बृहस्पतिना अग्नेर्देवस्य स्तवनम्
गुरुरुवाच ।
हिरण्यरेतः सुमुख ज्वलनाह्वय सर्वभुक् ।
सप्तजिह्वानन क्षाम लेलिहान महाबल ॥ १॥
आत्मा वायुस्तव विभो शरीरं सर्ववीरुधः ।
योनिरापश्च ते प्रोक्ता योनिस्त्वमसि चाम्भसः॥ २॥
ऊर्ध्वं चाधश्च गच्छन्ति संचरन्ति च पार्श्वतः ।
अर्चिषस्ते महाभाग सर्वतः प्रभवन्ति च ॥ ३॥
त्वमेवाग्ने सर्वमसि त्वयि सर्वमिदं जगत् ।
त्वं धारयसि भूतानि भुवनं त्वं बिभर्षि च ॥ ४॥
त्वमग्ने हव्यवाडेकस्त्वमेव परमं हविः ।
यजन्ति च सदा सन्तस्त्वामेव परमाध्वरे ॥ ५॥
त्वमन्नं प्राणिनां भुङ्क्षे जगत्त्रातासि त्वं प्रभो ।
त्वयि प्रवृत्तो विजयस्त्वयि लोकाः प्रतिष्ठिताः ॥ ६॥
सर्वांल्लोकांस्त्रीनिमान् हव्यवाह प्राप्ते काले त्वं पचस्येव दीप्तः ।
त्वमेवैकस्तपसे जातवेदो नान्यस्त्वत्तो विद्यते गोषु देव ॥ ७॥
वृषाकपिः सिन्धुपतिस्त्वमग्ने महामखेष्वग्र्यहरस्त्वमेव ।
विश्वस्य भूम्नस्त्वमसि प्रसूतिस्त्वं च प्रतिष्ठा भगवन् प्रजानाम् ॥ ८॥
सृजस्यपो रश्मिभिर्जातवेदस्तथौषधीरोषधीनां रसांश्च ।
विश्वं त्वमादाय युगान्तकाले स्रष्टा भवस्यानल सर्गकाले ॥ ९॥
त्वमग्ने सर्वभूतानां योनिर्वेदेषु गीयसे ।
त्वया देवहितार्थाय निहता दानवा रणे ॥ १०॥
स्वयोनिस्ते महातेजस्तोयं मखशतार्चित ।
तां स्वयोनिं समासाद्य किं विषीदसि पावक ॥ ११॥
त्रायस्व समरे देवान् दैत्येभ्यः सुरसत्तम ।
पिङ्गाक्ष लोहितग्रीव कृष्णवर्त्मन् हुताशन ॥ १२॥
इति बृहस्पतिना अग्नेर्देवस्य स्तवनं सम्पूर्णम् ।
महाभारत खिलभागे हरिवंश भविष्यपर्वणि द्विषष्टितमोऽध्यायः ३.६२.२९-४०
mahAbhArata khilabhAge harivaMsha bhaviShyaparvaNi dviShaShTitamo.adhyAyaH 3.62.29-40