आ तृतीयाध्यायपरिसमाप्तेः (३।४।११७) धातोः इति अयम् अधिकारः वेदितव्यः। {तव्यत्तव्यानीयरः ३।१।९६} इत्यादिकं वक्ष्यति, ते धातोः एव उत्पत्स्यन्ते॥
"यङविधौ धातोरित्यधिकारात्" इति। "धातोरेकाचः"
३।१।२२ इति यङविधौ यत् धातुग्रहणं तस्येहाधिकारादित्यर्थः। इयञ्च धातुग्रहणस्यानर्थकत्वे युक्तिः। "कृदुपपदसंज्ञार्थं तु" इति। आनर्थक्यमपाकरोति। ननु च पूर्वेणापि धातुग्रहणेन कृदुपपदसंज्ञे सिध्यत स्याताम्, इह करिष्यतीति स्यप्रत्ययस्य "कृदतिङ"
३।१।९३ इति कृत्संज्ञा स्यात्। ततश्च "कृत्तद्धितसमासाश्च"
१।२।४६ इति प्रातिपदिकसंज्ञा प्रसज्येत, तस्याञ्च सत्यां सुबुत्पत्तिः। "च्लि लुङि"
३।१।४३ इत्यत्र च "तत्रोपपदम्"
३।१।९२ इति लुङोऽप्यपपदसंज्ञा स्यात्, ततश्च लुङ्युपपदे च्लिरित्ययमर्थश्च सम्भाव्येत। तसमादिह धात्वधिकारे कृदुपपदसंज्ञे यथा स्यातां पूर्वत्र मा भूतामिति पूनर्धातुग्रहणम्। अथाधिकारेणैते संज्ञे विधास्येते प्रत्ययसंज्ञावत्,
तेन पूर्वत्र न भविष्यतीति चेत्? न हि; सिंहावलोकितन्यायोप्यस्ति। अधिकारेण विधाने पूर्वत्रापि सम्भाव्येयाताम्। तत्र व्याख्यानं कत्र्तव्यं भवेत्। व्याख्यानाच्च लघु धातुग्रहणं भवति। अवश्यञ्चान्यार्थं धातुग्रहणं कत्र्तव्यम्, तदन्यार्थ क्रियमाणं कृदुपपदसंज्ञाविधावपि विस्पष्टार्थं भविष्यति। तामेव चान्यार्थतां दर्शयितुमाह--- "आर्धधातुकसंज्ञार्थम्" इत्यादि। चशब्दाद्वाऽसरूपविधानार्थञ्चेत्ययमत्रार्थो वेदितव्यः। "वाऽसरूपोऽस्त्रियाम्"
३।१।९४ इत्यस्मिन् धात्वधिकारेऽसरूपोऽपवादो बाधको यथा स्यात्, पूर्वत्र मा भूत्। तेन क्सादिभिः सिचः समावेशो न भवति। ननु च पूर्वेणापि धातुग्रहणेनार्धधातुकसंज्ञा सेत्स्यति,
किं द्वितीयधातुग्रहणेन? इत्यत आह-- "धातोरित्येवम्" इत्यादि। धातोरित्येवं धातुशब्दमुच्चार्य विहितस्यार्धधातुकसंज्ञा यथा स्यादित्येवमर्थं पुनर्धातुकृग्रहणमित्यर्थः।
किमर्थं पुनर्धातोरित्येवं विहितस्यार्धधातुकसंज्ञोच्यते? इत्याह-- "इह मा भूत्" इतति।असति द्वितीये धातुग्रहणे लूभ्याम्, लूभिरित्यत्रार्धधातुकसंज्ञा स्यात्। भवति ह्रत्र धातोः परः प्रत्ययः-- "क्विबन्ता धातुत्वं न जहति" (व्या।प।१३२) इति कृत्वा। आर्धधातुकत्वे सत्यार्धधातुकलक्षण इट् प्रसज्येत। द्वितीयं तु धातुग्रहणं क्रियमामं सामथ्र्याद्छबन्दपदात्मकं भवति। तेनायमर्थो लभ्यते-- धातोरित्येवं धातुसंशब्दनेन यो विहितः स अर्धधातुकसंज्ञो भवतीति। तेन लूभ्यामित्यादावार्धधातुकत्वं न भवति। न हीह धातोरित्येवं प्रत्ययो विहितः,
किं तर्हि? प्रातिपदिकादित्येवम्॥
"सप्तम्या निर्दिष्टम्" इत्यनेन सप्तमीस्थमित्यस्यार्थमाचष्टे। शब्दस्य हीयं संज्ञा विधीयते,
स च कः सप्तमीस्थो भवति? यस्याः सप्तम्या निर्देशः। "कुम्भकारः" इति। उपपदसंज्ञायां "उपपदमतिङ"
२।२।१९ इति समासः, "गतिकारकोपपदात् कृत्"
६।२।१३८ इत्यत्तरपदस्य प्रकृतिस्वरत्वं भवति।
"स्थग्रहणम्" इत्यादि। निर्दिश्यतेऽनेनेति निर्देशः। सप्तमी निर्देशो यस्य स सप्तमीनिर्देशः। तत्प्रतिपत्त्यर्थं स्थग्रहणम्। एतदुक्तं भवति-- सूत्रे यत् सप्तम्या निर्दिष्टं तस्य संज्ञित्वेन प्रतिपत्तिर्यथा स्यादित्येवमर्थं स्थग्रहणम्। यदि पुनः स्थग्रहणं न क्रियते, ततः किं स्यादित्यत आह-- "इतरथा हि" इत्यादि। इतरथा ह्रक्रियमाणे स्थग्रहणे "संज्ञाविधौ प्रत्ययग्रहणे तदन्तविधिर्नास्ति" (पु।प।वृ।८१) इतिसैव सप्तम्युपपदसंज्ञां प्रतिपद्येत। न चासतः संज्ञिनः संज्ञा युक्तेति यत्र श्रूयते सप्तमी-- स्तम्बेरम इत्यादौ तत्रैव स्यात्। स्यादेतत्-- नैतत् प्रत्ययग्रहणम्,
किं तर्हि? सप्तमीशब्दस्य स्वरूपस्य ग्रहणमित्याह-- "यत्र" इत्यादि। गतार्थम्। "स्थग्रहणात्तु" इत्यादि। स्थग्रहणे तु क्रियमाणे ग्रन्थाधिक्यात् सूत्रे यस्य सप्तम्या निर्देशस्तत् संज्ञित्वेन निर्दिश्यते, तेनु सर्वं सिद्धं भवति; येषामियं संज्ञेष्यते तेषां सर्वेषामेव सूत्रे सप्तमीनिर्देशात्। तथा हि-- "स्तम्बकर्णयोः"
३।२।१३ इत्यत्र स्तम्बकर्णशब्दौ सूत्रे सप्तम्या निर्दिष्टौ। "सप्तम्यां जनेर्डः"
३।२।९७ इत्यत्राप्युपसरादयः। "कर्मण्यण्"
३।२।१ इत्यत्रापि कर्माभिधायिनः कुम्भप्रभृतयः।
ननु च लाघवार्थं संज्ञाकरणम्,
तत्किमर्थं गुर्वी संज्ञा क्रियते? इत्याह-- "गुरुसंज्ञाकरणम्" इत्यादि। उपशब्दः सामीप्ये। उपोच्चारितं पदमुपपदमित्यन्यर्थसंज्ञाविज्ञाने सति समर्थपरिभाषाव्यापारो यथा स्यादित्येवमर्थं गुरुसंज्ञाकरणम्। समर्थपरिभाषोपस्थाने सति यदिष्टं सम्पद्यते तद्दर्शयितुमाह-- "पश्य कुम्भम्" इत्यादि। अन्वर्थसंज्ञायां हि सत्यामुपपदाश्रयः प्रत्ययः पदविधिर्भवति। यत्र च पदगन्धोऽप्यस्ति तत्र समर्थपरिभाषोपतिष्ठते। तेन पश्य कुम्भं करोति कटमित्यत्र "कर्मण्यण्"
३।२।१ न भवति। न हीह कुम्भस्य करोतिना सामथ्र्यम्,
किं तर्हि? पश्येत्यनेन। पदशब्दोऽप्यत्रान्वर्थ एव, न पारिभाषिकः। तथा हि सुबन्तस्य पदसंज्ञा टचोपपदसंज्ञाविधनकाले सुबन्ततयास्ति; यस्मादुपपदसंज्ञायां विहितायामुपपदाश्रयेऽपि प्रत्यय उपपदसमासोऽपि "गतिरकारकोपपदानां कृद्भिः समासवचनं प्राक्()सुबुत्पत्तेः" (व्या।प।वृ।१३८) इति सुबुत्पत्त्या भवितव्यः। तस्मादन्वर्थोऽयं पदशब्दः-- पद्यते गम्यतेऽर्थो येन तत् पदमिति। "तत्र" ग्रहणं सप्तमीस्थस्य प्रत्योत्पतिं()त प्रति निमित्तभावे सत्युपपदसंज्ञा यथा स्यादित्येवमर्थम्। असति हि तत्र ग्रहणे कर्मण्युपपदेऽनुपपदेऽपि प्रत्ययः स्यात्। यस्तु कर्मणीति सप्तम्या निर्देशः, स यदा सप्तम्यन्तः सम्भवति, तदा तस्योपपदसंज्ञार्थः स्यात्; न तु तस्मिन् सत्येव प्रत्ययेन भवितव्यमित्येषोऽर्थो लभ्यते। तस्मात् यथोक्तप्रयोजनार्थं तत्रग्रहणम्। ननु चानन्तरस्य धात्वदिकारस्य निर्देशार्थं तत्रग्रहणं कस्मान्न भवति,
तत्रैतस्मिन् धात्वधिकारेऽनन्तर उपपदसंज्ञा यथा स्यादिति? नैतदस्ति; अधिकारादप्येतत् सिद्धम्। उपपदसंज्ञाधिकरिष्यते, तेन वक्ष्यमाणेषु संज्ञिषु संज्ञा भविष्यतीति नार्थ एतदर्थेन तत्रग्रहणेन। "तत्रैतस्मिन्" इत्यादिस्तु वृत्तिग्रन्थ एवमुन्नीयते-- एतस्मिन् धात्वधिकारे यत्सप्तम्या निर्दिष्टं तदुपपदसंज्ञं भवति। तत्र च निमित्ते प्रत्यय इत्येषोऽर्थः सोपस्कारत्वाद्()वृत्तिग्रन्थस्य लभ्यते॥