति । वेदान्तवेद्यमिह वेगवती समीपे दीपप्रकाश इति दैवतमद्वितीयम् ॥ २॥ दीपस्त्वमेव जगतां दयिता रुचिस्ते दीर्घं तमः प्रतिनिवर्त्यमिदं युवाभ्याम्। स्तव्यं स्तवप्रियमतः शरणोक्तिवश्यं var स्तवप्रियतमं स्तोतुं भवन्तमभिलष्यति जन्तुरेषः ॥ ३॥ var भवन्तमिह वाञ्छति, भवन्तमभिवाञ्छति पद्माकरादुपगता परिषस्वजे त्वां वेगा सरिद्विहरणा कलशाब्धिकन्या । आहुस्तदाप्रभृति दीपसमावभासं आजानतो मरकतप्रतिमं वपुस्ते ॥ ४॥ स्वामिन् गभीरसुभगं श्रमहारि पुंसां माधुर्यरम्यमनघं मणिभङ्गदृश्यम् । वेगान्तरे वितनुते प्रतिबिम्बशोभां var वेगान्तरेऽपि तनुते लक्ष्मी सरः सरसिजाश्रयमङ्गकं ते ॥ ५॥ आविश्य धारयसि विश्वममुष्य यन्ता शेषी श्रियःपतिरशेषतनुर्निदानम् । इत्यादि लक्षणगणैः पुरुषोत्तमं त्वां जानाति यो जगति सर्वविदेष गीतः ॥ ६॥ विश्वं शुभाश्रयवदीश वपुस्त्वदीयं सर्वा गिरस्त्वयि पतन्ति ततोऽसि सर्वः । सर्वं च वेदविधयस्त्वदनुग्रहार्थाः सर्वाधिकस्त्वमिति तत्त्वविदस्तदाहुः ॥ ७॥ ज्ञानं बलं नियमनक्षमताऽथ वीर्यं शक्तिश्च तेज इति ते गुणषट्कमाद्यम् । सर्वातिशायिनि हिमोपवनेश यस्मिन् अन्तर्गतो जगदिव त्वयि सद्गुणौघः ॥ ८॥ दीपावभासदयया विधिपूर्वमेतत् विश्वं विधाय निगमानपि दत्तवन्तम् । शिष्यायिताः शरणयन्ति मुमुक्षवस्त्वां आद्यं गुरुं गुरुपरम्परयाऽधिगम्यम् ॥ ९॥ var गुरुपरम्परयाऽभिगम्यम् सत्ता स्थिति प्रयतनप्रमुखैरुपात्तम् स्वार्थं सदैव भवता स्वयमेव विश्वम् । दीपप्रकाश तदिह त्वदवाप्तये त्वां अव्याजसिद्धमनपायमुपायमाहुः ॥ १०॥ भोग्यं मुकुन्द गुणभेदमचेतनेषु भोक्तृत्वमात्मनि निवेश्य निजेच्छयैव । var भोक्तृत्वमात्मसु पाञ्चालिकाशुकविभूषणभोगदायी var पाञ्चालिकांशुकविभीषण, पाञ्चालिकांशुकविभूषण सम्राडिवात्मसमया सह मोदसे त्वम् ॥ ११॥ त्वां मातरं च पितरं सहजं निवासं सन्तः समेत्य शरणं सुहृदं गतिं च । निःसीमनित्यनिरवद्यसुखप्रकाशं दीपप्रकाशसविभूतिगुणं विशन्ति ॥ १२॥ जन्तोरमुष्य जनने विधि शम्भु दृष्टौ रागादिनेव रजसा तमसा च योगः । द्वैपायनप्रभृतयस्त्वदवेक्षितानां सत्त्वं विमुक्ति नियतं भवतीत्युशन्ति॥ १३॥ कर्मस्वनादि विषमेषु समो दयालुः स्वेनैव कॢप्तमपदेशमवेक्षमाणः । var कॢप्तमुपदेशमपेक्षमाणः स्वप्राप्तये तनुभृतां त्वरसे मुकुन्द स्वाभाविकं तव सुहृत्त्वमिदं गृणन्ति ॥ १४॥ निद्रायितान् निगमवर्त्मनि चारुदर्शी var चोरदर्शी, पारदर्शी प्रस्थानशक्तिसहितान् प्रतिबोध्य जन्तून् । var रहितान् जीर्ण स्तनन्धयजडान्धमुखानिवास्मान् var मुखानिवान्यान् नेतुं मुकुन्द यतसे दयया सह त्वम् ॥ १५॥ var सहत्वम् भक्तिः प्रपत्तिरथवा भगवंस्तदुक्तिः तन्निष्ठ संश्रय इतीव विकल्प्यमानम् । यं कंचिदेकमुपपादयता त्वयैव var यत्किंचित् त्रातास्तरन्त्यवसरे भविनो भवाब्धिम् ॥ १६॥ नानाविधैरकपटैरजहत्स्वभावैः अप्राकृतैर्निजविहारवशेन सिद्धैः । आत्मीयरक्षणविपक्षविनाशनार्थैः var विनाशनार्हैः संस्थापयस्यनघ जन्मभिराद्यधर्मम् ॥ १७॥ निम्नोन्नतानि निखिलानि पदानि गाढं मज्जन्ति ते महिम सागरशीकरेषु । नीरन्ध्रमाश्रयसि नीचजनांस्तथापि शीलेन हन्त शिशिरोपवनेश्वर त्वम् ॥ १८॥ काशीवृकान्धकशरासनबाणगङ्गा- संभूतिनामकृतिसंवदनाद्युदन्तैः । var संवननाद्युदन्तैः स्वोक्त्यम्बरीष भयशापमुखैश्च शम्भुं तन्निघ्नमीक्षितवतामिह कः शरण्यः ॥ १९॥ क्वासौ विभुः क्व वयमित्युपसत्ति भीतान् जन्तून् क्षणात् त्वदनुवृत्तिषु योग्ययन्ती । var त्वदनुभूतिषु संप्राप्तसद्गुरुतनोः समये दयालोः आत्मावधिर्भवति शिक्षितधीः क्षणं ते ॥ २०॥ var संस्कृतधीः, संस्कृतिरीक्षणं ते योग्यं यमैश्च नियमैश्च विधाय चित्तं सन्तो जितासनतया स्ववशासु वर्गाः । प्रत्याहृतेन्द्रियगणाः स्थिरधारणास्त्वां ध्यात्वा समाधियुगलेन विलोकयन्ति ॥ २१॥ पद्माभिरामवदनेक्षणपाणिपादं दिव्याद्युधाभरणमाल्य् विलेपनं त्वाम् । योगेन नाथ शुभमाश्रयमात्मवन्तः सालम्बनेन परिचिन्त्य न यान्ति तृप्तिम् ॥ २२॥ var शान्तिं मानातिलङ्घि सुखबोधमहाम्बुराशौ मग्नास्त्रिसीमरहिते भवतः स्वरूपे । तापत्रयेण विहतिं न भजन्ति भूयः var सन्तः संसारघर्मजनितेन समाधिमन्तः ॥ २३॥ धीसंस्कृतान् विदधतामिह कर्मभेदान् शुद्धं जिते मनसि चिन्तयतां स्वमेकम् । त्वत्कर्मसक्तमनसामपि चापरेषां सूते फलान्यभिमतानि भवान् प्रसन्नः ॥ २४॥ उद्बाहुभावमपहाय यथैव खर्वः प्रांशुं फलार्थमभियाचति योगिचिन्त्य । var प्रांशु फलं समभियाचति एवं सुदुष्करमुपायगणं विहाय स्थाने निवेशयति तस्य विचक्षणस्त्वाम् ॥ २५॥ var विचक्षणं नित्यालसार्हमभयं निरपेक्षमन्यैः विश्वाधिकारमखिलाभिमतप्रसूतिम् । शिक्षाविशेषसुभगं व्यवसाय सिद्धाः var सुलभं सत्कुर्वते त्वयि मुकुन्द षडङ्गयोगम् ॥ २६॥ त्वत्प्रातिकूल्यविमुखाः स्फुरदानुकूल्याः कृत्वा पुनः कृपणतां विगतातिशङ्काः । स्वामिन् भव स्वयमुपाय इतीरयन्तः त्वय्यर्पयन्ति निजभारमपारशक्तौ ॥ २७॥ अर्थान्तरेषु विमुखान् अधिकारहानेः श्रद्धाधिकांस्त्वदनुभूति विलम्बभीतान् । var श्रद्धाधनात् दीप प्रकाश लभसे सुचिरात् कृतीव var कृती त्वं न्यस्तात्मनस्तव पदे निभृतान् प्रपन्नान् ॥२८॥ मन्त्रैरनुश्रवमुखेष्वधिगम्यमानैः var अनुगम्यमानैः स्वाध् क्रियासमुचितैर्यदिवाऽन्यवाक्यैः। नाथ त्वदीय चरणौ शरणं गतानां नैवायुतायुतकलाप्यऽपरैरवाप्या ॥ २९॥ दत्ताः प्रजा जनकवत् तव देशिकेन्द्रैः पत्याऽभिनन्द्य भवता परिणीयमानाः । मध्ये सतां महितभोगविशेषसिद्ध्यै माङ्गल्यसूत्रमिव बिभ्रति किङ्करत्वम् ॥ ३०॥ var मङ्गल्यसूत्रमिव दिव्ये पदे नियतकिङ्करताधिराज्यं दातुं त्वदीय दयया विहिताभिषेकाः । var प्राप्तुं त्वयैव, दातुं त्वयैव आदेहपातमनघाः परिचर्यया ते युञ्जानचिन्य युवराजपदं भजन्ति ॥ ३१॥ त्वां पाञ्चरात्रिकनयेन पृथग्विधेन वैखानसेन च पथा नियताधिकराः । संज्ञाविशेषनियमेन समर्चयन्तः प्रीत्या नयन्ति फलवन्ति दिनानि धन्याः ॥ ३२॥ वर्णाश्रमादिनियतक्रमसूत्रबद्धाः var वर्णाश्रमादिनियमस्थिरसूत्रबन्धा भक्त्या यथार्ह विनिवेशितपत्रपुष्पा । मालेव कालविहिता हृदयङ्गमा त्वां आमोदयत्यनुपरागधियां सपर्या ॥ ३३॥ ब्रह्मा गिरीश इतरेऽप्यमरा य एते निर्धूय तान् निरयतुल्यफलप्रसूतीन् । प्राप्तुं तवैव पदपद्मयुगं प्रतीताः पातिव्रतीं त्वयि वहन्ति परावरज्ञाः ॥ ३४॥ var भजन्ति नाथ त्वदिष्टविनियोगविशेषसिद्धं शेषत्वसारमनपेक्ष्य निजं गुणज्ञाः । var शेषत्वसारमनुपेक्ष्य भक्तेषु ते वरगुणार्णव पारतन्त्र्यात् दास्यं भजन्ति विपणिव्यवहारयोग्यम् ॥ ३५॥ सद्भिस्वदेकशरणैर्नियतं सनाथाः var नियताः सर्पादिवत् त्वदपराधिषु दूरयाताः । धीरास्तृणीकृतविरिञ्चपुरन्दराद्याः कालं क्षिपन्ति भगवन् करणैरवन्ध्यैः॥ ३६॥ वागादिकं मनसि तत् पवने स जीवे भूतेष्वयं पुनरसौ त्वयि तैः समेति । साधारणोत्क्रमणकर्मसमाश्रितानां यन्त्रा मुकुन्द भवतैव यथा यमादेः ॥ ३७॥ सव्यान्ययोरयनयोर्निशि वासरे वा सङ्कल्पितायुरवधीन् सपदि प्रपन्नान् । हार्दः स्वयं निजपदे विनिवेशयिष्यन् नाडीं प्रवेशयसि नाथ शताधिकां त्वम् ॥३८॥ अर्चिर्दिनं विशदपक्ष उदक्प्रयाणं संवत्सरो मरुदशीतकरः शशाङ्कः । सौदामनी जलपतिर्वलजित्प्रजेशः इत्यातिवाहिक् सखो नयसि स्वकीयान् ॥ ३९॥ त्वच्छेषवृत्त्यनुगुणैर्महितैर्गुणौघैः var सहिते गुणौघैः, सहितैर्गुणौघैः आविर्भवत्ययुतसिद्ध निजस्वरूपे । त्वल्लक्षणेषु नियतेष्वपि भोगमात्रे साम्यं भजन्ति परमं भवता विमुक्ताः ॥ ४०॥ इत्थं त्वदेकशरणैरनघैरवाप्ये त्वत्किङ्करत्वविभवे स्पृहयाऽपराध्यन् । आत्मा ममेति भगवन् भवतैव गीता var (to next line) गीतान् प्राचो निरीक्ष्य, गीताः प्रायो निरीक्ष्य वाचो निरीक्ष्य भरणीय इह त्वयाऽहम् ॥ ४१॥ var इति पद्मा मह् प्रभृतिभिः परिभुक्तभूम्नः का हानिरत्र मयि भोक्तरि ते भवित्री । दुष्येत् किमङ्घ्रितटिनी तव देव सेव्या दुर्वारतर्षचपलेन शुनाऽवलीढा ॥ ४२॥ सत्वानि नाथ विविधान्यभिसञ्जिघृक्षोः var विविधान्यपि सञ्जिघृक्षोः संसारनाट्यरसिकस्य तवाऽस्तु तृप्त्यै । प्रत्यक्पराङ्मुखमतेरसमीक्ष्य कर्तुः प्राचीनसज्जनविडम्बनभूमिका मे ॥ ४३॥ कर्तव्यमित्यनुकलं कलयाम्यकृत्यं स्वामिन्नकृत्यमिति कृत्यमपि त्यजामि । var स्वामिन्नकृत्यमिव अन्यद्व्यतिक्रमणजातमनन्तमर्थ- स्थाने दया भवतु ते मयि सार्वभौमी ॥ ४४॥ var वहतु यं पूर्वमाश्रितजनेषु भवान् यथावत् धर्मं परं प्रणिजगौ स्वयमानृशंस्यम् । संस्मारितस्त्वमसि तस्य शरण्यभावात् नाथ त्वदात्तसमया ननु मादृशार्थम् ॥ ४५॥ त्राणं भवेति सकृदुक्तिसमुद्यतानां तैस्तैरसह्यवृजिनैरुदरंभरिस्ते । सत्यापिता शतमखात्मजशङ्करादौ नाथ क्षमा न खलु जन्तुषु मद्विवर्जम् ॥ ४६॥ कर्मादिषु त्रिषु कथां कथमप्यजानन् var कथमित्यजानन् कामादिमेदुरतया कलुषप्रवृत्तिः । var कामादिमांसलतया साकेतसंभवचराचरजन्तुनीत्या var जन्तुरीत्या वीक्ष्यः प्रभो विषयवासितयाऽप्यहं ते ॥ ४७॥ ब्रह्माण्डलक्षशतकोटिगणाननन्तान् एकक्षणे विपरिवर्त्य विलज्जमानाम् । मत्पापराशिमथने मधुदर्पहन्त्रीं शक्तिं नियुङ्क्ष्व शरणागतवत्सल त्वम् ॥ ४८॥ आस्तां प्रपत्तिरिह देशिकसाक्षिका मे var साक्षिकं सिद्धा तदुक्तिरनघा त्वदपेक्षितार्था । var त्वदवेक्षितार्था न्यस्तस्य पूर्वनिपुणैस्त्वयि नन्विदानीं पूर्णे मुकुन्द पुनरुक्त उपाय एषः ॥ ४९॥ var पूर्णो यद्वा मदर्थपरिचिन्तनया तवालं var तवाहं संज्ञां प्रपन्न इति साहसिको बिभर्मि । एवं स्थिते त्वदपवादनिवृत्तये मां पात्रीकुरुष्व भगवन् भवतः कृपायाः ॥ ५०॥ var पात्रं कुरुष्व त्यागे गुणेशशरणागतसंज्ञिनो मे स्त्यानागसोऽपि सहसैव परिग्रहे वा । किं नाम कुत्र भवतीति कृपादिभिस्ते गूढं निरूपय गुणेतर तारतम्यम् ॥ ५१॥ var विचारय स्वामी दयाजलनिधिर्मधुरः क्षमावान् शीलाधिकः श्रितवशः शुचिरत्युदारः । एतानि हातुमनघो न किलार्हसि त्वं विख्यातिमन्ति बिरुदानि मया सहैव ॥ ५२॥ var विख्यातधीरबिरुदानि वेला धनञ्जयरथादिषु वाचिकैः स्वैः आघोषितामखिलजन्तु शरण्यतां ते । var अखिललोक जानन् दशाननशताधिकागसोऽपि पश्यामि दत्तमभयं स्वकृते त्वया मे ॥ ५३॥ रक्ष्यस्त्वया तव भरोऽस्म्यहमित्यपूर्वान् वर्णानिमानहृदयानपि वाचयित्वा । मद्दोषनिर्जितगुणो महिषीसमक्षं मा भूस्त्वदन्य इव मोघपरिश्रमस्त्वम् ॥ ५४॥ var मा भूस्तदन्य मुख्यं च यत्प्रपदनं स्वयमेव साध्यं दातव्यमीश कृपया तदपि त्वयैव । तन्मे भवच्चरणसङ्गवतीमवस्थां पश्यन्नुपायफलयोरुचितं विधेयाः ॥ ५५॥ अल्पास्थिरैरसुखजैरसुखावसानैः दुःखान्वितैरनुचितैरभिमानमूलैः । प्रत्यक्परागनुभवैः परिघूर्णितं मां त्वय्येव नाथ चरितार्थय निर्विविक्षुम् ॥ ५६॥ var निर्व्यपेक्षं, निर्विपक्षं, निर्विवक्षन् तत्त्वावबोधशमितप्रतिकूलवृत्तिं कैङ्कर्यलब्धकरणत्रयसामरस्यम् । कृत्वा त्वदन्यविमुखं कृपया स्वयं मां स्फातिं दृशोः प्रतिलभस्व जगज्जनन्याः ॥ ५७॥ इत्थं स्तुतिप्रभृतयो यदि संमता स्युः यद्वापराधपदवीष्वभिसंविशन्ति । var पदवीष्वपि संविशन्ति स्तोकानुकूल्यकणिका वशवर्तिनस्ते प्रीतिक्षमाप्रसरयोरहमस्मि लक्ष्यम् ॥ ५८॥ स्नेहोपपन्न विषयः स्वदशाविशेषात् भूयस्तमिस्रशमनीं भुवि वेङ्कटेशः । दिव्यां स्तुतिं निरमिमीत सतां नियोगात् दीपप्रकाशशरणागतिदीपिकाख्याम् ॥ ५९॥ The following additional shlOka is found in some publications. (एतदनन्तरं ᳚एतां दीपरकाश᳚ इत्ययं श्लोकः केषुचिन्मुद्रितेषु पुस्त्तकेषु दृश्यते । स तु न श्रीमदाचार्यानुगृहीत इति साम्प्रदायिकाः ।) एतां दीपप्रकाशस्तुतिमिह रुचिरामित्थमब्यस्यमानः सम्यक् दृष्ट्वा शरण्यप्रभृति निगतितं न्यासविद्याख्यतत्त्वम् । प्रत्यासीदद्विमुक्तानुभफलसमुद्भेदलब्द्ध्या कृतार्थः प्राप्त पिण्डस्य भेदे परिणमति परब्रह्म सब्रह्मचाऱी ॥ ॥इति श्रीशरणागति दीपिका समाप्ता॥ कवितार्किकसिंहाय कल्याणगुणशालिने । श्रीमते वेङ्कटेशाय वेदान्तगुरवे नमः ॥ This is a very important stotra in several respects. As its very name indicates it is a treatise on zaraNAgati (surrender), to establish the soundness and efficacy of which as an unfailing and immediate upAya (means) for the attainment of mokSha, vedAnta deshika is said to have come into this world. This sampradAyam (traditional faith) in which zaraNAgati is held in high esteem is referred to in the very first shloka as the “highly venerated sampradAyam that emerged from the mahAnasa (kitchen) of yatirAja (AchArya rAmAnuja) We are also told that this sampradAyam is being presented here in the form of a hymn in praise of Lord dIpaprakAza (Vilakkoli in Tamil). The name of the kShetra is himavanam (Tan-kaa in Tamil) meaning a cool grove. This is vedAnta deshika’s birthplace, the actual spot being known as Toopul near here. No wonder this stotram is a fine garland of praise in respect of the Lord of his birthplace in addition to being a compendium on the theory and practice of zaraNAgati. lakShmI is referred to in the first five shlokas, the idea being that She is part of Divinity or the Supreme Being. In fact, shloka 469 tells us that the Lord is the dIpa (lamp) but lakShmI is its lustre. lakShmI has to be resorted to first in zaraNAgati (vAlmIki rAmAyaNam ayodhyA khaNDam and rAmAnuja’s zaraNAgati gadyam) That zaraNAgati has its roots in the upaniShads is made known to us by shloka 475 which is almost a reproduction of the mantra of shvetAshvatara upaniShad (VI-18) ending with the words “mumukShur—vai—zaraNam—ahaM—prapadye’. shlokas 476 to 506 deal with the doctrine of prapatti, how it differs from bhakti yoga, its angas or essential prerequisites, how to observe or perform prapatti, what must be the conduct of a prapanna in the post-prapatti period, and so on. This part of the stotra can well be said to be a recapitulation in verse of several chapters of shrImad rahasyatraya sAra -- vedAnta deshika’s magnum opus on zaraNAgati-zAstra in maNipravAla prose, interspersed with sanskrit shlokas and Tamil verses. From shloka 507 to the end it is fervid devotion finding expression in eloquent verse and elegant argumentation, and moving appeals for help. This part must be studied and restudied by every Prapanna. shloka 523 holds out a reward to the Lord Himself. If He protects us, He will be the recipient of lakShmI-devI's loving and approving kaTAkShas (glances). Encoded and proofread by Pallasena Narayanaswami ppnswami at gmail.com
% Text title            : sharaNAgatidIpikA
% File name             : sharaNAgatidIpikA.itx
% itxtitle              : sharaNAgatidIpikA (vedAnta deshikavirachitam)
% engtitle              : sharaNAgatidIpikA
% Category              : major_works, vedAnta-deshika, vedanta
% Location              : doc_z_misc_major_works
% Sublocation           : major_works
% Author                : vedAntadeshika
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Source                : Stotras of Vedanta Desika
% Indexextra            : (Scans 1, Text with comments, Telugu)
% Latest update         : October 2, 2017
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org