आदित्यस्तोत्रम् अथवा सूर्यस्तोत्रम्

आदित्यस्तोत्रम् अथवा सूर्यस्तोत्रम्

श्रीगणेशाय नमः । नवग्रहाणां सर्वेषां सूर्यादीनां पृथक् पृथक् । पीडा च दुःसहा राजञ्जायते सततं नृणाम् ॥ १॥ पीडानाशाय राजेन्द्र नामानि श‍ृणु भास्वतः । सूर्यादीनां च सर्वेषां पीडा नश्यति श‍ृण्वतः ॥ २॥ ॐ आदित्य सविता सूर्यः पूषार्कः शीघ्रगो रविः । भगस्त्वष्टाऽर्यमा हंसो हेलिस्तेजो निधिर्हरिः ॥ ३॥ दिननाथो दिनकरः सप्तसप्तिः प्रभाकरः । विभावसुर्वेदकर्ता वेदाङ्गो वेदवाहनः ॥ ४॥ हरिदश्वः कालवक्त्रः कर्मसाक्षी जगत्पतिः । पद्मिनीबोधको भानुर्भास्करः करुणाकरः ॥ ५॥ द्वादशात्मा विश्वकर्मा लोहिताङ्गस्तमोनुदः । जगन्नाथोऽरविन्दाक्षः कालात्मा कश्यपात्मजः ॥ ६॥ भूताश्रयो ग्रहपतिः सर्वलोकनमस्कृतः । जपाकुसुमसङ्काशो भास्वानदितिनन्दनः ॥ ७॥ ध्वान्तेभसिंहः सर्वात्मा लोकनेत्रो विकर्तनः । मार्तण्डो मिहिरः सूरस्तपनो लोकतापनः ॥ ८॥ जगत्कर्ता जगत्साक्षी शनैश्चरपिता जयः । सहस्ररश्मिस्तरणिर्भगवान्भक्तवत्सलः ॥ ९॥ विवस्वानादिदेवश्च देवदेवो दिवाकरः । धन्वन्तरिर्व्याधिहर्ता दद्रुकुष्ठविनाशनः ॥ १०॥ चराचरात्मा मैत्रेयोऽमितो विष्णुर्विकर्तनः । दुःखशोकापहर्ता च कमलाकर आत्मभूः ॥ ११॥ (लोकशोकापहर्ता, कोकशोकापहर्ता) नारायणो महादेवो रुद्रः पुरुष ईश्वरः । जीवात्मा परमात्मा च सूक्ष्मात्मा सर्वतोमुखः ॥ १२॥ इन्द्रोऽनलो यमश्चैव नैरृतो वरुणोऽनिलः । श्रीद ईशान इन्दुश्च भौमः सौम्यो गुरुः कविः ॥ १३॥ शौरिर्विधुन्तुदः केतुः कालः कालात्मको विभुः । सर्वदेवमयो देवः कृष्णः कामप्रदायकः ॥ १४॥ (कायप्रदायकः) य एतैर्नामभिर्मर्त्यो भक्त्या स्तौति दिवाकरम् । सर्वपापविनिर्मुक्तः सर्वरोगविवर्जितः ॥ १५॥ पुत्रवान् धनवान् श्रीमाञ्जायते स न संशयः । रविवारे पठेद्यस्तु नामान्येतानि भास्वतः ॥ १६॥ पीडाशान्तिर्भवेत्तस्य ग्रहाणां च विशेषतः । सद्यः सुखमवाप्नोति चायुर्दीर्घं च नीरुजम् ॥ १७॥ इति श्रीभविष्यपुराणे आदित्यस्तोत्रं सम्पूर्णम् । आदित्याष्टोत्तरनामस्तोत्रम् The stotra is not readily found in the available printed copy of Bhavishyapurana. Proofread by Nat Natarajan, NA
% Text title            : Adityastotram 108 Names from bhaviShyapurANa
% File name             : AdityastotrambhaviShyapurANa.itx
% itxtitle              : AdityAShTottaranAmastotram athavA Adityastotram athavA sUryastotram (bhaviShyapurANAntargatam)
% engtitle              : Adityastotram bhaviShyapurANAntargatam AdityAShTottaranAmastotram
% Category              : navagraha, aShTottarashatanAma
% Location              : doc_z_misc_navagraha
% Sublocation           : navagraha
% Author                : Traditional
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Nat Natarajan nat.natarajan at gmail.com
% Proofread by          : Nat Natarajan nat.natarajan at gmail.com, NA
% Description-comments  : bhaviShyapurANa.  See corresponding nAmAvalI
% Indexextra            : (Scan, nAmAvalI)
% Latest update         : May 19, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org