श्रीमद्भागवतमहापुराणाधिष्ठिता सकल देवता नामावलिः
हरि श्रीगणपतये नमः अविघ्नमस्तु ।
ॐ वाग्देवतायै सरस्वत्यै नमः ।
वागर्थाविवसम्पृक्तौ वागर्थप्रतिपत्तये जगतःपितरौ वन्दे पार्वतीपरमेश्वरौ ।
ॐ श्री गुरुभ्यो नमः ।
ॐ नमो नारायणाय ।
ॐ ब्रह्मदेवाय नमः ।
देवर्षये श्री नारदमुनये नमः ।
सत्यवतीसुताय पाराशर्याय द्वैपायनाय बादरायणाय वेदव्यासाय अमिततेजसे विप्रर्षये नमः ।
व्याससूनवे बादरायणे अवधूतवेषाय भगवते श्रीशुकमहर्षये नमः ।
ॐ निर्मत्सराणां सतां वेद्याय प्रोज्झितकैतवपरमधर्माय वास्तवाय शिवदाय तापत्रयोन्मूलनाय श्रीमद्भागवतस्वरूपाय नमः ।
ॐ ।
सत्यं परं धीमहि ।
Serial No. Names (Skandha.Adhyaya.Shloka)
क्रम सङ्ख्या नामानि (स्कन्धः.अध्याय.श्लोकः)
देवीनामानि
१. ॐ देव्यै नमः । (१.२.४)
२. ॐ सरस्वत्यै नमः । (१.२.४)
३. ॐ मायायै नमः । (१.३.३४)
४. ॐ उमायै नमः । (२.३.७)
५. ॐ तुलस्यै नमः । (२.३.२३)
६. ॐ दुर्जयायै नमः । (२.५.१२)
७. ॐ सदसदात्मिकायै नमः । (३.५.२५)
८. ॐ गुणमय्यै नमः । (३.७.४)
९. ॐ आत्ममायायै नमः । (३.७.४)
१०. ॐ अजायै नमः । (३.७.५)
११. ॐ विष्णुमायायै नमः । (३.१०.१२)
१२. ॐ धियै वृत्यै उशनायै उमायै नियुषे सर्पिषे इलायै अम्बिकायै इरावत्यै सुधायै दीक्षायै इत्येकादशरुद्राण्यै नमः । (३.१२.१३)
१३. ॐ श्रीदेव्यै नमः । (३.१५.२२)
१४. ॐ भगवन्तं विविक्तचरितैरनुवर्तमानायै नमः । (३.१६.२१)
१५. ॐ वैष्णवीं श्रिये नमः । (३.१६.२८)
१६. ॐ भवान्यै नमः । (३.२३.१)
१७. ॐ अनपायिन्यै नमः । (४.१.४)
१८. ॐ भूत्यै नमः । (४.१.४)
१९. ॐ सत्यै नमः । (४.१.६४)
२०. ॐ सावित्र्यै नमः । (४.२.११)
२१. ॐ दाक्षायण्यै नमः । (४.३.५)
२२. ॐ शोभनायै नमः । (४.३.१६)
२३. ॐ अधीश्वर्यै नमः । (४.४.९)
२४. ॐ पुष्करनाभमायायै नमः । (४.६.४७)
२५. ॐ अम्बिकायै नमः । (४.७.५९)
२६. ॐ धरित्र्यै नमः । (४.१७.३)
२७. ॐ धरण्यै नमः । (४.१७.१४)
२८. ॐ अवनये नमः । (४.१८.१)
२९. ॐ सर्वकामदुघायै नमः । (४.१९.७)
३०. ॐ भूम्यै नमः । (४.१९.७)
३१. ॐ लक्ष्म्यै नमः । (४.२१.३७)
३२. ॐ भद्रकाल्यै नमः । (५.९.१४)
३३. ॐ भगवद्पद्यै नमः । (५.१७.१)
३४. ॐ क्षितये नमः । (६.७.२९)
३५. ॐ पार्वतीदेव्यै नमः । (६.१७.५)
३६. ॐ भामिन्यै नमः । (६.१७.२४)
३७. ॐ रुद्राण्यै नमः । (६.१७.२६)
३८. ॐ विष्णुपत्न्यै नमः । (६.१९.६)
३९. ॐ महामायायै नमः । (६.१९.६)
४०. ॐ महापुरुषलक्षणायै नमः । (६.१९.६)
४१. ॐ महाभागायै नमः । (६.१९.६)
४२. ॐ लोकमात्रे नमः । (६.१९.६)
४३. ॐ दुरत्ययायै नमः । (६.१९.१३)
४४. ॐ मायाशक्त्यै नमः । (६.१९.१३)
४५. ॐ गङ्गायै नमः । (८.४.२३)
४६. ॐ ईश्वरस्य प्रभावज्ञायै नमः । (८.७.४१)
४७. ॐ रमायै नमः । (८.८.८)
४८. ॐ श्रियै नमः । (८.८.८)
४९. ॐ पद्मकरायै नमः । (८.८.१४)
५०. ॐ दिगिभैः पूर्णकलशैरभिषिक्तायै नमः । (८.८.१४)
५१. ॐ कृतस्वस्त्ययनायै नमः । (८.८.१७)
५२. ॐ उत्पलस्रग्विण्यै नमः । (८.८.१७)
५३. ॐ सुकपोलकुण्डलायै नमः । (८.८.१७)
५४. ॐ सव्रीडहासायै नमः । (८.८.१७)
५५. ॐ सुशोभनवक्त्रायै नमः । (८.८.१७)
५६. ॐ नवकञ्जमालिन्यै नमः । (८.८.२४)
५७. ॐ सव्रीडहासविकसन्नयनायै नमः । (८.८.२४)
५८. ॐ त्रिजगतः जनन्यै नमः । (८.८.२५)
५९. ॐ स्वाः प्रजाः सकरुणनिरीक्षकायै नमः । (८.८.२५)
६०. ॐ हरेः पादपूतजलगङ्गायै नमः । (९.९.९)
६१. ॐ अनन्तचरणाम्भोजप्रसूतायै नमः । (९.९.१४)
६२. ॐ प्रश्रयावनतायै नमः । (९.१०.५६)
६३. ॐ भर्तुः भावज्ञायै नमः । (९.१०.५६)
६४. ॐ सत्यै सीतादेव्यै नमः । (९.१०.५६)
६५. ॐ वैदेह्यै नमः । (९.११.४)
६६. ॐ भगवत्यै नमः । (१०.१.२५)
६७. ॐ विष्णोर्मायायै नमः । (१०.१.२५)
६८. ॐ सर्वकामवरेश्वर्यै नमः । (१०.२.१०)
६९. ॐ सर्वकामवरप्रदायै नमः । (१०.२.१०)
७०. ॐ दुर्गायै नमः । (१०.२.११)
७१. ॐ विजयायै नमः । (१०.२.११)
७२. ॐ वैष्णव्यै नमः । (१०.२.११)
७३. ॐ कुमुदायै नमः । (१०.२.१२)
७४. ॐ चण्डिकायै नमः । (१०.२.१२)
७५. ॐ कृष्णायै नमः । (१०.२.१२)
७६. ॐ माधव्यै नमः । (१०.२.१२)
७७. ॐ कन्यकायै नमः । (१०.२.१२)
७८. ॐ नारायण्यै नमः । (१०.२.१२)
७९. ॐ ईशान्यै नमः । (१०.२.१२)
८०. ॐ शारदायै नमः । (१०.२.१२)
८१. ॐ योगमायायै नमः । (१०.३.४७)
८२. ॐ विष्णोरनुजायै नमः । (१०.४.९)
८३. ॐ सायुधाष्टमहाभुजायै नमः । (१०.४.९)
८४. ॐ दिव्यस्रगम्बरालेपरत्नाभरणभूषितायै नमः । (१०.४.१०)
८५. ॐ धनुःशूलेषुचर्म्मासिशङ्खचक्रगदाधरायै नमः । (१०.४.१०)
८६. ॐ सिद्धचारणगन्धर्वैरप्सरःकिन्नरोरगैः स्तूयमानायै नमः । (१०.४.११)
८७. ॐ देवकीदारिकायै नमः । (१०.८.९)
८८. ॐ रजःसत्वतमोमय्यै नमः । (१०.१०.३१)
८९. ॐ सूक्ष्मप्रकृत्यै नमः । (१०.१०.३१)
९०. ॐ कात्यायन्यै नमः । (१०.२२.४)
९१. ॐ महायोगिन्यै नमः । (१०.२२.४)
९२. ॐ अधीश्वर्यै नमः । (१०.२२.४)
९३. ॐ इन्दिरायै नमः । (१०.३१.१)
९४. ॐ गिरिजायै नमः । (१०.५२.४२)
९५. ॐ गौर्यै नमः । (१०.५३.२५)
९६. ॐ भवपत्न्यै नमः । (१०.५३.४५)
९७. ॐ स्वसन्तानयुतायै नमः । (१०.५३.४६)
९८. ॐ शिवायै नमः । (१०.५३.४६)
९९. ॐ विष्णोर्महामायायै नमः । (१२.६.२९)
भगवतः मोहिन्यवतारनामानि
१. ॐ मोहिन्यै नमः । (१.३.१७)
२. ॐ सर्वोपायविदोऽनिर्देशस्य विष्णोः योषिद्रूपायै नमः । (८.८.४१)
३. ॐ प्रेक्षणीयोत्पलश्यामायै नमः । (८.८.४२)
४. ॐ सर्वावयवसुन्दर्यै नमः । (८.८.४२)
५. ॐ समानकर्णाभरणायै नमः । (८.८.४२)
६. ॐ सुकपोलोन्नसाननायै नमः । (८.८.४२)
७. ॐ नवयौवननिर्वृत्तस्तनभारकृशोदरायै नमः । (८.८.४३)
८. ॐ मुखामोदानुरक्तालिझङ्कारोद्विग्नलोचनायै नमः । (८.८.४३)
९. ॐ उत्फुल्लमल्लिकामालां स्वकेशभारभृते नमः । (८.८.४४)
१०. ॐ सुग्रीवकण्ठाभरणायै नमः । (८.८.४४)
११. ॐ सुभुजाङ्गदभूषितायै नमः । (८.८.४४)
१२. ॐ विरजाम्बरसंवीतनितम्बद्वीपशोभया काञ्च्या प्रविलसद्वल्गुचलच्चरणनूपुरायै नमः । (८.८.४५)
१३. ॐ सव्रीडस्मितविक्षिप्तभ्रूविलासावलोकनायै नमः । (८.८.४६)
१४. ॐ कञ्जपलाशाक्ष्यै नमः । (८.९.३)
१५. ॐ वामोरुवे नमः । (८.९.३)
१६. ॐ अस्पृष्टपूर्वायै नमः । (८.९.४)
१७. ॐ सुमध्यमायै नमः । (८.९.६)
१८. ॐ हरेः मायायोषिद्वपुषे नमः । (८.९.८)
१९. ॐ उशद्दुकूलश्रोणितटायै नमः । (८.९.१७)
२०. ॐ अलसगत्यै नमः । (८.९.१७)
२१. ॐ मदविह्वलाक्ष्यै नमः । (८.९.१७)
२२. ॐ कुम्भस्तन्यै नमः । (८.९.१७)
२३. ॐ कलशपाणिन्यै नमः । (८.९.१७)
२४. ॐ कनकनूपुरशिञ्जितकूजितपादायै नमः । (८.९.१७)
२५. ॐ श्रीसख्यै नमः । (८.९.१८)
२६. ॐ कनककुण्डलचारुकर्ण्णनासाकपोलवदनायै नमः । (८.९.१८)
२७. ॐ परदेवताख्यायै नमः । (८.९.१८)
२८. ॐ कन्दुकलीलया विक्रीडन्तीं वरस्त्रियै नमः । (८.१२.१८)
२९. ॐ विष्णुमायायै नमः । (८.१२.१८)
३०. ॐ लसद्दुकूलपर्यस्तनितम्बमेखलायै नमः । (८.१२.१८)
३१. ॐ आवर्तनोद्वर्तनकम्पितस्स्तनप्रकृष्टहारोरुभरैः पदे पदे मध्यतश्चलत् पदप्रवालायै नमः । (८.१२.१९)
३२. ॐ प्रोद्विग्नतारायतलोललोचनायै नमः । (८.१२.२०)
३३. ॐ स्वकर्ण्णविभ्राजितकुण्डलायै नमः । (८.१२.२०)
३४. ॐ कपोलनीलालकमण्डिताननायै नमः । (८.१२.२०)
३५. ॐ आत्ममायया जगद्विमोहयन्तीं मोहिन्यै नमः । (८.१२.२१)
३६. ॐ रुचिरापाङ्ग्यै नमः । (८.१२.२४)
३७. ॐ दर्शनीयायै नमः । (८.१२.२४)
३८. ॐ मनोरमायै नमः । (८.१२.२४)
ब्रह्मदेवनामानि
१. ॐ विरिञ्चाय नमः । (१.२.२३)
२. ॐ विश्वसृजाम्पतये नमः । (१.३.२)
३. ॐ ब्रह्मणे नमः । (१.३.२)
४. ॐ धात्रे नमः । (१.३.३२)
५. ॐ कस्मै नमः । (१.७.१८)
६. ॐ आत्मयोनये नमः । (२.२.१)
७. ॐ ब्रह्मणस्पतये नमः । (२.३.२)
८. ॐ परमेष्ठिने नमः । (२.३.६)
९. ॐ पूर्वजाय नमः । (२.५.१)
१०. ॐ सर्वज्ञाय नमः । (२.५.८)
११. ॐ सकलेश्वराय नमः । (२.५.८)
१२. ॐ आत्मभुवे नमः । (२.८.२५)
१३. ॐ जगतां परमगुरवे नमः । (२.९.५)
१४. ॐ आदिदेवाय नमः । (२.९.५)
१५. ॐ अमोघदर्शनाय नमः । (२.९.८)
१६. ॐ विजितानिलात्मने नमः । (२.९.८)
१७. ॐ विजितोभयेन्द्रियाय नमः । (२.९.८)
१८. ॐ तपतां तपीयते नमः । (२.९.८)
१९. ॐ अखिललोकतापनाय नमः । (२.९.८)
२०. ॐ विश्वसृजे नमः । (२.९.१७)
२१. ॐ वेदगर्भाय नमः । (२.९.१९)
२२. ॐ वागीशाय नमः । (३.६.२३)
२३. ॐ आदिकवये नमः । (३.६.३८)
२४. ॐ स्वयम्भुवे नमः । (३.८.१५)
२५. ॐ वेदमयाय नमः । (३.८.१५)
२६. ॐ लोकपितामहाय नमः । (३.१०.१)
२७. ॐ शब्दब्रह्मणे नमः । (३.११.३४)
२८. ॐ गिरां पतये नमः । (३.१२.२०)
२९. ॐ चतुर्मुखाय नमः । (३.१२.३४)
३०. ॐ व्यक्ताव्यक्तात्मने नमः । (३.१२.४८)
३१. ॐ शब्दब्रह्मात्मने नमः । (३.१२.४८)
३२. ॐ गुणत्रयात्मने नमः । (३.२२.९)
३३. ॐ शतधृतये नमः । (३.२४.२१)
३४. ॐ लोकगुरवे नमः । (४.२.७)
३५. ॐ अब्जसम्भवाय नमः । (४.६.३)
३६. ॐ प्रजापतिपतये नमः । (४.७.५५)
३७. ॐ विश्वसृक्पतये नमः । (४.२४.७२)
३८. ॐ विश्वसृजां पतये नमः । (५.२.२)
३९. ॐ भवभावनाय नमः । (५.२.१५)
४०. ॐ हिरण्यगर्भाय नमः । (५.१९.१३)
४१. ॐ कमलासनाय नमः । (५.२०.३०)
४२. ॐ ब्रह्मरूपिणे नमः । (५.२०.३३)
४३. ॐ भगवते नमः । (५.२०.३३)
४४. ॐ देवदेवाय नमः । (७.३.६)
४५. ॐ त्रिभुवनेश्वराय नमः । (७.३.१२)
४६. ॐ हंसवाहनाय नमः । (७.३.१६)
४८. ॐ आद्याय बीजाय नमः । (७.३.२८)
४९. ॐ ज्ञानविज्ञानमूर्तये नमः । (७.३.२८)
५०. ॐ प्राणेन्द्रियमनोबुद्धिविकारैः व्यक्तिं प्राप्ताय नमः । (७.३.२८)
५१. ॐ मुख्येन प्राणेन जगतः तस्थुषश्च ईशाय नमः । (७.३.२९)
५२. ॐ भूतगुणाशयेशाय नमः । (७.३.२९)
५३. ॐ अनन्तपाराय नमः । (७.३.३०)
५४. ॐ अन्तरात्मने नमः । (७.३.३०)
५५. ॐ कवये नमः । (७.३.३०)
५६. ॐ आत्मवतामात्मने नमः । (७.३.३०)
५७. ॐ अनादये नमः । (७.३.३०)
५८. ॐ अनिमिषाय नमः । (७.३.३१)
६०. ॐ जीवलोकस्य जीवात्मने नमः । (७.३.३१)
६१. ॐ कूटस्थाय नमः । (७.३.३१)
६२. ॐ महते नमः । (७.३.३१)
६३. ॐ सर्वविद्याकलातनवे नमः । (७.३.३२)
६४. ॐ त्रिपृष्ठाय नमः । (७.३.३२)
६५. ॐ बृहते नमः । (७.३.३२)
६६. ॐ पारमेष्ठ्ये धाम्नि स्थिताय नमः । (७.३.३३)
६७. ॐ पुराणपुरुषाय नमः । (७.३.३३)
६८. ॐ अव्यक्ताय नमः । (७.३.३३)
६९. ॐ आत्मने नमः । (७.३.३३)
७०. ॐ अनन्ताव्यक्तरूपेणाखिलं व्याप्ताय नमः । (७.३.३४)
७१. ॐ चिदचिच्छक्तियुक्ताय नमः । (७.३.३४)
७२. ॐ वरदोत्तमाय नमः । (७.३.३५)
७३. ॐ अमोघानुग्रहाय नमः । (७.४.३)
७४. ॐ असुरवर्येण पूजिताय नमः । (७.४.३)
७५. ॐ प्रजेश्वरैः स्तूयमानाय नमः । (७.४.३)
७६. ॐ पद्मसम्भवाय नमः । (७.१०.३०)
७७. ॐ कमलासनाय नमः । (७.१०.३३)
७८. ॐ पद्मजाय नमः । (७.१०.५०)
७९. ॐ पितामहाय नमः । (८.१६.५८)
८०. ॐ अब्जभवाय नमः । (८.२१.१)
८१. ॐ पद्मभवाय नमः । (८.२१.३)
८२. ॐ चतुराननाय नमः । (९.१.९)
८३. ॐ विश्वकृते नमः । (९.१४.८)
८४. ॐ अम्भोजन्मजनये नमः । (१०.१३.१५)
८५. ॐ ईरेशाय नमः । (१०.१३.५७)
८६. ॐ आत्मजैर्देवैः प्रजेशैरावृतब्रह्मणे नमः । (११.६.१)
शैवनामानि
१. ॐ हराय नमः । (१.२.२३)
२. ॐ रुद्राय नमः । (१.७.१८)
३. ॐ शिवाय नमः । (१.९.१९)
४. ॐ गिरिशाय नमः । (१.१२.२३)
५. ॐ गिरिजासमेताय नमः । (१.१५.१२)
६. ॐ शूलपाणये नमः । (१.१५.१२)
७. ॐ गिरित्राय नमः । (२.१.३५)
८. ॐ वामदेवाय नमः । (२.६.३७)
९. ॐ भवाय नमः । (२.६.४३)
१०. ॐ गुहाय नमः । (३.१.३०)
११. ॐ मायाकिराताय नमः । (३.१.३८)
१२. ॐ नीललोहिताय नमः । (३.१२.७)
१३. ॐ मन्यवे मनवे महिनसे महते शिवाय ऋतुध्वजाय उग्ररेतसे भवाय कालाय वामदेवाय धृतव्रताय इत्येकादशरुद्रेभ्यो नमः । (३.१२.१२)
१४. ॐ भूतराजे नमः । (३.१४.२३)
१५. ॐ भूतभावनाय नमः । (३.१४.२३)
१६. ॐ श्मशानचक्रानिलधूलिधूम्रविद्योतजटाकलापाय नमः । (३.१४.२४)
१७. ॐ भस्मावगुण्ठामलरुक्मदेहाय नमः । (३.१४.२४)
१८. ॐ निरस्तसाम्यातिशयाय नमः । (३.१४.२६)
१९. ॐ ज्योतिब्रह्मणे नमः । (३.१४.३१)
२०. ॐ भूतानां ऋषभाय नमः । (३.१४.३३)
२१. ॐ भूतानां पतये नमः । (३.१४.३३)
२२. ॐ मन्यवे नमः । (३.१४.३४)
२३. ॐ धृतदण्डाय नमः । (३.१४.३४)
२४. ॐ न्यस्तदण्डाय नमः । (३.१४.३४)
२५. ॐ मीढुषे नमः । (३.१४.३४)
२६. ॐ महते नमः । (३.१४.३४)
२७. ॐ देवाय नमः । (३.१४.३४)
२८. ॐ उग्राय नमः । (३.१४.३४)
२९. ॐ सतीपतये नमः । (३.१४.३५)
३०. ॐ प्रभवे नमः । (३.२३.१)
३१. ॐ शङ्कराय नमः । (४.१.३३)
३२. ॐ चराचरगुरवे नमः । (४.२.२)
३३. ॐ निर्वैराय नमः । (४.२.२)
३४. ॐ आत्मारामाय नमः । (४.२.२)
३५. ॐ शान्तविग्रहाय नमः । (४.२.२)
३६. ॐ जगतः दैवताय नमः । (४.२.२)
३७. ॐ शर्वाय नमः । (४.२.६)
३८. ॐ प्रेतभूतगणैर्वृताय नमः । (४.२.१४)
३९. ॐ चिताभस्मकृतस्नानाय नमः । (४.२.१५)
४०. ॐ प्रेतस्रङ्न्रस्थिभूषणाय नमः । (४.२.१५)
४१. ॐ प्रमथभूतानां पतये नमः । (४.२.१५)
४२. ॐ नन्दीश्वराय नमः । (४.२.२०)
४३. ॐ भूतपतये नमः । (४.३.७)
४४. ॐ मृडाय नमः । (४.३.१०)
४५. ॐ शितिकण्ठाय नमः । (४.३.१२)
४६. ॐ अभवाय नमः । (४.३.१२)
४७. ॐ अमर्त्याय नमः । (४.३.१४)
४८. ॐ त्रिनेत्राय नमः । (४.४.४)
४९. ॐ देहभृतां प्रियात्मने नमः । (४.४.११)
५०. ॐ समस्तात्मने नमः । (४.४.११)
५१. ॐ मुक्तवैरकाय नमः । (४.४.११)
५२. ॐ ब्रह्मरसासवार्थिभिः महतां मनोलिभिः निषेवितपादपद्माय नमः । (४.४.१५)
५३. ॐ अव्यक्तलिङ्गाय नमः । (४.४.२१)
५४. ॐ अवधूतसेविताय नमः । (४.४.२१)
५५. ॐ वृषध्वजाय नमः । (४.४.२३)
५६. ॐ जगद्गुरवे नमः । (४.४.२७)
५७. ॐ धूर्जटये नमः । (४.५.२)
५८. ॐ घनरूपरुचे नमः । (४.५.३)
५९. ॐ अतिकायतनवे नमः । (४.५.३)
६०. ॐ वीरभद्राय नमः । (४.५.३)
६१. ॐ सहस्रबाहवे नमः । (४.५.३)
६२. ॐ त्रिसूर्यदृशे नमः । (४.५.३)
६३. ॐ करालदंष्ट्राय नमः । (४.५.३)
६४. ॐ विविधोद्यतायुधाय नमः । (४.५.३)
६५. ॐ कपालमालिने नमः । (४.५.३)
६६. ॐ ज्वलदग्निमूर्धजाय नमः । (४.५.३)
६७. ॐ भूतनाथाय नमः । (४.५.४)
६८. ॐ देवदेवाय नमः । (४.५.५)
६९. ॐ जगदन्तकान्तकाय नमः । (४.५.६)
७०. ॐ घोषणभूषणाङ्घ्रये नमः । (४.५.६)
७१. ॐ पशुपतये नमः । (४.५.२३)
७२. ॐ महायोगमयाय नमः। (४.६.३२)
७३. ॐ मुमुक्षुशरणाय नमः । (४.६.३२)
७४. ॐ त्यक्तामर्षाय नमः । (४.६.३२)
७५. ॐ संशान्तविग्रहाय नमः । (४.६.३३)
७६. ॐ विद्यातपोयोगपथमास्थिताय नमः । (४.६.३४)
७७. ॐ विश्वसुहृदे नमः । (४.६.३४)
७८. ॐ वात्सल्यात् लोकमङ्गलाय चरते नमः । (४.६.३४)
७९. ॐ महादेवाय नमः । (४.६.३४)
८०. ॐ भस्मदण्डजटाजिनधराय नमः । (४.६.३५)
८१. ॐ चन्द्रलेखां बिभ्रते नमः । (४.६.३५)
८२. ॐ नारदाय सनातनं ब्रह्म प्रवक्त्रे शिवाय नमः । (४.६.३६)
८३. ॐ दक्षिणे ऊरौ सव्यं पादपद्मं जानुनि बाहुं प्रकोष्ठे अक्षमालां तर्कमुद्रया च आसीनाय नमः । (४.६.३७)
८४. ॐ लोकगुरवे नमः । (४.६.३७)
८५. ॐ ब्रह्मनिर्वाणसमाधिमाश्रिताय नमः । (४.६.३८)
८६. ॐ योगकक्षां व्युपाश्रिताय नमः । (४.६.३८)
८७. ॐ सुरासुरेशैरभिवन्दितांङ्घ्रये नमः । (४.६.३९)
८८. ॐ शशाङ्कशेखराय नमः । (४.६.४०)
८९. ॐ विश्वस्य जगतः योनिबीजयोः शक्तेः शिवस्य च परस्मै नमः । (४.६.४१)
९०. ॐ परमस्य पुंसः दुरन्तया माययास्पृष्टमतये नमः । (४.६.४८)
९१. ॐ समस्तदृशे नमः । (४.६.४८)
९२. ॐ यज्ञहन्त्रे नमः । (४.६.५२)
९३. ॐ मीढुष्टाय नमः । (४.७.६)
९४. ॐ मीढ्वांसाय नमः । (४.७.७)
९५. ॐ शम्भवे नमः । (४.७.६०)
९६. ॐ त्रिपुरहन्त्रे नमः । (४.१७.१३)
९७. ॐ अमरप्रवराय नमः । (४.२४.२४)
९८. ॐ विबुधानुगैरुपगीयमानाय नमः । (४.२४.२४)
९९. ॐ तप्तहेमनिकायाभाय नमः । (४.२४.२५)
१००. ॐ त्रिलोचनाय नमः । (४.२४.२५)
१०१. ॐ प्रसादसुमुखाय नमः । (४.२४.२५)
१०२. ॐ धर्मवत्सलाय नमः । (४.२४.२६)
१०३. ॐ प्रपन्नार्तिहराय नमः । (४.२४.२६)
१०४. ॐ त्र्यक्षाय नमः । (५.१०.१८)
१०५. ॐ भवानीनाथाय नमः । (५.१७.१७)
१०६. ॐ हाटकेश्वराय नमः । (५.२४.१७)
१०७. ॐ स्वपार्षदभूतगणावृताय नमः । (५.२४.१७)
१०८. ॐ भगवते नमः । (५.२४.२८)
१०९. ॐ पुरारये नमः । (५.२४.२८)
११०. ॐ सिद्धचारणैः परीताय नमः । (६.१७.४)
१११. ॐ जटाधराय नमः । (६.१७.७)
११२. ॐ तीव्रतपस्विने नमः । (६.१७.७)
११३. ॐ ब्रह्मवादिने नमः । (६.१७.७)
११४. ॐ सभापतये नमः । (६.१७.७)
११५. ॐ महाव्रतधराय नमः । (६.१७.८)
११६. ॐ अतिवर्तिने नमः । (६.१७.१२)
११७. ॐ अनुध्येयपदाब्जयुग्माय नमः । (६.१७.१३)
११८. ॐ मङ्गलमङ्गलाय नमः । (६.१७.१३)
११९. ॐ निरञ्जनाय नमः । (६.१७.२२)
१२०. ॐ सर्वत्र समस्मै नमः । (६.१७.२२)
१२१. ॐ पुरहन्त्रे नमः । (७.१०.७०)
१२२. ॐ विघ्नेशाय नमः । (८.७.८)
१२३. ॐ सदाशिवाय नमः । (८.७.१९)
१२४. ॐ त्रिलोक्या भवाय अद्रौ आसीनाय नमः । (८.७.२०)
१२५. ॐ देववराय नमः । (८.७.२०)
१२६. ॐ देवदेवाय नमः । (८.७.२१)
१२७. ॐ भूतात्मने नमः । (८.७.२१)
१२८. ॐ सर्वजगतः बन्धमोक्षयोः ईश्वराय नमः । (८.७.२२)
१२९. ॐ प्रपन्नार्तिहराय नमः । (८.७.२२)
१३०. ॐ गुरवे नमः । (८.७.२२)
१३१. ॐ स्वदृशे नमः । (८.७.२३)
१३२. ॐ भूम्ने नमः । (८.७.२३)
१३३. ॐ सर्गस्थित्यप्ययाय गुणमय्या स्वशक्त्या ब्रह्मविष्णुशिवाभिधां धारिणे नमः । (८.७.२३)
१३४. ॐ सदसद्भावभावनाय नमः । (८.७.२४)
१३५. ॐ जगदीश्वराय नमः । (८.७.२४)
१३६. ॐ परमगुह्याय नमः । (८.७.२४)
१३७. ॐ ब्रह्मणे नमः । (८.७.२४)
१३८. ॐ शब्दयोनये नमः । (८.७.२५)
१३९. ॐ प्राणेन्द्रियद्रव्यगुणस्वभावाय नमः । (८.७.२५)
१४०. ॐ सत्याय नमः । (८.७.२५)
१४१. ॐ ऋताय नमः । (८.७.२५)
१४२. ॐ धर्माय नमः । (८.७.२५)
१४३. ॐ क्रतवे नमः । (८.७.२५)
१४४. ॐ त्रिवृते नमः । (८.७.२५)
१४५. ॐ अक्षराय नमः । (८.७.२५)
१४६. ॐ जगदादये नमः । (८.७.२५)
१४७. ॐ अखिलदेवतात्मने नमः । (८.७.२६)
१४८. ॐ लोकभवाय नमः । (८.७.२६)
१४९. ॐ त्रयीमयात्मने नमः । (८.७.२८)
१५०. ॐ सर्वधर्महृदयाय नमः । (८.७.२८)
१५१. ॐ पञ्चोपनिषदःमुखाय नमः । (८.७.२९)
१५२. ॐ नेत्रत्रयाय नमः । (८.७.३०)
१५३. ॐ साङ्ख्यात्मने नमः । (८.७.३०)
१५४. ॐ शास्त्रकृते नमः । (८.७.३०)
१५५. ॐ छन्दोमयाय नमः । (८.७.३०)
१५६. ॐ पुराणाय नमः । (८.७.३०)
१५७. ॐ ऋषये नमः । (८.७.३०)
१५८. ॐ परंज्योतिषे नमः । (८.७.३१)
१५९. ॐ निरस्तभेदाय नमः । (८.७.३१)
१६०. ॐ कामाध्वरत्रिपुरकालगराद्यनेकभूतद्रुहक्षपणाय नमः । (८.७.३२)
१६१. ॐ महेश्वराय नमः । (८.७.३५)
१६२. ॐ सर्वभूतसुहृदे नमः । (८.७.३६)
१६३. ॐ नीलकण्ठाय नमः । (८.७.४३)
१६४. ॐ सर्वभूतगणैर्वृताय नमः । (८.१२.२)
१६५. ॐ वृषारोहिताय नमः । (८.१२.२)
१६६. ॐ देव्या सह चरते नमः । (८.१२.२)
१६७. ॐ सुरर्षभाय नमः । (८.१२.३०)
१६८. ॐ अमोघरेतसे नमः । (८.१२.३२)
१६९. ॐ अवगतविष्णुमाहात्म्याय नमः । (८.१२.३६)
१७०. ॐ विबुधश्रेष्ठाय नमः । (८.१२.३८)
१७१. ॐ कलानां ऋषभाय नमः । (८.१२.४३)
१७२. ॐ शक्तिधराय नमः । (८.१६.३२)
१७३. ॐ सर्वविद्याधिपतये नमः । (८.१६.३२)
१७४. ॐ उमया सह रममाणाय नमः । (९.१.२५)
१७५. ॐ कृष्णदर्शनाय नमः । (९.४.६)
१७६. ॐ सत्यवत्सलाय नमः । (९.४.११)
१७७. ॐ कैलासवासिने नमः । (९.४.५५)
१७८. ॐ सर्वलोकहिताय नमः । (९.९.९)
१७९. ॐ सर्वभूतगणावृताय नमः । (९.१४.६)
१८०. ॐ देव्या सह वृषस्थिताय नमः । (९.१८.९)
१८१. ॐ मीडुषे नमः । (१०.३६.२६)
१८२. ॐ भूतराजाय नमः । (१०.३६.२६)
१८३. ॐ उमापतये नमः । (१०.५२.४३)
१८४. ॐ सर्वभूतेशाय नमः । (१०.६२.५)
१८५. ॐ लोकानां गुरवे नमः । (१०.६२.७)
१८६. ॐ पुंसामपूर्णकामानां कामपूराङ्घ्रिपाय नमः । (१०.६२.७)
१८७. ॐ पिनाकिने नमः । (१०.६३.१२)
१८८. ॐ स्कन्दाय नमः । (१०.६३.१५)
१८९. ॐ आशुतोषाय नमः । (१०.७६.५)
१९०. ॐ शक्तियुताय नमः । (१०.८८.३)
१९१. ॐ त्रिलिङ्गाय नमः । (१०.८८.३)
१९२. ॐ गुणसंवृताय नमः । (१०.८८.३)
१९३. ॐ त्र्यम्बकाय नमः । (१०.८९.३४)
१९४. ॐ भूतभव्येशाय नमः । (११.६.१)
१९५. ॐ सतां गतये नमः । (१२.१०.८)
१९६. ॐ सर्वविद्यानां ईशानाय नमः । (१२.१०.८)
१९७. ॐ सर्वदेहिनां ईश्वराय नमः । (१२.१०.८)
१९८. ॐ जगतात्माभ्यां नमः । (१२.१०.९)
१९९. ॐ साक्षात् ईशाभ्यां नमः । (१२.१०.९)
२००. ॐ तडित्पिङ्गजटाधराय नमः । (१२.१०.११)
२०१. ॐ दशभुजाय नमः । (१२.१०.११)
२०२. ॐ प्रांशवे नमः । (१२.१०.११)
२०३. ॐ धनुःशूलखट्वाङ्गचर्माक्षमाला डमरुककपालासि व्याघ्रचर्म्माम्बरधराय नमः । (१२.१०.१२)
२०४. ॐ सगणाय नमः । (१२.१०.१४)
२०५. ॐ सोमाय नमः । (१२.१०.१४)
२०६. ॐ त्रिलोकैकगुरवे नमः । (१२.१०.१४)
२०७. ॐ शान्ताय सत्वाय प्रमृडाय नमः । (१२.१०.१७)
२०८. ॐ रजोजुषे अघोराय नमः । (१२.१०.१७)
२०९. ॐ तमोजुषे नमः । (१२.१०.१७)
२१०. ॐ आदिदेवाय नमः । (१२.१०.१८)
२११. ॐ सतां गतये नमः । (१२.१०.१८)
२१२. ॐ चन्द्रललामाय नमः । (१२.१०.२६)
२१३. ॐ त्रिगुणाय नमः । (१२.१०.३२)
२१४. ॐ गुणात्मने नमः । (१२.१०.३२)
२१५. ॐ केवलाय नमः । (१२.१०.३२)
२१६. ॐ अद्वितीयाय नमः । (१२.१०.३२)
२१७. ॐ ब्रह्ममूर्तये नमः । (१२.१०.३२)
२१८. ॐ शर्वायै च शर्वाय नमः । (१२.१०.३५)
२१९. ॐ ईश्वराय नमः । (१२.१०.३८)
बहुमूर्तिनामानि
१. ॐ स्थित्युद्भवप्रलयहेतुभ्यो नमः । (३.९.१६)
२. ॐ वृषहंससुपर्णस्थविबुधर्षभेभ्यो नमः । (४.१.२३, २४)
३. ॐ ब्रह्मविष्णुगिरिशेभ्यो नमः । (४.१.२७)
४. ॐ ब्रह्मेन्द्रत्र्यक्षनायकेभ्यो नमः । (४.७.२२)
५. ॐ ब्रह्मेन्द्रगिरिशादिभ्यो नमः । (७.८.३७)
६. ॐ त्रिभुवनाधीशेभ्यो नमः । (९.२१.१५)
७. ॐ ब्रह्मविष्णुशिवेभ्यो नमः । (१०.८८.१२)
आदित्यसोमाग्न्यादि नामानि
१. ॐ सूर्याय नमः । (३.२६.५५)
२. ॐ सकलजगत्क्षेमोदयाय नमः । (५.८.२०)
३. ॐ त्रय्यात्मने नमः । (५.८.२०)
४. ॐ आत्मने नमः । (५.२०.४)
५. ॐ वेदमयाय नमः । (५.२०.१२)
६. ॐ सोमाय नमः । (५.२०.१२)
७. ॐ जातवेदसे नमः । (५.२०.१७)
८. ॐ अद्भ्यः अमीवघ्नीभ्यः नमः । (५.२०.२४)
९. ॐ वाय्वात्मकाय नमः । (५.२०.२८)
१०. ॐ सर्वजीवनिकायानां आत्मने दृशे ईश्वराय नमः । (५.२०.४७)
११. ॐ तपतां पतये नमः । (५.२१.४)
१२. ॐ तपनाय नमः । (५.२१.४)
१३. ॐ आदित्याय नमः । (५.२१.९)
१४. ॐ अर्काय नमः । (५.२२.१३)
१५. ॐ ईश्वराय नमः । (१२.६.६६)
१६. ॐ आम्नाय विधिनोपतिष्ठमानानामखिलदुरितवृजिन बीजावभर्जनाय नमः । (१२.६.६८)
१७. ॐ अन्तर्यामिणे नमः । (१२.६.६९)
१८. ॐ त्रिभुवनगुरुभिः वन्दितभगवतः चरणनलिनयुगलाय नमः । (१२.६.७२)
वैष्णवनामानि
भागवतोपक्रमः भागवतकथनश्रवणमाहात्म्यञ्च
१. ॐ अस्य जन्मादि यतस्तस्मै नमः । (१.१.१)
२. ॐ अर्थेषु अभिज्ञाय नमः । (१.१.१)
३. ॐ स्वराजे नमः । (१.१.१)
४. ॐ य आदिकवये हृदा ब्रह्म तेने तस्मै नमः । (१.१.१)
५. ॐ स्वेन धाम्ना सदा निरस्तकुहकाय नमः । (१.१.१)
६. ॐ सत्यं परं इति ध्येयाय नमः । (१.१.१)
७. ॐ ईश्वराय नमः । (१.१.२)
८. ॐ भगवते नमः । (१.१.१२)
९. ॐ सात्वतां पतये नमः । (१.१.१२)
१०. ॐ वसुदेवस्य देवक्यां जाताय नमः । (१.१.१२)
११. ॐ भूतानां क्षेमाय भवाय चावतीर्णाय नमः । (१.१.१३)
१२. ॐ पुण्यश्लोकेड्यकर्मणे नमः । (१.१.१६)
१३. ॐ केशवाय नमः । (१.१.२०)
१४. ॐ रामाय नमः । (१.१.२०)
१५. ॐ गूढाय नमः । (१.१.२०)
१६. ॐ कपटमानुषाय नमः । (१.१.२०)
१७. ॐ हरये नमः । (१.१.२१)
१८. ॐ कृष्णाय नमः । (१.१.२३)
१९. ॐ ब्रह्मण्याय नमः । (१.१.२३)
२०. ॐ धर्मवर्मणे नमः । (१.१.२३)
२१. ॐ नारायणाय नमः । (१.२.४)
२२. ॐ नराय नमः । (१.२.४)
२३. ॐ नरोत्तमाय नमः । (१.२.४)
२४. ॐ अधोक्षजाय नमः । (१.२.६)
२५. ॐ वासुदेवाय नमः । (१.२.७)
२६. ॐ विष्वक्सेनाय नमः । (१.२.८)
२७. ॐ ब्रह्मणे नमः । (१.२.११)
२८. ॐ परमात्मने नमः । (१.२.११)
२९. ॐ अद्वयज्ञानाय नमः । (१.२.११)
३०. ॐ श्रोतव्याय नमः । (१.२.१४)
३१. ॐ कीर्तितव्याय नमः । (१.२.१४)
३२. ॐ ध्येयाय नमः । (१.२.१४)
३३. ॐ पूज्याय नमः । (१.२.१४)
३४. ॐ पुण्यश्रवणकीर्तनाय नमः । (१.२.१७)
३५. ॐ हृद्यन्तस्थाय नमः । (१.२.१७)
३६. ॐ उत्तमश्लोकाय नमः । (१.२.१८)
३७. ॐ आत्मने नमः । (१.२.२१)
३८. ॐ परस्मै पुरुषाय नमः । (१.२.२३)
३९. ॐ सत्वतनवे नमः । (१.२.२३)
४०. ॐ हरिविरिञ्चिहरेतिसंज्ञाधारिणे नमः । (१.२.२३)
४१. ॐ सत्वाय नमः । (१.२.२५)
४२. ॐ विशुद्धाय नमः । (१.२.२५)
४३. ॐ विभवे नमः । (१.२.३०)
४४. ॐ विज्ञानेन विजृम्भिताय नमः । (१.२.३१)
४५. ॐ विश्वात्मने नमः । (१.२.३२)
४६. ॐ लीलावतारानुरताय नमः । (१.२.३४)
संक्षिप्तावतारवर्णनम्
४७. ॐ सहस्रपादोरुभुजाननाय नमः । (१.३.४)
४८. ॐ सहस्रमूर्धश्रवणाक्षिनासिकाय नमः । (१.३.४)
४९. ॐ सहस्रमौल्यम्बरकुण्डलधारिणे नमः । (१.३.४)
५०. ॐ यज्ञेशाय नमः । (१.३.७)
५१. ॐ सौकरवपुषे नमः । (१.३.७)
५२. ॐ नरनारायणाभ्यां नमः । (१.३.९)
५३. ॐ ऋषिभ्यां नमः । (१.३.९)
५४. ॐ कपिलाय नमः । (१.३.१०)
५५. ॐ सिद्धेशाय नमः । (१.३.१०)
५६. ॐ अनसूयया वृताय अत्रिसूनवे नमः । (१.३.११)
५७. ॐ रुचेः आकूत्यां जाताय यज्ञाय नमः । (१.३.१२)
५८. ॐ नाभेः मेरुदेव्यां जाताय उरुक्रमाय नमः । (१.३.१३)
५९. ॐ सर्वाश्रमनमस्कृताय नमः । (१.३.१३)
६०. ॐ उशत्तमाय पार्थिववपुषे नमः । (१.३.१४)
६१. ॐ चाक्षुषोदधिसम्प्लवे मात्स्यरूपधारिणे नमः । (१.३.१५)
६२. ॐ कमठरूपेण मन्दराचलं पृष्ठे धृताय नमः । (१.३.१६)
६३. ॐ धन्वन्तरीमूर्तये नमः । (१.३.१७)
६४. ॐ मोहिन्यै नमः । (१.३.१७)
६५. ॐ नरसिंहाय नमः । (१.३.१८)
६६. ॐ वामनाय नमः । (१.३.१९)
६७. ॐ महीं निक्षत्रां कृताय रामाय नमः । (१.३.२०)
६८. ॐ पराशरात् सत्यवत्यां जाताय नमः । (१.३.२१)
६९. ॐ सुरकार्यचिकीर्षया नरदेवत्वं प्राप्ताय श्रीरामाय नमः । (१.३.२२)
७०. ॐ भूभारहरणार्थं जाताभ्यां बलरामश्रीकृष्णाभ्यां नमः । (१.३.२३)
७१. ॐ बुद्धाय नमः । (१.३.२४)
७२. ॐ कल्किने नमः । (१.३.२५)
७३. ॐ सत्वनिधये नमः । (१.३.२६)
७४. ॐ अरूपाय नमः । (१.३.३०)
७५. ॐ चिदात्मने नमः । (१.३.३०)
७६. ॐ अकर्त्रे नमः । (१.३.३५)
७७. ॐ अजन्माय नमः । (१.३.३५)
७८. ॐ हृत्पतये नमः । (१.३.३५)
७९. ॐ आत्मतन्त्राय नमः । (१.३.३६)
८०. ॐ षड्गुणेशाय नमः । (१.३.३६)
८१. ॐ धात्रे नमः । (१.३.३७)
८२. ॐ रथाङ्गपाणये नमः । (१.३.३८)
८३. ॐ अखिललोकनाथाय नमः । (१.३.३९)
नारदव्याससमागमः तयोः संवादश्च
८४. ॐ ब्रह्मवर्चसां सत्तमाय नमः । (१.४.३०)
८५. ॐ अच्युताय नमः । (१.४.३१)
८६. ॐ पुराणपुरुषाय नमः । (१.५.६)
८७. ॐ परावरेशाय नमः । (१.५.६)
८८. ॐ गुणैः विश्वं सृजत्यवत्यत्त्यप्यसङ्गाय नमः । (१.५.६)
८९. ॐ अनन्तपाराय नमः । (१.५.१६)
९०. ॐ मुकुन्दाय नमः । (१.५.१९)
९१. ॐ परस्मै पुंसे नमः । (१.५.२१)
९२. ॐ प्रियश्रवसे नमः । (१.५.२६)
९३. ॐ वेधसे नमः । (१.५.३१)
९४. ॐ प्रद्युम्नाय नमः । (१.५.३७)
९५. ॐ अनिरुद्धाय नमः । (१.५.३७)
९६. ॐ सङ्कर्षणाय नमः । (१.५.३७)
९७. ॐ अमूर्तिकाय नमः । (१.५.३८)
९८. ॐ मन्त्रमूर्तये नमः । (१.५.३८)
९९. ॐ यज्ञपुरुषाय नमः । (१.५.३८)
१००. ॐ अविपक्वकषायाणां कुयोगिनां दुर्दर्शाय नमः । (१.६.२२)
१०१. ॐ नभोलिङ्गाय नमः । (१.६.२६)
१०२. ॐ अलिङ्गाय नमः । (१.६.२६)
१०३. ॐ महद्भूताय नमः । (१.६.२६)
१०४. ॐ अनन्ताय नमः । (१.६.२७)
१०५. ॐ महाविष्णवे नमः । (१.६.३२)
१०६. ॐ तीर्थपादाय नमः । (१.६.३४)
१०७. ॐ शार्ङ्गधन्वने नमः । (१.६.३९)
व्यासेन भागवतरचनारम्भः अर्जुनेन द्रौणीशिरोमुण्डनञ्च
१०८. ॐ परमपूरुषाय नमः । (१.७.७)
१०९. ॐ विष्णवे नमः । (१.७.२१)
११०. ॐ भक्तानामभयङ्कराय नमः । (१.७.२२)
१११. ॐ महाभागाय नमः । (१.७.२२)
११२. ॐ आद्याय नमः । (१.७.२३)
११३. ॐ पुरुषाय नमः । (१.७.२३)
११४. ॐ साक्षादीश्वराय नमः । (१.७.२३)
११५. ॐ प्रकृतेः परस्मै नमः । (१.७.२३)
११६. ॐ चिच्छक्त्या मायां व्युदस्य कैवल्ये आत्मनि स्थिताय नमः । (१.७.२३)
११७. ॐ देवाय नमः । (१.७.२६)
११८. ॐ अम्बुजेक्षणाय नमः । (१.७.३४)
११९. ॐ देवकीपुत्राय नमः । (१.७.५०)
श्रिकृष्णेन उत्तरागर्भरक्षणं कुन्तीस्तुतिश्च
१२०. ॐ महायोगिने नमः । (१.८.९)
१२१. ॐ देवदेवाय नमः । (१.८.९)
१२२. ॐ जगत्पतये नमः । (१.८.९)
१२३. ॐ ईशाय नमः । (१.८.१०)
१२४. ॐ नाथाय नमः । (१.८.१०)
१२५. ॐ भक्तवत्सलाय नमः । (१.८.११)
१२६. ॐ सुदर्शनाय नमः । (१.८.१३)
१२७. ॐ सर्वभूतानामन्तस्थाय नमः । (१.८.१४)
१२८. ॐ योगेश्वराय नमः । (१.८.१४)
१२९. ॐ सर्वाश्चर्यमयाय नमः । (१.८.१६)
१३०. ॐ अजाय नमः । (१.८.१६)
१३१. ॐ अलक्ष्याय नमः । (१.८.१६)
१३२. ॐ सर्वभूतानामन्तर्बहिरवस्थिताय नमः । (१.८.१८)
१३३. ॐ मायाजवनिकाच्छन्नाय नमः । (१.८.१९)
१३४. ॐ देवकीनन्दनाय नमः । (१.८.२१)
१३५. ॐ नन्दगोपकुमाराय नमः । (१.८.२१)
१३६. ॐ गोविन्दाय नमः । (१.८.२१)
१३७. ॐ पङ्कजनाभाय नमः । (१.८.२२)
१३८. ॐ पङ्कजमालिने नमः । (१.८.२२)
१३९. ॐ पङ्कजनेत्राय नमः । (१.८.२२)
१४०. ॐ पङ्कजाङ्घ्रये नमः । (१.८.२२)
१४१. ॐ हृषीकेशाय नमः । (१.८.२३)
१४२. ॐ जगद्गुरवे नमः । (१.८.२६)
१४३. ॐ अकिञ्चनगोचराय नमः । (१.८.२७)
१४४. ॐ अकिञ्चनवित्ताय नमः । (१.८.२८)
१४५. ॐ निवृत्तगुणवृत्तये नमः । (१.८.२८)
१४६. ॐ आत्मारामाय नमः । (१.८.२८)
१४७. ॐ शान्ताय नमः । (१.८.२८)
१४८. ॐ कैवल्यपतये नमः । (१.८.२८)
१४९. ॐ कालाय नमः । (१.८.२९)
१५०. ॐ ईशानाय नमः । (१.८.२९)
१५१. ॐ अनादिनिधनाय नमः । (१.८.२९)
१५२. ॐ समं सर्वत्र चरते नमः । (१.८.२९)
१५३. ॐ आत्मभुवार्थितो जाताय नमः । (१.८.३५)
१५४. ॐ अस्मिन् भवे अविद्याकामकर्मभिः क्लिश्यमानानां श्रवणस्मरणार्हाय नमः । (१.८.३६)
१५५. ॐ भवप्रवाहोपरमपदाम्बुजाभ्यां नमः । (१.८.३७)
१५६. ॐ गदाधराय नमः । (१.८.४०)
१५७. ॐ विश्वेशाय नमः । (१.८.४२)
१५८. ॐ विश्वमूर्तये नमः । (१.८.४२)
१५९. ॐ मधुपतये नमः । (१.८.४३)
१६०. ॐ श्रीकृष्णाय नमः । (१.८.४४)
१६१. ॐ कृष्णसख्ये नमः । (१.८.४४)
१६२. ॐ वृष्ण्यर्षभाय नमः । (१.८.४४)
१६३. ॐ अनपवर्गवीर्याय नमः । (१.८.४४)
१६४. ॐ अवनिध्रुग् राजन्यवंशदहनाय नमः । (१.८.४४)
१६५. ॐ गोद्विजसुरार्तिहरायावतीर्णाय नमः । (१.८.४४)
१६६. ॐ अखिलगुरवे नमः । (१.८.४५)
१६७. ॐ अखिलोदयाय नमः । (१.८.४५)
१६८. ॐ वैकुण्ठाय नमः । (१.८.४५)
भीष्मस्तुतिस्तस्य मोक्षप्राप्तिश्च
१६९. ॐ जगदीश्वराय नमः । (१.९.१०)
१७०. ॐ माययोपात्तविग्रहाय नमः । (१.९.१०)
१७१. ॐ मोहयन्मायया लोकं वृष्णिषु गूढश्चरते नमः । (१.९.१८)
१७२. ॐ सर्वात्मने नमः । (१.९.२१)
१७३. ॐ समदृशे नमः । (१.९.२१)
१७४. ॐ अद्वयाय नमः । (१.९.२१)
१७५. ॐ अनहङ्कृते नमः । (१.९.२१)
१७६. ॐ प्रसन्नहासारुणलोचनोल्लसन्मुखाम्बुजाय नमः । (१.९.२४)
१७७. ॐ लसत्पीतपटाय नमः । (१.९.३०)
१७८. ॐ सात्वतपुङ्गवाय नमः । (१.९.३२)
१७९. ॐ विभूम्नि स्वसुखोपगताय नमः । (१.९.३२)
१८०. ॐ त्रिभुवनकमनवपुषे नमः । (१.९.३३)
१८१. ॐ तमालवर्णाय नमः । (१.९.३३)
१८२. ॐ रविकरगौरवराम्बराय नमः । (१.९.३३)
१८३. ॐ अलककुलावृताननाब्जाय नमः । (१.९.३३)
१८४. ॐ अनवद्याय नमः । (१.९.३३)
१८५. ॐ विजयसख्ये नमः । (१.९.३३)
१८६. ॐ तुरगरजोविधूम्रविष्वक्कचलुळितश्रमवार्यलङ्कृतास्याय नमः । (१.९.३४)
१८७. ॐ परसैनिकायुरक्ष्णा हृतवते नमः । (१.९.३५)
१८८. ॐ पार्थसख्ये नमः । (१.९.३५)
१८९. ॐ कुमतिमात्मविद्यया हरते नमः । (१.९.३६)
१९०. ॐ परमाय नमः । (१.९.३६)
१९१. ॐ स्वनिगममपहाय भक्तप्रतिज्ञां ऋतमधिकर्तुं रथातवप्लुताय चक्रधारिणे नमः । (१.९.३७)
१९२. ॐ ईक्षणीयाय नमः । (१.९.४१)
१९३. ॐ आत्मकल्पितानां शरीरभाजां हृदि हृदि धिष्ठिताय नमः । (१.९.४२)
१९४. ॐ निष्कलाय नमः । (१.९.४५)
श्रीकृष्णस्य द्वारकागमनं पुरप्रवेशञ्च
१९५. ॐ देवकीसुताय नमः । (१.१०.१४)
१९६. ॐ निर्गुणाय नमः । (१.१०.१९)
१९७. ॐ गुणात्मने नमः । (१.१०.१९)
१९८. ॐ सर्वश्रुतिमनोहराय नमः । (१.१०.२०)
१९९. ॐ जगदात्मने नमः । (१.१०.२१)
२००. ॐ अनामरूपात्मने नमः । (१.१०.२२)
२०१. ॐ शास्त्रकृते नमः । (१.१०.२२)
२०२. ॐ पुंसामृषभाय नमः । (१.१०.२६)
२०३. ॐ श्रियः प्रियाय नमः । (१.१०.२६)
२०४. ॐ पुष्करलोचनाय नमः । (१.१०.३०)
२०५. ॐ मधुद्विषे नमः । (१.१०.३२)
२०६. ॐ विरिञ्चवैरिञ्च्यसुरेन्द्रवन्दिताय नमः । (१.११.६)
२०७. ॐ विश्वभावनाय नमः । (१.११.७)
२०८. ॐ सद्गुरवे नमः । (१.११.७)
२०९. ॐ मात्रे नमः । (१.११.७)
२१०. ॐ पित्रे नमः । (१.११.७)
२११. ॐ पत्ये नमः । (१.११.७)
२१२. ॐ सुहृदे नमः । (१.११.७)
२१३. ॐ परमदैवताय नमः । (१.११.७)
२१४. ॐ प्रेमस्मितस्निग्धनिरीक्षणाय नमः । (१.११.८)
२१५. ॐ सर्वसौभगाय नमः । (१.११.८)
२१६. ॐ अम्बुजाक्षाय नमः । (१.११.९)
२१७. ॐ श्रियः धामाङ्गाय नमः । (१.११.२५)
२१८. ॐ श्रियः निवासाय नमः । (१.११.२६)
२१९. ॐ पिशङ्गवाससे नमः । (१.११.२७)
२२०. ॐ वनमालिने नमः । (१.११.२७)
परीक्षिदः जन्मोत्सवस्तस्य जातकचर्चा च
२२१. ॐ अमलाय नमः । (१.१२.८)
२२२. ॐ स्फुरत्पुरटमौलिने नमः । (१.१२.८)
२२३. ॐ तडिद्वाससे नमः । (१.१२.८)
२२४. ॐ अपीच्यदर्शनाय नमः । (१.१२.८)
२२५. ॐ श्यामाय नमः । (१.१२.८)
२२६. ॐ श्रीमद्दीर्घचतुर्बाहवे नमः । (१.१२.९)
२२७. ॐ तप्तकाञ्चनकुण्डलाय नमः । (१.१२.९)
२२८. ॐ क्षतजाक्षाय नमः । (१.१२.९)
२२९. ॐ गदापाणिने नमः । (१.१२.९)
२३०. ॐ अमेयात्मने नमः । (१.१२.११)
२३१. ॐ धर्मगोप्त्रे नमः । (१.१२.११)
२३२. ॐ प्रभविष्णवे नमः । (१.१२.१६)
२३३. ॐ रमाश्रयाय नमः । (१.१२.२३)
विदुरोपदेशमनुसृत्य धृतराष्ट्रस्य गान्धारीसहितं वनगमनं तत्र तयोः देहत्यागश्च
२३४. ॐ गदाभृते नमः । (१.१३.१०)
२३५. ॐ भूतभावनाय नमः । (१.१३.४८)
२३६. ॐ कालरूपाय नमः । (१.१३.४८)
२३७. ॐ सुरद्विषामभवायावतीर्णाय नमः । (१.१३.४८)
२३८. ॐ क्षेत्रज्ञाय नमः । (१.१३.५४)
युधिष्टरस्य दुःशकुनदर्शनचिन्ता अर्जुनस्य द्वारकायाः प्रत्यागमनं श्रीकृष्णस्य स्वधामगमनविवरणं पाण्डवानां महाप्रस्थानञ्च
२३९. ॐ पुण्यश्लोकाय नमः । (१.१४.१)
२४०. ॐ अनन्तसख्ये नमः । (१.१४.३६)
२४१. ॐ बन्धुरूपिणे नमः । (१.१५.५)
२४२. ॐ नृहरये नमः । (१.१५.१६)
२४३. ॐ माधवाय नमः । (१.१५.१८)
२४४. ॐ पुरुषोत्तमाय नमः । (१.१५.२०)
२४५. ॐ परब्रह्मणे नमः । (१.१५.४४)
परिक्षितः राज्यलाभः दिग्विजयः भूमिधर्मसंवादश्रवणं परिक्षित्धर्मसंवादः कलिनिवारणञ्च
२४६. ॐ श्रीनिवासाय नमः । (१.१६.३१)
२४७. ॐ यज्ञेश्वराय नमः । (१.१७.३३)
२४८. ॐ इज्यामूर्तये नमः । (१.१७.३४)
परीक्षिते मुनिकुमारशापः नृपस्य प्रायोपवेशः तत्र ऋषिसमागमः श्रीशुकमहर्षेरागमनञ्च
२४९. ॐ अत्भुतकर्मणे नमः । (१.१८.१)
२५०. ॐ अजिताय नमः । (१.१८.३)
२५१. ॐ कथनीयोरुकर्मणे नमः । (१.१८.१०)
२५२. ॐ महत्तमैकान्तपरायणाय नमः । (१.१८.१४)
२५३. ॐ खगेन्द्रध्वजाय नमः । (१.१८.१६)
२५४. ॐ अनन्तशक्तये नमः । (१.१८.१९)
२५५. ॐ असाम्यानतिशायनाय नमः । (१.१८.२०)
२५६. ॐ उत्पथगामिनां शास्त्रे नमः । (१.१८.३५)
२५७. ॐ अगुणाश्रयाय नमः । (१.१८.५०)
२५८. ॐ पाण्डुसुतप्रियाय नमः । (१.१९.३५)
२५९. ॐ योगिनां परमगुरवे नमः । (१.१९.३७)
ध्यानविधिः विराड्रूपवर्णनं योगविवरणं मुक्तिक्रमनिरूपणञ्च
२६०. ॐ स्मर्तव्याय नमः । (२.१.५)
२६१. ॐ ब्रह्माक्षराय नमः । (२.१.१७)
२६२. ॐ ब्रह्मबीजाय नमः । (२.१.१७)
२६३. ॐ धारणाश्रयाय नमः । (२.१.२५)
२६४. ॐ सहस्रशीर्ष्णे नमः । (२.१.२८)
२६५. ॐ सर्वात्मने नमः । (२.१.३५)
२६६. ॐ सर्वधीवृत्यनुभूतसर्वस्मै नमः । (२.१.३९)
२६७. ॐ सत्याय नमः । (२.१.३९)
२६८. ॐ आनन्दनिधये नमः । (२.१.३९)
२६९. ॐ स्वचित्ते स्वत एव सिद्धाय नमः । (२.२.६)
२७०. ॐ प्रियाय नमः । (२.२.६)
२७१. ॐ अर्थाय नमः । (२.२.६)
२७२. ॐ निर्वृताय नमः । (२.२.६)
२७३. ॐ नियतार्थाय नमः । (२.२.६)
२७४. ॐ चतुर्भुजाय नमः । (२.२.८)
२७५. ॐ कञ्जरथाङ्गशङ्खगदाधराय नमः । (२.२.८)
२७६. ॐ प्रसन्नवक्त्राय नमः । (२.२.९)
२७७. ॐ नलिनायतेक्षणाय नमः । (२.२.९)
२७८. ॐ कदम्बकिञ्जल्क्कपिशङ्गवाससे नमः । (२.२.९)
२७९. ॐ लसन्महारत्नहिरण्मयाङ्गदधराय नमः । (२.२.९)
२८०. ॐ स्फुरन्महारत्नकिरीटकुण्डलधारिणे नमः । (२.२.९)
२८१. ॐ योगेश्वरास्थापितपादपल्लवाय नमः । (२.२.१०)
२८२. ॐ श्रीलक्ष्मणाय नमः । (२.२.१०)
२८३. ॐ कौस्तुभरत्नकन्धराय नमः । (२.२.१०)
२८४. ॐ अम्लानलक्ष्म्या वनमालयाचिताय नमः । (२.२.१०)
२८५. ॐ महाधनैः मेखलयाङ्गुलीयकैः नूपुरादिभिः विभूषिताय नमः । (२.२.११)
२८६. ॐ स्निग्धामलाञ्चितनीलकुन्तलैः विरोचमानाननहासपेशलाय नमः । (२.२.११)
२८७. ॐ अदीनलीलाहसितेक्षणोल्लसद्भ्रूभङ्गसंसूचितभूर्यनुग्रहाय नमः । (२.२.१२)
२८८. ॐ चिन्तामयाय नमः । (२.२.१२)
२८९. ॐ विश्वेश्वराय नमः । (२.२.१४)
२९०. ॐ अनिमिषां परस्मै नमः । (२.२.१७)
२९१. ॐ कूटस्थाय नमः । (२.२.३४)
श्रीशुकमहर्षेः मङ्गलाचरणपूर्वक कथारम्भः
२९२. ॐ गृहीतशक्तित्रितयाय नमः । (२.४.१२)
२९३. ॐ देहिनामन्तर्भवाय नमः । (२.४.१२)
२९४. ॐ अनुपलक्ष्यवर्त्मने नमःः (२.४.१२)
२९५. ॐ भूयसे नमः । (२.४.१२)
२९६. ॐ सद्वृजिनच्छिदे नमः । (२.४.१३)
२९७. ॐ असतामसम्भवायाखिलसत्वमूर्तये नमः । (२.४.१३)
२९८. ॐ पारमहंस्याश्रमे व्यवस्थितानां अनुमृग्यदाशुषे नमः । (२.४.१३)
२९९. ॐ सात्वतां ऋषभाय नमः । (२.४.१४)
३००. ॐ कुयोगिनां विदूरकाष्ठाय नमः । (२.४.१४)
३०१. ॐ निरस्तसाम्यातिशयेन राधसा स्वधामनि ब्रह्मणि रंस्यते नमः । (२.४.१४)
३०२. ॐ सुभद्रश्रवसे नमः । (२.४.१५)
३०३. ॐ गतव्यलीकैरजशङ्करादिभिर्वितर्क्यलिङ्गाय नमः । (२.४.१९)
३०४. ॐ श्रियः पतये नमः । (२.४.२०)
३०५. ॐ यज्ञपतये नमः । (२.४.२०)
३०६. ॐ प्रजापतये नमः । (२.४.२०)
३०७. ॐ धियां पतये नमः । (२.४.२०)
३०८. ॐ लोकपतये नमः । (२.४.२०)
३०९. ॐ धरापतये नमः । (२.४.२०)
३१०. ॐ अन्धकवृष्णिसात्वतां पतये नमः । (२.४.२०)
३११. ॐ सतां पतये नमः । (२.४.२०)
३१२. ॐ गतये नमः । (२.४.२०)
३१३. ॐ ऋषीणां ऋषभाय नमः । (२.४.२२)
३१४. ॐ षोडशात्मकाय नमः । (२.४.२३)
ब्रह्मदेवस्य तत्वोत्पत्तिकथनं तथा ब्रह्माण्डनिर्माणवर्णनम्
३१५. ॐ अखिलात्मने नमः । (२.५.१७)
३१६. ॐ मायया स्थितिसर्गनिरोधेषु सत्वं रजस्तम इति गृहीतत्रयगुणाय नमः । (२.५.१८)
३१७. ॐ मायेशाय नमः । (२.५.२१)
३१८. ॐ सहस्रोर्वङ्घ्रिबाह्वक्षिणे नमःः (२.५.३५)
३१९. ॐ सहस्राननशीर्ष्णे नमः । (२.५.३५)
३२०. ॐ महात्मने नमः । (२.५.३८)
विराड्रूपवर्णनम्
३२१. ॐ विराजे नमः । (२.६.२२)
३२२. ॐ भूतेन्द्रियगुणात्मकाय नमः । (२.६.२२)
३२३. ॐ गृहीतमायोरुगुणाय नमः । (२.६.३१)
३२४. ॐ त्रिशक्तिधृचे पुरुषरूपाय नमः । (२.६.३२)
३२५. ॐ समाम्नायमयाय नमः । (२.६.३५)
३२६. ॐ तपोमयाय नमः । (२.६.३५)
३२७. ॐ प्रजापतीनामभिवन्दिताय नमः । (२.६.३५)
३२८. ॐ समीयुषां भवच्छिदेः नमः । (२.६.३६)
३२९. ॐ स्वस्त्ययनाय नमः । (२.६.३६)
३३०. ॐ सुमङ्गलचरणाय नमः । (२.६.३६)
३३१. ॐ केवलाय नमः । (२.६.४०)
३३२. ॐ प्रत्यगाय नमः । (२.६.४०)
३३३. ॐ सम्यगवस्थिताय नमःः (२.६.४०)
३३४. ॐ नित्याय नमः । (२.६.४०)
३३५. ॐ भूम्ने नमः । (२.६.४२)
३३६. ॐ यज्ञाय नमः । (२.६.४३)
संक्षिप्तावतारवर्णनम्
३३७. ॐ सकलयज्ञमयाय नमः । (२.७.१)
३३८. ॐ दत्ताय नमः । (२.७.४)
३३९. ॐ चतुःसनेभ्यो नमः । (२.७.५)
३४०. ॐ ऋषभाय नमः । (२.७.१०)
३४१. ॐ हयशीर्ष्णे नमः । (२.७.११)
३४२. ॐ तपनीयवर्णाय नमः । (२.७.११)
३४३. ॐ छन्दोमयाय नमः । (२.७.११)
३४४. ॐ मखमयाय नमः । (२.७.११)
३४५. ॐ अखिलदेवतात्मने नमः । (२.७.११)
३४६. ॐ मत्स्याय नमः । (२.७.१२)
३४७. ॐ कच्छपवपुषे नमः । (२.७.१३)
३४८. ॐ नृसिंहरूपाय नमः । (२.७.१४)
३४९. ॐ आदिपुरुषाय नमः । (२.७.१५)
३५०. ॐ तीर्थश्रवाय नमः । (२.७.१५)
३५१. ॐ श्रवणमङ्गलनामधेयाय नमः । (२.७.१५)
३५२. ॐ अप्रमेयाय नमः । (२.७.१६)
३५३. ॐ चक्रायुधाय नमः । (२.७.१६)
३५४. ॐ पतङ्गराजभुजाधिरूढाय नमः । (२.७.१६)
३५५. ॐ अधियज्ञाय नमः । (२.७.१७)
३५६. ॐ धन्वन्तरये नमः । (२.७.२१)
३५७. ॐ पुरुशक्तिभाजाय नमः । (२.७.३९)
परीक्षितः भगवत् लीलावर्णनापेक्षा
३५८. ॐ अगुणाय नमः । (२.८.१)
३५९. ॐ विश्वस्थित्युत्भवाप्ययाय नमः । (२.८.१०)
ब्रह्मदेवस्य वैकुण्ठतेजोदर्शनं विष्णोश्चतुःश्लोकीभागवतोपदेशश्च
३६०. ॐ अखिल सात्वतां पतये नमः । (२.९.१४)
३६१. ॐ सुनन्दनन्दप्रबलार्हणादिभिः स्वपार्षदमुख्यैः परिसेविताय नमः । (२.९.१४)
३६२. ॐ वक्षसि श्रिया लक्षिताय नमः । (२.९.१५)
३६३. ॐ किरीटिने नमः । (२.९.१५)
३६४. ॐ कुण्डलिने नमः । (२.९.१५)
३६५. ॐ पीताम्बराय नमः । (२.९.१५)
३६६. ॐ अध्यर्हणीयमासनमास्थिताय नमः । (२.९.१६)
३६७. ॐ चतुःषोडशपञ्चशक्तिभिर्वृताय नमः । (२.९.१६)
३६८. ॐ इतरत्र अध्रुवैः स्वैः भगैः युक्ताय नमः । (२.९.१६)
३६९. ॐ स्वे एव धाम्नि रममाणाय नमः । (२.९.१६)
३७०. ॐ वरेशाय नमः । (२.९.२०)
३७१. ॐ सर्वभूतानां गुहामवस्थिताय नमः । (२.९.२४)
३७२. ॐ सर्वभूतानमध्यक्षाय नमः । (२.९.२४)
पुराणलक्षणानि इन्द्रियाधिष्ठानदेवतोत्पत्तिश्च
३७३. ॐ हिरण्मयाय नमःः (२.१०.१३)
३७४. ॐ देवाय नमःः (२.१०.१३)
३७५. ॐ ब्रह्मरूपधारिणे नमः । (२.१०.३६)
३७६. ॐ जगद्धात्रे नमः । (२.१०.४३)
३७७. ॐ धर्मरूपधारिणे नमः । (२.१०.४३)
३७८. ॐ कालाग्निरुद्रात्मने नमः । (२.१०.४४)
३७९. ॐ परस्मै नमः । (२.१०.४६)
विदुरस्य हस्तिनपुरत्यागः उद्धवसमागमः विदुरोद्धवसंवादः उद्धवस्य श्रीकृष्णलीलानुस्मरणञ्च
३८०. ॐ अखिलेश्वराय नमः । (३.१.२)
३८१. ॐ विनिर्जिताशेषनृदेवदेवाय नमः । (३.१.१२)
३८२. ॐ यदुदेवदेवाय नमः । (३.१.१२)
३८३. ॐ सहस्रमूर्तये नमः । (३.१.१७)
३८४. ॐ तीर्थपदाय नमः । (३.१.१७)
३८५. ॐ अनन्तलिङ्गाय नमः । (३.१.१८)
३८६. ॐ स्वनाभ्यपाद्मानुवृत्यावतीर्णाय नमः । (३.१.२६)
३८७. ॐ सात्वतवृष्णिभोजदाशार्हकाणामधिपाय नमः । (३.१.२९)
३८८. ॐ सुपर्णाय नमः । (३.१.३९)
३८९. ॐ मर्त्यविडम्बनेन नृणां दृशः चालयते नमः । (३.१.४२)
३९०. ॐ विधात्रे नमः । (३.१.४२)
३९१. ॐ उत्पथनाशनाय नमः । (३.१.४४)
३९२. ॐ तीर्थकीर्तये नमः । (३.१.४५)
३९३. ॐ भर्त्रे नमः । (३.२.३)
३९४. ॐ सात्वतां ऋषभाय नमः । (३.२.९)
३९५. ॐ भूतावासाय नमः । (३.२.९)
३९६. ॐ भूषणभूषणाङ्गाय नमः । (३.२.१२)
३९७. ॐ परस्मै पदाय नमः । (३.२.१२)
३९८. ॐ दृक्स्वस्त्ययनाय नमः । (३.२.१३)
३९९. ॐ अनन्तवीर्याय नमः । (३.२.१६)
४००. ॐ असाम्यातिशयाय नमः । (३.२.२१)
४०१. ॐ त्र्यधीशाय नमः । (३.२.२१)
४०२. ॐ स्वाराज्यलक्ष्म्याप्तसमस्तकामाय नमः । (३.२.२१)
४०३. ॐ बलिं हरद्भिः चिरलोकपालैः किरीटकोट्येडितपादपीठाय नमः । (३.२.२१)
४०४. ॐ सुनाभायुधाय नमः । (३.२.२४)
४०५. ॐ श्रीनिकेताय नमः । (३.३.२०)
४०६. ॐ प्रपन्नार्तिहराय नमः । (३.४.४)
४०७. ॐ अकेतनाय नमः । (३.४.६)
४०८. ॐ श्यामावदाताय नमः । (३.४.७)
४०९. ॐ विरजाय नमः । (३.४.७)
४१०. ॐ प्रशान्तारुणलोचनाय नमः । (३.४.७)
४११. ॐ दोर्भिः चतुर्भिः विदिताय नमः । (३.४.७)
४१२. ॐ पीतकौशाम्बरधराय नमः । (३.४.७)
४१३. ॐ अकृशाय नमः । (३.४.८)
४१४. ॐ अरविन्दाक्षाय नमः । (३.४.१९)
४१५. ॐ त्रिलोकगुरवे नमः । (३.४.३२)
४१६. ॐ शब्दयोनये नमः । (३.४.३२)
विदुरस्य मैत्रेयसमागमः विदुरमैत्रेयसंवादारम्भः सृष्टिक्रमवर्णनं देवानां भगवत्स्तुतिश्च
४१७. ॐ जनार्दनाय नमः । (३.५.३)
४१८. ॐ कृतावताराय नमः । (३.५.५)
४१९. ॐ निरीहाय नमः । (३.५.५)
४२०. ॐ योगेश्वराधीश्वराय नमः । (३.५.६)
४२१. ॐ सुश्लोकमौलये नमः । (३.५.७)
४२२. ॐ अधिलोकनाथाय नमः । (३.५.८)
४२३. ॐ आत्मयोनये नमः । (३.५.९)
४२४. ॐ विश्वस्रष्ट्रे नमः । (३.५.९)
४२५. ॐ सूरिभिरीड्यमानाय नमः । (३.५.११)
४२६. ॐ विश्वजन्मस्थितिसंयमार्थे कृतावताराय नमः । (३.५.१६)
४२७. ॐ प्रगृहीतशक्तये नमः । (३.५.१६)
४२८. ॐ आत्मात्मनां विभवे नमः । (३.५.२३)
४२९. ॐ अनानामत्युपलक्षणाय नमः । (३.५.२३)
४३०. ॐ एकराजे नमः । (३.५.२४)
४३१. ॐ सुप्तशक्तये नमः । (३.५.२४)
४३२. ॐ असुप्तदृशे नमः । (३.५.२४)
४३३. ॐ सन्द्रष्ट्रे नमः । (३.५.२५)
४३४. ॐ प्रपन्नतापोपशमातपत्रपदारविन्दाय नमः । (३.५.३८)
४३५. ॐ सविद्यानां अङ्घ्रिच्छायाय नमः । (३.५.३९)
४३६. ॐ परेशाय नमः । (३.५.४४)
४३७. ॐ उरुगायाय नमः । (३.५.४४)
४३८. ॐ अकुण्ठधिष्ण्याय नमः । (३.५.४५)
मैत्रेयमहर्षिणा विराट्पुरुषोत्पत्तिवर्णनं, विदुरस्य प्रसक्तप्रश्नानि
४३९. ॐ अधिपूरुषाय नमः । (३.६.४)
४४०. ॐ देवकर्मात्मशक्तिमते नमः । (३.६.७)
४४१. ॐ लोकेशाय नमः । (३.६.२२)
४४२. ॐ चिन्मात्राय नमः । (३.७.२)
४४३. ॐ अविकारिणे नमः । (३.७.२)
४४४. ॐ स्वतः तृप्ताय नमः । (३.७.३)
४४५. ॐ अविलुप्तावबोधात्मकाय नमः । (३.७.५)
४४६. ॐ सर्वक्षेत्रेष्ववस्थिताय नमः । (३.७.६)
४४७. ॐ विमुक्ताय नमः । (३.७.९)
४४८. ॐ मुरारये नमः । (३.७.१४)
४४९. ॐ व्यसनार्दनाय नमः । (३.७.१९)
४५०. ॐ सहस्राङ्घ्र्यूरुबाहवे नमः । (३.७.२२)
४५१. ॐ धर्मयोनये नमः । (३.७.३५)
विष्णोः नाभिकमलात् ब्रह्मदेवोत्पत्तिः ब्रह्मस्तुतिः ब्रह्मदेवाय विष्णोः वरदानञ्च
४५२. ॐ अकुण्ठसत्वाय नमः । (३.८.३)
४५३. ॐ किरीटसाहस्रमणिप्रवेकप्रद्योतितोद्दामफणासहस्राय नमः । (३.८.६)
४५४. ॐ भगवत्तमाय नमः । (३.८.७)
४५५. ॐ अहीन्द्रतल्पे अधिशयानाय नमः । (३.८.१०)
४५६. ॐ एकस्मै नमः । (३.८.१०)
४५७. ॐ स्वात्मरतौ कृतक्षणाय नमः । (३.८.१०)
४५८. ॐ रुद्धवीर्याय नमः । (३.८.११)
४५९. ॐ अर्प्पितभूतसूक्ष्माय नमः । (३.८.११)
४६०. ॐ कालात्मिकां शक्तिं उदीरमाणाय नमः । (३.८.११)
४६१. ॐ स्वशक्त्या कालाख्ययासादितकर्मतन्त्राय नमः । (३.८.१२)
४६२. ॐ अर्थसूक्ष्माभिनिविष्टदृष्टये नमः । (३.८.१३)
४६३. ॐ मृणालगौरायतशेषभोगपर्यङ्के शयानाय नमः । (३.८.२३)
४६४. ॐ अपाश्रितवेषदेहाय नमः । (३.८.२५)
४६५. ॐ लोकार्तिहरस्मिताय नमः । (३.८.२७)
४६६. ॐ परिस्फुरत्कुण्डलमण्डिताय नमः । (३.८.२७)
४६७. ॐ सुनासाय नमः । (३.८.२७)
४६८. ॐ सुभ्रुवे नमः । (३.८.२७)
४६९. ॐ शोणायितेनाधरबिम्बभासाय नमः । (३.८.२७)
४७०. ॐ श्रीवत्सवक्षस्थलवल्लभेनानन्तधनेन हारालङ्कृताय नमः । (३.८.२८)
४७१. ॐ आम्नायमधुव्रतश्रिया स्वकीर्तिमय्या वनमालया निवीताय नमः । (३.८.३१)
४७२. ॐ सूर्येन्दुवाय्वग्न्यगमाय नमः । (३.८.३१)
४७३. ॐ त्रिधामभिः परिक्रमत् प्राधनिकैः दुरासदाय नमः । (३.८.३१)
४७४. ॐ अव्यक्तवर्त्मने नमः । (३.८.३३)
४७५. ॐ कर्मबीजाय नमः । (३.८.३३)
४७६. ॐ ईड्याय नमः । (३.८.३३)
४७७. ॐ गृहीतावतारशतैकबीजाय नमः । (३.९.२)
४७८. ॐ अवबोधरसोदयेन शश्वन्निवृत्ततमसे नमः । (३.९.२)
४७९. ॐ आनन्दमात्रमविकल्पमविद्धवर्च्चसे नमः । (३.९.३)
४८०. ॐ भूतेन्द्रियात्मकाय नमः । (३.९.३)
४८१. ॐ भुवनमङ्गलाय नमः । (३.९.४)
४८२. ॐ विश्वोद्भवस्थितिलयेषु निमित्तलीलारासाय नमः । (३.९.१४)
४८३. ॐ स्थित्युद्भवप्रलयहेतवे नमः । (३.९.१६)
४८४. ॐ आत्ममूलाय नमः । (३.९.१६)
४८५. ॐ भुवनद्रुमाय नमः । (३.९.१६)
४८६. ॐ अनिमिषाय नमः । (३.९.१७)
४८७. ॐ अधिमखाय नमः । (३.९.१८)
४८८. ॐ योगनिद्रावसानविकसन्नलिनेक्षणाय नमः । (३.९.२१)
४८९. ॐ उदरस्थभवाय नमः । (३.९.२१)
४९०. ॐ समस्तजगतां सुहृदे नमः । (३.९.२२)
४९१. ॐ प्रपन्नवरदाय नमः । (३.९.२३)
४९२. ॐ आत्मशक्त्या रमया गृहीतगुणावताराय नमः । (३.९.२३)
४९३. ॐ मधुसूदनाय नमः । (३.९.२७)
४९४. ॐ आत्मनामात्मने नमः । (३.९.४२)
४९५. ॐ प्रेयसां प्रेष्ठाय नमः । (३.९.४२)
४९६. ॐ प्रधानपुरुषेश्वराय नमः । (३.९.४४)
४९७. ॐ कञ्जनाभाय नमः । (३.९.४४)
दशविधसृष्टिः कालपरिधिनिर्णयश्च
४९८. ॐ बहुरूपाय नमः । (३.१०.१०)
४९९. ॐ कालाख्यलक्षणाय नमः । (३.१०.१०)
५००. ॐ अव्यक्तमूर्तये नमः । (३.१०.१२)
५०१. ॐ अमोघसङ्कल्पाय नमः । (३.१०.२९)
५०२. ॐ व्यक्तभुजे नमः । (३.११.३)
५०३. ॐ अव्यक्ताय नमः । (३.११.३)
५०४. ॐ विशेषभुजे नमः । (३.११.४)
५०५. ॐ अनन्तासनाय नमः । (३.११.३१)
५०६. ॐ योगनिद्रानिमीलिताक्षाय नमः । (३.११.३१)
५०७. ॐ जनालयैः स्तूयमानाय नमः । (३.११.३१)
५०८. ॐ अव्याकृताय नमः । (३.११.३७)
५०९. ॐ जगदात्मने नमः । (३.११.३७)
५१०. ॐ अनादये नमः । (३.११.३७)
५११. ॐ अक्षरब्रह्मणे नमः । (३.११.४१)
५१२. ॐ सर्वकारणकारणाय नमः । (३.११.४१)
सनकादि महर्षीणां जननं श्रीरुद्राविर्भावं मरीच्यादि ऋषीणां तथा सरस्वत्याः उत्पत्तिः
५१३. ॐ सर्वभूतगुहावासाय नमः । (३.१२.१९)
५१४. ॐ परंज्योतिषे नमः । (३.१२.१९)
वराहावतारः ऋषीणां भगवत्स्तुतिश्च
५१५. ॐ विष्वक्सेनाय नमः । (३.१३.३)
५१६. ॐ सर्वभूतानां जन्मकृते वित्तदाय च नमः । (३.१३.७)
५१७. ॐ यज्ञलिङ्गाय नमः । (३.१३.१३)
५१८. ॐ अमीवसूदनाय नमः । (३.१३.१४)
५१९. ॐ करुणासिन्धवे नमः । (३.१३.१८)
५२०. ॐ वराहतोकाय नमः । (३.१३.१९)
५२१. ॐ सौकररूपाय नमः । (३.१३.२१)
५२२. ॐ सौकरव्याजसत्वाय नमः । (३.१३.२१)
५२३. ॐ अगेन्द्रसन्निभाय नमः । (३.१३.२४)
५२४. ॐ मायामयसूकराय नमः । (३.१३.२६)
५२५. ॐ वेदवितानमूर्तये नमः । (३.१३.२७)
५२६. ॐ सितदंष्ट्राय नमः । (३.१३.२८)
५२७. ॐ क्रोडापदेशाय नमः । (३.१३.२९)
५२८. ॐ अध्वराङ्गाय नमः । (३.१३.२९)
५२९. ॐ करालदंष्ट्रिणे नमः । (३.१३.२९)
५३०. ॐ अकरालदृशे नमः । (३.१३.२९)
५३१. ॐ त्रिपरवे नमः । (३.१३.३१)
५३२. ॐ सुनाभसन्दीपिततीव्रमन्यवे नमः । (३.१३.३२)
५३३. ॐ महीं रसायाः स्वदंष्ट्रयोद्धृत्योत्थिताय नमः । (३.१३.३२)
५३४. ॐ यज्ञभावनाय नमः । (३.१३.३५)
५३५. ॐ कारणसूकराय नमः । (३.१३.३५)
५३६. ॐ अध्वरात्मकाय नमः । (३.१३.३६)
५३७. ॐ दुष्कृतात्मनां दुर्दर्शनाय नमः । (३.१३.३६)
५३८. ॐ सर्वयज्ञक्रतुरिष्टिबन्धनाय नमः । (३.१३.३९)
५३९. ॐ अखिलमन्त्रदेवताद्रव्याय नमः । (३.१३.४०)
५४०. ॐ सर्वक्रतवे नमः । (३.१३.४०)
५४१. ॐ क्रियात्मने नमः । (३.१३.४०)
५४२. ॐ वैराग्यभक्त्यात्मजयानुभावितज्ञानविद्यागुरवे नमः । (३.१३.४०)
५४३. ॐ अपारकर्मणे नमः । (३.१३.४६)
५४४. ॐ प्रजापतये नमः । (३.१३.४८)
५४५. ॐ गुहाशयाय नमः । (३.१३.५०)
कश्यपात् दितेः गर्भधारणं तस्याः पौत्रः प्रह्लादस्य जन्मप्रवचनञ्च
५४६. ॐ कारणसूकरात्मने नमः । (३.१४.१)
५४७. ॐ यज्ञमूर्तये नमः । (३.१४.२)
५४८. ॐ यजुषां पतये नमः । (३.१४.८)
५४९. ॐ लोकभावनाय नमः । (३.१४.४०)
५५०. ॐ सुनाभोदारबाहवे नमः । (३.१४.४१)
५५१. ॐ अब्जनेत्राय नमः । (३.१४.४९)
५५२. ॐ स्वपूरुषेच्छानुग्रहीतरूपाय नमः । (३.१४.४९)
५५३. ॐ श्रीललनाललामाय नमः । (३.१४.४९)
५५४. ॐ स्फुरत्कुण्डलमण्डिताननाय नमः । (३.१४.४९)
वैकुण्ठधामवर्णनं सनकादीनां विष्णुपार्षदाभ्यां शापः तेषां भगवद्दर्शनञ्च
५५५. ॐ कालेनास्पृष्टवर्त्मने नमः । (३.१५.३)
५५६. ॐ लोकनाथशिखामणये नमः । (३.१५.४)
५५७. ॐ परेषामपरेषां भूतानां भावविदे नमः । (३.१५.४)
५५८. ॐ विज्ञानवीर्याय नमः । (३.१५.५)
५५९. ॐ गृहीतगुणभेदाय नमः । (३.१५.५)
५६०. ॐ अव्यक्तयोनये नमः । (३.१५.५)
५६१. ॐ आत्मनिप्रोतभुवनाय नमः । (३.१५.६)
५६२. ॐ सदसदात्मकाय नमः । (३.१५.६)
५६३. ॐ आत्मभावनाय नमः । (३.१५.६)
५६४. ॐ महाबाहवे नमः । (३.१५.११)
५६५. ॐ शब्दगोचराय नमः । (३.१५.११)
५६६. ॐ अमलात्मने नमः । (३.१५.१३)
५६७. ॐ सर्वलोकनमस्कृताय नमः । (३.१५.१३)
५६८. ॐ वृषाय नमः । (३.१५.१५)
५६९. ॐ अनिमिषां ऋषभाय नमः । (३.१५.२५)
५७०. ॐ विश्वगुरवे नमः । (३.१५.२६)
५७१. ॐ भुवनैकवन्द्याय नमः । (३.१५.२६)
५७२. ॐ गतविग्रहाय नमः । (३.१५.३२)
५७३. ॐ प्रशान्तपुरुषाय नमः । (३.१५.३२)
५७४. ॐ अरविन्दनाभाय नमः । (३.१५.३७)
५७५. ॐ परमहंसमुनीनामन्वेषणीयचरणौ चालयते नमः । (३.१५.३७)
५७६. ॐ आर्यहृद्याय नमः । (३.१५.३७)
५७७. ॐ सहश्रिये नमः । (३.१५.३७)
५७८. ॐ समाधिभाग्याय नमः । (३.१५.३८)
५७९. ॐ कृत्स्नप्रसादसुमुखाय नमः । (३.१५.३९)
५८०. ॐ स्पृहणीयधामाय नमः । (३.१५.३९)
५८१. ॐ स्नेहावलोककलया हृदिसंस्पृशते नमः । (३.१५.३९)
५८२. ॐ पृथुनितम्बिनिपीतांशुके विस्फुरन्त्याः काञ्च्या अलिभिः विरुतया वनमालया चोपलक्षिताय नमः । (३.१५.४०)
५८३. ॐ विनतासुतांसे वल्गुप्रकोष्ठवलय विन्यस्तहस्ताय नमः । (३.१५.४०)
५८४. ॐ धुनानामब्जहस्ताय नमः । (३.१५.४०)
५८५. ॐ विद्युत्क्षिपन् मकरकुण्डलमण्डनार्ह गण्डस्थलोन्नसमुखाय नमः । (३.१५.४१)
५८६. ॐ मणिमत्किरीटधारिणे नमः । (३.१५.४१)
५८७. ॐ दोर्दण्डषण्डविवरे हरता परार्ध्यहारेण शोभमानाय नमः । (३.१५.४१)
५८८. ॐ कन्धरगतेन कौस्तुभेन शोभमानाय नमः । (३.१५.४१)
५८९. ॐ बहुसौष्ठवाढ्याय नमः । (३.१५.४२)
५९०. ॐ अरविन्दनयनाय नमः । (३.१५.४३)
५९१. ॐ नखारुणमणिश्रयणाङ्घ्रिद्वन्द्वाय नमः । (३.१५.४४)
५९२. ॐ असितपद्मकोशवदनाय नमः । (३.१५.४४)
५९३. ॐ सुन्दरतराधरकुन्दहासाय नमः । (३.१५.४४)
५९४. ॐ ध्यानास्पदाय नमः । (३.१५.४५)
५९५. ॐ नयनाभिरामाय नमः । (३.१५.४५)
५९६. ॐ अनन्यसिद्धैरौत्पत्तिकैरष्टभोगैर्युतं पौंस्न वपुषे नमः । (३.१५.४५)
५९७. ॐ कीर्तन्यतीर्थयशसे नमः । (३.१५.४८)
५९८. ॐ पुरुहूताय नमः । (३.१५.५०)
भगवता सनकादीनां सान्त्वनं जयविजयोः वैकुण्ठात् पतनञ्च
५९९. ॐ अमृतामलयशसे नमः । (३.१६.६)
६००. ॐ अखण्डविकुण्ठयोगमायाविभूतये नमः । (३.१६.९)
६०१. ॐ योगमाययारब्ध पारमेष्ठ्यमहोदयाय नमः । (३.१६.१५)
६०२. ॐ निर्विकल्पाय नमः । (३.१६.१८)
६०३. ॐ द्विजानुपथपुण्यरजः पुनीतश्रीवत्सलक्ष्माय नमः । (३.१६.२१)
६०४. ॐ द्विजोत्तमकुलगोप्त्रे नमः । (३.१६.२३)
६०५. ॐ निजशक्तिभिरुद्धृतारये नमः । (३.१६.२४)
६०६. ॐ विश्वभर्त्रे नमः । (३.१६.२४)
६०७. ॐ त्र्यधिपतये नमः । (३.१६.२४)
६०८. ॐ अधीशाय नमः । (३.१६.२५)
६०९. ॐ नयनानन्दभाजनाय नमः । (३.१६.२७)
६१०. ॐ स्वयम्प्रभाय नमः । (३.१६.२७)
६११. ॐ विश्वस्य स्थितिलयोत्भवहेतवे नमः । (३.१६.३६)
६१२. ॐ योगेश्वरैरपि दुरत्यययोगमायाय नमः । (३.१६.३६)
हिरण्याक्षहिरण्यकशिपोर्जननं हिरण्याक्षस्य दिग्विजयं तस्य वराहमूर्तिना हननञ्च
६१३. ॐ पुरातनाय पुरुषाय नमः । (३.१७.३०)
६१४. ॐ अभिजिते नमः । (३.१८.२)
६१५. ॐ अग्रदंष्ट्रया प्रोन्नीयमानावनये नमः । (३.१८.२)
६१६. ॐ धराधराय नमः । (३.१८.२)
६१७. ॐ आसादितसूकराकृतये नमः । (३.१८.३)
६१८. ॐ योगमायाबलाय नमः । (३.१८.४)
६१९. ॐ गृहीतवाराहतनवे नमः । (३.१८.२०)
६२०. ॐ आदिसूकराय नमः । (३.१८.२१)
६२१. ॐ सहस्रण्ये नमः । (३.१८.२१)
६२२. ॐ अक्षजाय नमः । (३.१९.२)
६२३. ॐ यज्ञसूकराय नमः । (३.१९.९)
६२४. ॐ धृतयज्ञरूपाय नमः । (३.१९.१३)
६२५. ॐ योगमायेश्वराय नमः । (३.१९.१७)
६२६. ॐ विश्वजिते नमः । (३.१९.२६)
६२७. ॐ अखिलयज्ञतन्तवे नमः । (३.१९.३०)
६२८. ॐ गृहीतामलसत्वमूर्तये नमः । (३.१९.३०)
६२९. ॐ पुष्करविष्टरादिभिः समीडिताय नमः । (३.१९.३१)
६३०. ॐ महामृधे हिरण्याक्षं हत्वा देवानां तुष्टिदायकाय नमः । (३.१९.३२)
६३१. ॐ श्रीवत्साङ्काय नमः । (३.१९.३४)
ब्रह्मदेवस्य नानासृष्टिवर्णनम्
६३२. ॐ कीर्तन्योदारकर्मणे नमः । (३.२०.६)
६३३. ॐ धृतक्रोडतनवे नमः । (३.२०.८)
६३४. ॐ दुर्वितर्क्यायानिमिषाय परस्मै नमः । (३.२०.१२)
६३५. ॐ भक्तानामनुग्रहायानुरूपात्मदर्शनाय नमः । (३.२०.२५)
६३६. ॐ क्लिष्टानां लोकानां क्लेशनाशनाय नमः । (३.२०.२७)
६३७. ॐ विविक्ताध्यात्मदर्शनाय नमः । (३.२०.२८)
६३८. ॐ आत्मवते नमः । (३.२०.५१)
कर्दमतपः तस्मै भगवतः वरदानञ्च
६३९. ॐ प्रपन्नवरदाशुषे नमः । (३.२१.७)
६४०. ॐ प्रसन्नाय नमः । (३.२१.८)
६४१. ॐ पुष्कराक्षाय नमः । (३.२१.८)
६४२. ॐ अर्काभाय नमः । (३.२१.९)
६४३. ॐ सितपद्मोत्पलस्रजाय नमः । (३.२१.९)
६४४. ॐ स्निग्धनीलालकव्रातवक्त्राब्जाय नमः । (३.२१.९)
६४५. ॐ विरजोऽम्बराय नमः । (३.२१.९)
६४६. ॐ शङ्खचक्रगदाधराय नमः । (३.२१.१०)
६४७. ॐ श्वेतोत्पलक्रीडनकाय नमः । (३.२१.१०)
६४८. ॐ मनःस्पर्शस्मितेक्षणाय नमः । (३.२१.१०)
६४९. ॐ गरुत्मतः विन्यस्तचरणाम्भोजाय नमः । (३.२१.११)
६५०. ॐ खेऽवस्थिताय नमः । (३.२१.११)
६५१. ॐ वक्षः श्रिये नमः । (३.२१.११)
६५२. ॐ कौस्तुभकन्धराय नमः । (३.२१.११)
६५३. ॐ अखिलसत्वराशये नमः । (३.२१.१३)
६५४. ॐ भवसिन्धुपोतपादारविन्दाय नमः । (३.२१.१४)
६५५. ॐ कामदुघाङ्घ्रिपाय नमः । (३.२१.१५)
६५६. ॐ अशेषमूलमूलाय नमः । (३.२१.१५)
६५७. ॐ शुक्लाय नमः । (३.२१.१६)
६५८. ॐ लसत्तुलस्या विलक्षितमायातनवे नमः । (३.२१.२०)
६५९. ॐ नमनीयपादसरोजाय नमः । (३.२१.२१)
६६०. ॐ अब्जनाभाय नमः । (३.२१.२२)
६६१. ॐ सुपर्ण्णपक्षोपरिरोचमानाय नमः । (३.२१.२२)
६६२. ॐ प्रेमस्मितोद्वीक्षणविभ्रमद्भ्रुवे नमः । (३.२१.२२)
६६३. ॐ प्रत्यगक्षजाय नमः । (३.२१.३३)
कर्दमदेवहूतिविवाहः देवहूत्याः कर्दमपरिचर्या कर्दमेन दिव्यविमाननिर्माणं दम्पतीनां विहारः नवपुत्रीजननञ्च
६६४. ॐ अव्ययाय नमः । (३.२२.४)
६६५. ॐ अकृतात्मनां दुर्दर्शाय नमः । (३.२२.६)
६६६. ॐ शिवाय पादरजाय नमः । (३.२२.६)
६६७. ॐ उशतीर्गिरा जुष्टाय नमः । (३.२२.७)
६६८. ॐ व्यसनात्ययाय नमः । (३.२३.४२)
६६९. ॐ तीर्थपदचरणाय नमः । (३.२३.४२)
कपिलावतारः नवकन्यकाविवाहः कर्दमभगवत्पदप्राप्तिश्च
६७०. ॐ तत्वसङ्ख्यानविज्ञप्त्यै जाताय नमः । (३.२४.१०)
६७१. ॐ स्वमायया भूतानां शेवधिं कपिलं देहं बिभ्रते अवतीर्णाय नमः । (३.२४.१६)
६७२. ॐ ज्ञानविज्ञानयोगेन कर्मणां जटोद्धारकाय नमः । (३.२४.१७)
६७३. ॐ हिरण्यकेशाय नमः । (३.२४.१७)
६७४. ॐ पद्माक्षाय नमः । (३.२४.१७)
६७५. ॐ पद्ममुद्रापदाम्बुजाय नमः । (३.२४.१७)
६७६. ॐ कैटभार्दनाय नमः । (३.२४.१८)
६७७. ॐ अविद्यासंशयग्रन्थिछेदकाय नमः । (३.२४.१८)
६७८. ॐ सिद्धगणाधीशाय नमः । (३.२४.१९)
६७९. ॐ साङ्ख्याचार्यैः सुसम्मताय नमः । (३.२४.१९)
६८०. ॐ पितुः कीर्तिवर्धकाय नमः । (३.२४.१९)
६८१. ॐ विबुधर्षभाय नमः । (३.२४.२६)
६८२. ॐ भक्तानां मानवर्धनाय नमः । (३.२४.३०)
६८३. ॐ सदाभिवादार्हणपादपीठाय नमः । (३.२४.३२)
६८४. ॐ ऐश्वर्यवैराग्ययशोऽवबोध वीर्यश्रिया पूर्ताय नमः । (३.२४.३२)
६८५. ॐ परप्रधानपुरुषमहत्कालत्रिवृतस्वरूपिणे नमः । (३.२४.३३)
६८६. ॐ कवये नमः । (३.२४.३३)
६८७. ॐ लोकपालाय नमः । (३.२४.३३)
६८८. ॐ आत्मानुभूत्यानुगतप्रपञ्चाय नमः । (३.२४.३३)
६८९. ॐ स्वच्छन्दशक्तये नमः । (३.२४.३३)
६९०. ॐ अवतीर्णार्णाय नमः । (३.२४.३४)
६९१. ॐ आप्तकामाय नमः । (३.२४.३४)
६९२. ॐ मुमूक्षूणां आत्मदर्शने सम्मताय नमः । (३.२४.३६)
६९३. ॐ तत्वानां प्रसङ्ख्यकाय नमः । (३.२४.३६)
६९४. ॐ स्वयं ज्योतिषे नमः । (३.२४.३९)
६९५. ॐ सर्वभूतगुहाशयाय नमः । (३.२४.३९)
६९६. ॐ प्रत्यगात्मने नमः । (३.२४.४५)
देवहूतिकपिलसंवादः - भक्तियोगनिरूपणं
६९७. ॐ पुंसां वर्ष्मणे नमः । (३.२५.२)
६९८. ॐ सर्वयोगिनां वरिम्णे नमः । (३.२५.२)
६९९. ॐ श्रुतदेवाय नमः । (३.२५.२)
७००. ॐ स्वच्छन्दात्मने नमः । (३.२५.३)
७०१. ॐ अकर्माय नमः । (३.२५.६)
७०२. ॐ तत्वमार्गाग्रदर्शनाय नमः । (३.२५.६)
७०३. ॐ सच्चक्षुषे नमः । (३.२५.८)
७०४. ॐ दुष्पारस्यान्धस्य तमसः पारगाय नमः । (३.२५.८)
७०५. ॐ तमसान्धस्य लोकस्योदितसूर्याय नमः । (३.२५.९)
७०६. ॐ स्वभृत्यसंसारतरोः कुठाराय नमः । (३.२५.११)
७०७. ॐ शरण्याय नमः । (३.२५.११)
७०८. ॐ सद्धर्मविदां वरिष्ठाय नमः । (३.२५.११)
७०९. ॐ आत्मवतां सतां गतये नमः । (३.२५.१२)
७१०. ॐ अखण्डिताय नमः । (३.२५.१७)
७११. ॐ प्रकृतेः परस्मै नमः । (३.२५.१७)
७१२. ॐ निरन्तराय नमः । (३.२५.१७)
७१३. ॐ अणिम्ने नमः । (३.२५.१७)
७१४. ॐ उदासीनाय नमः । (३.२५.१८)
७१५. ॐ निर्वाणात्मने नमः । (३.२५.२९)
७१६. ॐ रुचिरवरप्रदप्रसन्नवक्त्रारुणलोचनदिव्यरूपिणे नमः । (३.२५.३५)
७१७. ॐ उदारविलासहासेक्षितवामसूक्तदर्शनीयावयवाय नमः । (३.२५.३६)
७१८. ॐ सख्ये नमः । (३.२५.३८)
७१९. ॐ प्रियाय नमः । (३.२५.३८)
७२०. ॐ सुहृदे नमः । (३.२५.३८)
७२१. ॐ गुरवे नमः । (३.२५.३८)
७२२. ॐ इष्टदैवाय नमः । (३.२५.३८)
७२३. ॐ विश्वतोमुखाय नमः । (३.२५.४०)
७२४. ॐ सर्वभूतानामात्मने नमः । (३.२५.४१)
महदादितत्वनिरूपणं सद्धर्मवर्णनञ्च
७२५. ॐ हृदयग्रन्थिभेदनाय नमः । (३.२६.२)
७२६. ॐ निश्रेयसार्थाय ज्ञानाय नमः । (३.२६.२)
७२७. ॐ प्रत्यग्धाम्ने नमः । (३.२६.३)
७२८. ॐ निर्वृतात्मने नमः । (३.२६.७)
७२९. ॐ जगदङ्कुराय नमः । (३.२६.२०)
७३०. ॐ आत्मप्रस्वापनं तमसं स्वतेजसाऽपीताय नमः । (३.२६.२०)
७३१. ॐ स्वच्छाय नमः । (३.२६.२१)
७३२. ॐ महदात्मकाय नमः । (३.२६.२१)
७३३. ॐ शारदेन्दीवरश्यामाय नमः । (३.२६.२८)
७३४. ॐ योगिभिः शनैः संराध्याय नमः । (३.२६.२८)
७३५. ॐ क्षेत्रज्ञाय नमः । (३.२६.७०)
प्रकृतिपुरुषविवेकः भक्तियोगेन प्रकृतेः तिरोधानञ्च
७३६. ॐ सत्यदृशे नमः । (३.२७.१३)
७३७. ॐ विनिद्राय नमः । (३.२७.१४)
७३८. ॐ निरहङ्क्रियाय नमः । (३.२७.१४)
७३९. ॐ स्वे महिम्नि स्थिताय नमः । (३.२७.२४)
७४०. ॐ कैवल्याय नमः । (३.२७.२८)
७४१. ॐ निश्रेयसाय नमः । (३.२७.२८)
भगवतः प्रत्यङ्गध्यानवर्णनम्
७४२. ॐ प्रसन्नवदनाम्भोजाय नमः । (३.२८.१३)
७४३. ॐ पत्मगर्भारुणेक्षणाय नमः । (३.२८.१३)
७४४. ॐ नीलोत्पलदलश्यामाय नमः । (३.२८.१३)
७४५. ॐ लसत्पङ्कजकिञ्जल्क्कपीतकौशेयवाससे नमः । (३.२८.१४)
७४६. ॐ श्रीवत्सवक्षसम्भ्राजत्कौस्तुभामुक्तकन्धराय नमः । (३.२८.१४)
७४७. ॐ मत्तद्विरेफकलयापरीतवनमालया विभूषिताय नमः । (३.२८.१५)
७४८. ॐ परार्ध्यहारवलयकिरीटाङ्गदनूपुरधारिणे नमः । (३.२८.१५)
७४९. ॐ काञ्चीगुणोल्लसच्छ्रोणये नमः । (३.२८.१६)
७५०. ॐ भकतानां हृदयाम्भोजविष्टराय नमः । (३.२८.१६)
७५१. ॐ दर्शनीयतमाय नमः । (३.२८.१६)
७५२. ॐ भृत्यानुग्रहकातराय नमः । (३.२८.१७)
७५३. ॐ पुण्यश्लोकयशस्कराय नमः । (३.२८.१८)
७५४. ॐ प्रेक्षणीयेहिताय नमः । (३.२८.१९)
७५५. ॐ वज्राङ्कुशध्वजसरोरुहलाञ्छनाढ्यचरणारविन्दाय नमः । (३.२८.२१)
७५६. ॐ महधृदयान्धकाराहतोत्तुङ्गरक्तविलसन्नखचक्रवालज्योत्स्नया भासमानाय नमः । (३.२८.२१)
७५७. ॐ ध्यातुर्मनःशमलशैलनिसृष्टवज्रचरणारविन्दाय नमः । (३.२८.२२)
७५८. ॐ अभवाय नमः । (३.२८.२३)
७५९. ॐ अधिशोभमानाभ्यां ओजोनिधिभ्यां अतसिकाकुसुमावभासाभ्यां ऊरूयुताय नमः । (३.२८.२४)
७६०. ॐ व्यालम्बिपीतवरवाससि वर्तमानकाञ्चीकलापपरिरम्भि नितम्बबिम्बाय नमः । (३.२८.२४)
७६१. ॐ भुवनकोशगुहोदराय नमः । (३.२८.२५)
७६२. ॐ विशदहारमयूखगौरहरिन्मणिवृषस्तनाय नमः । (३.२८.२५)
७६३. ॐ पुंसां मनोनयननिर्वृतिमादधानाय नमः । (३.२८.२६)
७६४. ॐ अखिललोकनमस्कृताय नमः । (३.२८.२६)
७६५. ॐ भृत्यानुकम्पितधिया गृहीतमूर्तये नमः । (३.२८.२९)
७६६. ॐ विस्फुरन्मकरकुण्डलवल्गितेन विद्योतितामलकपोलोदारनासवदनारविन्दाय नमः । (३.२८.२९)
७६७. ॐ श्रीनिकेताय नमः । (३.२८.३०)
७६८. ॐ कुटिलकुन्तलवृन्दजुष्टवदनाय नमः । (३.२८.३०)
७६९. ॐ मीनद्वयाश्रितमधिक्षिपदब्जनेत्राय नमः । (३.२८.३०)
७७०. ॐ उल्लसद्भ्रुवे नमः । (३.२८.३०)
७७१. ॐ तापत्रयोपशमनाय नमः । (३.२८.३१)
७७२. ॐ मकरध्वजस्य सम्मोहनाय स्वमाययारचित भ्रूमण्डलाय नमः । (३.२८.३२)
७७३. ॐ अवनताखिललोकतीव्रशोकाश्रुसागरविशोषणमत्युदारहासाननाय नमः । (३.२८.३२)
७७४. ॐ ध्यानायन बहुलाधरोष्ठभासायितद्विजकुन्दपङ्क्ति प्रहसिताननाय नमः । (३.२८.३३)
भक्तियोगरहस्यं कालप्रभाववर्णनञ्च
७७५. ॐ योगभास्कराय नमः । (३.२९.५)
७७६. ॐ सर्वगुहाशयाय नमः । (३.२९.११)
७७७. ॐ सर्वभूतेषु सदावस्थितभूतात्मने नमः । (३.२९.२१)
७७८. ॐ अखिलाश्रयाय नमः । (३.२९.३८)
७७९. ॐ आदिकृते नमः । (३.२९.४५)
जीवस्य देहप्राप्तिः गर्भस्थ जीवस्य भगवत्स्तुतिः जिवस्य क्लेशवर्णनञ्च
७८०. ॐ उपसन्नं जगदवितुमिच्छया आत्मनानातनवे नमः । (३.३१.१२)
७८१. ॐ अखण्डबोधाय नमः । (३.३१.१३)
७८२. ॐ आतप्यमान हृदयेऽवसिताय नमः । (३.३१.१३)
७८३. ॐ दीननाथाय नमः । (३.३१.१८)
भक्तियोगोत्कर्षवर्णनं देवहूत्याः भगवत्स्तुतिः कपिलस्य महाप्रस्थानं देवहूत्याः ब्रह्मभावप्राप्तिश्च
७८४. ॐ अनन्तासनाय नमः । (३.३२.४)
७८५. ॐ पुरुषर्षभाय नमः । (३.३२.१३)
७८६. ॐ ईश्वरमूर्तये नमः । (३.३२.१४)
७८७. ॐ भजनीयपदाम्बुजाय नमः । (३.३२.२२)
७८८. ॐ सदशेषबीजाय नमः । (३.३३.२)
७८९. ॐ भूतेन्द्रियार्थात्ममयवपुषे नमः । (३.३३.२)
७९०. ॐ आत्मेश्वराय नमः । (३.३३.३)
७९१. ॐ अतर्क्यसहस्रशक्तये नमः । (३.३३.३)
७९२. ॐ अङ्घ्रिपाय मायाशिशवे नमः । (३.३३.४)
७९३. ॐ स्वतेजसा ध्वस्तगुणप्रवाहाय नमः । (३.३३.८)
७९४. ॐ वेदगर्भाय नमः । (३.३३.८)
७९५. ॐ सिद्धचारणगन्धर्वैर्मुनिभिरप्सरोगणैः स्तूयमानाय नमः । (३.३३.३४)
७९६. ॐ साङ्ख्याचार्यैरभिष्टुताय नमः । (३.३३.३५)
७९७. ॐ सुपर्णकेतवे नमः । (३.३३.३७)
यज्ञदत्तात्रेयावतारौ
७९८. ॐ यज्ञस्वरूपधृचे नमः। (४.१.४)
दक्षजीवनं यज्ञसन्धानं देवानां विष्णुस्तुतिश्च
७९९. ॐ हिरण्यरशनाय नमः । (४.७.२०)
८००. ॐ अर्ककिरीटजुष्टाय नमः । (४.७.२०)
८०१. ॐ नीलालकभ्रमरमण्डितकुण्डलास्याय नमः । (४.७.२०)
८०२. ॐ कम्ब्वब्जचक्रशरचापगदासिचर्मधराय नमः । (४.७.२०)
८०३. ॐ हिरण्मयभुजाय नमः । (४.७.२०)
८०४. ॐ वक्षस्यधिश्रितवधूयुताय नमः । (४.७.२१)
८०५. ॐ पार्श्वभ्रमद्व्यजनचामरराजहंसाय नमः । (४.७.२१)
८०६. ॐ श्वेतातपत्रशशिनोपरिरज्यमानाय नमः । (४.७.२१)
८०७. ॐ कृतानुग्रहविग्रहाय नमः । (४.७.२४)
८०८. ॐ परमगुरवे नमः । (४.७.२५)
८०९. ॐ सुनन्दनन्दाद्यनुगैर्वृताय नमः । (४.७.२५)
८१०. ॐ स्वधाम्न्युपरताखिलबुद्ध्यवस्थाय नमः । (४.७.२६)
८११. ॐ अनञ्जनाय नमः । (४.७.२७)
८१२. ॐ शरणदाय नमः । (४.७.२८)
८१३. ॐ प्रणतात्मबन्धवे नमः । (४.७.३०)
८१४. ॐ ज्ञानस्य अर्थस्य गुणस्य चाश्रयाय नमः । (४.७.३१)
८१५. ॐ मायामयात् व्यतिरिक्ताय नमः । (४.७.३१)
८१६. ॐ विश्वभावनानन्दकरवपुषे नमः । (४.७.३२)
८१७. ॐ यज्ञात्मने नमः । (४.७.३३)
८१८. ॐ नलिनरुचदृशे नमः । (४.७.३३)
८१९. ॐ स्वसंस्थया विनिवर्तितभ्रमगुणात्मने नमः । (४.७.३९)
८२०. ॐ श्रितसत्वाय नमः । (४.७.४०)
८२१. ॐ धर्मादीनां सूतये नमः । (४.७.४०)
८२२. ॐ उरगेन्द्रेऽधिशयनाय नमः । (४.७.४२)
८२३. ॐ विमृशिताध्यात्मपदव्यै नमः । (४.७.४२)
८२४. ॐ त्रयीगात्राय नमः । (४.७.४६)
८२५. ॐ यज्ञक्रतवे नमः । (४.७.४६)
८२६. ॐ सर्वभागभुजे नमः । (४.७.४९)
८२७. ॐ स्वेनानुभावेन एवावाप्तराधसे नमः । (४.७.५७)
ध्रुवोपाख्यानं - ध्रुवस्य वनगमनं तस्य तपस्या च
८२८. ॐ जितात्मश्वसनाभिवन्द्याङ्घ्रिपद्माय नमः । (४.८.२०)
८२९. ॐ भृत्यवत्सलाय नमः । (४.८.२२)
८३०. ॐ ममुक्षुभिर्मृग्यपदाब्जपद्धतये नमः । (४.८.२२)
८३१. ॐ पद्मपलाशलोचनाय नमः । (४.८.२३)
८३२. ॐ चारुकपोलाय नमः । (४.८.४५)
८३३. ॐ सुरसुन्दराय नमः । (४.८.४५)
८३४. ॐ स्मयमानाय नमः । (४.८.५१)
८३५. ॐ प्रसन्नवदनेक्षणाय नमः । (४.८.४५)
८३६. ॐ घनश्यामाय नमः । (४.८.४७)
८३७. ॐ शङ्खचक्रगदापद्मैरभिव्यक्तचतुर्भुजाय नमः । (४.८.४७)
८३८. ॐ केयूरवलयान्विताय नमः । (४.८.४८)
८३९. ॐ कौस्तुभाभरणग्रीवाय नमः । (४.८.४८)
८४०. ॐ पीतकौशेयवाससे नमः । (४.८.४८)
८४१. ॐ काञ्चीकलापपर्यस्तलसत्काञ्चननूपुराय नमः । (४.८.४९)
८४२. ॐ दर्शनीयतमाय नमः । (४.८.४९)
८४३. ॐ मनोनयनवर्धनाय नमः । (४.८.४९)
८४४. ॐ नखमणिश्रेण्या विलसद्भ्यां पद्भ्यां नमः । (४.८.५०)
८४५. ॐ हृत्पद्मकर्णिकाधिष्ण्यमाक्रम्यात्मन्यवस्थिताय नमः । (४.८.५१)
८४६. ॐ वरदर्षभाय नमः । (४.८.५१)
८४७. ॐ ॐ नमो भगवते वासुदेवाय (४.८.५४)
८४८. ॐ चराचरस्याखिलसत्वधाम्ने नमः । (४.८.८१)
ध्रुवस्य भगवद्दर्शनं भगवत्सुतिः वरप्राप्तिश्च
८४९. ॐ सर्वस्य हृद्यवस्थिताय नमः । (४.९.४)
८५०. ॐ अखिलशक्तिधराय नमः । (४.९.६)
८५१. ॐ आर्तबन्धवे नमः । (४.९.८)
८५२. ॐ अपवर्ग्यशरणाय नमः । (४.९.८)
८५३. ॐ नित्यमुक्तपरिशुद्धविबुद्धात्मने नमः । (४.९.१५)
८५४. ॐ विश्वभवाय नमः । (४.९.१६)
८५५. ॐ अविकाराय नमः । (४.९.१६)
८५६. ॐ आर्याय नमः । (४.९.१७)
८५७. ॐ दीनानुग्रहकातराय नमः । (४.९.१७)
८५८. ॐ सत्याशिषे नमः । (४.९.१७)
८५९. ॐ पुरुषार्थमूर्तये नमः । (४.९.१७)
८६०. ॐ भृत्यानुरक्ताय नमः । (४.९.१८)
८६१. ॐ सर्वलोकनमस्कृताय नमः । (४.९.२५)
८६२. ॐ गरुडध्वजाय नमः । (४.९.२६)
८६३. ॐ मायाविने नमः । (४.९.२८)
८६४. ॐ मुक्तिपतये नमः । (४.९.२९)
८६५. ॐ प्रणतार्तिहन्त्रे नमः । (४.९.५२)
यक्षेण सहोदरस्य हननवार्तां श्रुत्वा ध्रुवस्य यक्षयुद्धं मनुसान्त्वनं युद्धविरामश्च
८६६. ॐ अवनतार्तिहराय नमः । (४.१०.३०)
८६७. ॐ निर्गुणपुरुषर्षभाय नमः । (४.११.१७)
८६८. ॐ कालशक्त्या विभक्तवीर्याय नमः । (४.११.१८)
८६९. ॐ अन्तकराय नमः । (४.११.१९)
८७०. ॐ नानाशक्त्युदयाय नमः । (४.११.२३)
८७१. ॐ भूतात्मने नमः । (४.११.२६)
८७२. ॐ भूतेशाय नमः । (४.११.२६)
८७३. ॐ मुक्तविग्रहाय नमः । (४.११.२९)
८७४. ॐ अक्षराय नमः । (४.११.२९)
८७५. ॐ आनन्दमात्राय नमः । (४.११.३०)
८७६. ॐ उपपन्नसमस्तशक्तये नमः । (४.११.३०)
ध्रुवाय कुबेरवरदानं ध्रुवस्य मोक्षप्राप्तिश्च
८७७. ॐ सर्वभूतात्मविग्रहाय नमः । (४.१२.५)
८७८. ॐ भजनीयाङ्घ्रये नमः । (४.१२.६)
८७९. ॐ भवच्छिदे नमः । (४.१२.६)
८८०. ॐ अम्बुजनाभाय नमः । (४.१२.७)
८८१. ॐ दीनवत्सलाय नमः । (४.१२.१२)
८८२. ॐ धर्मसेतूनां गोप्त्रे नमः । (४.१२.१२)
८८३. ॐ पुष्करनाभाय नमः । (४.१२.२२)
८८४. ॐ जगतां वन्द्याय नमः । (४.१२.२६)
८८५. ॐ उत्तमश्लोकमौलिने नमः । (४.१२.२७)
ध्रुववंशवर्णनं तस्मिन् वंशे अङ्गपुत्रस्य क्रूरवेनस्य जननं अङ्गस्य राज्यपरित्यागश्च
८८६. ॐ प्रत्यस्तमितविग्रहाय नमः । (४.१३.८)
८८७. ॐ अवबोधरसैकात्म्यानुसन्ततानन्दाय नमः । (४.१३.८)
८८८. ॐ अव्यवच्छिन्नयोगाग्निदग्धकर्ममलाश्रयस्वरूपाय नमः । (४.१३.९)
८८९. ॐ पृथवे नमः । (४.१३.२०)
८९०. ॐ यज्ञभुजे नमः । (४.१३.३२)
८९१. ॐ निगूढाय नमः । (४.१३.४८)
ऋषिभिः वेनस्य वधः वेनस्य ऊरोः निषादोत्पत्तिश्च
८९२. ॐ जगतां ईश्वरेश्वराय नमः । (४.१४.२०)
८९३. ॐ सर्वलोकामरयज्ञसङ्ग्रहाय नमः । (४.१४.२१)
८९४. ॐ त्रयीमयाय नमः । (४.१४.२१)
८९५. ॐ द्रव्यमयाय नमः । (४.१४.२१)
८९६. ॐ तपोमयाय नमः । (४.१४.२१)
८९७. ॐ सर्वदेवमयाय नमः । (४.१४.२७)
८९८. ॐ अधियज्ञपतये नमः । (४.१४.३२)
पृथोः सार्चिषः जननं पृथोः राज्याभिषेकः पृथुमहाराजस्तुतिश्च
८९९. ॐ शास्त्रे नमः । (४.१६.४)
९००. ॐ वदनामृतमूर्तये नमः । (४.१६.९)
९०१. ॐ अनन्तमाहात्म्यगुणैकधाम्ने नमः । (४.१६.१०)
९०२. ॐ सर्वभूतानां शरण्याय मानदाय च नमः । (४.१६.१६)
९०३. ॐ ब्रह्मवादिनां किङ्कराय नमः । (४.१६.१७)
९०४. ॐ देहिनां आत्मवत् प्रेष्ठाय नमः । (४.१६.१८)
९०५. ॐ सुहृदां नन्दिवर्धनाय नमः । (४.१६.१८)
९०६. ॐ मुक्तसङ्गप्रसङ्गाय नमः । (४.१६.१८)
९०७. ॐ असाधुषु दण्डपाणये नमः । (४.१६.१८)
९०८. ॐ कलयावतीर्णाय नमः । (४.१६.१९)
९०९. ॐ एकवीराय नमः । (४.१६.२०)
९१०. ॐ नरदेवनाथाय नमः । (४.१६.२०)
९११. ॐ आदिराज्ञे नमः । (४.१६.२१)
९१२. ॐ अधिराजाय नमः । (४.१६.२२)
९१३. ॐ प्रगीयमानमहानुभावाय नमः । (४.१६.२७)
९१४. ॐ सुरासुरेन्द्रैः उपगीयमानाय नमः । (४.१६.२७)
९१५. ॐ स्वतेजसोत्पाटितलोकशल्याय नमः । (४.१६.२७)
९१६. ॐ अप्रतिरुद्धचक्राय नमः । (४.१६.२७)
बहुजनक्षुत्परिहारार्थं पृथोः भूभीषणं त्रस्तक्षितिना कृतः पृथुस्तुतिश्च
९१७. ॐ वैन्याय नमः । (४.१७.७)
९१८. ॐ नरदेवदेवाय नमः । (४.१७.११)
९१९. ॐ महाभागाय नमः । (४.१७.१८)
९२०. ॐ आपन्नवत्सलाय नमः । (४.१७.१८)
९२१. ॐ मायया विन्यस्तनानातनवे नमः । (४.१७.२९)
९२२. ॐ अगुणात्मने नमः । (४.१७.२९)
९२३. ॐ निर्धुतद्रव्यक्रियाकारकविभ्रमोर्मये नमः । (४.१७.२९)
९२४. ॐ स्वराजे नमः । (४.१७.३०)
९२५. ॐ समुन्नद्धनिरुद्धशक्तये नमः । (४.१७.३३)
९२६. ॐ वीरमूर्तये नमः । (४.१७.३५)
९२७. ॐ उग्रशराय नमः । (४.१७.३५)
९२८. ॐ वीरयशस्कराय नमः । (४.१७.३६)
भूमीदेव्याः निर्देशानुसरणं पृथुना कृतं भूदोहनं
९२९. ॐ अभिभुवे नमः । (४.१८.२)
९३०. ॐ विशां पतये नमः । (४.१८.६)
९३१. ॐ महाबाहवे नमः । (४.१८.१०)
९३२. ॐ भूपतये नमः । (४.१८.१२)
९३३. ॐ महीपतये नमः । (४.१८.२८)
यागविघ्नकृतेन्द्रवधोद्यमः ब्रह्मसान्त्वनं पृथोः यज्ञविरामः भगवद्दर्शनं भगवत्पृथुसंवादश्च
९३४. ॐ सर्वलोकगुरवे नमः । (४.१९.३)
९३५. ॐ गन्धर्वैर्मुनिभिरप्सरोगणैश्चोपगीयमानाय नमः । (४.१९.४)
९३६. ॐ अधोक्षजेशाय नमः । (४.१९.१०)
९३७. ॐ यजुष्पतये नमः । (४.१९.११)
९३८. ॐ गुणाश्रयाय नमः । (४.२०.७)
९३९. ॐ सर्वगाय नमः । (४.२०.७)
९४०. ॐ साक्षिणे नमः । (४.२०.७)
९४१. ॐ निरात्मने नमः । (४.२०.७)
९४२. ॐ आत्मनः परस्मै नमः । (४.२०.७)
९४३. ॐ पृथुनोपहृतार्हणाय नमः । (४.२०.१९)
९४४. ॐ पृथुना गृहीतचरणाम्बुजाय नमः । (४.२०.१९)
९४५. ॐ सतां सुहृदे नमः । (४.२०.२०)
९४६. ॐ पत्मपलाशाक्षाय नमः । (४.२०.२०)
९४७. ॐ वरदेश्वराय नमः । (४.२०.२३)
९४८. ॐ अखिलपुरुषोत्तमाय नमः । (४.२०.२७)
९४९. ॐ व्युदस्तमायागुणविभ्रमोदयाय नमः । (४.२०.२९)
९५०. ॐ विश्वदृशे नमः । (४.२०.३२)
प्रजानां सदसि पृथोः भगवद्धर्मोपदेशः
९५१. ॐ प्रियवरप्रदाय नमः । (४.२१.६)
९५२. ॐ महत्तमाय नमः । (४.२१.७)
९५३. ॐ अनवद्यचेष्टिताय नमः । (४.२१.७)
९५४. ॐ लब्धाशेषसुरार्हणाय नमः । (४.२१.९)
९५५. ॐ सर्वत्रास्खलितादेशाय नमः । (४.२१.१२)
९५६. ॐ सप्तद्वीपैकदण्डधृचे नमः । (४.२१.१२)
९५७. ॐ प्रांशवे नमः । (४.२१.१५)
९५८. ॐ पीनायतभुजाय नमः । (४.२१.१५)
९५९. ॐ गौराय नमः । (४.२१.१५)
९६०. ॐ कञ्जारुणेक्षणाय नमः । (४.२१.१५)
९६१. ॐ सुमुखाय नमः । (४.२१.१५)
९६२. ॐ सौम्याय नमः । (४.२१.१५)
९६३. ॐ पीनांसाय नमः । (४.२१.१५)
९६४. ॐ सुद्विजस्मिताय नमः । (४.२१.१५)
९६५. ॐ व्यूढवक्षसे नमः । (४.२१.१६)
९६६. ॐ बृहच्छ्रोणये नमः । (४.२१.१६)
९६७. ॐ वलिवल्गुदलोदराय नमः । (४.२१.१६)
९६८. ॐ आवर्तनाभये नमः । (४.२१.१६)
९६९. ॐ ओजस्विने नमः । (४.२१.१६)
९७०. ॐ काञ्चनोरवे नमः । (४.२१.१६)
९७१. ॐ उदग्रपादाय नमः । (४.२१.१६)
९७२. ॐ सूक्ष्मवक्रासितस्निग्धमूर्धजाय नमः । (४.२१.१७)
९७३. ॐ कम्बुकन्धराय नमः । (४.२१.१७)
९७४. ॐ महाधने दुकूलाग्र्ये परिधायोपवीयाय विलसते नमः । (४.२१.१७)
९७५. ॐ व्यञ्जिताशेषगात्रश्रिये नमः । (४.२१.१८)
९७६. ॐ न्यस्तभूषणाय नमः । (४.२१.१८)
९७७. ॐ कृष्णाजिनधराय नमः । (४.२१.१८)
९७८. ॐ कुशपाणये नमः । (४.२१.१८)
९७९. ॐ शिशिरस्निग्धताराक्षाय नमः । (४.२१.१८)
९८०. ॐ उर्वीशाय नमः । (४.२१.१९)
९८१. ॐ दण्डधराय नमः । (४.२१.२१)
९८२. ॐ कामदुघाङ्घ्रिपङ्कजाय नमः । (४.२१.३२)
९८३. ॐ विशुद्धविज्ञानघनाय नमः । (४.२१.३३)
९८४. ॐ अशेषगुहाशयाय नमः । (४.२१.३८)
९८५. ॐ विप्रप्रियाय नमः । (४.२१.३८)
९८६. ॐ पारमहंस्यपर्यगवे नमः । (४.२१.४०)
९८७. ॐ सनातनाय नमः । (४.२१.४१)
९८८. ॐ विवृद्धसत्वाय नमः । (४.२१.५१)
९८९. ॐ महीयसे नमः । (४.२१.५१)
पृथुमहाराज्ञे सनकमहर्षिणा कृतं ज्ञानोपदेशनं
९९०. ॐ सनकादीनां पादशौचसलिलैर्मार्जितालकाय नमः । (४.२२.५)
९९१. ॐ आत्मवतामात्मने नमः । (४.२२.१६)
९९२. ॐ सर्वभूतहितात्मने नमः । (४.२२.१८)
९९३. ॐ पुण्यश्रवाय नमः । (४.२२.२२)
९९४. ॐ जगतां तस्थुषाञ्च क्षेत्रवित्तपतये नमः । (४.२२.३७)
९९५. ॐ नित्यमुक्तपरिशुद्धविबुद्धाय नमः । (४.२२.३८)
९९६. ॐ आर्तानुकम्पिने नमः । (४.२२.४२)
९९७. ॐ सतां रामाय नमः । (४.२२.६३)
पृथोः वनगमनं देहत्यागः सार्चिषः वैकुण्ठप्राप्तिश्च
९९८. ॐ ध्वस्तकर्मामलाशयाय नमः । (४.२३.८)
९९९. ॐ सन्निरुद्धषड्वर्गच्छिन्नबन्धनाय नमः । (४.२३.८)
१०००. ॐ परिकर्मशुद्धसत्वात्मने नमः । (४.२३.११)
१००१. ॐ छिन्नान्यधिये नमः । (४.२३.१२)
१००२. ॐ अधिगतात्मगतये नमः । (४.२३.१२)
१००३. ॐ वीरप्रवराय नमः । (४.२३.१३)
१००४. ॐ भवसिन्धुपोतपादाय नमः । (४.२३.३९)
प्रचेतसां रुद्रदर्शनं रुद्रगीतोपदेशश्च
१००५. ॐ सर्वस्मै नमः । (४.२४.३३)
१००६. ॐ भूतसूक्ष्मेन्द्रियात्मने नमः । (४.२४.३४)
१००७. ॐ स्वरोचिषे नमः । (४.२४.३४)
१००८. ॐ सूक्ष्माय नमः । (४.२४.३५)
१००९. ॐ विश्वप्रबोधाय नमः । (४.२४.३५)
१०१०. ॐ अन्तरात्मने नमः । (४.२४.३५)
१०११. ॐ हृषीकेशेन्द्रियात्मने नमः । (४.२४.३६)
१०१२. ॐ परमहंसाय नमः । (४.२४.३६)
१०१३. ॐ पूर्णाय नमः । (४.२४.३६)
१०१४. ॐ निभृतात्मने नमः । (४.२४.३६)
१०१५. ॐ शुचिषदे नमः । (४.२४.३६)
१०१६. ॐ स्वर्गापवर्गद्वाराय नमः । (४.२४.३६)
१०१७. ॐ हिरण्यवीर्याय नमः । (४.२४.३७)
१०१८. ॐ चातुर्होत्राय नमः । (४.२४.३७)
१०१९. ॐ तन्तवे नमः । (४.२४.३७)
१०२०. ॐ ऊर्ज्जे नमः । (४.२४.३७)
१०२१. ॐ इषे नमः । (४.२४.३७)
१०२२. ॐ यज्ञरेतसे नमः । (४.२४.३७)
१०२३. ॐ त्रय्याः पतये नमः । (४.२४.३७)
१०२४. ॐ जीवानां तृप्तिदाय नमः । (४.२४.३८)
१०२५. ॐ सर्वरसात्मने नमः । (४.२४.३८)
१०२६. ॐ सर्वसत्वात्मदेहाय नमः । (४.२४.३८)
१०२७. ॐ स्थवीयसे नमः । (४.२४.३८)
१०२८. ॐ त्रैलोक्यपालाय नमः । (४.२४.३९)
१०२९. ॐ सह ओजोबलाय नमः । (४.२४.३९)
१०३०. ॐ अर्थलिङ्गाय नमः । (४.२४.३९)
१०३१. ॐ नभसे नमः । (४.२४.३९)
१०३२. ॐ अन्तर्बहिरात्मने नमः । (४.२४.३९)
१०३३. ॐ पुण्याय नमः । (४.२४.४०)
१०३४. ॐ भूरिवर्चसे नमः । (४.२४.४०)
१०३५. ॐ प्रवृत्ताय नमः । (४.२४.४०)
१०३६. ॐ निवृत्ताय नमः । (४.२४.४०)
१०३७. ॐ कर्मणे नमः । (४.२४.४०)
१०३८. ॐ पितृदेवाय नमः । (४.२४.४०)
१०३९. ॐ अधर्मविपाकाय दुःखदाय मृत्यवे नमः । (४.२४.४१)
१०४०. ॐ आशिषां कारणात्मने नमः । (४.२४.४१)
१०४१. ॐ मनवे नमः । (४.२४.४१)
१०४२. ॐ बृहते धर्माय नमः । (४.२४.४२)
१०४३. ॐ अकुण्ठमेधसे नमः । (४.२४.४२)
१०४४. ॐ साङ्ख्ययोगेश्वराय नमः । (४.२४.४२)
१०४५. ॐ शक्तित्रयसमेताय नमः । (४.२४.४३)
१०४६. ॐ मीढुषे नमः । (४.२४.४३)
१०४७. ॐ अहङ्कृतात्मने नमः । (४.२४.४३)
१०४८. ॐ चेत आकूतिरूपाय नमः । (४.२४.४३)
१०४९. ॐ वाचो विभूतये नमः । (४.२४.४३)
१०५०. ॐ भागवतार्चिताय नमः । (४.२४.४४)
१०५१. ॐ स्वानां प्रियतमाय नमः । (४.२४.४४)
१०५२. ॐ सर्वेन्द्रियगुणाञ्जनरूपाय नमः । (४.२४.४४)
१०५३. ॐ स्निग्धप्रावृड्घनश्यामाय नमः । (४.२४.४५)
१०५४. ॐ सर्वसौन्दर्यसङ्ग्रहाय नमः । (४.२४.४५)
१०५५. ॐ चार्वायतचतुर्बाहवे नमः । (४.२४.४५)
१०५६. ॐ सुजातरुचिराननाय नमः । (४.२४.४५)
१०५७. ॐ पद्मकोशपलाशाक्षाय नमः । (४.२४.४६)
१०५८. ॐ सुन्दरभ्रूनासिकाय नमः । (४.२४.४६)
१०५९. ॐ सुद्विजाय नमः । (४.२४.४६)
१०६०. ॐ सुकपोलास्याय नमः । (४.२४.४६)
१०६१. ॐ समकर्णविभूषणाय नमः । (४.२४.४६)
१०६२. ॐ प्रीतिप्रहसितापाङ्गाय नमः । (४.२४.४७)
१०६३. ॐ अलकैरुपशोभिताय नमः । (४.२४.४७)
१०६४. ॐ लसत्पङ्कजकिञ्जल्कदुकूलाय नमः । (४.२४.४७)
१०६५. ॐ मृष्टकुण्डलाय नमः । (४.२४.४७)
१०६६. ॐ स्फुरत्किरीटवलयहारनूपुरमेखलाय नमः । (४.२४.४८)
१०६७. ॐ शङ्खचक्रगदापद्ममालार्द्धिमत्मणिधारिणे नमः । (४.२४.४८)
१०६८. ॐ सिंहस्कन्धत्विषा बिभ्रत् सौभगग्रीवकौस्तुभाय नमः । (४.२४.४९)
१०६९. ॐ श्रियोल्लसत् आक्षिप्तनिकषाश्मोरसे नमः । (४.२४.४९)
१०७०. ॐ नाभ्यावर्तगभीरया विश्वं प्रतिसङ्क्रामयते नमः । (४.२४.५०)
१०७१. ॐ श्यामश्रोण्यधिरोचिष्णुदुकूलस्वर्णमेखलाय नमः । (४.२४.५१)
१०७२. ॐ समचार्वङ्घ्रिजङ्घोरुनिम्नजानुसुदर्शनाय नमः । (४.२४.५१)
१०७३. ॐ अपास्तसाध्वसस्वीयपदाय नमः । (४.२४.५२)
१०७४. ॐ तमोजुषां मार्गगुरवे नमः । (४.२४.५२)
१०७५. ॐ आत्मशुद्धिमभीप्सतामनुध्येयरूपाय नमः । (४.२४.५३)
१०७६. ॐ स्वाराज्यस्याप्यभिमताय नमः । (४.२४.५४)
१०७७. ॐ भक्तिमतां लभ्याय नमः । (४.२४.५४)
१०७८. ॐ आत्मविद्गतये नमः । (४.२४.५४)
१०७९. ॐ अनघाङ्घ्रये नमः । (४.२४.५८)
१०८०. ॐ परस्मै ज्योतिषे नमः । (४.२४.६०)
१०८१. ॐ सुप्तशक्तये नमः । (४.२४.६३)
१०८२. ॐ अनुमेयतत्वाय नमः । (४.२४.६५)
१०८३. ॐ अतिचण्डवेगाय नमः । (४.२४.६५)
१०८४. ॐ अप्रमत्ताय नमः । (४.२४.६६)
१०८५. ॐ विपश्चितां अकुतश्चिद्भया गत्यै नमः । (४.२४.६८)
१०८६. ॐ आत्मस्थाय नमः । (४.२४.७०)
१०८७. ॐ सर्वभूतेष्ववस्थिताय नमः । (४.२४.७०)
पुरञ्जनोपाख्यानम्
१०८८. ॐ अविज्ञातनाम्ने नमः । (४.२५.१०)
१०८९. ॐ मानसहंसाय नमः । (४.२८.६४)
१०९०. ॐ पुरुषस्य सख्ये नमः । (४.२९.३)
१०९१. ॐ परस्मै गुरवे नमः । (४.२९.२६)
१०९२. ॐ देहभृतां आत्मने नमः । (४.२९.५०)
प्रचेतसां भगवद्दर्शनं वरप्राप्तिः तैः मारिषायां दक्षप्रजननं तेषां मोक्षप्राप्तिश्च
१०९३. ॐ सुपर्णस्कन्धमारूढाय नमः । (४.३०.५)
१०९४. ॐ मणिग्रीवाय नमः । (४.३०.५)
१०९५. ॐ पीतवाससे नमः । (४.३०.५)
१०९६. ॐ गरुडकिन्नरगीतकीर्तये नमः । (४.३०.६)
१०९७. ॐ पीनायताष्टभुजमण्डलाय नमः । (४.३०.७)
१०९८. ॐ क्लेशविनाशनाय नमः । (४.३०.२२)
१०९९. ॐ निरूपितोदारगुणाह्वयाय नमः । (४.३०.२२)
११००. ॐ मनोवचोवेगपुरोजवाय नमः । (४.३०.२२)
११०१. ॐ सर्वाक्षमार्गैरगताध्वने नमः । (४.३०.२२)
११०२. ॐ मनस्यपार्थविलसद्द्वयाय नमः । (४.३०.२३)
११०३. ॐ जगत्स्थानलयोदयेषु गृहीतमायागुणविग्रहाय नमः । (४.३०.२३)
११०४. ॐ विशुद्धसत्वाय नमः । (४.३०.२४)
११०५. ॐ हरिमेधसे नमः । (४.३०.२४)
११०६. ॐ सर्वसात्वतां प्रभवे नमः । (४.३०.२४)
११०७. ॐ कमलकिञ्जल्कपिशङ्गामलवाससे नमः । (४.३०.२६)
११०८. ॐ सर्वभूतनिवासाय नमः । (४.३०.२६)
११०९. ॐ अशेषक्लेशसङ्क्षयरूपाय नमः । (४.३०.२७)
१११०. ॐ अभद्ररन्धनाय नमः । (४.३०.२८)
११११. ॐ जगतः पतये नमः । (४.३०.३०)
१११२. ॐ अपवर्गगुरवे नमः । (४.३०.३०)
१११३. ॐ न्यासिनां परमायै गतये नमः । (४.३०.३६)
१११४. ॐ सर्वभूतात्मवेधसे नमः । (४.३१.२)
१११५. ॐ आत्मप्रदाय नमः । (४.३१.१२)
१११६. ॐ सर्वेषां श्रेयसामवधये नमः । (४.३१.१३)
१११७. ॐ सर्वेषां भूतानामात्मने नमः । (४.३१.१३)
१११८. ॐ आत्मनः प्रियाय नमः । (४.३१.१३)
१११९. ॐ अशेषदेहिनामात्मने नमः । (४.३१.१८)
११२०. ॐ स्वतेजसा ध्वस्तगुणप्रवाहाय नमः । (४.३१.१८)
११२१. ॐ निजजनवशगताय नमः । (४.३१.२०)
११२२. ॐ लोकमलापहयशसे नमः । (४.३१.२४)
११२३. ॐ अकिञ्चनगाय नमः । (४.३१.२९)
प्रियव्रतचरितम्
११२४. ॐ अब्जनाभाङ्घ्रिसरोजकोशदुर्गाय नमः । (५.१.१९)
११२५. ॐ त्रिभुवनगुरवे नमः । (५.१.२०)
११२६. ॐ अखिलजगद्बन्धध्वंसनपरानुभावाय नमः । (५.१.२३)
११२७. ॐ सकलजीवनिकायावासाय नमः । (५.१.२७)
११२८. ॐ भीतानां शरणभूताय नमः । (५.१.२७)
११२९. ॐ भूतानामात्मभूताय नमः । (५.१.२७)
११३०. ॐ पुरुषानुजनप्रियाय नमः । (५.१.४१)
नाभिचरितं भगवद्सदृशपुत्रार्थं नाभेः यागाचरणं भगवतः ऋषभावतारञ्च
११३१. ॐ मनोनयनानन्दनावयवाय नमः । (५.३.२)
११३२. ॐ आविष्कृतभुजयुगलद्वयाय नमः । (५.३.३)
११३३. ॐ कपिशकौशेयाम्बरधराय नमः । (५.३.३)
११३४. ॐ उरसि विलसत्श्रीवत्सललामाय नमः । (५.३.३)
११३५. ॐ दरवरवनरुहवनमालाछूर्यमृतमणिगणादिभिरुपलक्षिताय नमः । (५.३.३)
११३६. ॐ स्फुटकिरणप्रवरमुकुटकुण्डलकटककटिसूत्रहारकेयूरनूपूराद्यङ्गभूषणविभूषिताय नमः । (५.३.३)
११३७. ॐ अर्हत्तमाय नमः । (५.३.४)
११३८. ॐ सकलजननिकायवृजिननिरसनशिवतमप्रवराय नमः । (५.३.५)
११३९. ॐ बोभूयमानाशेषपुरुषार्थस्वरूपाय नमः । (५.३.८)
११४०. ॐ अदभ्रकर्त्रे नमः । (५.३.१५)
११४१. ॐ अनिमिषर्षभाय नमः । (५.३.१६)
ऋषभचरितम् - स्वपुत्रेभ्यो ऋषभदेवस्य ज्ञानोपदेशः तस्य अवधूतपदप्राप्तिः देहत्यागश्च
११४२. ॐ ऋषभदेवाय नमः । (५.४.२)
११४३. ॐ केवलानन्दानुभवाय नमः । (५.४.१३)
११४४. ॐ द्विजदेवदेवाय नमः । (५.५.२२)
११४५. ॐ अतिसुकुमारकरचरणोरःस्थलविपुलबाह्वंसयुगलवदनाय नमः । (५.५.३१)
११४६. ॐ प्रकृतिसुन्दरस्वभावहाससुमुखाय नमः । (५.५.३१)
११४७. ॐ नवनलिनदलायमानशिशिरतारारुणरुचिरनयनाय नमः । (५.५.३१)
११४८. ॐ सुभगकपोलकर्णकण्ठनासाय नमः । (५.५.३१)
११४९. ॐ विगूढस्मितवदनमहोत्सवाय नमः । (५.५.३१)
११५०. ॐ कुटिलजटिलकपिशकेशभूरिभाराय नमः । (५.५.३१)
११५१. ॐ अवधूतमलिननिजशरीराय नमः । (५.५.३१)
११५२. ॐ कैवल्यपतये नमः । (५.५.३५)
११५३. ॐ अविरतपरममहानन्दानुभवाय नमः । (५.५.३५)
११५४. ॐ आत्मनि सर्वभूतानामात्मभूताय नमः । (५.५.३५)
११५५. ॐ अखिललोकपालललामाय नमः । (५.६.६)
११५६. ॐ विलक्षणैर्जडवदवधूतवेषभाषाचरितैरविलक्षितप्रभावाय नमः । (५.६.६)
११५७. ॐ मुक्तलिङ्गाय नमः । (५.६.७)
११५८. ॐ सकलवेदलोकदेवब्राह्मणगवां परमगुरवे नमः । (५.६.१६)
भरतोपाख्यानं - तस्य पुलहाश्रमप्रवेशः तत्र तीव्रतपस्या एणकुणकसङ्गेनागत तपभ्रंशः हरिणरूपे पुनर्जन्म तत्शरीरत्यागश्च
११५९. ॐ श्रीवत्सकौस्तुभवनमालारिदरगदादिभिरुपलक्षिताय नमः । (५.७.७)
११६०. ॐ कृपणजनवत्सलाय नमः । (५.८.२५)
११६१. ॐ विमुक्तसमस्तसङ्गाय नमः । (५.८.३०)
११६२. ॐ विविक्तपुण्यारण्यशरणाय नमः । (५.८.३०)
११६३. ॐ सर्वेषां आत्मनामात्मने नमः । (५.८.३०)
भरतस्य ब्राह्मणकुले जननं नरबलिवेद्यौ महाकाल्याविर्भावं क्रूरशूद्रात् तस्य रक्षणं रहूगणाय भरतोपदेशश्च
११६४. ॐ अरिवरायुधाय नमः । (५.९.२०)
११६५. ॐ आत्मतत्वविदां मुनीनां परमगुरवे नमः । (५.१०.१९)
११६६. ॐ ज्ञानकलावतीर्णाय नमः । (५.१०.१९)
११६७. ॐ योगेश्वराय नमः । (५.१०.१९)
११६८. ॐ स्वमाययात्मन्यवधीयमानाय नमः । (५.११.९)
११६९. ॐ आत्मन्यनुप्रविष्टाय नमः । (५.११.१४)
११७०. ॐ परमार्थाय नमः । (५.१२.११)
११७१. ॐ विशुद्धज्ञानाय नमः । (५.१२.११)
११७२. ॐ अबहिरनन्तराय नमः । (५.१२.११)
११७३. ॐ प्रशान्ताय नमः । (५.१२.११)
११७४. ॐ भगवच्छब्दसंज्ञाय नमः । (५.१२.११)
११७५. ॐ हरिगुरवे नमः । (५.१४.१)
११७६. ॐ कालचक्रनिजायुधाय नमः । (५.१४.२९)
११७७. ॐ साङ्ख्यशिरसे नमः । (५.१४.४५)
११७८. ॐ योगाय नमः । (५.१४.४५)
११७९. ॐ धर्मपतये नमः । (५.१४.४५)
११८०. ॐ विधिनैपुणाय नमः । (५.१४.४५)
११८१. ॐ प्रकृतीश्वराय नमः । (५.१४.४५)
भरतवंशवर्णनं भूगोलवर्णनं भागीरथीवर्णनं सङ्कर्षणस्तुतिश्च
११८२. ॐ महापुरुषाय नमः । (५.१५.४)
११८३. ॐ अध्वरात्मने नमः । (५.१५.१२)
११८४. ॐ साक्षात् यज्ञलिङ्गाय नमः । (५.१७.१)
११८५. ॐ सर्वगुणसङ्ख्यानाय नमः । (५.१७.१८)
११८६. ॐ भजन्याय नमः । (५.१७.१९)
११८७. ॐ कृत्स्नस्य भगस्य परायणाय नमः । (५.१७.१९)
११८८. ॐ भक्तेष्वलम्भावितभूतभावनाय नमः । (५.१७.१९)
११८९. ॐ अरणपादपङ्कजाय नमः । (५.१७.१९)
११९०. ॐ भवापहाय नमः । (५.१७.१९)
११९१. ॐ भवभावाय नमः । (५.१७.१९)
११९२. ॐ स्थितिजन्मसंयमाय नमः । (५.१७.२२)
११९३. ॐ त्रिभिर्विहीनाय नमः । (५.१७.२२)
११९४. ॐ गुणविग्रहाय नमः । (५.१७.२३)
११९५. ॐ विज्ञानधिष्ण्याय नमः । (५.१७.२३)
११९६. ॐ विलयोदयात्मने नमः । (५.१७.२५)
हयग्रीवस्तुतिः नरसिंहमूर्तिस्तुतिः रमापतिस्तुतिः महामत्स्यस्तुतिः कूर्ममूर्तिस्तुतिः यज्ञवराहस्तुतिश्च
११९७. ॐ धर्मायात्मविशोधनाय नमः । (५.१८.२)
११९८. ॐ अपावृताय नमः । (५.१८.५)
११९९. ॐ कार्यकारणाय नमः । (५.१८.५)
१२००. ॐ वस्तुतः व्यतिरिक्ताय नमः । (५.१८.५)
१२०१. ॐ नृतुरङ्गविग्रहाय नमः । (५.१८.६)
१२०२. ॐ अवितथेहिताय नमः । (५.१८.६)
१२०३. ॐ नरहरिरूपाय नमः । (५.१८.७)
१२०४. ॐ तेजस्तेजसे नमः । (५.१८.८)
१२०५. ॐ वज्रनखाय नमः । (५.१८.८)
१२०६. ॐ वज्रदंष्ट्राय नमः । (५.१८.८)
१२०७. ॐ शरीरिणां आत्मने नमः । (५.१८.१३)
१२०८. ॐ नृसिंहाय नमः । (५.१८.१४)
१२०९. ॐ सुललितगतिविलासविलसितरुचिरहासलेशावलोकाय नमः । (५.१८.१६)
१२१०. ॐ सुन्दरभ्रूमण्डलसुभगवदनारविन्दाय नमः । (५.१८.१६)
१२११. ॐ रमारमणाय नमः । (५.१८.१६)
१२१२. ॐ सर्वगुणविशेषैर्विलक्षितात्मने नमः । (५.१८.१८)
१२१३. ॐ आकूतीनां चित्तीनां चेतसां विशेषाणामधिपतये नमः । (५.१८.१८)
१२१४. ॐ षोडशकलाय नमः । (५.१८.१८)
१२१५. ॐ अन्नमयाय नमः । (५.१८.१८)
१२१६. ॐ अमृतमयाय नमः । (५.१८.१८)
१२१७. ॐ सर्वमयाय नमः । (५.१८.१८)
१२१८. ॐ सहसे नमः । (५.१८.१८)
१२१९. ॐ ओजसे नमः । (५.१८.१८)
१२२०. ॐ बलाय नमः । (५.१८.१८)
१२२१. ॐ कान्ताय नमः । (५.१८.१८)
१२२२. ॐ कामाय नमः । (५.१८.१८)
१२२३. ॐ मुख्यतमाय नमः । (५.१८.२५)
१२२४. ॐ प्राणाय नमः । (५.१८.२५)
१२२५. ॐ महामत्स्याय नमः । (५.१८.२५)
१२२६. ॐ अखिललोकपालकैरदृष्टरूपाय नमः । (५.१८.२५)
१२२७. ॐ उरुस्वनाय नमः । (५.१८.२६)
१२२८. ॐ जगत्प्राणगणात्मने नमः । (५.१८.२८)
१२२९. ॐ कूर्मतनवे नमः । (५.१८.२९)
१२३०. ॐ अकूपाराय नमः । (५.१८.३०)
१२३१. ॐ सर्वसत्वगुणविशेषणाय नमः । (५.१८.३०)
१२३२. ॐ अनुपलक्षितस्थानाय नमः । (५.१८.३०)
१२३३. ॐ वर्ष्मणे नमः । (५.१८.३०)
१२३४. ॐ अवस्थानाय नमः । (५.१८.३०)
१२३५. ॐ अव्यपदेशरूपिणे नमः । (५.१८.३१)
१२३६. ॐ निजमाययार्पितबहुरूपरूपिताय नमः । (५.१८.३१)
१२३७. ॐ अर्थस्वरूपाय नमः । (५.१८.३१)
१२३८. ॐ जरायुजं स्वेदजमण्डजोद्भिदं चराचरं देवर्षिपितृभूतमैन्द्रियं द्यौः खं क्षितिः शैलसरित्समुद्रद्वीपग्रहर्क्षेत्यभिधेयाय एकस्मै नमः । (५.१८.३२)
१२३९. ॐ साङ्ख्यनिदर्शनाय नमः । (५.१८.३३)
१२४०. ॐ कृतवराहरूपाय नमः । (५.१८.३४)
१२४१. ॐ मन्त्रतत्वलिङ्गाय नमः । (५.१८.३५)
१२४२. ॐ यज्ञक्रतवे नमः । (५.१८.३५)
१२४३. ॐ महाध्वरावयवाय नमः । (५.१८.३५)
१२४४. ॐ कर्मशुक्लाय नमः । (५.१८.३५)
१२४५. ॐ त्रियुगाय नमः । (५.१८.३५)
१२४६. ॐ क्रियार्थैः गूढाय नमः । (५.१८.३६)
१२४७. ॐ ईरितात्मने नमः । (५.१८.३६)
१२४८. ॐ द्रव्यक्रियाहेत्वयनेशकर्तृभिर्मायागुणैर्वस्तुनिरीक्षितात्मने नमः । (५.१८.३७)
१२४९. ॐ निरस्तमायाकृतये नमः । (५.१८.३७)
१२५०. ॐ गुणकर्मसाक्षिणे नमः । (५.१८.३८)
१२५१. ॐ जगदादिसूकराय नमः । (५.१८.३९)
श्रीरामस्तुतिः नरनारायणस्तुतिः भारतश्रेष्ठता उपद्वीपवर्णनञ्च
१२५२. ॐ सीताभिरामाय नमः । (५.१९.१)
१२५३. ॐ लक्ष्मणाग्रजाय नमः । (५.१९.१)
१२५४. ॐ आर्यलक्षणशीलव्रताय नमः । (५.१९.३)
१२५५. ॐ उपशिक्षितात्मने नमः । (५.१९.३)
१२५६. ॐ उपासितलोकाय नमः । (५.१९.३)
१२५७. ॐ साधुवादनिकषाय नमः । (५.१९.३)
१२५८. ॐ ब्रह्मण्यदेवाय नमः । (५.१९.३)
१२५९. ॐ महाराज्ञे नमः । (५.१९.३)
१२६०. ॐ विशुद्धानुभवमात्राय नमः । (५.१९.४)
१२६१. ॐ स्वतेजसा ध्वस्तगुणव्यवस्थाय नमः । (५.१९.४)
१२६२. ॐ अनामरूपाय नमः । (५.१९.४)
१२६३. ॐ सुधियोपलम्भनाय नमः । (५.१९.४)
१२६४. ॐ प्रत्यक्प्रशान्ताय नमः । (५.१९.४)
१२६५. ॐ रक्षोवधाय गृहीतमर्त्यावताराय नमः । (५.१९.५)
१२६६. ॐ सुहृत्तमाय नमः । (५.१९.६)
१२६७. ॐ मनुजाकृतये हरये नमः । (५.१९.८)
१२६८. ॐ सुकृतज्ञाय नमः । (५.१९.८)
१२६९. ॐ उत्तमाय नमः । (५.१९.८)
१२७०. ॐ नरनारायणाख्याय नमः । (५.१९.९)
१२७१. ॐ आकल्पान्तमुपचितधर्मज्ञानवैराग्यैश्वर्योपशमोपरमात्मोपलम्भनतपस्विभ्यां नमः । (५.१९.९)
१२७२. ॐ उपशमशीलाय नमः । (५.१९.११)
१२७३. ॐ उपरतानात्म्याय नमः । (५.१९.११)
१२७४. ॐ ऋषिऋषभाय नमः । (५.१९.११)
१२७५. ॐ परमहंसपरमगुरवे नमः । (५.१९.११)
१२७६. ॐ असक्तविविक्तसाक्षिणे नमः । (५.१९.१२)
१२७७. ॐ अनात्म्याय नमः । (५.१९.२०)
१२७८. ॐ अनिरुक्ताय नमः । (५.१९.२०)
१२७९. ॐ अनिलयनाय नमः । (५.१९.२०)
१२८०. ॐ आशिषां प्रभवे नमः । (५.१९.२६)
प्लक्षादिद्वीपवर्णनं
१२८१. ॐ अन्तर्यामिणे नमः । (५.२०.२९)
१२८२. ॐ कर्ममयाय नमः । (५.२०.३४)
१२८३. ॐ एकान्ताय नमः । (५.२०.३४)
१२८४. ॐ ब्रह्मलिङ्गाय नमः । (५.२०.३४)
१२८५. ॐ अखिलजगद्गुरवे नमः । (५.२०.४०)
१२८६. ॐ महाविभूतिपतये नमः । (५.२०.४१)
१२८७. ॐ अन्तर्यामिणे नमः । (५.२०.४१)
१२८८. ॐ धर्मज्ञानवैराग्यैश्वर्याद्यष्टमहासिद्ध्युपलक्षणाय नमः । (५.२०.४१)
१२८९. ॐ विष्वक् सेनादिभिः स्वपार्षदप्रवरैः परिवारिताय नमः । (५.२०.४१)
१२९०. ॐ निजवरायुधोभशोभितभुजदण्डाय नमः । (५.२०.४१)
शिशुमारचक्रवर्णनम्
१२९१. ॐ सर्वेषां ज्योतिर्गणानामवष्टम्भाय नमः । (५.२३.२)
१२९२. ॐ अव्यक्तरंहसे नमः । (५.२३.२)
१२९३. ॐ सर्वदेवतामयाय नमः । (५.२३.८)
१२९४. ॐ ज्योतिर्लोकाय नमः । (५.२३.८)
१२९५. ॐ कालायनाय नमः । (५.२३.८)
१२९६. ॐ अनिमिषां पतये नमः । (५.२३.८)
१२९७. ॐ गृहर्क्षतारामयाय नमः । (५.२३.९)
१२९८. ॐ मन्त्रकृतां पापापहाय नमः । (५.२३.९)
१२९९. ॐ आधिदैविकाय नमः । (५.२३.९)
अतलादिसप्तभूविवरणं सङ्कर्षणसंस्थितिः तदीयस्तवनञ्च
१३००. ॐ सुदर्शनाय नमः । (५.२४.३)
१३०१. ॐ वटुवामनाय नमः । (५.२४.१८)
१३०२. ॐ अशेषजीवनिकायानां जीवभूतात्मभूताय नमः । (५.२४.१९)
१३०३. ॐ तीर्थतमाय नमः । (५.२४.१९)
१३०४. ॐ सर्वजीवनियन्त्रे नमः । (५.२४.१९)
१३०५. ॐ आत्मनि आत्मतया आत्मदाय नमः । (५.२४.२१)
१३०६. ॐ अनन्तमूर्तये नमः । (५.२५.२)
१३०७. ॐ चार्वङ्गवलयविलसितविशदविपुलधवलरजतस्तम्बभुजाय नमः । (५.२५.५)
१३०८. ॐ करुणावलोकनयनवदनारविन्दाय नमः । (५.२५.५)
१३०९. ॐ एककुण्डलधराय नमः । (५.२५.७)
१३१०. ॐ हलककुदिकृतसुभगसुन्दरभुजाय नमः । (५.२५.७)
१३११. ॐ उदारलीलाय नमः । (५.२५.७)
१३१२. ॐ अकृताय नमः । (५.२५.९)
१३१३. ॐ ध्रुवाय नमः । (५.२५.९)
१३१४. ॐ मृगपतये नमः । (५.२५.१०)
१३१५. ॐ अनिमितविक्रमाय नमः । (५.२५.१२)
१३१६. ॐ दुरन्तवीर्योरुगुणानुभावाय नमः । (५.२५.१३)
विभिन्ननरकगतिवर्णनम्
१३१७. ॐ आत्ममायागुणमयस्थविष्ठरूपाय नमः । (५.२६.३९)
१३१८. ॐ सकलजीवनिकायधाम्ने नमः । (५.२६.४१)
नरकगति निवारणोपायः - अजामिलमोक्षकथा - यमेनोक्तं वैष्णवोत्कर्षवर्णनम्
१३१९. ॐ कृष्णपादारविन्दाभ्यां नमः । (६.१.१९)
१३२०. ॐ शक्तित्रयाय नमः । (६.१.५१)
१३२१. ॐ नारायणेति चतुरक्षराय नमः । (६.२.८)
१३२२. ॐ अशेषाघहराय नमः । (६.२.१४)
१३२३. ॐ अनुभवात्मने नमः । (६.२.४१)
१३२४. ॐ भगवद्धाम्ने नमः । (६.२.४१)
१३२५. ॐ मायाधिपतये नमः । (६.३.१७)
१३२६. ॐ अधीशित्रे नमः । (६.३.१७)
दक्षस्य तपस्या भगवद्दर्शनं हंसगुह्यस्तोत्रं दक्षभगवत्संवादश्च
१३२७. ॐ प्रजापतिपतये नमः । (६.४.८)
१३२८. ॐ सर्वधिष्ण्याय नमः । (६.४.१३)
१३२९. ॐ अन्तर्देहेषु भूतानामात्मने नमः । (६.४.१३)
१३३०. ॐ अवितथानुभूतये नमः । (६.४.२३)
१३३१. ॐ गुणत्रयाभासनिमित्तबन्धवे नमः । (६.४.२३)
१३३२. ॐ निवृत्तमानाय नमः । (६.४.२३)
१३३३. ॐ गुणतत्वबुद्धिभिरदृष्टधाम्ने नमः । (६.४.२३)
१३३४. ॐ महेशाय नमः । (६.४.२४)
१३३५. ॐ हंसाय नमः । (६.४.२६)
१३३६. ॐ नवभिः त्रिवृद्भिः स्वशक्तिभिः गूढाय नमः । (६.४.२७)
१३३७. ॐ मनीषयान्तर्हृदि सन्निवेशिताय नमः । (६.४.२७)
१३३८. ॐ विश्वरूपाय नमः । (६.४.२८)
१३३९. ॐ अशेषविशेषमायानिषेधनिर्वाणसुखानुभूतये नमः । (६.४.२८)
१३४०. ॐ अनिरुद्धात्मशक्तये नमः । (६.४.२८)
१३४१. ॐ अनन्याय नमः । (६.४.३०)
१३४२. ॐ अनन्तगुणाय नमः । (६.४.३१)
१३४३. ॐ सुपर्णांसे कृतपादाय नमः । (६.४.३६)
१३४४. ॐ प्रलम्बाष्टभुजाय नमः । (६.४.३६)
१३४५. ॐ चक्रशङ्खासिचर्मेषुधनुःपाशगदाधराय नमः । (६.४.३६)
१३४६. ॐ वनमालानिवीताङ्गाय नमः । (६.४.३७)
१३४७. ॐ लसत्श्रीवत्सकौस्तुभाय नमः । (६.४.३७)
१३४८. ॐ महाकिरीटकटकःस्फुरन्मकरकुण्डलधराय नमः । (६.४.३८)
१३४९. ॐ काञ्च्यङ्गुलीयवलयनूपुराङ्गदभूषिताय नमः । (६.४.३८)
१३५०. ॐ त्रैलोक्यमोहनरूपाय नमः । (६.४.३९)
१३५१. ॐ त्रिभुवनेश्वराय नमः । (६.४.३९)
१३५२. ॐ नारदनन्दाद्यैः पार्षदैः वृताय नमः । (६.४.३९)
१३५३. ॐ सुरयूथपैः सिद्धगन्धर्वचारणैः स्तूयमानाय नमः । (६.४.३९)
१३५४. ॐ महदाश्चर्यरूपाय नमः । (६.४.४०)
१३५५. ॐ सर्वभूतानां चित्तज्ञाय नमः । (६.४.४२)
नारदोपदेशात् दक्षपुत्रेभ्यो विरक्तिः नारदाय दक्षस्य शापश्च
१३५६. ॐ स्वाश्रयाय नमः । (६.५.१२)
१३५७. ॐ तुर्याय नमः । (६.५.१२)
१३५८. ॐ पञ्चविंशतितत्त्वानामत्भुतदर्पणपुरुषाय नमः । (६.५.१७)
१३५९. ॐ स्वरब्रह्मणिनिर्भातहृषीकेशपदाम्बुजाय नमः । (६.५.२२)
१३६०. ॐ विशुद्धसत्वधिष्ण्याय नमः । (६.५.२८)
१३६१. ॐ महाहंसाय नमः । (६.५.२८)
नारायणकवचस्तोत्रम्
१३६२. ॐ पतगेन्द्रपृष्ठे न्यस्ताङ्घ्रिपद्माय नमः । (६.८.१०)
१३६३. ॐ दरारिचर्म्मासिगदेषुचापपाशान्दधानाष्टबाहवे नमः । (६.८.१०)
१३६४. ॐ अष्टगुणाय नमः । (६.८.१०)
१३६५. ॐ मत्स्यमूर्तये नमः । (६.८.११)
१३६६. ॐ मायावटुवामनाय नमः । (६.८.११)
१३६७. ॐ त्रिविक्रमाय नमः । (६.८.११)
१३६८. ॐ असुरयूथपारये नमः । (६.८.१२)
१३६९. ॐ यज्ञकल्पाय नमः । (६.८.१३)
१३७०. ॐ स्वदंष्ट्रयोन्नीतधराय नमः । (६.८.१३)
१३७१. ॐ वराहाय नमः । (६.८.१३)
१३७२. ॐ सलक्ष्मणाय नमः । (६.८.१३)
१३७३. ॐ भरताग्रजाय नमः । (६.८.१३)
१३७४. ॐ गुणेशाय नमः । (६.८.१४)
१३७५. ॐ अहीन्द्राय नमः । (६.८.१६)
१३७६. ॐ अरीन्द्रपाणये नमः । (६.८.१८)
१३७७. ॐ पद्मनाभाय नमः । (६.८.१९)
१३७८. ॐ मधुहन्त्रे नमः । (६.८.१९)
१३७९. ॐ श्रीवत्सधाम्ने नमः । (६.८.२०)
१३८०. ॐ असिधराय नमः । (६.८.२०)
१३८१. ॐ दामोदराय नमः । (६.८.२०)
१३८२. ॐ कालमूर्तये नमः । (६.८.२०)
१३८३. ॐ नारसिंहाय नमः । (६.८.३२)
१३८४. ॐ स्वतेजसाग्रस्तसमस्ततेजसे नमः । (६.८.३२)
वृत्रोत्पत्तिः देवानां भगवत्स्तुतिः भगवतः वरप्रदानञ्च
१३८५. ॐ स्वेनलाभेनेव परिपूर्ण्णकामाय नमः । (६.९.२१)
१३८६. ॐ विश्वस्मै नमः । (६.९.२६)
१३८७. ॐ यज्ञवीर्याय नमः । (६.९.३०)
१३८८. ॐ अस्तचक्राय नमः । (६.९.३०)
१३८९. ॐ वयसे नमः । (६.९.३०)
१३९०. ॐ सुपुरुहूतये नमः । (६.९.३०)
१३९१. ॐ परममङ्गलाय नमः । (६.९.३२)
१३९२. ॐ परमकल्याणाय नमः । (६.९.३२)
१३९३. ॐ परमकारुणिकाय नमः । (६.९.३२)
१३९४. ॐ जगदाधारलोकैकनाथाय नमः । (६.९.३२)
१३९५. ॐ लक्ष्मीनाथाय नमः । (६.९.३२)
१३९६. ॐ परमहंसपरिव्राजकैः परमेणात्मयोगसमाधिना परिभावित परिस्फुट पारमहंस्य धर्मेणोद्घाटितकपाटद्वारे चित्ते अपावृते आत्मलोके स्वयं उपलब्ध निजसुखानुभवाय नमः । (६.९.३२)
१३९७. ॐ दुरवबोधविहारयोगाय नमः । (६.९.३३)
१३९८. ॐ अशरणाय नमः । (६.९.३३)
१३९९. ॐ अशरीराय नमः । (६.९.३३)
१४००. ॐ अनवेक्षिताय नमः । (६.९.३३)
१४०१. ॐ अविक्रियमाणाय नमः । (६.९.३३)
१४०२. ॐ सगुणाय नमः । (६.९.३३)
१४०३. ॐ स्रष्ट्रे नमः । (६.९.३३)
१४०४. ॐ पात्रे नमः । (६.९.३३)
१४०५. ॐ हराय नमः । (६.९.३३)
१४०६. ॐ उपशमशीलाय नमः । (६.९.३४)
१४०७. ॐ समञ्जसदर्शनाय नमः । (६.९.३४)
१४०८. ॐ अपरिगणितगुणगणाय नमः । (६.९.३५)
१४०९. ॐ अनवगाह्यमाहात्म्याय नमः । (६.९.३५)
१४१०. ॐ उपरतसमस्तमायामयाय नमः । (६.९.३५)
१४११. ॐ सर्ववस्तुनि वस्तुस्वरूपाय नमः । (६.९.३७)
१४१२. ॐ सकलजगत्कारणकारणभूताय नमः । (६.९.३७)
१४१३. ॐ सर्वप्रत्यगात्मने नमः । (६.९.३७)
१४१४. ॐ सर्वगुणाभासोपलक्षिताय नमः । (६.९.३७)
१४१५. ॐ सर्वभूतप्रियसुहृदे नमः । (६.९.३८)
१४१६. ॐ मधुमथनाय नमः । (६.९.३८)
१४१७. ॐ त्रिभुवनात्मभवनाय नमः । (६.९.३९)
१४१८. ॐ त्रिनयनाय नमः । (६.९.३९)
१४१९. ॐ त्रिलोकमनोहरानुभावाय नमः । (६.९.३९)
१४२०. ॐ तताय नमः । (६.९.४०)
१४२१. ॐ ततामहाय नमः । (६.९.४०)
१४२२. ॐ विशदरुचिरशिशिरस्मितावलोकाय नमः । (६.९.४०)
१४२३. ॐ विगलितमधुरमुखरसामृतकलारूपाय नमः । (६.९.४०)
१४२४. ॐ अखिलजगदुत्पत्तिस्थितिलयनिमित्ताय नमः । (६.९.४१)
१४२५. ॐ दिव्यमायाविनोदिने नमः । (६.९.४१)
१४२६. ॐ सर्वप्रत्ययसाक्षिणे नमः । (६.९.४१)
१४२७. ॐ आकाशशरीराय नमः । (६.९.४१)
१४२८. ॐ साक्षात्परब्रह्मणे नमः । (६.९.४१)
१४२९. ॐ दह्रनिलयाय नमः । (६.९.४४)
१४३०. ॐ निरीक्षकाय नमः । (६.९.४४)
१४३१. ॐ मृष्टयशसे नमः । (६.९.४४)
१४३२. ॐ निरुपक्रमाय नमः । (६.९.४४)
१४३३. ॐ सत्सङ्ग्रहाय नमः । (६.९.४४)
१४३४. ॐ भवपान्थनिजाश्रमाप्तौ परीष्टगतये नमः । (६.९.४४)
वृत्रस्य भक्तिज्ञानप्रकटनं इन्द्रवृत्रयुद्धं वृत्रवधः इन्द्रस्य ब्रह्महत्यानिवारणञ्च
१४३५. ॐ असुपतये नमः । (६.११.२४)
१४३६. ॐ उत्पत्तिस्थितिलयेश्वराय नमः । (६.१२.७)
१४३७. ॐ ऋतम्भराय नमः । (६.१३.१७)
चित्रकेतूपाख्यानं - चित्रकेतवे नारदोपदेशः मन्त्रप्रदानञ्च, चित्रकेतोः विद्याधरप्राप्तिः सङ्कर्षणदर्शनं शिवनिन्दाहेतुना श्रीपार्वतीशापश्च
१४३८. ॐ भूतेशाय नमः । (६.१५.६)
१४३९. ॐ अनपेक्षाय नमः । (६.१५.६)
१४४०. ॐ स्वदृशे नमः । (६.१६.९)
१४४१. ॐ सर्वाश्रयाय नमः । (६.१६.९)
१४४२. ॐ आत्ममायागुणैः विश्वस्रष्ट्रे नमः । (६.१६.९)
१४४३. ॐ परावरदृशे नमः । (६.१६.११)
१४४४. ॐ विज्ञानमात्राय नमः । (६.१६.१९)
१४४५. ॐ परमानन्दमूर्तये नमः । (६.१६.१९)
१४४६. ॐ निवृत्तद्वैतदृष्टये नमः । (६.१६.१९)
१४४७. ॐ आत्मानन्दानुभूत्यैव न्यस्तशक्त्यूर्मये नमः । (६.१६.२०)
१४४८. ॐ चिन्मात्रस्वरूपाय नमः । (६.१६.२१)
१४४९. ॐ सतसत्पराय नमः । (६.१६.२१)
१४५०. ॐ यस्मिन् विश्वं जायते तिष्ठति अप्यायति च तस्मै ब्रह्मणे नमः । (६.१६.२२)
१४५१. ॐ अन्तर्बहिश्च वितते नमः । (६.१६.२३)
१४५२. ॐ सकलसात्वतपरिवृढनिकरकरकमलकुड्मलोपलालितचरणारविन्दयुगलाय नमः । (६.१६.२५)
१४५३. ॐ मृणालगौराय नमः । (६.१६.३०)
१४५४. ॐ शितिवाससे नमः । (६.१६.३०)
१४५५. ॐ स्फुरत्किरीटकटित्रकङ्कणभूषिताय नमः । (६.१६.३०)
१४५६. ॐ प्रसन्नवक्त्रारुणलोचनाय नमः । (६.१६.३०)
१४५७. ॐ सिद्धेश्वरमण्डलैर्वृताय नमः । (६.१६.३०)
१४५८. ॐ सात्वतशास्त्रविग्रहाय नमः । (६.१६.३३)
१४५९. ॐ भजतां जितात्मनां सममतीनां अकामात्मनां आत्मदाय नमः । (६.१६.३४)
१४६०. ॐ जगदुदयस्थितिलयादीनि विभवाय नमः । (६.१६.३५)
१४६१. ॐ परमाणुपरममहतो आद्यन्तान्तरवर्तिने नमः । (६.१६.३६)
१४६२. ॐ त्रयविधुराय नमः । (६.१६.३६)
१४६३. ॐ ज्ञानात्मने नमः । (६.१६.३९)
१४६४. ॐ अगुणमयाय नमः । (६.१६.३९)
१४६५. ॐ अखिलपापक्षयाय नमः । (६.१६.४४)
१४६६. ॐ सकलजगत्स्थितिलयोदयेशाय नमः । (६.१६.४७)
१४६७. ॐ कुयोगिनां भिदा दुरवसितात्मगतये नमः । (६.१६.४७)
१४६८. ॐ सहस्रमूर्ध्ने नमः । (६.१६.४८)
१४६९. ॐ सर्वभूतप्रियाय नमः । (६.१७.३३)
दितिवंशवर्णनं मरुतां उत्पत्तिः पुंसवनव्रतविधिश्च
१४७०. ॐ मायावामनरूपिणे नमः । (६.१८.८)
१४७१. ॐ श्रियः पतये नमः । (६.१८.३३)
१४७२. ॐ आत्मप्रदाय नमः । (६.१८.७५)
१४७३. ॐ स्वात्मने नमः । (६.१८.७५)
१४७४. ॐ सकलसिद्धये नमः । (६.१९.४)
१४७५. ॐ पूर्णकामाय नमः । (६.१९.४)
१४७६. ॐ कृपया भूत्या तेजसा महिनौजसा सर्वैः गुणैः जुष्टाय नमः । (६.१९.५)
१४७७. ॐ त्रिलोकस्य वरदाभ्यां नमः । (६.१९.१६)
१४७८. ॐ परमेष्ठिभ्यां नमः । (६.१९.१६)
१४७९. ॐ लक्ष्मीनारायणाभ्यां नमः । (६.१९.१६)
१४८०. ॐ श्रिया सह निवासाय नमः । (६.१९.१७)
नारदयुधिष्ठिरसंवादारम्भः सनकादीनां शापहेतुना जयविजययोः दैत्यजन्मप्राप्तिश्च
१४८१. ॐ साक्षात् निश्रेयसात्मने नमः । (७.१.२)
१४८२. ॐ मायामनुजाय नमः । (७.१.२८)
१४८३. ॐ सिंहरूपिणे नमः । (७.१.४०)
१४८४. ॐ राघवाय नमः । (७.१.४४)
वराहमूर्तिना हिरण्याक्षवधानन्तरं हिरण्यकशिपोः सात्विकपीडनादेशः मातुः तथा बन्धूनां सान्त्वनञ्च
१४८५. ॐ क्रोडमूर्तये नमः । (७.२.१)
१४८६. ॐ त्यक्तस्वभावाय नमः । (७.२.७)
१४८७. ॐ घृणे नमः । (७.२.७)
१४८८. ॐ मायावनौकसे नमः । (७.२.७)
१४८९. ॐ भजन्तं भजमानाय नमः । (७.२.७)
१४९०. ॐ द्विजक्रियामूलाय नमः । (७.२.११)
१४९१. ॐ धर्ममयाय नमः । (७.२.११)
१४९२. ॐ देवर्षिपितृभूतानां धर्मस्य च परायणाय नमः । (७.२.११)
१४९३. ॐ सर्वविदे नमः । (७.२.२२)
१४९४. ॐ अविकलाय नमः । (७.२.२४)
१४९५. ॐ अलिङ्गाय नमः । (७.२.२४)
हिरण्यकशिपोः ब्रह्मदेवात् वरप्राप्तिः
१४९६. ॐ चित्तस्य चित्तेः मन इन्द्रियाणां पतये नमः । (७.३.२९)
हिराण्यकशिपोः शासनं प्रह्लादस्य जननञ्च
१४९७. ॐ यत्र आत्मा हरिरीश्वरः तस्मै काष्ठाय नमः । (७.४.२२)
१४९८. ॐ विशुद्धानन्दभवानन्दसन्दोहाय नमः । (७.४.२४)
हिरण्यकशिपुःप्रह्लादसंवादः प्रह्लादवधोद्यमश्च
१४९९. ॐ विमोहितधियां पुंसां स्वपरश्चेत्यसद्ग्राहः यन्मायया दृष्टस्तस्मै भगवते नमः । (७.५.११)
१५००. ॐ चक्रपाणये नमः । (७.५.१४)
१५०१. ॐ उरुक्रमाङ्घ्रये नमः । (७.५.३२)
१५०२. ॐ अनिर्देश्याय नमः । (७.५.४१)
दैत्यबालेभ्यः प्रह्लादोपदेशः
१५०३. ॐ सर्वभूतानां प्रियाय नमः । (७.६.२)
१५०४. ॐ मुकुन्दचरणाम्बुजाय नमः । (७.६.४)
१५०५. ॐ मुक्तसङ्गैरिषितापवर्गाय नमः । (७.६.१८)
१५०६. ॐ व्याप्यव्यापकनिर्देश्याय नमः । (७.६.२२)
१५०७. ॐ अविकल्पिताय नमः । (७.६.२२)
१५०८. ॐ केवलानुभवानन्दस्वरूपाय नमः । (७.६.२२)
१५०९. ॐ निगमस्य सत्याय नमः । (७.६.२६)
१५१०. ॐ स्वसुहृदे नमः । (७.६.२६)
१५११. ॐ परमपुंसे नमः । (७.६.२६)
१५१२. ॐ नरसख्ये नमः । (७.६.२७)
मातृगर्भस्थितप्रह्लादाय नारदोपदेशः
१५१३. ॐ ईश्वरमूर्तये नमः । (७.७.१८)
१५१४. ॐ आश्रयाय नमः । (७.७.१९)
१५१५. ॐ अविक्रियाय नमः । (७.७.१९)
१५१६. ॐ हेतवे नमः । (७.७.१९)
१५१७. ॐ व्यापकाय नमः । (७.७.१९)
१५१८. ॐ असङ्गिने नमः । (७.७.१९)
१५१९. ॐ अनावृताय नमः । (७.७.१९)
नरसिंहावतारः हिरण्यकशिपुवधः ब्रह्मादिदेवानां स्तुतिश्च
१५२०. ॐ बलिनां बलाय नमः । (७.८.८)
१५२१. ॐ ओजः सहबलेन्द्रियात्मने नमः । (७.८.९)
१५२२. ॐ गुणत्रयेशाय नमः । (७.८.९)
१५२३. ॐ अत्यद्भुतरूपाय नमः । (७.८.१८)
१५२४. ॐ नृमृगेन्द्ररूपाय नमः । (७.८.१८)
१५२५. ॐ नृसिंहरूपाय नमः । (७.८.२०)
१५२६. ॐ प्रतप्तचामीकरचण्डलोचनाय नमः । (७.८.२०)
१५२७. ॐ स्फुरत्सटाकेसरजृम्भिताननाय नमः । (७.८.२०)
१५२८. ॐ करालदंष्ट्राय नमः । (७.८.२१)
१५२९. ॐ करवालचञ्चलभ्रुकुटीमुखोल्बणाय नमः । (७.८.२१)
१५३०. ॐ क्षुरान्तजिह्वाय नमः । (७.८.२१)
१५३१. ॐ स्तब्धोर्ध्वकर्णाय नमः । (७.८.२१)
१५३२. ॐ गिरिकन्दराद्भुतव्यात्तास्यनासाय नमः । (७.८.२१)
१५३३. ॐ हनुभेदभीषणाय नमः । (७.८.२१)
१५३४. ॐ दिविस्पृशत्कायाय नमः । (७.८.२२)
१५३५. ॐ अदीर्घपीवरग्रीवोरुवक्षसे नमः । (७.८.२२)
१५३६. ॐ अल्पमध्यमाय नमः । (७.८.२२)
१५३७. ॐ चन्द्रांशुगौरैश्छुरिततनूरुहाय नमः । (७.८.२२)
१५३८. ॐ विष्वक्भुजानीकशताय नमः । (७.८.२२)
१५३९. ॐ नखायुधाय नमः । (७.८.२२)
१५४०. ॐ सर्वनिजेतरायुधप्रवेकविद्रावितदैत्यदानवाय नमः । (७.८.२३)
१५४१. ॐ उरुमायिने नमः । (७.८.२३)
१५४२. ॐ नृहरये नमः । (७.८.२७)
१५४३. ॐ संरम्भदुष्प्रेक्ष्यकराललोचनाय नमः । (७.८.३०)
१५४४. ॐ असृग्लवाक्तारुणकेसराननाय नमः । (७.८.३०)
१५४५. ॐ आन्त्रमालिने नमः । (७.८.३०)
१५४६. ॐ व्यात्ताननान्तं स्वजिह्वया विलिहते नमः । (७.८.३०)
१५४७. ॐ अवधूतसटाय नमः । (७.८.३२)
१५४८. ॐ अत्यमर्षणाय नमः । (७.८.३४)
१५४९. ॐ प्रचण्डवक्त्राय नमः । (७.८.३४)
१५५०. ॐ नरशार्द्दूलाय नमः । (७.८.३९)
१५५१. ॐ दुरन्तशक्तये नमः । (७.८.४०)
१५५२. ॐ विचित्रवीर्याय नमः । (७.८.४०)
१५५३. ॐ पवित्रकर्मणे नमः । (७.८.४०)
१५५४. ॐ अव्ययात्मने नमः । (७.८.४०)
१५५५. ॐ गुणैः विश्वस्य सर्गस्थितिसंहारकारकाय नमः । (७.८.४०)
१५५६. ॐ नाथाय नमः । (७.८.४२)
१५५७. ॐ अखिलधर्मगोप्त्रे नमः । (७.८.४४)
१५५८. ॐ मायानृसिंहाय नमः । (७.८.४६)
१५५९. ॐ दत्तानन्दाय नमः । (७.८.४७)
१५६०. ॐ सत्वमूर्तये नमः । (७.८.४९)
१५६१. ॐ नरहरये नमः । (७.८.५२)
१५६२. ॐ सर्वलोकशर्मणे नमः । (७.८.५६)
१५६३. ॐ हरिनररूपाय नमः । (७.८.५६)
१५६४. ॐ शरणदाय नमः । (७.८.५६)
प्रह्लादस्य भगवत्स्तुतिः
१५६५. ॐ कालाहिवित्रस्तधियां कृताभयाय नमः । (७.९.५)
१५६६. ॐ रुचिरावताराय नमः । (७.९.१३)
१५६७. ॐ कृपणवत्सलाय नमः । (७.९.१६)
१५६८. ॐ अरणापवर्गाङ्घ्रिमूलाय नमः । (७.९.१६)
१५६९. ॐ स्वधाम्ना नित्यविजितात्मगुणाय नमः । (७.९.२२)
१५७०. ॐ वशीकृतविसृज्यविसर्गशक्तये नमः । (७.९.२२)
१५७१. ॐ उरुविक्रमाय नमः । (७.९.२४)
१५७२. ॐ कालात्मने नमः । (७.९.२४)
१५७३. ॐ जगतः आत्मसुहृदे नमः । (७.९.२७)
१५७४. ॐ निजमाययेदं सृष्ट्वा तदनुप्रविष्टाय नमः । (७.९.३०)
१५७५. ॐ नानारूपाय नमः । (७.९.३०)
१५७६. ॐ निजसुखानुभवाय निरीहाय योगेन मीलितदृशे नमः । (७.९.३२)
१५७७. ॐ विलयाम्बुमध्ये आत्मनिपीतनिद्राय नमः । (७.९.३२)
१५७८. ॐ तुर्ये स्थिताय नमः । (७.९.३२)
१५७९. ॐ सहस्रवदनाङ्घ्रिशिरःकरोरुनासास्यकर्ण्णनयनाभरणाढ्याय नमः । (७.९.३६)
१५८०. ॐ मायामयाय नमः । (७.९.३६)
१५८१. ॐ सदुपलक्षितसन्निवेशाय नमः । (७.९.३६)
१५८२. ॐ हयशिरस्तनवे नमः । (७.९.३७)
१५८३. ॐ नृतिर्यगृषिदेवझषावताराय नमः । (७.९.३८)
१५८४. ॐ अरूपकाय नमः । (७.९.४७)
१५८५. ॐ अर्हत्तमाय नमः । (७.९.५०)
भगवत्प्रह्लादसंवादः प्रह्लादाय वरदानं प्रह्लादराज्याभिषेकः त्रिपुरोपाख्यानञ्च
१५८६. ॐ पुण्डरीकाक्षाय नमः । (७.१०.९)
१५८७. ॐ अत्भुतसिंहाय नमः । (७.१०.१०)
१५८८. ॐ सर्वेषु भूतेषु वसन्तं अधियज्ञाय नमः । (७.१०.१२)
१५८९. ॐ वरदेशाय नमः । (७.१०.१५)
१५९०. ॐ सर्वलोकगुरवे नमः । (७.१०.१६)
१५९१. ॐ अखिलाध्यक्षाय नमः । (७.१०.२६)
१५९२. ॐ पूर्वजाय नमः । (७.१०.२६)
१५९३. ॐ परमेष्ठिना पूजिताय नमः । (७.१०.३१)
१५९४. ॐ महद्विमृग्यकैवल्यनिर्वाणसुखानुभूतये नमः । (७.१०.४९)
१५९५. ॐ अर्हणीयाय नमः । (७.१०.४९)
सदाचारधर्मविवरणम्
१५९६. ॐ सर्ववेदमयाय नमः । (७.११.७)
१५९७. ॐ सर्वयज्ञभुजे नमः । (७.१४.१८)
१५९८. ॐ ज्ञानदीपप्रदाय नमः । (७.१५.२६)
१५९९. ॐ योगेश्वरैर्विमृग्याङ्घ्रये नमः । (७.१५.२७)
१६००. ॐ ॐकाराय नमः । (७.१५.३१)
१६०१. ॐ प्रणवाय नमः । (७.१५.४२)
१६०२. ॐ मनुष्यलिङ्गाय गूढाय नमः । (७.१५.७५)
स्वायम्भुवादिमन्वन्तरचतुष्टयवर्णनं यज्ञावतारचरितञ्च
१६०३. ॐ भूतनिलयाय नमः । (८.१.११)
१६०४. ॐ सुपर्णाय नमः । (८.१.११)
१६०५. ॐ विश्वकायाय नमः । (८.१.१३)
१६०६. ॐ विद्यया निरस्तमायाय नमः । (८.१.१३)
१६०७. ॐ अखिलधर्मभावनाय नमः । (८.१.१६)
१६०८. ॐ निजवर्त्मसंस्तिथाय नमः । (८.१.१६)
१६०९. ॐ निरहङ्कृताय नमः । (८.१.१६)
१६१०. ॐ बुधाय नमः । (८.१.१६)
१६११. ॐ निराशिषाय नमः । (८.१.१६)
१६१२. ॐ अनन्यचोदिताय नमः । (८.१.१६)
१६१३. ॐ नृञ्छिक्षयते नमः । (८.१.१६)
१६१४. ॐ सर्वगताय नमः । (८.१.१८)
गजेन्द्रोपाख्यानं - गजग्राहपूर्वचरितं तयोः युद्धवर्णनं गजेन्द्रस्तुतिः ग्राहमुखविपाटनञ्च
१६१५. ॐ परायणाय नमः । (८.२.३२)
१६१६. ॐ यद्भयात् मृत्युः प्रधावति तस्मै नमः । (८.२.३३)
१६१७. ॐ चिदात्मकाय नमः । (८.३.२)
१६१८. ॐ परात्पराय नमः । (८.३.३)
१६१९. ॐ आत्ममूलाय नमः । (८.३.४)
१६२०. ॐ अविद्धदृशे नमः । (८.३.४)
१६२१. ॐ दुरत्ययानुक्रमणाय नमः । (८.३.६)
१६२२. ॐ उरुरूपाय नमः । (८.३.९)
१६२३. ॐ आश्चर्यकर्मणे नमः । (८.३.९)
१६२४. ॐ अनन्तशक्तये नमः । (८.३.९)
१६२५. ॐ आत्मप्रदीपाय नमः । (८.३.१०)
१६२६. ॐ मनसः चेतसः गिरां च विदूराय नमः । (८.३.१०)
१६२७. ॐ कैवल्यनाथाय नमः । (८.३.११)
१६२८. ॐ निर्वाणसुखसंविदे नमः । (८.३.११)
१६२९. ॐ घोराय नमः । (८.३.१२)
१६३०. ॐ गुणधर्म्मिणे नमः । (८.३.१२)
१६३१. ॐ निर्विशेषाय नमः । (८.३.१२)
१६३२. ॐ साम्याय नमः । (८.३.१२)
१६३३. ॐ ज्ञानघनाय नमः । (८.३.१२)
१६३४. ॐ मूलप्रकृतये नमः । (८.३.१३)
१६३५. ॐ सर्वाध्यक्षाय नमः । (८.३.१३)
१६३६. ॐ सर्वेन्द्रियगुणद्रष्ट्रे नमः । (८.३.१४)
१६३७. ॐ सर्वप्रत्ययहेतवे नमः । (८.३.१४)
१६३८. ॐ असताच्छाययाक्ताय नमः । (८.३.१४)
१६३९. ॐ सदाभासाय नमः । (८.३.१४)
१६४०. ॐ निष्कारणाय नमः । (८.३.१५)
१६४१. ॐ अत्भुतकारणाय नमः । (८.३.१५)
१६४२. ॐ अखिलकारणाय नमः । (८.३.१५)
१६४३. ॐ सर्वागमाम्नाय महार्णवाय नमः । (८.३.१५)
१६४४. ॐ अपवर्गाय नमः । (८.३.१५)
१६४५. ॐ गुणारणिच्छन्नचिदूष्मपाय नमः । (८.३.१६)
१६४६. ॐ चिदूष्मक्षोभविस्फूर्जितमानसाय नमः । (८.३.१६)
१६४७. ॐ नैष्कर्म्म्यभावेन विवर्जितागमस्वयम्प्रकाशाय नमः । (८.३.१६)
१६४८. ॐ प्रपन्नपशुपाशविमोक्षणाय नमः । (८.३.१७)
१६४९. ॐ मुक्ताय नमः । (८.३.१७)
१६५०. ॐ भूरिकरुणाय नमः । (८.३.१७)
१६५१. ॐ अलयाय नमः । (८.३.१७)
१६५२. ॐ स्वांशेन सर्वतनुभृन्मनसि प्रतीतप्रत्यक् दृशे नमः । (८.३.१७)
१६५३. ॐ आत्मात्मजाप्तगृहवित्तजनेषुसक्तैर्दुष्प्रापणाय नमः । (८.३.१८)
१६५४. ॐ गुणसङ्गविसर्जिताय नमः । (८.३.१८)
१६५५. ॐ मुक्तात्मभिः स्वहृदये परिभाविताय नमः । (८.३.१८)
१६५६. ॐ आध्यात्मिकयोगगम्याय नमः । (८.३.२१)
१६५७. ॐ अतीन्द्रियाय नमः । (८.३.२१)
१६५८. ॐ परिपूर्णाय नमः । (८.३.२१)
१६५९. ॐ निषेधशेषाशेषाय नमः । (८.३.२४)
१६६०. ॐ अविश्वाय नमः । (८.३.२६)
१६६१. ॐ विश्ववेधसे नमः । (८.३.२६)
१६६२. ॐ परमपदाय नमः । (८.३.२६)
१६६३. ॐ योगेशाय नमः । (८.३.२७)
१६६४. ॐ असह्यवेगशक्तित्रयाय नमः । (८.३.२८)
१६६५. ॐ अखिलधीगुणाय नमः । (८.३.२८)
१६६६. ॐ कदिन्द्रियाणामनवाप्यवर्त्मने नमः । (८.३.२८)
१६६७. ॐ प्रपन्नपालाय नमः । (८.३.२८)
१६६८. ॐ दुरत्ययमाहात्म्याय नमः । (८.३.२९)
१६६९. ॐ निखिलात्मने नमः । (८.३.३०)
१६७०. ॐ अखिलामरमयाय नमः । (८.३.३०)
१६७१. ॐ जगन्निवासाय नमः । (८.३.३१)
१६७२. ॐ चक्रायुधाय नमः । (८.३.३१)
१६७३. ॐ छन्दोमयेन गरुडेन समुह्यमानाय नमः । (८.३.३१)
१६७४. ॐ नारायणाखिलगुरो भगवन् नमस्ते (८.३.३२)
गजग्राहयोः पूर्वजन्मचरितं ग्राहस्य शापमुक्तिः गजेन्द्रमोक्षश्च
१६७५. ॐ कीर्तन्यगुणसत्कथाय नमः । (८.४.४)
१६७६. ॐ अब्जनाभाय नमः । (८.४.१३)
१६७७. ॐ गन्धर्वसिद्धविबुधैरुपगीयमानाय नमः । (८.४.१३)
१६७८. ॐ सर्वभूतमयाय नमः । (८.४.१६)
रैवतचाक्षुषमन्वन्तरं अजितावतारः देवदुःखनिवारणार्थं ब्रह्मदेवस्य भगवत्स्तुतिः
१६७९. ॐ कूर्मरूपाय नमः । (८.५.१०)
१६८०. ॐ अम्बुचरात्मने नमः । (८.५.११)
१६८१. ॐ काले सर्गस्तिथिसंयमार्थं रजःसत्वतमांसि धारिणे नमः । (८.५.२२)
१६८२. ॐ देहिनां भवाय सत्वं जुषाणाय नमः । (८.५.२३)
१६८३. ॐ अदृष्टस्वरूपाय नमः । (८.५.२५)
१६८४. ॐ गुहाशयाय नमः । (८.५.२६)
१६८५. ॐ निष्कलाय नमः । (८.५.२६)
१६८६. ॐ अप्रतर्क्क्याय नमः । (८.५.२६)
१६८७. ॐ मनोऽग्रयानाय नमः । (८.५.२६)
१६८८. ॐ वचसानिरुक्ताय नमः । (८.५.२६)
१६८९. ॐ वरेण्याय नमः । (८.५.२६)
१६९०. ॐ देववराय नमः । (८.५.२६)
१६९१. ॐ प्राणमनोधियात्मनां विपश्चिताय नमः । (८.५.२७)
१६९२. ॐ अर्थेन्द्रियाभासाय नमः । (८.५.२७)
१६९३. ॐ अनिद्राय नमः । (८.५.२७)
१६९४. ॐ अव्रणाय नमः । (८.५.२७)
१६९५. ॐ एकवर्णाय नमः । (८.५.२९)
१६९६. ॐ तमसः परस्मै नमः । (८.५.२९)
१६९७. ॐ अलोकाय नमः । (८.५.२९)
१६९८. ॐ अनन्तपाराय नमः । (८.५.२९)
१६९९. ॐ निर्जितात्मात्मगुणाय नमः । (८.५.३०)
१७००. ॐ भूतेषु समं चरते नमः । (८.५.३०)
१७०१. ॐ महाविभूतये नमः । (८.५.३२)
१७०२. ॐ अखिललोकपालाय नमः । (८.५.३३)
१७०३. ॐ प्राणेन्द्रियात्मासुशरीरकेताय नमः । (८.५.३८)
१७०४. ॐ उपशान्तशक्तये नमः । (८.५.४४)
१७०५. ॐ स्वाराज्यलाभप्रतिपूरितात्मने नमः । (८.५.४४)
१७०६. ॐ मायारचितेषु गुणेषु वृत्तिभिरसज्जमानाय नमः । (८.५.४४)
१७०७. ॐ नभस्वदूतये नमः । (८.५.४४)
१७०८. ॐ सस्मितमुखाम्बुजाय नमः । (८.५.४५)
१७०९. ॐ सर्वेषामात्मने नमः । (८.५.४९)
१७१०. ॐ गुणेशाय नमः । (८.५.५०)
१७११. ॐ दुर्वितर्क्क्यात्मकर्मणे नमः । (८.५.५०)
भगवद्दर्शनं ब्रह्मस्तुतिः देवासुरसन्धिः समुद्रमथनविधानञ्च
१७१२. ॐ सहस्रार्क्कोदयद्युतये नमः । (८.६.१)
१७१३. ॐ मरतकश्यामाय नमः । (८.६.३)
१७१४. ॐ कञ्जगर्भारुणेक्षणाय नमः । (८.६.३)
१७१५. ॐ तप्तहेमावदातलसत्कौशेयवाससे नमः । (८.६.४)
१७१६. ॐ प्रसन्नचारुसर्वाङ्गाय नमः । (८.६.४)
१७१७. ॐ सुमुखाय नमः । (८.६.४)
१७१८. ॐ सुन्दरभ्रुवे नमः । (८.६.४)
१७१९. ॐ महामणिकिरीटकेयूरभूषिताय नमः । (८.६.५)
१७२०. ॐ कर्णाभरणनिर्भातकपोलश्रीमुखाम्बुजाय नमः । (८.६.५)
१७२१. ॐ काञ्चीकलापवलयहारनूपुरशोभिताय नमः । (८.६.६)
१७२२. ॐ कौस्तुभाभरणवनमालालक्ष्मीभृते नमः । (८.६.६)
१७२३. ॐ सुदर्शनादिभिः स्वास्त्रैर्मूर्त्तिमद्भिरुपासिताय नमः । (८.६.७)
१७२४. ॐ अजातजन्मस्थितिसंयमाय नमः । (८.६.८)
१७२५. ॐ निर्वाणसुखार्णवाय नमः । (८.६.८)
१७२६. ॐ अणोरणिम्ने नमः । (८.६.८)
१७२७. ॐ अपरिगण्यधाम्ने नमः । (८.६.८)
१७२८. ॐ अशेषसाक्षिणे नमः । (८.६.१४)
१७२९. ॐ स्वच्छन्दगतये नमः । (८.६.२६)
समुद्रमथनारम्भः मन्थानोद्धरणार्थं विष्णोः कूर्मावतारः समुद्रप्रभवो हालहलात् रक्षणार्थं शिवस्तुतिः शिवेन लोकरक्षार्थं विषपानञ्च
१७३०. ॐ दुरन्तवीर्याय नमः । (८.७.८)
१७३१. ॐ अवितथाभिसन्धये नमः । (८.७.८)
१७३२. ॐ काच्छपवपुषे नमः । (८.७.८)
१७३३. ॐ आदिकच्छपाय नमः । (८.७.१०)
१७३४. ॐ सहस्रबाहवे नमः । (८.७.१२)
१७३५. ॐ ब्रह्मभवेन्द्रमुख्यैः सुमनोऽभिवृष्टाय नमः । (८.७.१२)
१७३६. ॐ मेघश्यामाय नमः । (८.७.१७)
१७३७. ॐ कनकपरिधये नमः । (८.७.१७)
१७३८. ॐ कर्ण्णविद्योतविद्युते नमः । (८.७.१७)
१७३९. ॐ मूर्ध्निभ्राजत् विलुलितकचाय नमः । (८.७.१७)
१७४०. ॐ स्रग्धराय नमः । (८.७.१७)
१७४१. ॐ रक्तनेत्राय नमः । (८.७.१७)
१७४२. ॐ उद्धृताद्रये नमः । (८.७.१७)
१७४३. ॐ जैत्रैः जगदभयदैः दोर्भिः दन्तशूकं गृहीत्वा क्षीरसागरं मथ्ना मथ्नते नमः । (८.७.१७)
समुद्रात् अनेकवस्तूनामुत्पत्तिः श्रीलक्ष्म्याविर्भावः तया विष्णोर्वरणं, अमृतहस्तधन्वन्तर्याविर्भावं, असुरैः अमृतहरणं, अमृतप्रत्याहरणार्थं भगवतः मोहिन्यवतारः
१७४४. ॐ लक्ष्मीनारायणाभ्यां नमः । (८.८.)
१७४५. ॐ दीर्घपीवरदोर्द्दण्डाय नमः । (८.८.३२)
१७४६. ॐ कम्बुग्रीवाय नमः । (८.८.३२)
१७४७. ॐ अरुणेक्षणाय नमः । (८.८.३२)
१७४८. ॐ श्यामलाय नमः । (८.८.३२)
१७४९. ॐ तरुणाय नमः । (८.८.३२)
१७५०. ॐ स्रग्विणे नमः । (८.८.३२)
१७५१. ॐ सर्वाभरणभूषिताय नमः । (८.८.३२)
१७५२. ॐ महोरस्काय नमः । (८.८.३३)
१७५३. ॐ सुमृष्टमणिकुण्डलधारिणे नमः । (८.८.३३)
१७५४. ॐ स्निग्धकुञ्चितकेशाय नमः । (८.८.३३)
१७५५. ॐ सुभगाय नमः । (८.८.३३)
१७५६. ॐ सिंहविक्रमाय नमः । (८.८.३३)
१७५७. ॐ अमृतापूर्णकलशभृते नमः । (८.८.३४)
१७५८. ॐ वलयभूषिताय नमः । (८.८.३४)
१७५९. ॐ विष्णोरंशांशसम्भवाय नमः । (८.८.३४)
१७६०. ॐ आयुर्वेददृशे नमः । (८.८.३५)
१७६१. ॐ इज्यभाजे नमः । (८.८.३५)
१७६२. ॐ भृत्यकामकृते नमः । (८.८.३७)
देवासुरयुद्धं असुराणां पराजयः, शुक्रेण बलेः सञ्जीवनं, शिवेन भगवत्स्तुतिः, मोहिन्या शिवमोहनञ्च
१७६३. ॐ गरुडवाहनाय नमः । (८.१०.२)
१७६४. ॐ सुपर्णांसकृताङ्घ्रिपल्लवाय नमः । (८.१०.५४)
१७६५. ॐ नवकञ्जलोचनाय नमः । (८.१०.५४)
१७६६. ॐ अष्टायुधबाहवे नमः । (८.१०.५४)
१७६७. ॐ श्रीकौस्तुभानर्घ्यकिरीटकुण्डलधारिणे नमः । (८.१०.५४)
१७६८. ॐ सर्वविपद्विमोक्षणाय नमः । (८.१०.५५)
१७६९. ॐ जगद्व्यापिने नमः । (८.१२.४)
१७७०. ॐ जगन्मयाय नमः । (८.१२.४)
१७७१. ॐ सर्वेषां भावानां आत्मने हेतवे नमः । (८.१२.४)
१७७२. ॐ चिते नमः । (८.१२.५)
१७७३. ॐ अमृताय नमः । (८.१२.७)
१७७४. ॐ विगुणाय नमः । (८.१२.७)
१७७५. ॐ विशोकाय नमः । (८.१२.७)
१७७६. ॐ अन्याय नमः । (८.१२.७)
१७७७. ॐ विश्वस्य उदयस्थितिसंयमानां हेतवे नमः । (८.१२.७)
१७७८. ॐ सदसते नमः । (८.१२.८)
१७७९. ॐ द्वयाय अद्वयाय च नमः । (८.१२.८)
१७८०. ॐ निरुपाधिकाय नमः । (८.१२.८)
१७८१. ॐ अवगमाय नमः । (८.१२.११)
१७८२. ॐ विश्वस्य स्तिथिजन्मनाशं भूतेहितं जगतः बन्धमोक्षौ सर्वं च तदात्मकतया ज्ञाताय नमः । (८.१२.११)
१७८३. ॐ सुरसत्तमाय नमः । (८.१२.१६)
१७८४. ॐ अपरिज्ञेयवीर्याय नमः । (८.१२.३६)
१७८५. ॐ जगदात्मने नमः । (८.१२.३६)
१७८६. ॐ समस्तसंसारपरिश्रमापहाय नमः । (८.१२.४६)
१७८७. ॐ कपटयुवतिवेषाय नमः । (८.१२.४७)
१७८८. ॐ कामपूराय नमः । (८.१२.४७)
मन्वन्तरसप्तकवर्णनं मन्वादीनां कर्मनिरूपणञ्च
१७८९. ॐ आदित्यानां अवरजाय नमः । (८.१३.६)
१७९०. ॐ वामनरूपधारिणे नमः । (८.१३.६)
१७९१. ॐ स्वधामाख्याय नमः । (८.१३.२९)
१७९२. ॐ बृहद् भानवे नमः । (८.१३.३५)
१७९३. ॐ सिद्धस्वरूपधृचे नमः । (८.१४.८)
१७९४. ॐ ऋषिरूपधराय नमः । (८.१४.८)
१७९५. ॐ योगेशरूपधृचे नमः । (८.१४.८)
१७९६. ॐ प्रजेशरूपाय नमः । (८.१४.९)
१७९७. ॐ स्वराड्वपुषे नमः । (८.१४.९)
कश्यपेन देवमात्रे अदित्यै पयोव्रतोपदेशः
१७९८. ॐ सर्वदेवात्मने नमः । (८.१६.९)
१७९९. ॐ सूक्ष्माय नमः । (८.१६.३०)
१८००. ॐ चतुर्विंशद्गुणज्ञाय नमः । (८.१६.३०)
१८०१. ॐ गुणसङ्ख्यानहेतवे नमः । (८.१६.३०)
१८०२. ॐ द्विशीर्ष्णे नमः । (८.१६.३१)
१८०३. ॐ त्रिपदे नमः । (८.१६.३१)
१८०४. ॐ चतुःशृङ्गाय तन्तवे नमः । (८.१६.३१)
१८०५. ॐ सप्तहस्ताय नमः । (८.१६.३१)
१८०६. ॐ त्रयीविद्यात्मने नमः । (८.१६.३१)
१८०७. ॐ योगैश्वर्यशरीराय नमः । (८.१६.३३)
१८०८. ॐ योगहेतवे नमः । (८.१६.३३)
१८०९. ॐ साक्षिभूताय नमः । (८.१६.३४)
१८१०. ॐ मरकतश्यामवपुषे नमः । (८.१६.३५)
१८११. ॐ अधिगतश्रिये नमः । (८.१६.३५)
१८१२. ॐ सर्ववरदाय नमः । (८.१६.३६)
१८१३. ॐ पुंसां वरेण्याय नमः । (८.१६.३६)
भगवता अदित्यै वरदानं अदितिगर्भभगवत्तेजसः प्रति ब्रह्मस्तुतिः
१८१४. ॐ तीर्थश्रवाय नमः । (८.१७.८)
१८१५. ॐ श्रवणमङ्गलनामधेयाय नमः । (८.१७.८)
१८१६. ॐ आपन्नलोकवृजिनोपशमोदयाय नमः । (८.१७.८)
१८१७. ॐ विश्वभवनस्थितिसंयमाय नमः । (८.१७.९)
१८१८. ॐ गृहीतपुरुशक्तिगुणाय नमः । (८.१७.९)
१८१९. ॐ स्वस्थाय नमः । (८.१७.९)
१८२०. ॐ शश्वदुपबृंहितपुर्ण्णबोधव्यापादितात्मतमसे नमः । (८.१७.९)
१८२१. ॐ पुष्करेक्षणाय नमः । (८.१७.११)
१८२२. ॐ सर्वभूतानां क्षेत्रज्ञाय नमः । (८.१७.११)
१८२३. ॐ त्रिगुणाय नमः । (८.१७.२५)
१८२४. ॐ पृश्निगर्भाय नमः । (८.१७.२६)
१८२५. ॐ त्रिणाभाय नमः । (८.१७.२६)
१८२६. ॐ त्रिपृष्ठाय नमः । (८.१७.२६)
१८२७. ॐ शिपिविष्टाय नमः । (८.१७.२६)
१८२८. ॐ भुवनस्य आदिमध्यान्तानन्तशक्तये नमः । (८.१७.२७)
१८२९. ॐ स्थिरजङ्गमानां प्रजानां प्रजापतीनाञ्च सम्भविष्णवे नमः । (८.१७.२८)
१८३०. ॐ दिवौकसां देवाय नमः । (८.१७.२८)
वामनावतारः महाबलेः यज्ञशालायां भगवत्प्रवेशनञ्च
१८३१. ॐ शङ्खगदाब्जचक्राय नमः । (८.१८.१)
१८३२. ॐ झषराजकुण्डलत्विषोल्लसच्छ्रीवदनाम्बुजाय नमः । (८.१८.२)
१८३३. ॐ श्रीवत्सवक्षसे नमः । (८.१८.२)
१८३४. ॐ वलयाङ्गुदोल्लसत्किरीटकाञ्चीगुणचारुनूपुरधारिणे नमः । (८.१८.२)
१८३५. ॐ मधुव्रातविघुष्टया स्वया श्रीवनमालया विराजिताय नमः । (८.१८.३)
१८३६. ॐ स्वरोचिषा प्रजापतेः वेश्मतमः विनाशकाय नमः । (८.१८.३)
१८३७. ॐ कण्ठनिविष्टकौस्तुभाय नमः । (८.१८.३)
१८३८. ॐ निजयोगमायया गृहीतदेहाय नमः । (८.१८.११)
१८३९. ॐ वामनमूर्तये नमः । (८.१८.१२)
१८४०. ॐ अव्यक्तचिदे नमः । (८.१८.१२)
१८४१. ॐ छत्रदण्डजलकमण्डलुधराय नमः । (८.१८.२३)
१८४२. ॐ मौञ्ज्या मेखलया वीताय नमः । (८.१८.२४)
१८४३. ॐ उपवीताजिनोत्तराय नमः । (८.१८.२४)
१८४४. ॐ जटिलाय नमः । (८.१८.२४)
१८४५. ॐ मायामाणवकाय नमः । (८.१८.२४)
१८४६. ॐ रूपानुरूपावयवाय नमः । (८.१८.२६)
१८४७. ॐ ब्रह्मर्षिवपुर्धराय नमः । (८.१८.२९)
१८४८. ॐ साक्षात् तपसे नमः । (८.१८.२९)
१८४९. ॐ द्विजात्मजाय नमः । (८.१८.३१)
१८५०. ॐ विप्रसुताय नमः । (८.१८.३२)
बलिवामनसंवादः भगवतः पदत्रयमहीयाचनं बलेः भूदानं वामनस्य विराड्रूपग्रहणञ्च
१८५१. ॐ मायाविनां वराय नमः । (८.१९.८)
१८५२. ॐ ब्राह्मण दायादाय नमः । (८.१९.१८)
१८५३. ॐ देवानां कार्यसाधकाय नमः । (८.१९.३०)
१८५४. ॐ गुणत्रयात्मकाय नमः । (८.२०.२१)
१८५५. ॐ भूतेन्द्रियाशयजीवयुक्तविश्वरूपाय नमः । (८.२०.२२)
१८५६. ॐ मधुव्रतस्रग्वनमालयावृताय नमः । (८.२०.३३)
बलेः बन्धनं तृतीयपदाय भगवद्वचनं बलेः सत्यपरिपालनं भगवतः बलिप्रशंसनं तथा वरदानञ्च
१८५७. ॐ संक्षिप्तात्मविभूतये नमः । (८.२१.५)
१८५८. ॐ सर्वभूतानां सुखदुःखोपपत्तेः प्रभवे नमः । (८.२१.२०)
१८५९. ॐ सुनन्दनन्दाद्यनुगैरुपासिताय नमः । (८.२२.१५)
१८६०. ॐ सत्पतये नमः । (८.२२.१५)
१८६१. ॐ नारायणाखिललोकसाक्षिणे नमः । (८.२२.१७)
१८६२. ॐ उपेन्द्राय नमः । (८.२२.१९)
१८६३. ॐ स्वामिने नमः । (८.२२.२०)
बलेः सुतलगमनं वामनस्य उपेन्द्रपदाभिषेकश्च
१८६४. ॐ कल्पतरुस्वभावाय नमः । (८.२३.८)
१८६५. ॐ समदृशे नमः । (८.२३.८)
१८६६. ॐ कर्मेश्वराय नमः । (८.२३.१५)
१८६७. ॐ वेदानां सर्वदेवानां धर्मस्य यशसः श्रियः मङ्गलानां व्रतानां स्वर्गापवर्गयोः च पतये नमः । (८.२३.२२)
मत्स्यावतारवर्णनम्
१८६८. ॐ मायामत्स्यविडम्बनाय नमः । (८.२४.१)
१८६९. ॐ शफरीरूपाय नमः । (८.२४.१२)
१८७०. ॐ महामीनाय नमः । (८.२४.२१)
१८७१. ॐ मत्स्यवपुर्धराय नमः । (८.२४.३१)
१८७२. ॐ एकशृङ्गाय नमः । (८.२४.४४)
१८७३. ॐ नियुतयोजनदीर्घाय नमः । (८.२४.४४)
१८७४. ॐ हैममत्स्याय नमः । (८.२४.४४)
१८७५. ॐ विमुक्तिदाय नमः । (८.२४.४६)
१८७६. ॐ गुरोर्गुरवे नमः । (८.२४.४८)
१८७७. ॐ सर्वदृशां समीक्षणाय नमः । (८.२४.५०)
१८७८. ॐ अर्कदृशे नमः । (८.२४.५०)
१८७९. ॐ अमोघज्ञानदात्रे नमः । (८.२४.५१)
१८८०. ॐ सर्वलोकस्य सुहृदे नमः । (८.२४.५२)
१८८१. ॐ अभीष्टसिद्धये नमः । (८.२४.५२)
१८८२. ॐ शार्ङ्गिणे नमः । (८.२४.५९)
१८८३. ॐ अखिलहेतवे नमः । (८.२४.६१)
१८८४. ॐ जिह्ममीनाय नमः । (८.२४.५१)
सूर्यवंशवर्णनं सुद्युम्नस्य स्त्रीभावप्राप्तिः सुर्यवंशविस्तारः सुकन्याचरितं रेवतीविवाहश्च
१८८५. ॐ भूतानामात्मने नमः । (९.१.८)
१८८६. ॐ सर्वभूतसुहृदे नमः । (९.२.११)
१८८७. ॐ समस्मै नमः । (९.२.११)
१८८८. ॐ महाबलाय बलदेवाय नमः । (९.३.३३)
१८८९. ॐ भुवो भारावतारायावतीर्णाय नमः । (९.३.३४)
नाभागचरितं अम्बरीषोपाख्यानं अम्बरीषस्य सुदर्शनस्तुतिश्च
१८९०. ॐ भक्तपराधीनाय नमः । (९.४.६३)
१८९१. ॐ भक्तजनप्रियाय नमः । (९.४.६३)
१८९२. ॐ सहस्राराय नमः । (९.५.४)
१८९३. ॐ अच्युतप्रियाय नमः । (९.५.४)
१८९४. ॐ अखिलयज्ञभुजे नमः । (९.५.५)
१८९५. ॐ सुनाभाय नमः । (९.५.६)
१८९६. ॐ अखिलधर्म्मसेतवे नमः । (९.५.६)
१८९७. ॐ अधर्मशीलासुरधूमकेतवे नमः । (९.५.६)
१८९८. ॐ त्रैलोक्यगोपायविशुद्धवर्च्चसे नमः । (९.५.६)
१८९९. ॐ मनोजवायात्भुतकर्म्मणे नमः । (९.५.६)
१९००. ॐ दुरत्ययमहिम्ने नमः । (९.५.७)
१९०१. ॐ अनञ्जनाय नमः । (९.५.८)
१९०२. ॐ जगत्त्राणखलप्रहाणये नमः । (९.५.९)
१९०३. ॐ विष्णुचक्राय नमः । (९.५.१२)
ईक्ष्वाकुवंशवर्णनं सौभर्युपाख्यानं सगरचरितं भगीरथस्य गङ्गानयनं सौदासचरितञ्च
१९०४. ॐ सर्ववेदसुरात्मकाय नमः । (९.८.७)
१९०५. ॐ स्वभावप्रध्वस्तमायागुणभेदमोहैः सनन्दनाद्यैर्मुनिभिर्विभाव्याय नमः । (९.८.२३)
१९०६. ॐ प्रशान्तमायागुणकर्म्मलिङ्गाय नमः । (९.८.२४)
१९०७. ॐ सदसद्विमुक्ताय नमः । (९.८.२४)
१९०८. ॐ ज्ञानोपदेशाय गृहीतदेहाय नमः । (९.८.२४)
१९०९. ॐ सर्वभूतात्मने नमः । (९.८.२६)
१९१०. ॐ अघभिदे नमः । (९.९.६)
१९११. ॐ भवच्छिदे नमः । (९.९.१४)
१९१२. ॐ भूतेष्वन्तर्हिताय नमः । (९.९.२९)
१९१३. ॐ महापुरुषसंज्ञिताय नमः । (९.९.२९)
१९१४. ॐ अशून्याय नमः । (९.९.४९)
१९१५. ॐ शून्यकल्पिताय नमः । (९.९.४९)
संक्षिप्तरामायणकथा
१९१६. ॐ श्रीरामाय नमः । (९.१०.३)
१९१७. ॐ लक्ष्मणाय नमः । (९.१०.३)
१९१८. ॐ भरताय नमः । (९.१०.३)
१९१९. ॐ शत्रुघ्नाय नमः । (९.१०.३)
१९२०. ॐ सीतापतये नमः । (९.१०.३)
१९२१. ॐ खलदवदहनाय नमः । (९.१०.४)
१९२२. ॐ प्रियविरहरुषारोपितभ्रूविजृम्भत्रस्ताब्धये नमः । (९.१०.४)
१९२३. ॐ बद्धसेतवे नमः । (९.१०.४)
१९२४. ॐ कोसलेन्द्राय नमः । (९.१०.४)
१९२५. ॐ लोकवीरसमितौ सीतास्वयंवरगृहे त्रिशतोपनीतं सज्जीकृतं ऐशमुग्रन्धनुर्भञ्जकाय नमः । (९.१०.६)
१९२६. ॐ अनुरूपगुणशीलवयोऽङ्गरूपां सीताभिधां श्रियमुरस्यभिलब्धमानाय नमः । (९.१०.७)
१९२७. ॐ महीं त्रिरराजबीजामकृतभृगुपतेर्प्ररूढदर्पनाशकाय नमः । (९.१०.७)
१९२८. ॐ सत्यपाशपरिवीतपितुर्निदेशं शिरसा गृहीत्वा मुक्तसङ्गः राज्यं श्रियं प्रणयिनः सुहृदो निवासं च त्यक्त्वा सभार्यः वनं गतवते नमः । (९.१०.८)
१९२९. ॐ अशुद्धबुद्धेः रक्षःस्वसुर्व्यकृतवते नमः । (९.१०.९)
१९३०. ॐ खरत्रिशिरदूषणान्तकाय नमः । (९.१०.९)
१९३१. ॐ अत्भुतैणवपुषा आश्रमतोऽपकृष्टमारीचमारकाय नमः । (९.१०.१०)
१९३२. ॐ कपिभिः सख्यं विधाय हनुमतः दयितागतिं बुद्धाय नमः । (९.१०.१२)
१९३३. ॐ बालिनि हते प्लवगेन्द्र सैन्यैः सह तीरं गतवते नमः । (९.१०.१२)
१९३४. ॐ अजभवार्चिताङ्घ्रये नमः । (९.१०.१२)
१९३५. ॐ रोषविभ्रमविवृत्तकटाक्षपातसम्भ्रान्तनक्रमकरोभयगीर्णघोषसिन्धुना शिरस्यर्हणं परिगृह्य पादारविन्दमुपगम्याय नमः । (९.१०.१३)
१९३६. ॐ जगतामधीशाय नमः । (९.१०.१४)
१९३७. ॐ कपीन्द्रकरकम्पितभूरुहाङ्गैः विविधाद्रिकूटैः सेतुं बद्ध्वोदधौ ससुग्रीवहनुमत्प्रमुखैरनीकैरग्रदग्द्धां लङ्कां विशतवते नमः । (९.१०.१६)
१९३८. ॐ निकुम्भकुम्भधूम्राक्षदुर्मुखसुरान्तनरान्तकप्रहस्तातिकायविकम्पनकुम्भकर्ण्णरावण्यादिरक्षोगणविनाशकाय नमः । (९.१०.१८,२३)
१९३९. ॐ सीताभिमर्शहतमङ्गलरावणघ्नाय नमः । (९.१०.२०,२३)
१९४०. ॐ विभीषणाय रक्षोगणेशतां दत्तवते नमः । (९.१०.२९)
१९४१. ॐ स्वविरहव्याधिं क्षामां दीनां रामसन्दर्शनाह्लादविकसन्मुखपङ्कजां प्रियतमां भार्यां अशोकवनिकाश्रमे वीक्ष्यान्वकम्पिताय नमः । (९.१०.३०)
१९४२. ॐ लोकपालार्पितैः कुसुमैरवकीर्णाय नमः । (९.१०.३३)
१९४३. ॐ शतधृत्यादिभिर्मुदोपगीयमानचरिताय नमः । (९.१०.३३)
१९४४. ॐ भरतेन नेत्रजलैः स्नापिताय नमः । (९.१०.४०)
१९४५. ॐ प्रजाभिः नमस्कृताय नमः । (९.१०.४०)
१९४६. ॐ सोत्सवं पुरीं प्रविश्य भ्रातृभिः नन्दिताय नमः । (९.१०.४५)
१९४७. ॐ कुलवृद्धैः समं गुरुभिः चतुःसिन्धुजलादिभिरभिषिक्ताय नमः । (९.१०.४९)
१९४८. ॐ कृतः शिरस्नानाय सुवाससे नमः । (९.१०.५०)
१९४९. ॐ स्रग्व्यलङ्कृतवते नमः । (९.१०.५०)
१९५०. ॐ भ्रात्रा प्रणिपत्य प्रसादितासनग्रहीताय नमः । (९.१०.५१)
१९५१. ॐ एकपत्नीव्रतधराय नमः । (९.१०.५५)
१९५२. ॐ राजर्षये नमः । (९.१०.५५)
१९५३. ॐ प्रेम्णानुवृत्या शीलेन सीतादेव्या मनोहृताय नमः । (९.१०.५६)
१९५४. ॐ भुवनेश्वराय नमः । (९.११.६)
१९५५. ॐ उत्तमश्लोकधुर्याय नमः । (९.११.७)
१९५६. ॐ न्यस्तदण्डार्पितायाङ्घ्रये नमः । (९.११.७)
१९५७. ॐ आत्मज्योतिषे नमः । (९.११.१९)
१९५८. ॐ सुरयाच्ञयात्तात्मलीलातनवे नमः । (९.११.२०)
१९५९. ॐ रघुपतये नमः । (९.११.२१)
१९६०. ॐ नाकपालवसुपालकिरीटजुष्टपादाम्बुजाय नमः । (९.११.२१)
१९६१. ॐ स्वारामधीराणां ऋषभाय नमः । (९.११.३५)
१९६२. ॐ नॄणां अभिध्याताङ्घ्रिपल्लवाय नमः । (९.११.३६)
निमिवंशवर्णनं चन्द्रवंशवर्णनारम्भञ्च
१९६३. ॐ हरिमेधसः चरणाम्भोजाय नमः । (९.१३.९)
१९६४. ॐ सहस्रशिरसे नमः । (९.१४.२)
१९६५. ॐ पुंसे नमः । (९.१४.२)
१९६६. ॐ सर्ववाङ्मयाय प्रणवाय नमः । (९.१४.४८)
परशुरामचरितम्
१९६७. ॐ भार्गवरामाय नमः । (९.१५.१३)
१९६८. ॐ भुवः अब्रह्मण्यक्षत्रभारनाशकाय नमः । (९.१५.१५)
१९६९. ॐ धनुर्धराय बाणपरश्वधायुधाय नमः । (९.१५.२९)
१९७०. ॐ ऐणेयचर्माम्बराय नमः । (९.१५.२९)
१९७१. ॐ अर्कधामभिः जटाभिः युताय नमः । (९.१५.२९)
१९७२. ॐ भृगुवर्याय नमः । (९.१५.२९)
१९७३. ॐ परचक्रसूदनाय नमः । (९.१५.३१)
१९७४. ॐ अस्त्रभृतां समग्रणये नमः । (९.१५.३३)
१९७५. ॐ एकधन्वने नमः । (९.१५.३३)
१९७६. ॐ परवीरहन्त्रे नमः । (९.१५.३६)
१९७७. ॐ पितुः प्रभावं ज्ञात्वा भ्रातॄन् सह मातरं हतवते नमः । (९.१६.६)
१९७८. ॐ हतानां भ्रातॄणां मातुः च पित्रा पुनरुज्जीवनसाधकाय नमः । (९.१६.७)
१९७९. ॐ परशुरामाय नमः । (९.१६.१६)
१९८०. ॐ त्रिःसप्त कृत्वः पृथिवीं निक्षत्रियां कृतवते नमः । (९.१६.१९)
१९८१. ॐ अवभृथस्नानविधूताशेषकिल्बिषाय नमः । (९.१६.२३)
१९८२. ॐ प्रशान्तधिये नमः । (९.१६.२६)
१९८३. ॐ सिद्धगन्धर्वचारणैरुपगीयमानचरिताय नमः । (९.१६.२६)
ययातिचरितं पूरुवंशवर्णनं दुष्यन्तभरतचरितं रन्तिदेवचरितं पाण्डवाद्युत्पत्तिश्च
१९८४. ॐ श्रीनिकेतनाय नमः । (९.१८.१३)
१९८५. ॐ सर्वभूताधिवासाय नमः । (९.१९.२९)
१९८६. ॐ अखिलदेहभाजामन्तस्थिताय नमः । (९.२१.१२)
१९८७. ॐ द्रौणेरस्त्रतेजसात् परीक्षितं सजीवं मोचकाय नमः । (९.२२.३४)
यदुवंशवर्णनं श्रीकृष्णावतारसूचना च
१९८८. ॐ नराकृतौ अवतीर्णाय नमः । (९.२३.१९)
१९८९. ॐ दत्तात्रेयाय नमः । (९.२३.२४)
१९९०. ॐ अहीश्वराय नमः । (९.२४.५२)
१९९१. ॐ कलौ जनिष्यमाणानां भक्तानां दुःखशोकतमोनुदं सुपुण्यं यशो वितनुते नमः । (९.२४.५९)
१९९२. ॐ श्लाघनीयेहिताय नमः । (९.२४.६१)
१९९३. ॐ स्निग्धस्मितेक्षितोदारैर्वाक्यैर्विक्रमलीलया सर्वाङ्गरम्यया मूर्त्त्या नृलोकं रमयमाणाय नमः । (९.२४.६२)
१९९४. ॐ मकरकुण्डलचारुकर्ण्णभ्राजत्कपोलसुभगसविलासहासाननाय नमः । (९.२४.६३)
१९९५. ॐ नित्योत्सवाय नमः । (९.२४.६३)
१९९६. ॐ पृथ्व्याः गुरुभरं कुरूणां अन्तःसमुत्थकलिना क्षपयन् युधि भूपचम्वः दृष्ट्या विधूयितवते नमः । (९.२४.६५)
श्रीकृष्णावतारोपक्रमः
१९९७. ॐ निवृत्ततर्षैरुपगीयमानाय नमः । (१०.१.४)
१९९८. ॐ श्रोत्रमनोभिरामगुणानुवादाय उत्तमश्लोकाय नमः । (१०.१.४)
१९९९. ॐ कुरुपाण्डवानां सन्तानबीजगोप्त्रे नमः । (१०.१.६)
२०००. ॐ पूरुषकालरूपैर्मृत्युममृतमुतप्रयच्छते नमः । (१०.१.७)
२००१. ॐ मायामनुष्याय नमः । (१०.१.७)
२००२. ॐ कलिकल्मषघ्नचरिताय नमः । (१०.१.१४)
२००३. ॐ वृषाकपये नमः । (१०.१.२०)
२००४. ॐ ईश्वरेश्वराय नमः । (१०.१.२२)
भगवतः देवकीगर्भप्रवेशः ब्रह्मादिदेवानां भगवत्स्तुतिश्च
२००५. ॐ बलभद्राय नमः । (१०.२.१३)
२००६. ॐ लोकरमणाय नमः । (१०.२.१३)
२००७. ॐ भक्तानामभयङ्कराय नमः । (१०.२.१६)
२००८. ॐ जगन्मङ्गलाय नमः । (१०.२.१८)
२००९. ॐ सर्वात्मकाय नमः । (१०.२.१८)
२०१०. ॐ आत्मभूताय नमः । (१०.२.१८)
२०११. ॐ आनन्दकराय नमः । (१०.२.१८)
२०१२. ॐ सर्वजगन्निवासाय नमः । (१०.२.१९)
२०१३. ॐ ब्रह्मणा भवेन मुनिभिर्नारदादिभिः चेडिताय नमः । (१०.२.२५)
२०१४. ॐ सत्यव्रताय नमः । (१०.२.२६)
२०१५. ॐ सत्यपराय नमः । (१०.२.२६)
२०१६. ॐ त्रिसत्याय नमः । (१०.२.२६)
२०१७. ॐ सत्यस्य योनये नमः । (१०.२.२६)
२०१८. ॐ सत्यस्य सत्याय नमः । (१०.२.२६)
२०१९. ॐ ऋतसत्यनेत्राय नमः । (१०.२.२६)
२०२०. ॐ सत्यात्मकाय नमः । (१०.२.२६)
२०२१. ॐ एकायनाय द्विफलाय त्रिमूलाय चतूरसाय पञ्चविधाय षडात्मने सप्तत्वचे अष्टविटपाय नवाक्षाय दशच्छदे द्विखगाय आदिवृक्षाय नमः । (१०.२.२७)
२०२२. ॐ अस्य विश्वस्य एकस्मै प्रसूतये सन्निधानाय अनुग्रहाय नमः । (१०.२.२८)
२०२३. ॐ चराचरस्य लोकानां क्षेमाय, सतां सुखावहाय, खलानां अभद्राय सत्वोपपन्ननानारूपधारिणे नमः । (१०.२.२९)
२०२४. ॐ अखिलसत्वधाम्ने नमः । (१०.२.३०)
२०२५. ॐ अनुमेयवर्त्मने नमः । (१०.२.३६)
२०२६. ॐ मनोवचोभ्यामनिरूपतव्य गुणजन्मकर्मनामरूपाय नमः । (१०.२.३६)
२०२७. ॐ अभयाश्रयाय नमः । (१०.२.३९)
२०२८. ॐ मत्स्याश्वकच्छपनृसिंहवराहहंसराजन्यविप्रविबुधेषु कृतावताराय नमः । (१०.२.४०)
२०२९. ॐ ब्रह्मेशानाभ्यां स्तुताय नमः । (१०.२.४२)
श्रीकृष्णावतारः वसुदेवस्तुति देवकीस्तुतिश्च
२०३०. ॐ देवक्यां देवरूपिण्यां जाताय नमः । (१०.३.८)
२०३१. ॐ सर्वगुहाशयाय नमः । (१०.३.८)
२०३२. ॐ श्रीकृष्णपरमात्मने नमः । (१०.३.८)
२०३३. ॐ शङ्खगदार्युदायुधधराय नमः । (१०.३.९)
२०३४. ॐ श्रीवत्सलक्ष्माय नमः । (१०.३.९)
२०३५. ॐ गलशोभिकौस्तुभाय नमः । (१०.३.९)
२०३६. ॐ सान्द्रपयोदसौभगाय नमः । (१०.३.९)
२०३७. ॐ महार्हवैडूर्यकिरीटकुण्डलत्विषापरिष्वक्तसहस्रकुन्तलयुताय नमः । (१०.३.१०)
२०३८. ॐ उद्दामकाञ्च्यङ्गदकङ्कणादिभिर्विरोचमानाय नमः । (१०.३.१०)
२०३९. ॐ स्वरोचिषा सूतिकागृहं विरोचितवते नमः । (१०.३.१२)
२०४०. ॐ सर्वबुद्धिदृशे नमः । (१०.३.१३)
२०४१. ॐ त्रिगुणात्मकाय नमः । (१०.३.१४)
२०४२. ॐ सर्वस्य सर्वात्मने नमः । (१०.३.१७)
२०४३. ॐ आत्मवस्तुने नमः । (१०.३.१७)
२०४४. ॐ अनीहाय नमः । (१०.३.१९)
२०४५. ॐ स्वमायया त्रिलोकस्थितये आत्मनः शुक्लवर्णं, सर्गाय रक्तं तथा जनात्यये कृष्णं च बिभ्रते नमः । (१०.३.२०)
२०४६. ॐ निर्विकाराय नमः । (१०.३.२४)
२०४७. ॐ सत्तामात्राय नमः । (१०.३.२४)
२०४८. ॐ निर्विशेषाय नमः । (१०.३.२४)
२०४९. ॐ साक्षात् विष्णवे नमः । (१०.३.२४)
२०५०. ॐ अध्यात्मदीपाय नमः । (१०.३.२४)
२०५१. ॐ अशेषसंज्ञाय नमः । (१०.३.२५)
२०५२. ॐ अव्यक्तबन्धवे नमः । (१०.३.२६)
२०५३. ॐ क्षेमधाम्ने नमः । (१०.३.२६)
२०५४. ॐ भृत्यवित्रासहन्त्रे नमः । (१०.३.२८)
२०५५. ॐ ध्यानधिष्ण्याय नमः । (१०.३.२८)
२०५६. ॐ शङ्खचक्रगदापद्मश्रियाजुष्टाय चतुर्भुजाय नमः । (१०.३.३०)
२०५७. ॐ अलौकिकरूपाय नमः । (१०.३.३०)
२०५८. ॐ वरदराजे नमः । (१०.३.३८)
पूतनामोक्षः
२०५९. ॐ प्रतिच्छन्ननिजोरुतेजसे नमः । (१०.६.७)
२०६०. ॐ बालकृष्णाय नमः । (१०.६.७)
२०६१. ॐ चराचरात्मने नमः । (१०.६.८)
२०६२. ॐ पूतनासुपीताय नमः । (१०.६.)
२०६३. ॐ हतायाः पूतनाया उरसि अकुतोभयं क्रीडते नमः । (१०.६.१८)
२०६४. ॐ यशोदारोहिणीभ्यां समं गोपिकाभिः सम्यग्गोपुच्छभ्रमणादिभिः रक्षां विहिताय नमः । (१०.६.१९)
२०६५. ॐ अणिम्ने नमः । (१०.६.२२)
२०६६. ॐ हयास्याय नमः । (१०.६.२२)
२०६७. ॐ इनाय नमः । (१०.६.२२)
२०६८. ॐ हलधराय नमः । (१०.६.२३)
२०६९. ॐ तार्क्ष्याय नमः । (१०.६.२३)
२०७०. ॐ सर्वग्रहभयङ्कराय नमः । (१०.६.२६)
२०७१. ॐ यज्ञभुजे नमः । (१०.६.२६)
२०७२. ॐ लोकवन्दितैः वन्द्याभ्यां भक्तहृदिस्थाभ्यां पद्भ्यां नमः । (१०.६.३७)
२०७३. ॐ कैवल्याद्यखिलप्रदाय नमः । (१०.६.३९)
शकटासुरतृणावर्तासुरयोः वधः यशोदायाः श्रीकृष्णेन निजमुखे विश्वरूपप्रदर्शनञ्च
२०७४. ॐ शकटासुरं चूर्णीकृतवते नमः । (१०.७.)
२०७५. ॐ यशोदासुताय नमः । (१०.७.२२)
२०७६. ॐ नन्दसूनवे नमः । (१०.७.२५)
२०७७. ॐ हतस्य तृणावर्तासुरस्योरसि लम्बमानाय नमः । (१०.७.३०)
२०७८. ॐ निजमुखे मात्रे विश्वं दर्शयितवते नमः । (१०.७.)
गर्गागमनं तेन श्रीकृष्णबलरामयोः नामकरणं तयोः शैशवसौकुमार्यवर्णनं श्रीकृष्णेन मात्रे पुनर्विश्वरूपप्रदर्शनञ्च
२०७९. ॐ गोपगोकुलनन्दनाय नमः । (१०.८.१६)
२०८०. ॐ नन्दात्मजाय नमः । (१०.८.१९)
२०८१. ॐ कीर्त्या अनुभावेन गुणैः नारायणसमस्मै नमः । (१०.८.१९)
२०८२. ॐ रामकेशवाभ्यां नमः । (१०.८.२१)
२०८३. ॐ जानुभ्यां सहपाणिरिङ्गमाणाभ्यां रामकेशवाभ्यां नमः । (१०.८.२१)
२०८४. ॐ अव्याहतैश्वर्याय नमः । (१०.८.३६)
२०८५. ॐ क्रीडामनुजबालकाय नमः । (१०.८.३६)
२०८६. ॐ त्रय्या उपनिषद्भिः साङ्ख्ययोगैः च सात्वतैः उपगीयमानमाहात्म्याय नमः । (१०.८.४५)
२०८७. ॐ लोकशमलापहाय नमः । (१०.८.४७)
यशोदया श्रीकृष्णोलूखलबन्धनं यमलार्जुनपातनं नलकूबरमणीग्रीवयोः नारदशापात् मोचनं तयोः स्तुतिश्च
२०८८. ॐ गोपिकासुताय नमः । (१०.९.२१)
२०८९. ॐ दाम्ना उलूखले बद्धाय नमः । (१०.९.)
२०९०. ॐ सर्वभूतानां देहास्वात्मेन्द्रियेश्वराय नमः । (१०.१०.३०)
२०९१. ॐ सर्वक्षेत्रविकारविदे नमः । (१०.१०.३१)
२०९२. ॐ प्राकृतैः गुणैः गृह्यमाणैः विकारैरग्राह्याय नमः । (१०.१०.३२)
२०९३. ॐ आत्मद्योतगुणैच्छन्नमहिम्ने नमः । (१०.१०.३३)
२०९४. ॐ आशिषां पतये नमः । (१०.१०.३५)
२०९५. ॐ सर्वलोकस्य भवाय विभवाय चांशभागेन अवतीर्णाय नमः । (१०.१०.३५)
२०९६. ॐ परमकल्याणाय नमः । (१०.१०.३६)
२०९७. ॐ परममङ्गलाय नमः । (१०.१०.३६)
२०९८. ॐ यदूनां पतये नमः । (१०.१०.३६)
२०९९. ॐ गोकुलेश्वराय नमः । (१०.१०.३९)
गोपीगोपानां वृन्दावनयात्रा बकासुरवधश्च
२१००. ॐ उलूखलं विकर्षते बालकाय नमः । (१०.११.३)
२१०१. ॐ दाम्ना बद्धाय बालकाय नमः । (१०.११.३)
२१०२. ॐ सर्वफलप्रदाय नमः । (१०.११.१०)
२१०३. ॐ कुलनन्दनाय नमः । (१०.११.१६)
२१०४. ॐ दाशार्हाय नमः । (१०.११.१७)
२१०५. ॐ अशेषशेखराय नमः । (१०.११.२०)
२१०६. ॐ वृन्दावनं गोवर्धनं यमुनापुलिनानि च दृष्ट्वा प्रीताभ्यां राममाधवाभ्यां नमः । (१०.११.३६)
२१०७. ॐ यमुनातीरे वत्सं चारयद्भ्यां बलरामकृष्णाभ्यां नमः । (१०.११.४१)
२१०८. ॐ बलदेवाय नमः । (१०.११.४२)
२१०९. ॐ वत्सासुरघ्नाय नमः । (१०.११.४३)
२११०. ॐ सर्वलोकैकपालकाभ्यां नमः । (१०.११.४६)
२१११. ॐ गोपालसूनवे नमः । (१०.११.५१)
२११२. ॐ बकासुरहन्त्रे नमः । (१०.११.५२)
२११३. ॐ सुरलोकवासिना नन्दनमल्लिकादिभिः समीडिताय नमः । (१०.११.५३)
२११४. ॐ बकारये नमः । (१०.११.५३)
अघासुरमोक्षः, वत्सस्तेयं, ब्रह्मदेवमोहनञ्च
२११५. ॐ फलस्तबकसुमनःपिञ्छधातुभिरलङ्कृताय नमः । (१०.१२.४)
२११६. ॐ मायाश्रितानां नरदारकरूपेण दृश्याय नमः । (१०.१२.११)
२११७. ॐ बहुजन्मकृच्छ्रतः धृतात्मभिर्योगिभिरप्यगम्याय नमः । (१०.१२.१२)
२११८. ॐ अखिलभूतहृत्स्थिताय नमः । (१०.१२.२५)
२११९. ॐ अशेषदृग्घरये नमः । (१०.१२.२८)
२१२०. ॐ अघासुरप्राणनिरोधिने नमः । (१०.१२.३१)
२१२१. ॐ मनुजार्भमायिने नमः । (१०.१२.३८)
२१२२. ॐ परावराणां वेधसे नमः । (१०.१२.३८)
२१२३. ॐ नित्यात्मसुखानुभूत्यभिव्युदस्तमायाय नमः । (१०.१२.३९)
२१२४. ॐ अघासुरवदनान्मृत्योः वत्सपालकरक्षकाय नमः । (१०.१३.४)
२१२५. ॐ जठरपटयोः वेणुं वामकक्षे पाणौ शृङ्गवेत्रे मसृणकबलं अङ्गुलीषु तत् फलानि च बिभ्रत् मध्ये तिष्ठते नमः । (१०.१३.११)
२१२६. ॐ अद्रिदरीकुञ्जगह्वरेष्वात्मवत्सकान् विचिन्वते नमः । (१०.१३.१४)
२१२७. ॐ मायार्भकाय नमः । (१०.१३.१५)
२१२८. ॐ विश्वविदे नमः । (१०.१३.१७)
२१२९. ॐ सर्वस्वरूपाय नमः । (१०.१३.१९)
२१३०. ॐ अखिलात्मने नमः । (१०.१३.३६)
२१३१. ॐ यस्य भासा सचराचरं इदं सर्वं विभाति तस्मै नमः । (१०.१३.५५)
२१३२. ॐ निजमहिमनि स्वप्रमितिकाय नमः । (१०.१३.५७)
२१३३. ॐ अजातपरत्राय नमः । (१०.१३.५७)
२१३४. ॐ मायानिरसनमुखब्रह्मकमिते नमः । (१०.१३.५७)
२१३५. ॐ अतर्क्याय नमः । (१०.१३.५७)
२१३६. ॐ वत्सान् सखीन् परितः विचिन्वते नमः । (१०.१३.६१)
२१३७. ॐ अद्वयब्रह्मणे नमः । (१०.१३.६१)
२१३८. ॐ परमनन्तमगाधबोधरूपाय नमः । (१०.१३.६१)
२१३९. ॐ सपाणिकबलाय नमः । (१०.१३.६१)
२१४०. ॐ पशुपवंशशिशवे नमः । (१०.१३.६१)
२१४१. ॐ ब्रह्मदेवेन चतुर्मुकुटकोटिभिरङ्घ्रियुग्मं स्प्रृष्ट्वा नमस्कृताय नमः । (१०.१३.६२)
२१४२. ॐ अजेन मुदश्रुसुजलैरभिषिक्ताय नमः । (१०.१३.६२)
२१४३. ॐ विनम्रकन्धरेण कृताञ्जलिना सवेपथुर्ग्गद्गदयैलया धात्रा स्तुताय नमः । (१०.१३.६४)
ब्रह्मदेवस्य भगवत्स्तुतिः
२१४४. ॐ ईड्याय नमः । (१०.१४.१)
२१४५. ॐ अभ्रवपुषे नमः । (१०.१४.१)
२१४६. ॐ तडिदम्बराय नमः । (१०.१४.१)
२१४७. ॐ गुञ्जावतंसपरिपिञ्छलसन्मुखाय नमः । (१०.१४.१)
२१४८. ॐ वन्यस्रग्धारिणे नमः । (१०.१४.१)
२१४९. ॐ कबलवेत्रविषाणवेणुलक्ष्मश्रिये नमः । (१०.१४.१)
२१५०. ॐ मृदुपदे नमः । (१०.१४.१)
२१५१. ॐ पशुपाङ्गजाय नमः । (१०.१४.१)
२१५२. ॐ स्वेच्छामयाय नमः । (१०.१४.२)
२१५३. ॐ साक्षात् आत्मसुखानुभूतये नमः । (१०.१४.२)
२१५४. ॐ विश्वहितावतीर्णाय नमः । (१०.१४.७)
२१५५. ॐ अविगणिताण्डपराणुचर्यावाताध्वरोमविवराय नमः । (१०.१४.११)
२१५६. ॐ अखिललोकसाक्षिणे नमः । (१०.१४.१४)
२१५७. ॐ नरभूजलायनाय नमः । (१०.१४.१४)
२१५८. ॐ मायाधमनाय नमः । (१०.१४.१६)
२१५९. ॐ अमिताय नमः । (१०.१४.१८)
२१६०. ॐ अद्वयब्रह्मणे नमः । (१०.१४.१८)
२१६१. ॐ योगमायां विस्तारयन् क्रीडयते नमः । (१०.१४.२१)
२१६२. ॐ नित्यसुखबोधतनवे नमः । (१०.१४.२२)
२१६३. ॐ अजस्रसुखाय नमः । (१०.१४.२३)
२१६४. ॐ उपाधितः मुक्ताय नमः । (१०.१४.२३)
२१६५. ॐ अजस्रचित्यात्मने नमः । (१०.१४.२६)
२१६६. ॐ ऋतज्ञभावाय नमः । (१०.१४.२६)
२१६७. ॐ नन्दगोपव्रजौकसां पूर्णपरमानन्दसनातनभाग्यस्वरूपाय नमः । (१०.१४.३२)
२१६८. ॐ श्रुतिमृग्यपदरजोयुताय नमः । (१०.१४.३४)
२१६९. ॐ अनुगगीतपवित्रकीर्तये नमः । (१०.१४.४७)
२१७०. ॐ गोपीदृगुत्सवदृशे नमः । (१०.१४.४७)
२१७१. ॐ प्रोद्दामवेणुदलशृङ्गरवोत्सवाढ्याय नमः । (१०.१४.४७)
२१७२. ॐ बर्हप्रसूननवधातुविचित्रिताङ्गाय नमः । (१०.१४.४७)
२१७३. ॐ यशोदानन्दसूनवे नमः । (१०.१४.४८)
२१७४. ॐ अखिलात्मनामात्मने नमः । (१०.१४.५५)
२१७५. ॐ अखिलस्थास्नुचरिष्णुरूपाय भगवते नमः । (१०.१४.५६)
२१७६. ॐ पुण्ययशसे नमः । (१०.१४.५८)
२१७७. ॐ भगवतः पदपल्लवप्लवाय नमः । (१०.१४.५८)
बलरामेण धेनुकासुरवधः कालियस्य विषेण मृतगोगोपानां श्रीकृष्णेन पुनरुज्जीवनञ्च
२१७८. ॐ कुसुमाकरवने विहर्तुकामाय नमः । (१०.१५.२)
२१७९. ॐ वेणुगोपालाय नमः । (१०.१५.२)
२१८०. ॐ अमरार्चितपादाम्बुजाय नमः । (१०.१५.५)
२१८१. ॐ अखिललोकतीर्थयशसे नमः । (१०.१५.६)
२१८२. ॐ अनघाय नमः । (१०.१५.६)
२१८३. ॐ उपगीयमानचरिताय नमः । (१०.१५.१०)
२१८४. ॐ सङ्कर्षणान्विताय नमः । (१०.१५.१०)
२१८५. ॐ क्रीडापरिश्रान्ताय नमः । (१०.१५.१४)
२१८६. ॐ गोपोत्सङ्गबर्हणाय नमः । (१०.१५.१४)
२१८७. ॐ स्वमायाचरितैः गोपात्मजत्वं प्राप्ताय नमः । (१०.१५.१९)
२१८८. ॐ निगूढात्मगतये नमः । (१०.१५.१९)
२१८९. ॐ रमालालितपादपल्लवाय नमः । (१०.१५.१९)
२१९०. ॐ दुष्टनिबर्हणाय नमः । (१०.१५.२१)
२१९१. ॐ धेनुकासुरहन्त्रे बलरामाय नमः । (१०.१५.३२)
२१९२. ॐ तन्तुषु यथा पटः यस्मिन् इदं ओतप्रोतं तस्मै नमः । (१०.१५.३५)
२१९३. ॐ कमलपत्राक्षाय नमः । (१०.१५.४१)
२१९४. ॐ अनुगैर्गोपैः स्तूयमानाय नमः । (१०.१५.४१)
२१९५. ॐ गोरजश्छुरितकुन्तलबद्धबर्हवन्यप्रसूनरुचिरेक्षणाय नमः । (१०.१५.४२)
२१९६. ॐ चारुहासाय नमः । (१०.१५.४२)
२१९७. ॐ वेणुं क्वणते नमः । (१०.१५.४२)
२१९८. ॐ अनुगैर्गोपैः अनुगीतकीर्त्तये नमः । (१०.१५.४२)
२१९९. ॐ योगेश्वरेश्वराय नमः । (१०.१५.५०)
कालियमर्दनं नागपत्नीस्तुतिः यमुनायाः कालियस्य बहिर्निस्सारणञ्च
२२००. ॐ उदारचरिताय नमः । (१०.१६.३)
२२०१. ॐ गोपालाय नमः । (१०.१६.३)
२२०२. ॐ स्वच्छन्दवर्त्तिने नमः । (१०.१६.३)
२२०३. ॐ खलसंयमनावताराय नमः । (१०.१६.६)
२२०४. ॐ वरवारणविक्रमाय नमः । (१०.१६.८)
२२०५. ॐ ह्रदे विहरते नमः । (१०.१६.८)
२२०६. ॐ प्रेक्षणीयसुकुमारघनावदाताय नमः । (१०.१६.९)
२२०७. ॐ श्रीवत्सपीतवसनाय नमः । (१०.१६.९)
२२०८. ॐ स्मितसुन्दरास्याय नमः । (१०.१६.९)
२२०९. ॐ अप्रतिभयाय क्रीडते नमः । (१०.१६.९)
२२१०. ॐ कमलोदराङ्घ्रये नमः । (१०.१६.९)
२२११. ॐ नागभोगपरिवीतादृष्टचेष्टाय नमः । (१०.१६.१०)
२२१२. ॐ परिभ्रमहतौजसमुन्नतांसमानम्य कालियपृथुशिरःस्वधिरूढाय नमः । (१०.१६.२६)
२२१३. ॐ नागमूर्धरत्ननिकरस्पर्शातिताम्रपादाम्बुजाय नमः । (१०.१६.२६)
२२१४. ॐ अखिलकलादिगुरवे नमः । (१०.१६.२६)
२२१५. ॐ गन्धर्वसिद्धसुरचारणदेववधूभिः प्रीत्या मृदङ्गपणवानकगीतपुष्पोपहारनुतिभिः पूजिताय नमः । (१०.१६.२७)
२२१६. ॐ खलनिग्रहणायवतीर्णाय नमः । (१०.१६.३३)
२२१७. ॐ कल्मषापहाय नमः । (१०.१६.३४)
२२१८. ॐ भूताय नमः । (१०.१६.३९)
२२१९. ॐ ज्ञानविज्ञाननिधये नमः । (१०.१६.४०)
२२२०. ॐ ब्रह्मणेऽनन्तशक्तये नमः । (१०.१६.४०)
२२२१. ॐ अगुणायाविकाराय नमः । (१०.१६.४०)
२२२२. ॐ प्राकृताय नमः । (१०.१६.४०)
२२२३. ॐ कालनाभाय नमः । (१०.१६.४१)
२२२४. ॐ कालावयवसाक्षिणे नमः । (१०.१६.४१)
२२२५. ॐ विश्वोपद्रष्ट्रे नमः । (१०.१६.४१)
२२२६. ॐ विश्वकर्त्रे नमः । (१०.१६.४१)
२२२७. ॐ विश्वहेतवे नमः । (१०.१६.४१)
२२२८. ॐ भूतमात्रेन्द्रियप्राणमनोबुद्ध्याशयात्मने नमः । (१०.१६.४२)
२२२९. ॐ त्रिगुणेनाभिमानेन गूढस्वात्मानुभूतये नमः । (१०.१६.४२)
२२३०. ॐ विपश्चिते नमः । (१०.१६.४३)
२२३१. ॐ नानावादानुरोधाय नमः । (१०.१६.४३)
२२३२. ॐ वाच्यवाचकशक्तये नमः । (१०.१६.४३)
२२३३. ॐ प्रमाणमूलाय नमः । (१०.१६.४४)
२२३४. ॐ शास्त्रयोनये नमः । (१०.१६.४४)
२२३५. ॐ प्रवृत्ताय निवृत्ताय च नमः । (१०.१६.४४)
२२३६. ॐ निगमाय नमः । (१०.१६.४४)
२२३७. ॐ वसुदेवसुताय नमः । (१०.१६.४५)
२२३८. ॐ गुणप्रदीपाय नमः । (१०.१६.४६)
२२३९. ॐ गुणात्मच्छादनाय नमः । (१०.१६.४६)
२२४०. ॐ गुणवृत्त्युपलक्ष्याय नमः । (१०.१६.४६)
२२४१. ॐ गुणद्रष्ट्रे नमः । (१०.१६.४६)
२२४२. ॐ स्वसंविदे नमः । (१०.१६.४६)
२२४३. ॐ अव्याकृतविहाराय नमः । (१०.१६.४७)
२२४४. ॐ सर्वव्याकृतसिद्धये नमः । (१०.१६.४७)
२२४५. ॐ मुनये नमः । (१०.१६.४७)
२२४६. ॐ मौनशीलिने नमः । (१०.१६.४७)
२२४७. ॐ परावरगतिज्ञाय नमः । (१०.१६.४८)
२२४८. ॐ सर्वाध्यक्षाय नमः । (१०.१६.४८)
२२४९. ॐ विश्वद्रष्ट्रे नमः । (१०.१६.४८)
२२५०. ॐ अकृतकालशक्तिधृचे नमः । (१०.१६.४९)
२२५१. ॐ अमोघविहाराय नमः । (१०.१६.४९)
२२५२. ॐ शान्तात्मने नमः । (१०.१६.५१)
२२५३. ॐ नागपत्नीभिः समभिष्टुताय नमः । (१०.१६.५४)
२२५४. ॐ कार्यमानुषाय नमः । (१०.१६.६०)
२२५५. ॐ जगन्नाथाय नमः । (१०.१६.६६)
२२५६. ॐ क्रीडामानुषरूपिणे नमः । (१०.१६.६७)
कालियस्य कालिन्द्यागमनहेतुः दावाग्निपानं बलरामेण प्रलम्बासुरवधश्च
२२५७. ॐ मायामनुजाय नमः । (१०.१७.२२)
२२५८. ॐ अमितविक्रमाय रामाय नमः । (१०.१७.२३)
२२५९. ॐ अनन्तशक्तिधृचे नमः । (१०.१७.२५)
२२६०. ॐ प्रवालबर्हस्तबकस्रग्धातुकृतभूषणाय नमः । (१०.१८.९)
२२६१. ॐ गोपजातिप्रतिच्छन्नाभ्यां कृष्णरामाभ्यां नमः । (१०.१८.११)
२२६२. ॐ सर्वदर्शनाय नमः । (१०.१८.१८)
२२६३. ॐ रोहिणीसुताय नमः । (१०.१८.२४)
२२६४. ॐ प्रलम्बासुरघ्नबलरामाय नमः । (१०.१८.२९)
२२६५. ॐ देवैः माल्यैः अभ्यवर्षिताय बलाय नमः । (१०.१८.३२)
दावाग्नेः गोगोपानां रक्षणं ऋतुवर्णनं वेणुगीतञ्च
२२६६. ॐ महावीराय नमः । (१०.१९.९)
२२६७. ॐ कृपणबन्धवे नमः । (१०.१९.११)
२२६८. ॐ योगाधीशाय नमः । (१०.१९.१२)
२२६९. ॐ गोपीनां परमानन्ददाय नमः । (१०.१९.१६)
२२७०. ॐ देवप्रवराभ्यां कृष्णरामाभ्यां नमः । (१०.२०.२)
२२७१. ॐ वृष्णिचक्रावृताय नमः । (१०.२०.४४)
२२७२. ॐ यदुपतये नमः । (१०.२०.४४)
२२७३. ॐ सगोगोपालकाय नमः । (१०.२१.१)
२२७४. ॐ सहपशुपालबलाय नमः । (१०.२१.२)
२२७५. ॐ मधुपतये नमः । (१०.२१.२)
२२७६. ॐ बर्हापीडाय नमः । (१०.२१.५)
२२७७. ॐ नटवरवपुषे नमः । (१०.२१.५)
२२७८. ॐ कनककपिशवाससे नमः । (१०.२१.५)
२२७९. ॐ कर्ण्णयोः कर्ण्णिकारं वैजयन्तीमालाञ्च बिभ्रते नमः । (१०.२१.५)
२२८०. ॐ वेणोः रन्ध्रान् अधरसुधया पूरकाय नमः । (१०.२१.५)
२२८१. ॐ चूतप्रवालबर्हस्तबकोत्पलाब्जमालानुपृक्तपरिधानविचित्रवेषधारिणाभ्यां नमः । (१०.२१.८)
२२८२. ॐ पशुपालगोष्ठ्यां गायमानाभ्यां नमः । (१०.२१.८)
२२८३. ॐ उपात्तविचित्रवेषनन्दनन्दनाय नमः । (१०.२१.११)
२२८४. ॐ वनितोत्सवरूपशीलाय नमः । (१०.२१.१२)
२२८५. ॐ क्वणितवेणुविचित्रगीतवादकाय नमः । (१०.२१.१२)
२२८६. ॐ वेणुगीतपीयूषं गोभ्योऽपि दत्तवते नमः । (१०.२१.१३)
२२८७. ॐ वृन्दावनचारिणे नमः । (१०.२१.२०)
गोपीवस्त्रापहरणं विप्रपत्यनुग्रहलीला च
२२८८. ॐ नन्दगोपसुताय नमः । (१०.२२.४)
२२८९. ॐ नन्दसुताय नमः । (१०.२२.५)
२२९०. ॐ गोपिकानां वासांस्युपादाय नीपमारोहिताय नमः । (१०.२२.९)
२२९१. ॐ श्यामसुन्दराय नमः । (१०.२२.१५)
२२९२. ॐ धर्मज्ञाय नमः । (१०.२२.१५)
२२९३. ॐ गोपिकानां शुद्धभावप्रसादिताय नमः । (१०.२२.१८)
२२९४. ॐ यमुनोपवनेऽशोकनवपल्लवमण्डितगोपैर्वृतं साग्रजं विचरते नमः । (१०.२३.२१)
२२९५. ॐ हिरण्यपरिधये नमः । (१०.२३.२२)
२२९६. ॐ वनमाल्यबर्हधातुप्रवालनटवेषधारिणे नमः । (१०.२३.२२)
२२९७. ॐ अनुव्रतांसे विन्यस्तहस्ताय नमः । (१०.२३.२२)
२२९८. ॐ कर्ण्णोत्पलालककपोलमुखाब्जहासाय नमः । (१०.२३.२२)
२२९९. ॐ अखिलदृग्द्रष्ट्रे नमः । (१०.२३.२४)
२३००. ॐ प्रहसिताननाय नमः । (१०.२३.२४)
२३०१. ॐ अरिन्दमाय नमः । (१०.२३.३०)
२३०२. ॐ विप्रपत्नीभिः भक्त्या दत्तमन्नं गोपान् भोजयित्वा स्वयं प्रीत्या भुक्तवते नमः । (१०.२३.३५)
२३०३. ॐ लीलानरवपुषे नमः । (१०.२३.३६)
२३०४. ॐ गोगोपगोपीनां रूपवाक् कृतैः रमयितवते नमः । (१०.२३.३६)
२३०५. ॐ सतां गतये नमः । (१०.२३.४४)
२३०६. ॐ कैवल्याद्याशिषां पतये नमः । (१०.२३.४५)
इन्द्रयागनिवारणं गोवर्धनपूजा गोवर्धनोद्धारणं इन्द्रकोपात् गोकुलौकसां संरक्षणञ्च
२३०७. ॐ सर्वदर्शनाय नमः । (१०.२४.२)
२३०८. ॐ गोवर्धनरुपं धृत्वा बलिं गृहीतवते नमः । (१०.२४.३५)
२३०९. ॐ इन्द्रकोपात् व्रजौकसां संरक्षणार्थं गोवर्धनाचलं छत्राकमिव एकहस्तेनोद्धृतवते नमः । (१०.२५.१९)
२३१०. ॐ शैलं स्वस्थाने पूर्ववत् स्थापकाय नमः । (१०.२५.२८)
२३११. ॐ बलिनां वराय नमः । (१०.२५.३०)
नन्दगोपेन गोपेभ्यः गर्गोक्तं श्रीकृष्णप्रभाववर्णनम्
२३१२. ॐ गिरिवरधराय नमः । (१०.२६.३)
२३१३. ॐ अर्जुनयोर्मध्ये गच्छन् तौ पातितवते नमः । (१०.२६.७)
२३१४. ॐ वत्सासुरशकटासुरतृणावर्त्तबकासुराघासुराद्यनेकासुरहन्त्रे नमः । (१०.२६.६,८-१०)
२३१५. ॐ धेनुकप्रलम्बाद्यसुरान् बलभद्रेण घातितवते नमः । (१०.२६.११)
२३१६. ॐ बलाय बलशालिने नमः । (१०.२६.११)
२३१७. ॐ कालियं विमदं कृत्वा ह्रदात् उद्वासकाय नमः । (१०.२६.१२)
२३१८. ॐ गोपगोकुलनन्दनाय नमः । (१०.२६.१९)
२३१९. ॐ श्रिया कीर्त्या अनुभावेन च नारायणसमस्मै नमः । (१०.२६.२२)
२३२०. ॐ अक्लिष्टकारिणे नमः । (१०.२६.२३)
२३२१. ॐ अमिततेजसे नमः । (१०.२६.२४)
२३२२. ॐ महेन्द्रमदभिदे नमः । (१०.२६.२५)
२३२३. ॐ गवामिन्द्राय नमः । (१०.२६.२५)
इन्द्रस्यभगवत्स्तुतिः कामधेनुसहितं भगवतः गोविन्दाभिषेकञ्च
२३२४. ॐ ध्वस्तरजस्तमसे नमः । (१०.२७.४)
२३२५. ॐ विशुद्धसत्वधाम्ने नमः । (१०.२७.४)
२३२६. ॐ धर्मस्य गुप्त्यैः खलनिग्रहाय दण्डभृते नमः । (१०.२७.५)
२३२७. ॐ लोकहिताय उपात्तदण्डाय नमः । (१०.२७.६)
२३२८. ॐ स्वयम्भराणां उरुभारजन्मनां चमूपतीनां अभवाय भगवद्चरणानुवर्त्तिनां भवाय चावतीर्णाय नमः । (१०.२७.९)
२३२९. ॐ स्वच्छन्दोपात्तदेहाय नमः । (१०.२७.११)
२३३०. ॐ विशुद्धज्ञानमूर्तये नमः । (१०.२७.११)
२३३१. ॐ सर्वबीजाय नमः । (१०.२७.११)
२३३२. ॐ दण्डपाणये नमः । (१०.२७.१६)
२३३३. ॐ गोपरूपिणे ईश्वराय नमः । (१०.२७.१८)
२३३४. ॐ विश्वसम्भवाय नमः । (१०.२७.१९)
२३३५. ॐ भूमेः भारापनुत्तये अवतीर्णाय नमः । (१०.२७.२१)
२३३६. ॐ सुरभ्या अभिषिक्ताय नमः । (१०.२७.२२)
२३३७. ॐ लोकमलापहाय नमः । (१०.२७.२५)
२३३८. ॐ देवनिकायकेतुभिः अत्भुतपुष्पवृष्टिभिः सम्मानिताय नमः । (१०.२७.२६)
२३३९. ॐ गोगोकुलपतये नमः । (१०.२७.२९)
भगवता वरुणलोकात् नन्दगोपस्य प्रत्यानयनम्
२३४०. ॐ वरुणेन पूजिताय नमः । (१०.२८.४)
२३४१. ॐ अशेषदृशे नमः । (१०.२८.८)
२३४२. ॐ पितृवत्सलाय नमः । (१०.२८.८)
२३४३. ॐ वरुणात् पितरं मोचिताय नमः । (१०.२८.८)
२३४४. ॐ अखिलदृशे नमः । (१०.२८.१२)
२३४५. ॐ नन्दादिभिः छन्दोभिः स्तूयमानाय नमः । (१०.२८.१७)
गोपिकाश्रीकृष्णसंवादः रासारम्भः भगवतः तिरोधानश्च
२३४६. ॐ परमेश्वराय नमः । (१०.२९.३३)
२३४७. ॐ अरविन्दनेत्राय नमः । (१०.२९.३३)
२३४८. ॐ वृजिनार्दनाय नमः । (१०.२९.३८)
२३४९. ॐ पुरुषभूषणाय नमः । (१०.२९.३८)
२३५०. ॐ कुण्डलश्रीगण्डस्थलाधरसुधाय नमः । (१०.२९.३९)
२३५१. ॐ हसितावलोकाय नमः । (१०.२९.३९)
२३५२. ॐ अलकावृतमुखाय नमः । (१०.२९.३९)
२३५३. ॐ दत्ताभयभुजदण्डयुगाय नमः । (१०.२९.३९)
२३५४. ॐ श्रियैकरमणवक्षसे नमः । (१०.२९.३९)
२३५५. ॐ त्रैलोक्यसुभगाय नमः । (१०.२९.४०)
२३५६. ॐ सुरलोकगोप्त्रे नमः । (१०.२९.४१)
२३५७. ॐ व्रजभयार्तिहराय नमः । (१०.२९.४१)
२३५८. ॐ उदारचेष्टिताय नमः । (१०.२९.४३)
२३५९. ॐ उदारहासद्विजकुन्ददीधितये नमः । (१०.२९.४३)
२३६०. ॐ वैजयन्तिमालाभृते नमः । (१०.२९.४४)
२३६१. ॐ वनिताशतयूथपाय नमः । (१०.२९.४४)
२३६२. ॐ वनिताशतोपगीयमानाय नमः । (१०.२९.४४)
गोपिकानां भगवदन्वेषणम्
२३६३. ॐ मानिनीनां दर्प्पहरस्मिताय नमः । (१०.३०.६)
२३६४. ॐ वराहवपुषे नमः । (१०.३०.१०)
२३६५. ॐ रामानुजाय नमः । (१०.३०.१२)
२३६६. ॐ खलानां दण्डधृचे नमः । (१०.३०.२१)
२३६७. ॐ गोविन्दाङ्घ्र्यब्जरेणवे नमः । (१०.३०.२९)
२३६८. ॐ रमणाय नमः । (१०.३०.४०)
२३६९. ॐ प्रेष्ठाय नमः । (१०.३०.४०)
२३७०. ॐ महाभुजाय नमः । (१०.३०.४०)
गोपिकागीतम्
२३७१. ॐ इन्दिरादयिताय नमः । (१०.३१.१)
२३७२. ॐ सुरतनाथाय नमः । (१०.३१.२)
२३७३. ॐ वरदाय नमः । (१०.३१.२)
२३७४. ॐ गोपिकानन्दनाय नमः । (१०.३१.४)
२३७५. ॐ अखिलदेहिनां अन्तरात्मदृशे नमः । (१०.३१.४)
२३७६. ॐ वृष्णिधुर्याय नमः । (१०.३१.५)
२३७७. ॐ कामदाय नमः । (१०.३१.५)
२३७८. ॐ जलरुहाननाय नमः । (१०.३१.६)
२३७९. ॐ वीराय नमः । (१०.३१.६)
२३८०. ॐ प्रणतदेहिनां पापकर्शनपदाम्बुजाय नमः । (१०.३१.७)
२३८१. ॐ फणिफणार्पितपदाम्बुजाय नमः । (१०.३१.७)
२३८२. ॐ श्रवणमङ्गलाय नमः । (१०.३१.९)
२३८३. ॐ ध्यानमङ्गलाय नमः । (१०.३१.१०)
२३८४. ॐ नलिनसुन्दरपदाय नमः । (१०.३१.११)
२३८५. ॐ वनरुहाननाय नमः । (१०.३१.१२)
२३८६. ॐ प्रणतकामदाय नमः । (१०.३१.१३)
२३८७. ॐ पद्मजार्च्चिताय नमः । (१०.३१.१३)
२३८८. ॐ धरणिमण्डनाय नमः । (१०.३१.१३)
२३८९. ॐ शन्तमचरणपङ्कजाय नमः । (१०.३१.१३)
२३९०. ॐ आधिहन्त्रे नमः । (१०.३१.१३)
२३९१. ॐ शोकनाशनाय नमः । (१०.३१.१४)
२३९२. ॐ स्वरितवेणुना सुष्ठुचुम्बिताधरामृताय नमः । (१०.३१.१४)
२३९३. ॐ सुरतवर्द्धनाय नमः । (१०.३१.१४)
२३९४. ॐ श्रीमुखाय नमः । (१०.३१.१५)
२३९५. ॐ कुटिलकुन्तलाय नमः । (१०.३१.१५)
२३९६. ॐ प्रहसिताननाय नमः । (१०.३१.१७)
२३९७. ॐ प्रेमवीक्षणाय नमः । (१०.३१.१७)
२३९८. ॐ अङ्गाय नमः । (१०.३१.१८)
२३९९. ॐ विश्वमङ्गलाय नमः । (१०.३१.१८)
२४००. ॐ प्रियाय नमः । (१०.३१.१९)
प्रत्येत्य भगवता गोपिकानां समाश्वासनम्
२४०१. ॐ स्मयमानमुखाम्बुजाय नमः । (१०.३२.२)
२४०२. ॐ पीताम्बरधराय नमः । (१०.३२.२)
२४०३. ॐ साक्षान्मन्मथमन्मथाय नमः । (१०.३२.२)
२४०४. ॐ योगेश्वरान्तर्हृदि कल्पितासनाय नमः । (१०.३२.१४)
२४०५. ॐ त्रैलोक्यलक्ष्म्येकपदवपुषे नमः । (१०.३२.१४)
२४०६. ॐ गोपिकायामनङ्गदीपनाय नमः । (१०.३२.१५)
रासक्रीडा
२४०७. ॐ रासक्रीडालोलाय नमः । (१०.३३.२)
२४०८. ॐ गोपीमण्डलमण्डिताय नमः । (१०.३३.३)
२४०९. ॐ श्रियैकान्तवल्लभाय नमः । (१०.३३.१५)
२४१०. ॐ रमेशाय नमः । (१०.३३.१७)
२४११. ॐ शन्तमपाणये नमः । (१०.३३.२१)
२४१२. ॐ स्फुरत्पुरटकुण्डलकुन्तलत्विड्गण्डश्रिये नमः । (१०.३३.२२)
२४१३. ॐ सुधितहासनिरीक्षणाय नमः । (१०.३३.२२)
२४१४. ॐ वैमानिकैः कुसुमवर्षिभिरीड्यमानाय नमः । (१०.३३.२४)
अहिग्रस्तनन्दगोपमोचनं सुदर्शनशापमोक्षः शङ्खचूडवधश्च
२४१५. ॐ उरगात् पितरं नन्दगोपं रक्षितवते नमः । (१०.३४.९)
२४१६. ॐ अद्भुतदर्शनाय नमः। (१०.३४.११)
२४१७. ॐ प्रपन्नानां भयापहाय नमः । (१०.३४.१५)
२४१८. ॐ सर्वलोकेश्वरेश्वराय नमः । (१०.३४.१६)
२४१९. ॐ सर्वभूतानां मनःश्रवणमङ्गलाय नमः । (१०.३४.२३)
२४२०. ॐ शङ्खचूडं निहतवते नमः । (१०.३४.३२)
गोपिकायुगलगीतम्
२४२१. ॐ वामबाहुकृतवामकपोलाय नमः । (१०.३५.२)
२४२२. ॐ वल्गितभ्रुवे नमः । (१०.३५.२)
२४२३. ॐ कोमलांङ्गुलिभिराश्रितमार्गाधरार्पितवेणवे नमः । (१०.३५.२)
२४२४. ॐ आर्तजनानां नर्मदाय नमः । (१०.३५.४)
२४२५. ॐ वेणुं कूजते नमः । (१०.३५.४)
२४२६. ॐ बर्हिणः स्तबकधातुपलाशैर्बद्धमल्लपरिबर्हविम्बाय नमः । (१०.३५.६)
२४२७. ॐ अनुचरैः समनुवर्णितवीर्याय नमः । (१०.३५.८)
२४२८. ॐ अचलभूतये नमः । (१०.३५.८)
२४२९. ॐ दर्शनीयतिलकाय नमः । (१०.३५.१०)
२४३०. ॐ सबलाय नमः । (१०.३५.१२)
२४३१. ॐ स्रगवतंसविलासाय नमः । (१०.३५.१२)
२४३२. ॐ जातहर्षाय विश्वहर्षकाय नमः । (१०.३५.१२)
२४३३. ॐ विविधगोपचरणेषु विदग्धाय नमः । (१०.३५.१४)
२४३४. ॐ अधरबिम्बे दत्तवेणवे नमः । (१०.३५.१४)
२४३५. ॐ ईडितवेणवे नमः । (१०.३५.१६)
२४३६. ॐ कुन्ददामकृतकौतुकवेषाय नमः । (१०.३५.२०)
२४३७. ॐ गोपगोधनवृताय नमः । (१०.३५.२०)
२४३८. ॐ वृद्धैः वन्द्यमानचरणाय नमः । (१०.३५.२२)
२४३९. ॐ कृत्स्नगोधनमुपोह्य गीतवेणवे नमः । (१०.३५.२२)
२४४०. ॐ अनुगेडितकीर्तये नमः । (१०.३५.२२)
२४४१. ॐ देवकीजठरभूरुडुराजाय नमः । (१०.३५.२३)
२४४२. ॐ ईषद्मदविघूर्णितलोचनाय नमः । (१०.३५.२४)
२४४३. ॐ स्वसुहृदां मानदाय नमः । (१०.३५.२४)
२४४४. ॐ बदरपाण्डुवदनाय नमः । (१०.३५.२४)
२४४५. ॐ कनककुण्डललक्ष्म्या मृदुगण्डमण्डिताय नमः । (१०.३५.२४)
२४४६. ॐ व्रजगवां दिनतापात् मोचकाय नमः । (१०.३५.२५)
२४४७. ॐ यामिनीपतिरिव मुदितवक्त्राय नमः । (१०.३५.२५)
२४४८. ॐ द्विरदराजविहाराय नमः । (१०.३५.२५)
अरिष्टासुरवधः कंसेन गोकुलाय अक्रूरप्रेषणञ्च
२४४९. ॐ दुरात्मनां बलदर्पाहङ्कारहन्त्रे नमः । (१०.३६.८)
२४५०. ॐ सख्युरंसे भुजाभोगं प्रसार्यावस्थिताय नमः । (१०.३६.९)
२४५१. ॐ वृषासुरहन्त्रे नमः । (१०.३६.१४)
२४५२. ॐ सुरैरीडिताय नमः । (१०.३६.१४)
२४५३. ॐ स्वजातिभिः स्तूयमानाय नमः । (१०.३६.१५)
२४५४. ॐ गोपीनां नयनोत्सवाय नमः । (१०.३६.१५)
२४५५. ॐ रोहिणीपुत्राय नमः । (१०.३६.१७)
२४५६. ॐ आनकदुन्दुभेः सुताभ्यां नमः । (१०.३६.३०)
केशिवधः नारदस्य भगवत्स्तुतिः व्योमासुरवधश्च
२४५७. ॐ अरविन्दलोचनाय नमः । (१०.३७.४)
२४५८. ॐ केशिहन्त्रे नमः । (१०.३७.८)
२४५९. ॐ अक्लिष्टकर्मणे नमः । (१०.३७.१०)
२४६०. ॐ अखिलावासाय नमः । (१०.३७.११)
२४६१. ॐ अप्रमेयात्मने नमः । (१०.३७.११)
२४६२. ॐ सात्वतां प्रवराय नमः । (१०.३७.११)
२४६३. ॐ सर्वभूतानामेकात्मने नमः । (१०.३७.१२)
२४६४. ॐ भूधरभूतानां दैत्यप्रमथरक्षसां विनाशाय सेतूनां रक्षणायावतीर्णाय नमः । (१०.३७.१४)
२४६५. ॐ हयाकृतदैत्यहन्त्रे नमः । (१०.३७.१५)
२४६६. ॐ अर्जुनसारथये नमः । (१०.३७.२२)
२४६७. ॐ स्वसंस्थया विशुद्धविज्ञानघनाय नमः । (१०.३७.२३)
२४६८. ॐ समाप्तसर्वार्थाय नमः । (१०.३७.२३)
२४६९. ॐ अमोघवाञ्चिताय नमः । (१०.३७.२३)
२४७०. ॐ स्वतेजसानित्यनिवृत्तमायागुणप्रवाहाय नमः । (१०.३७.२३)
२४७१. ॐ आत्ममायया विनिर्म्मिताशेषविशेषकल्पनाय नमः । (१०.३७.२४)
२४७२. ॐ क्रीडार्थमात्तमनुष्यविग्रहाय नमः । (१०.३७.२४)
२४७३. ॐ यदुवृष्णिसात्वतां धुर्याय नमः । (१०.३७.२४)
२४७४. ॐ केशिनमाहवे हतवते नमः । (१०.३७.२६)
२४७५. ॐ सतां शरणदाय नमः । (१०.३७.३१)
२४७६. ॐ सुरैर्गोपैः च स्तूयमानाय नमः । (१०.३७.३४)
अक्रूरस्य गोकुलगमनम्
२४७७. ॐ योगिध्येयाङ्घ्रिपङ्कजाय नमः । (१०.३८.६)
२४७८. ॐ कृतावतारस्य विष्णोरङ्घ्रिपद्माय नमः । (१०.३८.७)
२४७९. ॐ ब्रह्मभवादिभिः सुरैः श्रिया मुनिभिः सात्वतैः चार्च्चिताय नमः । (१०.३८.८)
२४८०. ॐ गोपिकानां कुचकुङ्कुमाङ्कितपादाय नमः । (१०.३८.८)
२४८१. ॐ सुकपोलनासिकाय नमः । (१०.३८.९)
२४८२. ॐ स्मितावलोकारुणकञ्जलोचनाय नमः । (१०.३८.९)
२४८३. ॐ गुडालकावृतमुखाय नमः । (१०.३८.९)
२४८४. ॐ भुवः भारावताराय निजेच्छया मनुजत्वं प्राप्ताय नमः । (१०.३८.१०)
२४८५. ॐ लावण्यधाम्ने नमः । (१०.३८.१०)
२४८६. ॐ स्वतेजसापास्ततमोभिदाभ्रमाय नमः । (१०.३८.११)
२४८७. ॐ स्वसेतुपालामरवर्यशर्मकृते नमः । (१०.३८.१३)
२४८८. ॐ सात्वतान्वये अवतीर्णाय नमः । (१०.३८.१३)
२४८९. ॐ महतां गतये नमः । (१०.३८.१४)
२४९०. ॐ त्रैलोक्यकान्ताय नमः । (१०.३८.१४)
२४९१. ॐ दृशिमन्महोत्सवाय नमः । (१०.३८.१४)
२४९२. ॐ श्रियः ईप्सितास्पदरूपधराय नमः । (१०.३८.१४)
२४९३. ॐ योगिभिरपि स्वलब्धये धिया धृतचरणाय नमः । (१०.३८.१५)
२४९४. ॐ शरणैषिणां नृणां दत्ताभयाय नमः । (१०.३८.१६)
२४९५. ॐ अर्थदाय नमः । (१०.३८.२२)
२४९६. ॐ सुरद्रुमाय नमः । (१०.३८.२२)
२४९७. ॐ अखिललोकपालकिरीटजुष्टामलपादरेणवे नमः । (१०.३८.२५)
२४९८. ॐ पीतनीलाम्बरधराभ्यां शरदम्बुरुहेक्षणाभ्यां नमः । (१०.३८.२८)
२४९९. ॐ श्यामलश्वेताभ्यां किशोराभ्यां नमः । (१०.३८.२९)
२५००. ॐ श्रीनिकेताभ्यां नमः । (१०.३८.२९)
२५०१. ॐ बृहत्भुजाभ्यां नमः । (१०.३८.२९)
२५०२. ॐ सुमुखाभ्यां सुन्दरवराभ्यां नमः । (१०.३८.२९)
२५०३. ॐ बालद्विरदविक्रमाभ्यां नमः । (१०.३८.२९)
२५०४. ॐ ध्वजवज्राङ्कुशाम्भोजैश्चिह्नितैरङ्घ्रिभिर्व्रजं शोभयद्भ्यां नमः । (१०.३८.३०)
२५०५. ॐ अनुक्रोशस्मितेक्षणाभ्यां नमः । (१०.३८.३०)
२५०६. ॐ महात्माभ्यां नमः । (१०.३८.३०)
२५०७. ॐ उदाररुचिरक्रीडद्भ्यां नमः । (१०.३८.३१)
२५०८. ॐ स्रग्विभ्यां वनमालिभ्यां नमः । (१०.३८.३१)
२५०९. ॐ स्नाताभ्यां पुण्यगन्धानुलिप्ताङ्गाभ्यां नमः । (१०.३८.३१)
२५१०. ॐ विरजवासाभ्यां नमः । (१०.३८.३१)
२५११. ॐ आद्याभ्यां नमः । (१०.३८.३२)
२५१२. ॐ जगत् हेतुभ्यां नमः । (१०.३८.३२)
२५१३. ॐ जगत्पतिभ्यां नमः । (१०.३८.३२)
२५१४. ॐ जगत्यर्थे स्वांशेनावतीर्णाभ्यां नमः । (१०.३८.३२)
२५१५. ॐ प्रधानपुरुषाभ्यां नमः । (१०.३८.३२)
२५१६. ॐ स्वया प्रभया दिशो वितिमिरा कुर्वद्भ्यां नमः । (१०.३८.३३)
२५१७. ॐ प्रणतवत्सलाय नमः । (१०.३८.३६)
२५१८. ॐ परमधर्मविदे रामाय नमः । (१०.३८.४०)
रामकृष्णयोः मथुरागमनं गोपिकाविलापः अक्रूरस्य कालिन्द्यां भगवद्धामदर्शनञ्च
२५१९. ॐ असितकुन्दलावृतमुखाय नमः । (१०.३९.२०)
२५२०. ॐ सुकपोलोन्नसवक्त्राय नमः । (१०.३९.२०)
२५२१. ॐ शोकापनोदस्मितलेशसुन्दरवक्त्राय नमः । (१०.३९.२०)
२५२२. ॐ अखिलसर्गसौष्ठवाय नमः । (१०.३९.२१)
२५२३. ॐ व्रजस्पतये नमः । (१०.३९.२३)
२५२४. ॐ दाशार्हभोजान्धकवृष्णिसात्वतां गुणास्पदाय नमः । (१०.३९.२५)
२५२५. ॐ श्रीरमणाय नमः । (१०.३९.२५)
२५२६. ॐ अनन्तसख्ये नमः । (१०.३९.३०)
२५२७. ॐ नतकन्धरैः सिद्धचारणगन्धर्वासुरैः स्तूयमानायाहीन्द्राय नमः । (१०.३९.४४)
२५२८. ॐ सहस्रफणमौलिने नमः । (१०.३९.४५)
२५२९. ॐ बिसश्वेतदेवाय नमः । (१०.३९.४५)
२५३०. ॐ नीलाम्बराय नमः । (१०.३९.४५)
२५३१. ॐ पीतकौशेयवाससे नमः । (१०.३९.४६)
२५३२. ॐ चारुप्रसन्नवदनाय नमः । (१०.३९.४७)
२५३३. ॐ चारुहासनिरीक्षणाय नमः । (१०.३९.४७)
२५३४. ॐ सुभ्रून्नसाय नमः । (१०.३९.४७)
२५३५. ॐ चारुकर्ण्णाय नमः । (१०.३९.४७)
२५३६. ॐ सुकपोलारुणाधराय नमः । (१०.३९.४७)
२५३७. ॐ प्रलम्बपीवरभुजाय नमः । (१०.३९.४८)
२५३८. ॐ तुङ्गांसोरःस्थलश्रिये नमः । (१०.३९.४८)
२५३९. ॐ कम्बुकण्ठाय नमः । (१०.३९.४८)
२५४०. ॐ निम्ननाभिने नमः । (१०.३९.४८)
२५४१. ॐ वलिमत्पल्लवोदराय नमः । (१०.३९.४८)
२५४२. ॐ बृहत्कटितटश्रोणिकरभोरुद्वयान्विताय नमः । (१०.३९.४९)
२५४३. ॐ चारुजानुयुगसंयुताय नमः । (१०.३९.४९)
२५४४. ॐ चारुजङ्घायुगलसंयुताय नमः । (१०.३९.४९)
२५४५. ॐ तुङ्गगुल्फारुणनखव्रातदीधितिभिर्वृतनवाङ्गुल्यङ्गुष्ठदलैर्विलसत्पादपङ्कजाय नमः । (१०.३९.५०)
२५४६. ॐ सुमहार्हमणिव्रातकिरीटकटकाङ्गदैः कटिसूत्रब्रह्मसूत्रहारनूपुरकुण्डलैर्भ्राजमानाय नमः । (१०.३९.५१)
२५४७. ॐ पद्मकराय नमः । (१०.३९.५२)
२५४८. ॐ कौस्तुभवनमालाधराय नमः । (१०.३९.५२)
२५४९. ॐ अमलात्मभिः सुनन्दनन्दप्रमुखैः पार्षदैः स्तूयमानाय नमः । (१०.३९.५३)
२५५०. ॐ सुरेशैर्ब्रह्मरुद्राद्यैर्नवभिः द्विजोत्तमैः च ईड्यमानाय नमः । (१०.३९.५३)
२५५१. ॐ प्रह्लादनारदवसुप्रमुखैर्भागवतोत्तमैः पूजिताय नमः । (१०.३९.५४)
२५५२. ॐ श्रिया पुष्ट्या गिरा कान्त्या कीर्त्त्या तुष्ट्या इलया ऊर्ज्जया विद्ययाविद्यया शक्त्या मायया च निषेविताय नमः । (१०.३९.५५)
२५५३. ॐ कृताञ्जलिना अक्रूरेण भक्त्या गद्गदया गिरा स्तुताय नमः । (१०.३९.५७)
अक्रूरस्य भगवत्स्तुतिः
२५५४. ॐ अखिलहेतुहेतवे नमः । (१०.४०.१)
२५५५. ॐ बहुमूर्त्येकमूर्तये नमः । (१०.४०.७)
२५५६. ॐ शिवरूपिणे नमः । (१०.४०.८)
२५५७. ॐ सर्वदेवमयेश्वराय नमः । (१०.४०.९)
२५५८. ॐ अविषक्तदृष्टये नमः । (१०.४०.१२)
२५५९. ॐ सर्वधियां साक्षिणे नमः । (१०.४०.१२)
२५६०. ॐ प्रलयाब्धिचराय नमः । (१०.४०.१७)
२५६१. ॐ कारणमत्स्याय नमः । (१०.४०.१७)
२५६२. ॐ मधुकैटभमृत्यवे नमः । (१०.४०.१७)
२५६३. ॐ मन्दरधारिणे नमः । (१०.४०.१८)
२५६४. ॐ अकूपाराय नमः । (१०.४०.१८)
२५६५. ॐ क्षित्युद्धारविहाराय नमः । (१०.४०.१८)
२५६६. ॐ सूकरमूर्तये नमः । (१०.४०.१८)
२५६७. ॐ साधुलोकभयापहाय नमः । (१०.४०.१९)
२५६८. ॐ अत्भुतसिंहाय नमः । (१०.४०.१९)
२५६९. ॐ क्रान्तत्रिभुवनाय नमः । (१०.४०.१९)
२५७०. ॐ दृप्तक्षत्रवनच्छिदे नमः । (१०.४०.२०)
२५७१. ॐ भृगूणां पतये नमः । (१०.४०.२०)
२५७२. ॐ रावणान्तकराय नमः । (१०.४०.२०)
२५७३. ॐ रघुवर्याय नमः । (१०.४०.२०)
२५७४. ॐ दैत्यदानवमोहिने नमः । (१०.४०.२२)
२५७५. ॐ शुद्धाय बुद्धाय नमः । (१०.४०.२२)
२५७६. ॐ म्लेच्छप्रायक्षत्रहन्त्रे नमः । (१०.४०.२२)
२५७७. ॐ कल्किरूपिणे नमः । (१०.४०.२२)
२५७८. ॐ अब्जनाभाय नमः । (१०.४०.२८)
२५७९. ॐ विज्ञानमात्राय नमः । (१०.४०.२९)
२५८०. ॐ सर्वप्रत्ययहेतवे नमः । (१०.४०.२९)
२५८१. ॐ पुरुषेशप्रधानाय नमः । (१०.४०.२९)
२५८२. ॐ सर्वभूतक्षयाय नमः । (१०.४०.३०)
रामकृष्णयोः मथुराप्रवेशः रजकवधः वायकमालाकारानुग्रहश्च
२५८३. ॐ विश्वात्मकाय नमः । (१०.४१.४)
२५८४. ॐ यदूत्तमोत्तमश्लोकाय नमः । (१०.४१.१६)
२५८५. ॐ वसुदेवनन्दनाभ्यां नमः । (१०.४१.२४)
२५८६. ॐ श्रीरमणात्मने नमः । (१०.४१.२७)
२५८७. ॐ श्रीरमणात्मना प्रगल्भलीलाहसितावलोकैश्च दृशां उत्सवदाय नमः । (१०.४१.२७)
२५८८. ॐ आनन्दमूर्तये नमः । (१०.४१.२८)
२५८९. ॐ नरलोकमहोत्सवाभ्यां नमः । (१०.४१.३१)
२५९०. ॐ विकत्थमानस्य रजकस्य शिरः कराग्रेण कायात् पातितवते नमः । (१०.४१.३७)
२५९१. ॐ वायकेन अनुरूपतः विचित्रवर्णचैलेयैः आकल्पैः चालङ्कृताय नमः । (१०.४१.४०)
२५९२. ॐ स्वलंकृताभ्यां सितेतराभ्यां नमः । (१०.४१.४१)
२५९३. ॐ मालाकारेण स्रक्ताम्बूलानुलेपनैः पूजिताय नमः । (१०.४१.४४)
२५९४. ॐ विश्वस्य जगतः कारणाय नमः । (१०.४१.४६)
२५९५. ॐ विश्वस्य क्षेमाय भवाय चांशेनावतीर्णाभ्यां नमः । (१०.४१.४६)
२५९६. ॐ जगतात्मनाभ्यां नमः । (१०.४१.४७)
कुब्जानुग्रहलीला धनुर्भङ्गः मल्लरङ्गसज्जीकरणञ्च
२५९७. ॐ सुन्दराय नमः । (१०.४२.३)
२५९८. ॐ कुब्जां वराननां त्रिवक्रां ऋजुसमानाङ्गीं कृतवते नमः । (१०.४२.६)
२५९९. ॐ पुरुषर्भाय नमः । (१०.४२.१०)
२६००. ॐ कंसस्य यागशालायां न्यस्तैन्द्रधनुःभञ्जकाय नमः । (१०.४२.१७)
२६०१. ॐ अवनिक्ताङ्घ्रियुगलाय नमः । (१०.४२.२५)
कुवलयापीडनिग्रहः भगवतः मल्लरङ्गप्रवेशश्च
२६०२. ॐ कुवलयापीडं नाम वारणं पातयन् दन्तमुत्पाट्य हतवते नमः । (१०.४३.११, १४)
२६०३. ॐ मल्लानां अशनये नमः । (१०.४३.१७)
२६०४. ॐ नृणां नरवराय नमः । (१०.४३.१७)
२६०५. ॐ स्त्रीणां मूर्तिमते स्मराय नमः । (१०.४३.१७)
२६०६. ॐ गोपानां स्वजनाय नमः । (१०.४३.१७)
२६०७. ॐ असतां क्षितिभुजां शास्त्रे नमः । (१०.४३.१७)
२६०८. ॐ स्वपित्रोः शिशवे नमः । (१०.४३.१७)
२६०९. ॐ भोजपतेः मृत्यवे नमः । (१०.४३.१७)
२६१०. ॐ अविदुषां विराजे नमः । (१०.४३.१७)
२६११. ॐ योगिनां परस्मै तत्त्वाय नमः । (१०.४३.१७)
२६१२. ॐ वृष्णीनां परदेवतायै नमः । (१०.४३.१७)
२६१३. ॐ विचित्रवेषाभरणस्रगम्बरयुताभ्यां महाभुजाभ्यां नमः । (१०.४३.१९)
२६१४. ॐ उत्तमवेषधारिणाभ्यां नमः । (१०.४३.१९)
२६१५. ॐ उत्तमपूरुषाभ्यां नमः । (१०.४३.२०)
२६१६. ॐ मुदितहसितप्रेक्षणमुखाय नमः । (१०.४३.२८)
२६१७. ॐ कमललोचनाय रामाय नमः । (१०.४३.३०)
२६१८. ॐ नियुद्धकुशलाभ्यां वीरसम्मताभ्यां नमः । (१०.४३.३२)
२६१९. ॐ वार्ष्णेयाय नमः । (१०.४३.४०)
चाणूरादिमल्लनिग्रहः कंसवधश्च
२६२०. ॐ चर्च्चितसङ्कल्पाय नमः । (१०.४४.१)
२६२१. ॐ सुकुमाराङ्गाभ्यां नमः । (१०.४४.८)
२६२२. ॐ नाप्तयौवनकिशोराभ्यां नमः । (१०.४४.८)
२६२३. ॐ श्रमवार्युप्तवदनाम्बुजाय नमः । (१०.४४.११)
२६२४. ॐ वनचित्रमालिने नमः । (१०.४४.१३)
२६२५. ॐ नृलिङ्गगूढाय नमः । (१०.४४.१३)
२६२६. ॐ गिरित्ररमार्चिताङ्घ्रये नमः । (१०.४४.१३)
२६२७. ॐ असमोर्ध्वलावण्यसाररूपाय नमः । (१०.४४.१४)
२६२८. ॐ अनन्यसिद्धश्रिय ऐश्वरस्य धाम्ने नमः । (१०.४४.१४)
२६२९. ॐ सदयावलोकसस्मितमुखाय नमः । (१०.४४.१६)
२६३०. ॐ प्रहरतां वराय रामाय नमः । (१०.४४.२६)
२६३१. ॐ चाणूरमुष्टिकादि मल्लनिग्रहकराभ्यां नमः । (१०.४४.२८)
२६३२. ॐ रुतनूपुरवल्गद्भ्यां विहरद्भ्यां नमः । (१०.४४.२९)
२६३३. ॐ वसुदेवात्मजाभ्यां नमः । (१०.४४.३२)
२६३४. ॐ कंसहन्त्रे नमः । (१०.४४.३७)
२६३५. ॐ धर्मज्ञाय नमः । (१०.४४.४५)
२६३६. ॐ करुणानाथाय नमः । (१०.४४.४५)
२६३७. ॐ वत्सलाय नमः । (१०.४४.४५)
२६३८. ॐ देवकीवसुदेवाभ्यां समं वन्दिताभ्यां नमः । (१०.४४.५१)
देवकीवसुदेवसान्त्वनं उग्रसेनराज्याभिषेकः रामकृष्णयोः विद्याभ्यासः गुरुदक्षिणाप्रदानञ्च
२६३९. ॐ मुकुन्दवदनाम्बुजाय नमः । (१०.४५.१८)
२६४०. ॐ स्वलंकृताभ्यां नमः । (१०.४५.२७)
२६४१. ॐ सम्पूजिताभ्यां नमः । (१०.४५.२७)
२६४२. ॐ सुव्रताभ्यां नमः । (१०.४५.२९)
२६४३. ॐ लब्धसंस्काराभ्यां नमः । (१०.४५.२९)
२६४४. ॐ नरेहितैः नान्यसिद्धामलज्ञानं गूहमानाभ्यां नमः । (१०.४५.३०)
२६४५. ॐ सर्वविद्यानां प्रभवाभ्यां नमः । (१०.४५.३०)
२६४६. ॐ सर्वज्ञाभ्यां नमः । (१०.४५.३०)
२६४७. ॐ सान्दीपनिना शिक्षिताभ्यां नमः । (१०.४५.३१)
२६४८. ॐ दान्ताभ्यां नमः । (१०.४५.३२)
२६४९. ॐ गुरुभक्ताभ्यां नमः । (१०.४५.३२)
२६५०. ॐ नरवरश्रेष्ठाभ्यां नमः । (१०.४५.३५)
२६५१. ॐ सर्वविद्याप्रवर्त्तकाभ्यां नमः । (१०.४५.३५)
२६५२. ॐ महारथाभ्यां नमः । (१०.४५.३८)
२६५३. ॐ दुरन्तविक्रमाभ्यां नमः । (१०.४५.३८)
२६५४. ॐ हलायुधाय नमः । (१०.४५.४३)
२६५५. ॐ सर्वभूताशयालयाय नमः । (१०.४५.४५)
२६५६. ॐ यदूत्तमाभ्यां नमः । (१०.४५.४७)
२६५७. ॐ वीराभ्यां नमः । (१०.४५.४९)
२६५८. ॐ रामजनार्दनाभ्यां नमः । (१०.४५.५१)
उद्धवस्य गोकुलगमनं नन्दगोपयशोदादेवीसान्त्वनञ्च
२६५९. ॐ विश्वस्य बीजयोनिभ्यां नमः । (१०.४६.३१)
२६६०. ॐ पुरुषप्रधानाभ्यां नमः । (१०.४६.३१)
२६६१. ॐ भूतेष्वन्वीय विलक्षणस्य ज्ञानस्य ईशाभ्यां नमः । (१०.४६.३१)
२६६२. ॐ अखिलात्महेतुभ्यां नमः । (१०.४६.३३)
२६६३. ॐ कारणमर्त्यमूर्तिभ्यां नमः । (१०.४६.३३)
२६६४. ॐ सर्वेषां आत्मजाय पित्रे मात्रे आत्मने ईश्वराय नमः । (१०.४६.४२)
२६६५. ॐ परमार्थभूताय नमः । (१०.४६.४३)
२६६६. ॐ सर्वस्मै नमः । (१०.४६.४३)
२६६७. ॐ कमललोचनाय नमः । (१०.४६.४८)
भ्रमरगीतं उद्धवगोपीकासंवादः गोपिकासान्त्वनञ्च
२६६८. ॐ पद्मया परिचरितपादपत्माय नमः । (१०.४७.१३)
२६६९. ॐ यदूनामधिपतये नमः । (१०.४७.१४)
२६७०. ॐ असिताय नमः । (१०.४७.१७)
२६७१. ॐ प्रेयसे नमः । (१०.४७.२०)
२६७२. ॐ आर्यपुत्राय नमः । (१०.४७.२१)
२६७३. ॐ ज्ञानमयाय नमः । (१०.४७.३१)
२६७४. ॐ शुद्धाय नमः । (१०.४७.३१)
२६७५. ॐ व्यतिरिक्ताय नमः । (१०.४७.३१)
२६७६. ॐ अगुणान्वयाय नमः । (१०.४७.३१)
२६७७. ॐ गदाग्रजाय नमः । (१०.४७.४०)
२६७८. ॐ रतिविशेषज्ञाय नमः । (१०.४७.४१)
२६७९. ॐ रमानाथाय नमः । (१०.४७.५२)
२६८०. ॐ व्रजनाथाय नमः । (१०.४७.५२)
२६८१. ॐ आर्तिनाशनाय नमः । (१०.४७.५२)
२६८२. ॐ भगवतः कृष्णस्य चरणारविन्दाभ्यां नमः । (१०.४७.६२)
सैरन्ध्र्यनुग्रहः अक्रूरगृहसन्दर्शनं अक्रूरहस्तिनपुरप्रेषणं अक्रूरधृतराष्ट्रसंवादश्च
२६८३. ॐ सर्वदर्शनाय नमः । (१०.४८.१)
२६८४. ॐ अनन्तचरणाय नमः । (१०.४८.७)
२६८५. ॐ दुष्प्रापाय नमः । (१०.४८.८)
२६८६. ॐ अम्बुरुहेक्षणाय नमः । (१०.४८.९)
२६८७. ॐ जगन्मयाभ्यां नमः । (१०.४८.१८)
२६८८. ॐ अक्षौहिणीशतवधेन भूमेः भारमपनेतुं वसुदेवगृहेऽवतीर्णाय नमः । (१०.४८.२४)
२६८९. ॐ सर्वदेवपितृभूतनृदेवमूर्तये नमः । (१०.४८.२५)
२६९०. ॐ योगेश्वरैः सुरेश्वरैरपि दुरापगतये नमः । (१०.४८.२७)
२६९१. ॐ भूमेर्भारावताराय यदोः कुलेऽवतीर्णाय नमः । (१०.४९.२८)
२६९२. ॐ दुरवबोधविहारतन्त्रसंसारचक्रगतये नमः । (१०.४९.२९)
जरासन्धयुद्धं द्वारकानिर्माणञ्च
२६९३. ॐ कारणमानुषाय नमः । (१०.५०.६)
२६९४. ॐ भूभारहरणाय साधूनां संरक्षणाय अन्येषां वधाय चावतीर्णाय नमः । (१०.५०.९)
२६९५. ॐ अधर्मस्य विरामाय धर्मस्य रक्षणाय च देहभृते नमः । (१०.५०.१०)
२६९६. ॐ साधूनां शर्मकृते नमः । (१०.५०.१४)
२६९७. ॐ दंशिताभ्यां दाशार्हाभ्यां नमः । (१०.५०.१६)
२६९८. ॐ अपरिमेयतेजसे नमः । (१०.५०.२८)
२६९९. ॐ दुर्मदान् अरीन् मुसलेन विनिघ्नतवते सङ्कर्षणाय नमः । (१०.५०.२८)
२७००. ॐ वसुदेवपुत्राभ्यां नमः । (१०.५०.२९)
२७०१. ॐ यो स्वलीलया भुवनत्रयस्य स्थित्युद्भवान्तं समीहते तस्मै नमः । (१०.५०.३०)
२७०२. ॐ लोकनाथाभ्यां नमः । (१०.५०.३३)
२७०३. ॐ अक्षतबलाय नमः । (१०.५०.३६)
२७०४. ॐ निस्तीर्णारिबलार्णवाय नमः । (१०.५०.३६)
२७०५. ॐ त्रिदशैः कुसुमैः विकीर्यमाणाय नमः । (१०.५०.३६)
२७०६. ॐ मुदितात्मभिः विज्वरैः माथुरैरनुमोदिताय नमः । (१०.५०.३७)
२७०७. ॐ सूतमागधवन्दिभिः उपगीयमानविजयाय नमः । (१०.५०.३७)
२७०८. ॐ नारीभिर्माल्यदध्यक्षताङ्कुरैः निचीयमानाय नमः । (१०.५०.४०)
२७०९. ॐ प्रीत्युत्कलितलोचनैः सस्नेहं निरीक्ष्यमाणाय नमः । (१०.५०.४०)
२७१०. ॐ सप्तदशकृत्वः आहवे जरासन्धं जितवते नमः । (१०.५०.४२)
२७११. ॐ पद्ममालिने नमः । (१०.५०.५८)
२७१२. ॐ द्वारकानाथाय नमः । (१०.५०.)
कालयवननाशनं मुचुकुन्दस्य भगवत्स्तुतिश्च
२७१३. ॐ उज्जिहानमुडुपमिव दर्शनीयतमाय नमः । (१०.५१.१)
२७१४. ॐ भ्राजत्कौस्तुभामुक्तकन्धराय नमः । (१०.५१.२)
२७१५. ॐ पृथुदीर्घचतुर्बाहवे नमः । (१०.५१.२)
२७१६. ॐ नवकञ्जारुणेक्षणाय नमः । (१०.५१.२)
२७१७. ॐ नित्यप्रमुदिताय नमः । (१०.५१.३)
२७१८. ॐ शुचिस्मिताय नमः । (१०.५१.३)
२७१९. ॐ स्फुरन्मकरकुण्डलमुखारविन्दाय नमः । (१०.५१.३)
२७२०. ॐ श्रीवत्सलाञ्छनाय नमः । (१०.५१.४)
२७२१. ॐ अतिसुन्दराय नमः । (१०.५१.४)
२७२२. ॐ योगिनां दुरापाय नमः । (१०.५१.६)
२७२३. ॐ मुचुकुन्देन यवनं भस्मसात् कारितवते नमः । (१०.५१.१२)
२७२४. ॐ कौस्तुभेन विराजमानाय नमः । (१०.५१.२५)
२७२५. ॐ वैजयन्त्या मालया रोचमानाय नमः । (१०.५१.२६)
२७२६. ॐ नृलोकस्य प्रेक्षणीयाय नमः । (१०.५१.२७)
२७२७. ॐ अपीच्यवयसे नमः । (१०.५१.२७)
२७२८. ॐ सानुरागस्मितेक्षणाय नमः । (१०.५१.२७)
२७२९. ॐ मत्तमृगेन्द्रोदारविक्रमाय नमः । (१०.५१.२७)
२७३०. ॐ पत्मपलाशपदाभ्यां नमः । (१०.५१.२९)
२७३१. ॐ तेजस्विनां तेजसे नमः । (१०.५१.३०)
२७३२. ॐ त्रयाणां देवदेवानां ऋषभाय नमः । (१०.५१.३१)
२७३३. ॐ नरपुङ्गवाय नमः । (१०.५१.३२)
२७३४. ॐ देहिनां माननीयाय नमः । (१०.५१.३६)
२७३५. ॐ अगणितगुणकर्म्मनाम्ने नमः । (१०.५१.३९)
२७३६. ॐ धर्मगुप्तये भूभारायमाणानामसुराणां क्षयाय विरिञ्चेन विज्ञापिताय नमः । (१०.५१.४१)
२७३७. ॐ यदुकुले आनकदुन्दुभेर्गृहे अवतीर्णाय नमः । (१०.५१.४२)
२७३८. ॐ अकिञ्चनप्रार्थ्यतमाय नमः । (१०.५१.५७)
२७३९. ॐ अपवर्गदाय नमः । (१०.५१.५७)
२७४०. ॐ ज्ञप्तिमात्राय नमः । (१०.५१.५८)
२७४१. ॐ अभयाय नमः । (१०.५१.५९)
२७४२. ॐ (१०.५१.५९)
बलरामविवाहः रुक्मिणीसन्देशः श्रीकृष्णेन रुक्मिणीहरणञ्च
२७४३. ॐ अमिततेजसे नमः । (१०.५२.१९)
२७४४. ॐ भुवनसुन्दराय नमः । (१०.५२.३७)
२७४५. ॐ दृशिमतामखिलार्थलाभाय नमः । (१०.५२.३७)
२७४६. ॐ नरलोकमनोभिरामाय नमः । (१०.५२.३८)
२७४७. ॐ यदुदेवाय नमः । (१०.५२.४४)
२७४८. ॐ यदुनन्दनाय नमः । (१०.५३.१)
२७४९. ॐ रुक्मिणीं हृतवते नमः । (१०.५३.५५)
रुक्मिणीपरिणयः प्रद्युम्नजननं शम्बरवधश्च
२७५०. ॐ शौरये नमः । (१०.५४.१३)
२७५१. ॐ अप्रमेयात्मने नमः । (१०.५४.३३)
२७५२. ॐ रुक्मिप्राणरक्षार्थं वैदर्भ्या गृहीतपादाय नमः । (१०.५४.३४)
२७५३. ॐ रुक्मिणीवल्लभाय नमः । (१०.५४.-)
२७५४. ॐ रमास्पदबिम्बाय नमः । (१०.५५.४०)
स्यमन्तकोपाख्यानं जाम्बवती सत्यभामा परिणयौ
२७५५. ॐ अम्बुजलोचनाय नमः । (१०.५६.९)
२७५६. ॐ सर्वभूतानां प्राणाय ओजसे सहाय बलाय नमः । (१०.५६.२६)
२७५७. ॐ जाम्बवतीपतये नमः । (१०.५६.३२)
२७५८. ॐ सत्यभामाकान्ताय नमः । (१०.५६.४४)
शतधन्वना सत्राजितं हत्वा स्यमन्तकहरणं श्रीकृष्णेन तस्य वधः अक्रूरस्य पलायनं तस्य द्वारकाप्रत्यागमनं स्यमन्तकप्रदर्शनञ्च
२७५९. ॐ विश्वस्य स्रष्ट्रे पालकाय हन्त्रे नमः । (१०.५७.१५)
२७६०. ॐ अत्भुतकर्म्मणे नमः । (१०.५७.१७)
२७६१. ॐ आदिभूताय नमः । (१०.५७.१७)
२७६२. ॐ प्रियायाः प्रियकृते नमः । (१०.५७.२७)
२७६३. ॐ मुनिवासाय नमः । (१०.५७.३१)
२७६४. ॐ अखिलचित्तज्ञाय नमः । (१०.५७.३५)
२७६५. ॐ वीर्याढ्याय नमः । (१०.५७.४२)
२७६६. ॐ वृजिनहराय नमः । (१०.५७.४२)
कालिन्दी मित्रविन्दा सत्या भद्रा लक्ष्मणा परिणयाः
२७६७. ॐ योगेश्वराणामपि दुर्दर्शाय नमः । (१०.५८.११)
२७६८. ॐ नयनानन्दाय नमः । (१०.५८.१२)
२७६९. ॐ अनाथसंश्रयाय नमः । (१०.५८.२१)
२७७०. ॐ आनन्देन पूर्णाय नमः । (१०.५८.३८)
२७७१. ॐ गुणैकधाम्ने नमः । (१०.५८.४१)
२७७२. ॐ यदूनामृषभाय नमः । (१०.५८.५५)
२७७३. ॐ कालिन्द्याः मित्रविन्दायाः सत्यायाः भद्रायाः लक्ष्मणायाश्च पतये नमः । (१०.५८.)
नरकासुरवधः भुवः भगवत्स्तुतिः पारिजातापहरणं षोडशसहस्रस्त्रीपरिणयाश्च
२७७४. ॐ पञ्चवक्त्रं मुरासुरं हतवते नमः । (१०.५९.)
२७७५. ॐ अमोघवीर्याय नमः । (१०.५९.१३)
२७७६. ॐ भार्यया सह गरुडोपरिस्थिताय नमः । (१०.५९.१५)
२७७७. ॐ सुपर्णेनोह्यमानाय नमः । (१०.५९.१८)
२७७८. ॐ नरकासुरहन्त्रे नमः । (१०.५९.२२)
२७७९. ॐ ऋषिभिः माल्यै विकिरते ईडिताय नमः । (१०.५९.२२)
२७८०. ॐ देववरार्च्चिताय नमः । (१०.५९.२४)
२७८१. ॐ भक्तेच्छोपात्तरूपाय नमः । (१०.५९.२५)
२७८२. ॐ भुवा स्तुताय नमः । (१०.५९.२५)
२७८३. ॐ आदिबीजाय नमः । (१०.५९.२७)
२७८४. ॐ पूर्णबोधाय नमः । (१०.५९.२७)
२७८५. ॐ परावरात्मने नमः । (१०.५९.२८)
२७८६. ॐ विश्वस्य जनयित्रे नमः । (१०.५९.२८)
२७८७. ॐ प्रधानाय नमः । (१०.५९.२९)
२७८८. ॐ त्रिदशेन्द्रेणपूजिताय नमः । (१०.५९.३८)
२७८९. ॐ पारिजातहारकाय नमः । (१०.५९.३९)
२७९०. ॐ षट्सहस्राधिकायुत कन्याभिः वृताय नमः । (१०.५९.४२)
२७९१. ॐ रमापतये नमः । (१०.५९.४४)
श्रीकृष्णरुक्मिणीश्रवणीयसंवादः
२७९२. ॐ यदुषु स्वसेतूनां गोपीथाय जाताय नमः । (१०.६०.२)
२७९३. ॐ विश्वस्य सर्गावनसंहारकर्त्रे नमः । (१०.६०.२)
२७९४. ॐ जगतामीश्वराय नमः । (१०.६०.४)
२७९५. ॐ लीलया धृततनवे नमः । (१०.६०.८)
२७९६. ॐ निष्किञ्चनजनप्रियाय नमः । (१०.६०.१३)
२७९७. ॐ स्त्र्यपत्यार्थेषु अकामिने नमः । (१०.६०.१९)
२७९८. ॐ आत्मलब्ध्या पूर्णाय नमः । (१०.६०.१९)
२७९९. ॐ त्रिलोकेशपतये नमः । (१०.६०.२१)
२८००. ॐ पद्मपाणिने नमः । (१०.६०.२५)
२८०१. ॐ सान्त्वज्ञाय नमः । (१०.६०.२७)
२८०२. ॐ कृपणां प्रभवे नमः । (१०.६०.२७)
२८०३. ॐ पुंसां ऋषभाय नमः । (१०.६०.३२)
२८०४. ॐ बलिभुजामपि प्रेष्ठाय नमः । (१०.६०.३६)
२८०५. ॐ समस्तपुरुषार्थमयाय नमः । (१०.६०.३७)
२८०६. ॐ फलात्मने नमः । (१०.६०.३७)
२८०७. ॐ जगतां आत्मात्मदाय नमः । (१०.६०.३८)
२८०८. ॐ न्यस्तदण्डमुनिभिर्गदितानुभावाय नमः । (१०.६०.३८)
२८०९. ॐ गुणालयाय नमः । (१०.६०.४१)
२८१०. ॐ अत्र परत्र च कामपूराय नमः । (१०.६०.४२)
२८११. ॐ अरिकर्षणाय नमः । (१०.६०.४३)
२८१२. ॐ अपवर्गेशाय नमः । (१०.६०.५१)
२८१३. ॐ अपवर्गसम्पदे नमः । (१०.६०.५२)
२८१४. ॐ भैष्मीरमणाय नमः । (१०.६०.-)
बलरामेण रुक्मीवधः ऊषानिरुद्धसङ्गमः अनिरुद्धबन्धनं बाणयुद्धञ्च
२८१५. ॐ रुक्मिघ्नाय रामाय नमः । (१०.६१.३६)
२८१६. ॐ हरिशङ्कराभ्यां नमः । (१०.६२.१)
२८१७. ॐ वामनरूपाय नमः । (१०.६२.२)
२८१८. ॐ कृष्णशङ्कराभ्यां नमः । (१०.६३.७)
२८१९. ॐ शार्ङ्गपाणये नमः । (१०.६३.१२)
२८२०. ॐ विश्वोत्पत्तिस्थानसंरोधहेतवे नमः । (१०.६३.२५)
२८२१. ॐ ब्रह्मलिङ्गाय नमः । (१०.६३.२५)
२८२२. ॐ ब्रह्मणि गूढाय नमः । (१०.६३.३४)
२८२३. ॐ लोककल्पाय नमः । (१०.६३.३६)
२८२४. ॐ अकुण्ठधाम्ने नमः । (१०.६३.३७)
२८२५. ॐ धर्मस्य गुप्त्यै जगतः भवायावतीर्णाय नमः । (१०.६३.३७)
२८२६. ॐ अद्वितीयाय नमः । (१०.६३.३८)
२८२७. ॐ अहेतवे नमः । (१०.६३.३८)
२८२८. ॐ स्वमायया सर्वगुणप्रसिद्ध्यैः यथाविकारं प्रतीयमानाय नमः । (१०.६३.३८)
२८२९. ॐ जगत्स्थित्युदयान्तहेतवे नमः । (१०.६३.४४)
२८३०. ॐ दैवाय नमः । (१०.६३.४४)
२८३१. ॐ जगदात्मकेतवे नमः । (१०.६३.४४)
२८३२. ॐ बाणासुरबाहुछेदकाय नमः । (१०.६३.४८)
२८३३. ॐ रुद्रानुमोदिताय नमः । (१०.६३.५१)
नृगोद्धारणं ब्रह्मस्वपावनताविवरणञ्च
२८३४. ॐ अनन्तमूर्तये नमः । (१०.६४.९)
२८३५. ॐ सर्वभूतात्मसाक्षिणे नमः । (१०.६४.११)
२८३६. ॐ कालेनाव्याहतदृशे नमः । (१०.६४.११)
२८३७. ॐ योगेश्वरैः श्रुतिदृशामलहृद्विभाव्याय नमः । (१०.६४.२६)
२८३८. ॐ योगानां पतये नमः । (१०.६४.२९)
२८३९. ॐ सर्वभावाय नमः । (१०.६४.२९)
बलरामस्य गोकुलगमनं यमुनाकर्षणञ्च
२८४०. ॐ पुरस्त्रीजनवल्लभाय नमः । (१०.६५.९)
२८४१. ॐ नानानुनयकोविदाय सङ्कर्षणाय नमः । (१०.६५.१६)
२८४२. ॐ वनिताभिरुपगीयमानचरिताय रामाय नमः । (१०.६५.२१)
२८४३. ॐ वैजयन्त्या मालयोपलक्षिताय रामाय नमः । (१०.६५.२२)
२८४४. ॐ एककुण्डलिने रामाय नमः । (१०.६५.२२)
२८४५. ॐ स्मितमुखाम्भोजाय रामाय नमः । (१०.६५.२२)
२८४६. ॐ स्वेदप्रालेयभूषिताय रामाय नमः । (१०.६५.२२)
२८४७. ॐ अनन्तवीर्याय रामाय नमः । (१०.६५.३१)
पौण्ड्रकमोक्षः काशिराजवधः वाराणसीदहनञ्च
२८४८. ॐ पौण्ड्रकमुक्तिदायकाय नमः । (१९.६६.२१)
२८४९. ॐ सिद्धैर्गीयमानकथामृताय नमः । (१०.६६.२३)
२८५०. ॐ त्रिलोकेशाय नमः । (१०.६६.३६)
बलरामेण द्विविदवधः
२८५१. ॐ पुष्करमालिने रामाय नमः । (१०.६७.९)
२८५२. ॐ सुदर्शनीयसर्वाङ्गाय रामाय नमः । (१०.६७.९)
२८५३. ॐ ललनायूथमध्यगाय रामाय नमः । (१०.६७.९)
२८५४. ॐ मदविह्वललोचनाय बलाय नमः । (१०.६७.१०)
२८५५. ॐ वपुषा विभ्राजमानाय गायते रामाय नमः । (१०.६७.१०)
२८५६. ॐ प्रहरतां वराय बलरामाय नमः । (१०.६७.१४)
२८५७. ॐ मुसलायुधाय नमः । (१०.६७.२३)
२८५८. ॐ द्विविदोपद्रवनाशकाय मुसलिने नमः । (१०.६७.)
२८५९. ॐ सुरसिद्धमुनीन्द्रैः तथा जनैः स्तूयमानाय रामाय नमः । (१०.६७.२८)
बलरामेण हस्तिनपुरकर्षणं साम्बविवाहश्च
२८६०. ॐ कलिमलापहाय रामाय नमः । (१०.६८.१४)
२८६१. ॐ श्रीशाय नमः । (१०.६८.३६)
२८६२. ॐ अखिलाधाराय रामाय नमः । (१०.६८.४४)
२८६३. ॐ स्थित्युत्पत्यप्ययानां हेतवे रामाय नमः । (१०.६८.४५)
२८६४. ॐ निराश्रयाय रामाय नमः । (१०.६८.४५)
२८६५. ॐ क्रीडनकानां लोकानां ईशाय रामाय नमः । (१०.६८.४५)
२८६६. ॐ स्वात्मनि रुद्धविश्वाय रामाय नमः । (१०.६८.४६)
२८६७. ॐ सर्वशक्तिधराय रामाय नमः । (१०.६८.४८)
२८६८. ॐ विश्वकर्म्मणे रामाय नमः । (१०.६८.४८)
देवर्षि नारदेन भगवतः गृहचर्या वीक्षणं
२८६९. ॐ सकलधर्मभृतां वरिष्ठाय नमः । (१०.६९.१४)
२८७०. ॐ जगत् स्थितिरक्षणाभ्यां निश्रेयसाय स्वैरावतार उरुगायाय नमः । (१०.६९.१७)
२८७१. ॐ अगाधबोधैः ब्रह्मादिभिः हृदि विचिन्त्याय नमः । (१०.६९.१८)
२८७२. ॐ संसारकूपपतितोत्तरणावलम्बजनतापवर्गाङ्घ्रियुगलाय नमः । (१०.६९.१८)
२८७३. ॐ योगेश्वरात्मने नमः । (१०.६९.३८)
२८७४. ॐ धर्मस्य वक्त्रे कर्त्रे नमः । (१०.६९.४०)
२८७५. ॐ गृहमेधिनां पावनान् सद्धर्म्मान् आचरन्तं सर्वगेहेषु स्थिताय नमः । (१०.६९.४१)
२८७६. ॐ अखिलभवाय गृहीतशक्तये नमः । (१०.६९.४४)
२८७७. ॐ षोडशसहस्रवराङ्गनानां सव्रीडसौहृदनिरीक्षणहासजुष्टाय नमः । (१०.६९.४४)
२८७८. ॐ विश्वोद्भववृत्तिहेतवे नमः । (१०.६९.४५)
श्रीकृष्णस्य नित्यकर्मानुष्ठानवर्णनं जरासन्धेनबन्धितराज्ञां सन्देशग्रहणं नारदेन युधिष्ठिर राजसूययागनिर्णयसन्देशावतरणञ्च
२८७९. ॐ विश्वस्य उद्भवनाशहेतुभिः स्वशक्तिभिः लक्षितभावनिर्वृतिब्रह्माख्याय नमः । (१०.७०.५)
२८८०. ॐ नित्यनिरस्तकल्मषाय नमः । (१०.७०.५)
२८८१. ॐ नरलोकविभूषणाय नमः । (१०.७०.११)
२८८२. ॐ वासोभिर्भूषणैर्दिव्यस्रगनुलेपनैः भूषिताय नमः । (१०.७०.११)
२८८३. ॐ अन्तःपुरस्त्रीणां सव्रीडप्रेमवीक्षितैः ईक्षिताय नमः । (१०.७०.१६)
२८८४. ॐ यदूत्तमाय नमः । (१०.७०.१८)
२८८५. ॐ प्रपन्नभयभञ्जनाय नमः । (१०.७०.२५)
२८८६. ॐ सद्रक्षणाय खलनिग्रहणाय कलयावतीर्णाय नमः । (१०.७०.२७)
२८८७. ॐ अनीहलभ्याय नमः । (१०.७०.२८)
२८८८. ॐ अयुतमतङ्गजवीर्याय नमः । (१०.७०.२९)
२८८९. ॐ प्रणतशोकहराङ्घ्रियुग्माय नमः । (१०.७०.२९)
२८९०. ॐ उदात्तचक्राय नमः । (१०.७०.३०)
२८९१. ॐ स्वविलक्षणात्मने नमः । (१०.७०.३८)
२८९२. ॐ ब्रह्ममयाय नमः । (१०.७०.४३)
२८९३. ॐ भुवनमङ्गलाय नमः । (१०.७०.४४)
२८९४. ॐ विश्वं पुनाते चरणाम्बवे नमः । (१०.७०.४४)
उद्धवस्य मतमाज्ञाय श्रीकृष्णस्य इन्द्रप्रस्थगमनं
२८९५. ॐ अरूपिणे नमः । (१०.७१.८)
२८९६. ॐ विशदकर्मणे नमः । (१०.७१.९)
२८९७. ॐ रमामलालयाय नमः । (१०.७१.२६)
२८९८. ॐ पुण्यश्लोकशिखामणये नमः । (१०.७१.३१)
२८९९. ॐ सुहृद्भिः संस्तूयमानाय नमः । (१०.७१.३१)
२९००. ॐ नरलोचनपानपात्राय नमः । (१०.७१.३४)
२९०१. ॐ पुरुषमौलये नमः । (१०.७१.३६)
२९०२. ॐ उदारहासलीलावलोककलयोत्सवकृते नमः । (१०.७१.३६)
राजसूययज्ञाय पाण्डवानां दिग्विजयः जरासन्धवधश्च
२९०३. ॐ कमलनाभाय नमः । (१०.७२.४)
२९०४. ॐ स्वसुखानुभूतये नमः । (१०.७२.६)
२९०५. ॐ अकृतात्मभिः दुर्जयाय नमः । (१०.७२.१०)
२९०६. ॐ अमोघदर्शनाय नमः । (१०.७२.४३)
२९०७. ॐ भीमेन जरासन्धं घातितवते नमः । (१०.७२.४५)
जरासन्धस्य कारागृहात् राज्ञां मोचनं तेषां भगवत्स्तुतिश्च
२९०८. ॐ स्फुरन्मकरकुण्डलाय नमः । (१०.७३.३)
२९०९. ॐ पद्महस्ताय नमः । (१०.७३.४)
२९१०. ॐ गदाशङ्खरथाङ्गैरुपलक्षिताय नमः । (१०.७३.४)
२९११. ॐ किरीटहारकटककटिसूत्राङ्गदाचिताय नमः । (१०.७३.४)
२९१२. ॐ भ्राजद्वरमणिग्रीवाय नमः । (१०.७३.५)
२९१३. ॐ वनमालया निवीताय नमः । (१०.७३.५)
२९१४. ॐ देवदेवेशाय नमः । (१०.७३.८)
२९१५. ॐ प्रणतक्लेशनाशाय नमः । (१०.७३.१६)
२९१६. ॐ मुक्तबन्धनैः राजभिः संस्तूयमानाय नमः । (१०.७३.१७)
२९१७. ॐ जितारये नमः । (१०.७३.३२)
राजसूयः तत्र श्रीकृष्णस्य अग्रपूजा शिशुपालवधः अवभृतस्नानं मयनिर्मित सभायां दुर्योधनस्य पतनञ्च
२९१८. ॐ आत्माश्रयाय नमः । (१०.७४.२१)
२९१९. ॐ सर्वभूतात्मभूताय नमः । (१०.७४.२४)
२९२०. ॐ अनन्यदर्शिने नमः । (१०.७४.२४)
२९२१. ॐ राजसूये पाण्डवैः सदस्याग्र्यार्हणपूजिताय नमः । (१०.७४.२६)
२९२२. ॐ शिशुपालमोक्षदाय नमः । (१०.७४.४३)
२९२३. ॐ युधिष्ठिरप्रियङ्कराय नमः । (१०.७५.२९)
२९२४. ॐ भुवो भरं समुज्जिहीर्षवे नमः । (१०.७५.३९)
साल्वयुद्धं सौभनाशनं साल्ववधश्च
२९२५. ॐ क्रीडानरशरीराय नमः । (१०.७६.१)
२९२६. ॐ पितृवत्सलाय नमः । (१०.७७.२२)
२९२७. ॐ अखण्डितविज्ञानज्ञानैश्वर्याय नमः । (१०.७७.३१)
२९२८. ॐ अमोघविक्रमाय नमः । (१०.७७.३३)
२९२९. ॐ साल्वघातिने नमः । (१०.७७.३६)
दन्तवक्त्रविदूरथवधः बलरामेण सूतस्यहननं बल्वलवधः बलरामस्य तीर्थयात्रा च
२९३०. ॐ यदूद्वहाय नमः । (१०.७८.८)
२९३१. ॐ दन्तवक्त्रमुक्तिदाय नमः । (१०.७८.-)
२९३२. ॐ मुनिभिः सिद्धगन्धर्वैर्विद्याधरमहोरगैः उपगीयमानविजयाय नमः । (१०.७८.१४)
२९३३. ॐ अप्सरोभिः पितृगणैर्यक्षैः किन्नरचारणैः कुसुमैरभिवर्षिताय नमः । (१०.७८.१५)
२९३४. ॐ लोकपावनाय नमः । (१०.७८.३२)
२९३५. ॐ दैत्यदमनहलायुधाय नमः । (१०.७९.४)
२९३६. ॐ बल्वलघ्नाय रामाय नमः । (१०.७९.५)
२९३७. ॐ मुनिभिः संस्तूयमानाय बलाय नमः । (१०.७९.७)
२९३८. ॐ मायामर्त्यायानन्ताय नमः । (१०.७९.३३)
कुचेलोपाख्यानम्
२९३९. ॐ भोजवृष्ण्यन्धकेश्वराय नमः । (१०.८०.११)
२९४०. ॐ अमलकीर्तये नमः । (१०.८०.२४)
२९४१. ॐ ज्ञानदाय गुरवे नमः । (१०.८०.३२)
२९४२. ॐ गुरवे नमः । (१०.८०.३२)
२९४३. ॐ सत्यकामाय नमः । (१०.८०.४४)
२९४४. ॐ कुचेलसतीर्थाय नमः । (१०.८०.)
कुचेलेनानीत पृथुकाशनं तस्मै सर्वसम्पत्प्रदानं तस्य भगवत्प्रार्थना च
२९४५. ॐ सर्वभूतमनोऽभिज्ञाय नमः । (१०.८१.१)
२९४६. ॐ साक्षात् सर्वभूतात्मदृशे नमः । (१०.८१.६)
२९४७. ॐ कुचेलायामर्त्यदुर्लभसम्पत्दात्रे नमः । (१०.८१.७)
२९४८. ॐ ब्रह्मण्यदेवाय नमः । (१०.८१.१५)
२९४९. ॐ दाशार्हकाणामृषभाय नमः । (१०.८१.३४)
२९५०. ॐ भूरिभोजाय नमः । (१०.८१.३४)
२९५१. ॐ गुणालयाय नमः । (१०.८१.३६)
२९५२. ॐ महानुभावाय नमः । (१०.८१.३६)
सूर्योपरागसमये कुरुक्षेत्रे यादवगोपसङ्गमः
२९५३. ॐ शस्त्रभृतां वराय रामाय नमः । (१०.८२.३)
२९५४. ॐ श्रीनिकेतवपुषे नमः । (१०.८२.२६)
२९५५. ॐ योगिनां दुर्दर्शाय नमः । (१०.८२.२८)
२९५६. ॐ स्वर्गापवर्गविरमाय नमः । (१०.८२.३०)
२९५७. ॐ नित्ययुजां दुरापाय नमः । (१०.८२.३९)
२९५८. ॐ अगाधबोधैः योगेश्वरैर्हृदि विचिन्त्याय नमः । (१०.८२.४८)
द्रौपद्यै श्रीकृष्णपत्नीनां स्वविवाहवृत्तान्तविवरणम्
२९५९. ॐ लोकनाथाय नमः । (१०.८३.२)
२९६०. ॐ देहम्भृतां देहकृदस्मृतिच्छिदचरणाम्बुजासवाय नमः । (१०.८३.३)
२९६१. ॐ आत्मधामविधुतात्मकृतत्र्यवस्थाय नमः । (१०.८३.४)
२९६२. ॐ आनन्दसम्प्लवाय नमः । (१०.८३.४)
२९६३. ॐ अखण्डाय नमः । (१०.८३.४)
२९६४. ॐ अकुण्ठबोधाय नमः । (१०.८३.४)
२९६५. ॐ कालोपसृष्टनिगमावने आत्मयोगमायाकृतये नमः । (१०.८३.४)
२९६६. ॐ परमहंसगतये नमः । (१०.८३.४)
२९६७. ॐ उत्तमश्लोकशिखामणये नमः । (१०.८३.५)
२९६८. ॐ श्रीनिकेतचरणाय नमः । (१०.८३.८)
२९६९. ॐ श्रियौकाय नमः । (१०.८३.१२)
२९७०. ॐ पद्महस्तया वृताय नमः । (१०.८३.१७)
२९७१. ॐ आप्तकामाय नमः । (१०.८३.४०)
ऋषीणां भगवत्सन्दर्शनं वसुदेवयज्ञः तीर्थयात्रानन्तरप्रतिगमनञ्च
२९७२. ॐ धर्मगुप् तनवे नमः । (१०.८४.८)
२९७३. ॐ ईश्वरस्य ईशितव्याय नमः । (१०.८४.१५)
२९७४. ॐ स्वजनाभिगुप्तये खलनिग्रहाय च सत्त्वभृते नमः । (१०.८४.१८)
२९७५. ॐ वर्णाश्रमात्मने नमः । (१०.८४.१८)
२९७६. ॐ स्वलीलया सनातनवेदपथभृते नमः । (१०.८४.१८)
२९७७. ॐ सद्व्यक्ताव्यक्ताय नमः । (१०.८४.१९)
२९७८. ॐ स्वमाययाछन्नमहिम्ने नमः । (१०.८४.२२)
२९७९. ॐ मायायवनिकाच्छन्नाय नमः । (१०.८४.२३)
२९८०. ॐ अघौघमर्षाय नमः । (१०.८४.२६)
२९८१. ॐ तीर्थास्पदाय नमः । (१०.८४.२६)
२९८२. ॐ सुविपक्वयोगैः हृदिकृताङ्घ्रये नमः । (१०.८४.२६)
२९८३. ॐ क्लेशकर्म्मपरिपाकगुणप्रवाहैरव्याहतानुभवाय नमः । (१०.८४.३३)
२९८४. ॐ सर्वयज्ञेश्वराय नमः । (१०.८४.३५)
२९८५. ॐ जगतामीश्वराय नमः । (१०.८४.४१)
२९८६. ॐ द्रव्यज्ञानक्रियेश्वराय नमः । (१०.८४.५१)
२९८७. ॐ गोविन्दचरणाम्बुजाय नमः । (१०.८४.६९)
वसुदेवेन भगवत्तत्वप्रतिपादनं स्वमातुःप्रीत्यर्थं मृतपूर्वजानामानयनञ्च
२९८८. ॐ सङ्कर्षणाच्युताभ्यां नमः । (१०.८५.१)
२९८९. ॐ प्रधानपुरुषाभ्यां पराभ्यां नमः । (१०.८५.३)
२९९०. ॐ भूतानां भूतादये नमः । (१०.८५.११)
२९९१. ॐ इन्द्रियाणां तैजसे नमः । (१०.८५.११)
२९९२. ॐ विकल्पानां वैकारिकाय नमः । (१०.८५.११)
२९९३. ॐ अनुशायिनां प्रधानाय नमः । (१०.८५.११)
२९९४. ॐ नश्वरेषु भावेष्वनश्वराय नमः । (१०.८५.१२)
२९९५. ॐ गुणप्रवाहे सूक्ष्मां गतये नमः । (१०.८५.१५)
२९९६. ॐ भूभारक्षत्रक्षपणार्थं अवतीर्णाभ्यां प्रधानपुरुषाभ्यां नमः । (१०.८५.१८)
२९९७. ॐ आपन्नसंसृतिभयापहपादारविन्दाय नमः । (१०.८५.१९)
२९९८. ॐ विश्वसृजां आदिपुरुषाभ्यां नमः । (१०.८५.२९)
२९९९. ॐ भूमेर्भारायमाणानां कालविध्वस्तसत्वानां उच्छास्त्रवर्तिनां राज्ञां क्षयायावतीर्णाभ्यां नमः । (१०.८५.३०)
३०००. ॐ योगेश्वरेश्वराभ्यां नमः । (१०.८५.३३)
३००१. ॐ सांख्ययोगवितानाय नमः । (१०.८५.३९)
३००२. ॐ विशुद्धसत्वधाम्ने नमः । (१०.८५.४२)
३००३. ॐ शास्त्रशरीरिणे नमः । (१०.८५.४२)
३००४. ॐ निरपेक्षविमृग्यपादारविन्दाय नमः । (१०.८५.४५)
३००५. ॐ विश्वशरण्याङ्घ्रये नमः । (१०.८५.४५)
३००६. ॐ ईशितव्येशाय नमः । (१०.८५.४६)
३००७. ॐ अमृतकीर्तये नमः । (१०.८५.५९)
अर्जुनेन सुभद्राहरणं भगवता बहुलाश्व-श्रुतदेवानुग्रहश्च
३००८. ॐ क्षेमार्थदृशदाय नमः । (१०.८६.२१)
३००९. ॐ दिगन्तधवलायाशुभघ्नाय नमः । (१०.८६.२१)
३०१०. ॐ सुरैः नृभिः गीतयशसे नमः । (१०.८६.२१)
३०११. ॐ निष्किञ्चनानां शान्तानां मुनीनां आत्मदाय नमः । (१०.८६.३३)
३०१२. ॐ यदोर्वंशेऽवतीर्णाय नमः । (१०.८६.३४)
३०१३. ॐ त्रैलोक्यवृजिनापहयशसे नमः । (१०.८६.३४)
३०१४. ॐ सुशान्ताय नमः । (१०.८६.३५)
३०१५. ॐ ऋषये नारायणाय नमः । (१०.८६.३५)
३०१६. ॐ कर्मविक्षिप्तचेतसां हृदिस्थाप्यतिदूरस्थाय नमः । (१०.८६.४७)
३०१७. ॐ आत्मशक्तिभिरग्राह्याय नमः । (१०.८६.४७)
३०१८. ॐ अध्यात्मविदां परात्मने नमः । (१०.८६.४८)
३०१९. ॐ स्वात्मविभक्तमृत्यवे नमः । (१०.८६.४८)
३०२०. ॐ सकारणाकारणलिङ्गाय नमः । (१०.८६.४८)
३०२१. ॐ स्वमायया संवृतरुद्धदृष्टये नमः । (१०.८६.४८)
३०२२. ॐ भक्तभक्तमते नमः । (१०.८६.५९)
श्रुतिगीता
३०२३. ॐ अनिर्देश्याय नमः । (१०.८७.१)
३०२४. ॐ जनानां मात्रार्थं भवार्थं आत्मनेऽकल्पनाय च बुद्धीन्द्रियमनःप्राणस्रष्ट्रे नमः । (१०.८७.२)
३०२५. ॐ आत्मना समवरुद्धसमस्तभगाय नमः । (१०.८७.१४)
३०२६. ॐ अगजगदोकसां अखिलशक्त्यवबोधकाय नमः । (१०.८७.१४)
३०२७. ॐ त्र्यधिपतये नमः । (१०.८७.१६)
३०२८. ॐ अजस्रसुखानुभवाय नमः । (१०.८७.१६)
३०२९. ॐ अवितथसमैकरसधाम्ने नमः । (१०.८७.१९)
३०३०. ॐ अखिलशक्तिधृचे नमः । (१०.८७.२०)
३०३१. ॐ अभवाय निगमापवपनायाङ्घ्रये नमः । (१०.८७.२०)
३०३२. ॐ दुरवगमात्मतत्वनिगमायात्ततनवे नमः । (१०.८७.२१)
३०३३. ॐ अखिलसत्वनिकेताय नमः । (१०.८७.२७)
३०३४. ॐ अकरणाय नमः । (१०.८७.२८)
३०३५. ॐ स्वराजे नमः । (१०.८७.२८)
३०३६. ॐ अखिलकारकशक्तिधराय नमः । (१०.८७.२८)
३०३७. ॐ सर्वरसाय नमः । (१०.८७.३४)
३०३८. ॐ नित्यसुखाय नमः । (१०.८७.३५)
३०३९. ॐ एकरसाय नमः । (१०.८७.३७)
३०४०. ॐ अपरिमेयभगाय नमः । (१०.८७.३८)
३०४१. ॐ अनधिरूढपदाय नमः । (१०.८७.३९)
३०४२. ॐ अपवर्गगतये नमः । (१०.८७.४०)
३०४३. ॐ अव्यक्तजीवेश्वराय नमः । (१०.८७.५०)
३०४४. ॐ कैवल्यनिरस्तयोनये नमः । (१०.८७.५०)
वृकासुराय शिववरदानं तत् वरप्रभावेनैव भगवता तस्य हननम्
३०४५. ॐ लक्ष्मीपतये नमः । (१०.८८.१)
३०४६. ॐ सर्वदृशे नमः । (१०.८८.५)
३०४७. ॐ नृणां निःश्रेयसार्थाय यदुकुले अवतीर्णाय नमः । (१०.८८.७)
३०४८. ॐ चिन्मात्राय नमः । (१०.८८.१०)
३०४९. ॐ सुदुराराध्याय नमः । (१०.८८.१०)
३०५०. ॐ शान्तानां न्यस्तदण्डानां न्यासिनां परमायै गतये नमः । (१०.८८.२६)
३०५१. ॐ वृजिनार्दनाय नमः । (१०.८८.२७)
३०५२. ॐ सर्वकामदुहे नमः । (१०.८८.२९)
३०५३. ॐ अव्याकृतशक्त्युदन्वने नमः । (१०.८८.४०)
भृगुमहर्षिणा त्रिमूर्तिपरीक्षणं सन्तानगोपालकथा च
३०५४. ॐ त्रिष्वधीशेभ्यो नमः । (१०.८९.१)
३०५५. ॐ न्यस्तदण्डानां शान्तानां समचेतसां अकिञ्चनानां साधूनां मुनीनां परमां गतये नमः । (१०.८९.१७)
३०५६. ॐ महायोगेश्वरेश्वराय नमः । (१०.८९.५०)
३०५७. ॐ महाभीमाद्भुतसहस्रमूर्धन्यफणामणिद्विभिः विभ्राजमानाय नमः । (१०.८९.५४)
३०५८. ॐ द्विगुणोल्बणेक्षणाय नमः । (१०.८९.५४)
३०५९. ॐ सिताचलाभाय नमः । (१०.८९.५४)
३०६०. ॐ शितिकण्ठजिह्वाय नमः । (१०.८९.५४)
३०६१. ॐ पुरुषोत्तमोत्तमाय नमः । (१०.८९.५५)
३०६२. ॐ सान्द्राम्बुदाभाय नमः । (१०.८९.५५)
३०६३. ॐ सुपिशङ्गवाससे नमः । (१०.८९.५५)
३०६४. ॐ रुचिरायतेक्षणाय नमः । (१०.८९.५५)
३०६५. ॐ महामणिव्रातकिरीटकुण्डलप्रभापरिक्षिप्तसहस्रकुन्तळयुताय नमः । (१०.८९.५६)
३०६६. ॐ प्रलम्बचार्वष्टभुजाय नमः । (१०.८९.५६)
३०६७. ॐ सकौस्तुभाय नमः । (१०.८९.५६)
३०६८. ॐ श्रीवत्सलक्ष्मणे नमः । (१०.८९.५६)
३०६९. ॐ वनमालया वृताय नमः । (१०.८९.५६)
३०७०. ॐ सुनन्दनन्दप्रमुखैः स्वपार्षदैर्निषेविताय नमः । (१०.८९.५७)
३०७१. ॐ चक्रादिभिर्मूर्तिधरैर्निजायुधैर्निषेविताय नमः । (१०.८९.५७)
३०७२. ॐ पुष्ट्या श्रिया कीर्त्यजयाखिलर्धिभिर्निषेविताय नमः । (१०.८९.५७)
३०७३. ॐ नरनारायणर्षि ऋषभाभ्यां नमः । (१०.८९.६०)
श्रीकृष्णलीलासंक्षिप्तवर्णनं भगवत्पत्नीनां भगवति अनुरागाधिक्यं यदुवंशस्य असङ्ख्येयत्वप्रतिपादनञ्च
३०७४. ॐ षोडशसाहस्रपत्नीनामेकवल्लभाय नमः । (१०.९०.५)
३०७५. ॐ षोडशसाहस्रविचित्ररूपाय नमः । (१०.९०.५)
३०७६. ॐ मृदङ्गवीणापणवानकान् वादयद्भिर्गन्धर्वैः सूतमागधवन्दिभिः उपगीयमानाय नमः । (१०.९०.८)
३०७७. ॐ यादवेन्द्राय नमः । (१०.९०.२०)
३०७८. ॐ वसुदेवनन्दनाय नमः । (१०.९०.२२)
३०७९. ॐ अमोघगतये नमः । (१०.९०.३१)
३०८०. ॐ अमङ्गलघ्नाय नमः । (१०.९०.४७)
३०८१. ॐ कालचक्रायुधाय नमः । (१०.९०.४७)
३०८२. ॐ क्षितिभरहराय नमः । (१०.९०.४७)
३०८३. ॐ जननिवासाय नमः । (१०.९०.४८)
३०८४. ॐ देवकीजन्मवादाय नमः । (१०.९०.४८)
३०८५. ॐ स्थिरचरवृजिनघ्नाय नमः । (१०.९०.४८)
३०८६. ॐ व्रजपुरवनितानां कामदेवाय नमः । (१०.९०.४८)
३०८७. ॐ निजवर्त्मरिरक्षयात्तलीलातनवे नमः । (१०.९०.४९)
३०८८. ॐ दुस्तरकृतान्तजवापवर्गधाम्ने नमः । (१०.९०.५०)
यदुकुलसंहाराय ऋषीणां शापः
३०८९. ॐ सरामाय यदुभिः वृताय नमः । (११.१.१)
३०९०. ॐ पाण्डुसुतान् निमित्तं कृत्वा इतरेतरतस्समेतान् नृपान् हत्वा क्षितिभारं निग्रहीतवते नमः । (११.१.२)
३०९१. ॐ यदुकुलस्य अन्तः कलिं विधाय स्वधामानं प्राप्ताय नमः । (११.१.४)
३०९२. ॐ लोकलावण्यनिर्मुक्त्या स्वमूर्त्या नृणां लोचनं, गीर्भिः स्मरतां चित्तं, पदैः ईक्षतां क्रियाः आच्छिद्य, कौ सुश्लोकां कीर्तिं विस्तारितवते नमः । (११.१.६)
३०९३. ॐ सकलसुन्दरसन्निवेशवपुषे नमः । (११.१.१०)
३०९४. ॐ द्वारकामास्थाय सुमङ्गलकर्म्माण्याचरन् रमितवते नमः । (११.१.१०)
३०९५. ॐ पुण्यनिवहानि सुमङ्गलानि कलिमलापहराणि गायज्जगत् कर्माणि कृतवते नमः । (११.१.११)
३०९६. ॐ ज्ञातसर्वार्थाय नमः । (११.१.२४)
३०९७. ॐ कालरूपिणे नमः । (११.१.२४)
वसुदेवनारदसंवादः निमये नवयोगीनां उपदेशः भागवतधर्मः भक्तलक्षणानि च
३०९८. ॐ अमरोत्तमैरुपास्यमुकुन्दचरणाम्बुजाय नमः । (११.२.२)
३०९९. ॐ मुक्तिदाय नमः । (११.२.८)
३१००. ॐ पुण्यश्रवणकीर्तनाय नमः । (११.२.१३)
३१०१. ॐ रथाङ्गपाणिने नमः । (११.२.३९)
३१०२. ॐ भगवत्पदारविन्दाय नमः । (११.२.५३)
३१०३. ॐ अघौघनाशकाय नमः । (११.२.५५)
मायास्वरूपं तस्याः मोचनानुष्ठानानि ब्रह्मलक्षणं कर्मयोगश्च
३१०४. ॐ संसारतापभेषजाय नमः । (११.३.२)
३१०५. ॐ आत्मदाय नमः । (११.३.२२)
३१०६. ॐ अघौघहराय नमः । (११.३.३१)
३१०७. ॐ स्थित्युत्भवप्रलयहेतवे नमः । (११.३.३५)
३१०८. ॐ अहेतवे नमः । (११.३.३५)
३१०९. ॐ सत्वं रजस्तम इति त्रिवृदे एकस्मै नमः । (११.३.३७)
३११०. ॐ ज्ञानक्रियार्थफलरूपतया भासते नमः । (११.३.३७)
भगवतोऽवताराणां वर्णनम्
३१११. ॐ अखिलशक्तिधाम्ने नमः । (११.४.२)
३११२. ॐ आदिदेवाय नमः । (११.४.३)
३११३. ॐ सत्वादिभिः स्थितिलयोद्भवादिकर्त्रे नमः । (११.४.४)
३११४. ॐ क्रतुपतये नमः । (११.४.५)
३११५. ॐ द्विजधर्मसेतवे नमः । (११.४.५)
३११६. ॐ प्रशान्ताय ऋषिप्रवराय नमः । (११.४.६)
३११७. ॐ ऋषिवर्यनिषेविताङ्घ्रये नमः । (११.४.६)
३११८. ॐ अभयदाय नमः । (११.४.९)
३११९. ॐ स्वारामधीरनिकरानतपादपद्माय नमः । (११.४.९)
३१२०. ॐ अविकृताय नमः । (११.४.९)
३१२१. ॐ हंसस्वरूपिणे नमः । (११.४.१७)
३१२२. ॐ हैहयकुलाप्ययभार्गवाग्नये रामाय नमः । (११.४.२१)
भक्तिहीनानां निष्ठा प्रतियुग ईश्वराराधनाक्रमाश्च
३१२३. ॐ आत्मप्रभवाय नमः । (११.५.३)
३१२४. ॐ सर्वेषु तनुभृत्स्ववस्थिताय नमः । (११.५.१०)
३१२५. ॐ वेदोपगीताय नमः । (११.५.१०)
३१२६. ॐ अमलाय नमः । (११.५.२३)
३१२७. ॐ धर्माय नमः । (११.५.२३)
३१२८. ॐ सुपर्णाय नमः । (११.५.२३)
३१२९. ॐ सर्वदेवमयाय नमः । (११.५.२५)
३१३०. ॐ जयन्ताय नमः । (११.५.२६)
३१३१. ॐ श्री वत्सादिभिरङ्कैश्चोपलक्षिताय नमः । (११.५.२७)
३१३२. ॐ प्रणतपालाय नमः । (११.५.३३)
३१३३. ॐ परिभवघ्नाय नमः । (११.५.३३)
३१३४. ॐ अभीष्टदोहाय नमः । (११.५.३३)
३१३५. ॐ शिवविरिञ्चिनुताय नमः । (११.५.३३)
३१३६. ॐ भृत्यार्तिहन्त्रे नमः । (११.५.३३)
३१३७. ॐ भवाब्धिपोताय नमः । (११.५.३३)
३१३८. ॐ हृदि सन्निविष्टाय नमः । (११.५.४२)
३१३९. ॐ गूढैश्वर्याय नमः । (११.५.४९)
३१४०. ॐ सतां गुप्तये भूभारासुरराजन्यहन्तवे अवतीर्णाय नमः । (११.५.५०)
देवानां भगवत्स्तुति ब्रह्मदेवेन स्वधामगमनाय विज्ञप्तिः श्रीकृष्णोद्धवसंवादारम्भश्च
३१४१. ॐ नरलोकमनोरमवपुषे नमः । (११.६.४)
३१४२. ॐ सर्वलोकमलापहयशसे नमः । (११.६.४)
३१४३. ॐ अद्भुतदर्शनाय नमः । (११.६.५)
३१४४. ॐ मुमुक्षुभिः भावयुक्तैः अन्तर्हृदिचिन्त्यमानाय नमः । (११.६.७)
३१४५. ॐ अनवद्याव्यवहिते स्वे सुखेऽभिरताय नमः । (११.६.८)
३१४६. ॐ सत्वात्मनां ऋषभाय नमः । (११.६.९)
३१४७. ॐ सात्वतैः आत्मवद्भिः मुनिभिः स्वरतिक्रमाय समविभूतये क्षेमाय आर्द्रहृदा ऊह्यमानाय नमः । (११.६.१०)
३१४८. ॐ अशुभाशयधूमकेतवाङ्घ्रये नमः । (११.६.१०)
३१४९. ॐ जिज्ञासुभिः परमभागवतैर्योगिभिः परीष्टाय नमः । (११.६.११)
३१५०. ॐ अव्यक्तजीवमहतां कालाय उदयस्थिति संयमानां हेतवे नमः । (११.६.१५)
३१५१. ॐ उत्तमपूरुषाय नमः । (११.६.१५)
३१५२. ॐ हृषीकपतये नमः । (११.६.१७)
३१५३. ॐ पद्मजादिभिर्विबुधैः संस्तुताय नमः । (११.६.२८)
३१५४. ॐ जगतामीश्वरेश्वराय नमः । (११.६.४२)
उद्धवाय भगवतः ज्ञानोपदेशः यदु-अवधूतसंवादः चतुर्विंशतिः गूरूणां प्रतिपादनारम्भः
३१५५. ॐ योगविन्यासाय नमः । (११.७.१४)
३१५६. ॐ योगात्मने नमः । (११.७.१४)
३१५७. ॐ योगसम्भवाय नमः । (११.७.१४)
३१५८. ॐ अनवद्यायानन्तपाराय नमः । (११.७.१८)
३१५९. ॐ अविकुण्ठधिष्ण्याय नमः । (११.७.१८)
३१६०. ॐ सर्वशक्त्युपबृंहिताय नमः । (११.७.२१)
चतुर्विंशतिः गुरुवर्णनम् - उत्तरभागः
३१६१. ॐ रतिप्रदाय नमः । (११.८.३१)
३१६२. ॐ वित्तप्रदाय नमः । (११.८.३१)
३१६३. ॐ आत्माधाराय नमः । (११.९.१७)
३१६४. ॐ परापराणां परमाय नमः । (११.९.१८)
३१६५. ॐ केवलानुभवानन्दसन्दोहाय नमः । (११.९.१८)
३१६६. ॐ निरुपाधिकाय नमः । (११.९.१८)
आत्मनः संसारबन्धः देहाध्यासप्रबोधनं लोकस्य मिथ्यानिरुपणं बद्धमुक्तलक्षणं भक्त्यर्थं करणीयानुष्ठानि च
३१६७. ॐ आत्मस्थाय केवलाय परस्मै आत्मने नमः । (११.१०.११)
३१६८. ॐ पुरुषाध्यक्षाय नमः । (११.११.२७)
३१६९. ॐ लोकाध्यक्षाय नमः । (११.११.२७)
३१७०. ॐ जगत्प्रभवे नमः । (११.११.२७)
३१७१. ॐ प्रणतायानुरक्ताय नमः । (११.११.२७)
३१७२. ॐ प्रपन्नाय ज्ञानदाय नमः । (११.११.२७)
३१७३. ॐ स्वेच्छोपात्तपृथग्वपुषे नमः । (११.११.२८)
सत्सङ्गमहिमा हंसस्वरूपं धृत्वा सनकादये भगवतः ज्ञानोपदेशश्च
३१७४. ॐ सर्वदेहिनां आत्मने नमः । (११.१२.१५)
३१७५. ॐ हंसरूपिणे नमः । (११.१३.१९)
३१७६. ॐ त्रिगुणवृत्तिदृशे नमः । (११.१३.३२)
३१७७. ॐ इन्द्रियेशाय नमः । (११.१३.३२)
भक्तियोगमहत्त्वं ध्यानयोगवर्णनं सिद्धीनां वर्णनञ्च
३१७८. ॐ सतां प्रियाय नमः । (११.१४.२१)
३१७९. ॐ ध्यानमङ्गलरूपाय नमः । (११.१४.३७)
३१८०. ॐ दीर्घचारुचतुर्भुजाय नमः । (११.१४.३८)
३१८१. ॐ सुचारुसुन्दरग्रीवाय नमः । (११.१४.३८)
३१८२. ॐ सुकपोलशुचिस्मिताय नमः । (११.१४.३८)
३१८३. ॐ समानकर्णविन्यस्तस्फुरन्मकरकुण्डलाय नमः । (११.१४.३९)
३१८४. ॐ हेमाम्बरधराय नमः । (११.१४.३९)
३१८५. ॐ श्रीवत्सश्रीनिकेतनाय नमः । (११.१४.३९)
३१८६. ॐ शङ्खचक्रगदापद्मवनमालाविभुषिताय नमः । (११.१४.४०)
३१८७. ॐ नूपुरैर्विलसत्पादाय नमः । (११.१४.४०)
३१८८. ॐ कौस्तुभप्रभया युताय नमः । (११.१४.४०)
३१८९. ॐ द्युमत्किरीटकटककटिसूत्राङ्गदायुताय नमः । (११.१४.४१)
३१९०. ॐ सर्वाङ्गसुन्दराय नमः । (११.१४.४१)
३१९१. ॐ हृद्याय नमः । (११.१४.४१)
३१९२. ॐ प्रसादसुमुखेक्षणाय नमः । (११.१४.४१)
३१९३. ॐ सुकुमाराय नमः । (११.१४.४२)
३१९४. ॐ योगिनां सिद्धिदाय नमः । (११.१५.२)
३१९५. ॐ त्र्यधीश्वराय नमः । (११.१५.१५)
३१९६. ॐ कालविग्रहाय नमः । (११.१५.१५)
३१९७. ॐ क्षेत्रक्षेत्रज्ञचोदकाय नमः । (११.१५.१५)
३१९८. ॐ तूरीयाख्याय नमः । (११.१५.१६)
३१९९. ॐ भगवच्छब्दशब्दिताय नमः । (११.१५.१६)
३२००. ॐ श्वेतद्वीपपतये नमः । (११.१५.१८)
३२०१. ॐ सर्वभूतहृदिस्थाय नमः । (११.१५.३०)
३२०२. ॐ सर्वसाक्षिणे नमः । (११.१५.३०)
भगवद्विभूतिवर्णनम्
३२०३. ॐ अनाद्यन्तायापावृताय नमः । (११.१६.१)
३२०४. ॐ सर्वेषां भावानां त्राणस्थित्यप्ययोद्भवाय नमः । (११.१६.१)
३२०५. ॐ उच्चावचेषुभूतेषु अकृतात्मभिः दुर्ज्ञेयाय नमः । (११.१६.२)
३२०६. ॐ भूतानां मध्ये गूढश्चरन्तं भूतात्मने नमः । (११.१६.४)
३२०७. ॐ तीर्थपदाङ्घ्रिपद्माय नमः । (११.१६.५)
३२०८. ॐ पार्थसारथये नमः । (११.१६.)
३२०९. ॐ गीतोपदेशकाय नमः । (११.१६.)
३२१०. ॐ भूतानां आत्मने सुहृदे ईश्वराय नमः । (११.१६.९)
३२११. ॐ सर्वाणां भूतानां स्थित्युद्भवाप्ययाय नमः । (११.१६.९)
३२१२. ॐ भगवतः सर्वविभूतिभ्यो नमः । (११.१६.)
वर्णाश्रमधर्मविवरणम्
३२१३. ॐ अमित्रकर्शनाय नमः । (११.१७.४)
३२१४. ॐ धर्मस्य कर्त्रे प्रवक्त्रे अवित्रे नमः । (११.१७.५)
३२१५. ॐ सर्वधर्मज्ञाय नमः । (११.१७.७)
३२१६. ॐ वृषरूपधृचे धर्माय नमः । (११.१७.११)
३२१७. ॐ प्रणवस्वरूपाय नमः । (११.१७.११)
३२१८. ॐ त्रिवृन्मखः स्वरूपाय नमः । (११.१७.१२)
३२१९. ॐ भूतेष्वात्मन्यवस्थिताय नमः । (११.१८.३२)
३२२०. ॐ सर्वोत्पत्यप्ययाय नमः । (११.१८.४५)
३२२१. ॐ सर्वलोकमहेश्वराय नमः । (११.१८.४५)
ज्ञानविज्ञानभक्तियमनियमादीनां वर्णनं ज्ञानकर्मभक्तियोगानां वर्णनञ्च
३२२२. ॐ सर्वयज्ञपतये नमः । (११.१९.६)
३२२३. ॐ वैराग्यविज्ञानयुताय नमः । (११.१९.८)
३२२४. ॐ ईश्वराङ्घ्रिद्वन्द्वातपत्राय नमः । (११.१९.९)
३२२५. ॐ अरिकर्शनाय नमः । (११.१९.२८)
३२२६. ॐ स्वर्गापवर्गभगवत्धामदायकाय नमः । (११.२०.३४)
द्रव्यदेशादिगुणदोषवर्णनं तत्वसङ्ख्यानिरूपणं प्रकृतिपुरुषविवेकश्च
३२२७. ॐ हृदिस्थाय नमः । (११.२१.२८)
३२२८. ॐ परोक्षप्रियाय नमः । (११.२१.३५)
३२२९. ॐ ॐकाराय नमः । (११.२१.३९)
३२३०. ॐ आत्मविलक्षणाभ्यां प्रकृतिपुरुषाभ्यां नमः । (११.२२.२६)
३२३१. ॐ वदतां वराय नमः । (११.२२.५९)
भिक्षुगीता साङ्ख्ययोगवर्णनं सत्वादिगुणत्रयनिरूपणञ्च
३२३२. ॐ श्रवणीयवीर्याय नमः । (११.२३.१)
३२३३. ॐ दाशार्हमुख्याय नमः । (११.२३.१)
३२३४. ॐ मुकुन्दाङ्घ्रये नमः । (११.२३.५८)
३२३५. ॐ चिदचिन्मयाय नमः । (११.२४.७)
ऐलगीता क्रियायोगवर्णनञ्च
३२३६. ॐ आनन्दानुभवात्मने नमः । (११.२६.३०)
३२३७. ॐ आर्तानां शरणाय नमः । (११.२६.३३)
३२३८. ॐ सात्वतर्षभाय नमः । (११.२७.१)
३२३९. ॐ विश्वेश्वरेश्वराय नमः । (११.२७.५)
३२४०. ॐ तप्तजाम्बूनदप्रख्याय नमः । (११.२७.३८)
३२४१. ॐ शङ्खचक्रगदाम्बुजैः लसत्चतुर्भुजाय नमः । (११.२७.३८)
३२४२. ॐ पद्मकिञ्जल्कवाससे नमः । (११.२७.३८)
३२४३. ॐ स्फुरत्किरीटकटककटिसूत्रवराङ्गदाय नमः । (११.२७.३९)
३२४४. ॐ भ्राजत्कौस्तुभवनमालिने नमः । (११.२७.३९)
३२४५. ॐ सर्वभूतेष्वात्मन्यवस्थिताय नमः । (११.२७.४८)
परमार्थनिरूपणं उपदेशोपसंहारः उद्धवस्य बदरिकाश्रमगमनञ्च
३२४६. ॐ अनावृताय नमः । (११.२८.११)
३२४७. ॐ महानुभूतये नमः । (११.२८.३५)
३२४८. ॐ सकलानुभूतये नमः । (११.२८.३५)
३२४९. ॐ आनन्ददुघपदाम्बुजाय नमः । (११.२९.३)
३२५०. ॐ अशेषबन्धवे नमः । (११.२९.४)
३२५१. ॐ ईश्वराणां श्रीमत्किरीटतटपीडितपादपीठाय नमः । (११.२९.४)
३२५२. ॐ अखिलात्मदयितेश्वराय नमः । (११.२९.५)
३२५३. ॐ आश्रितानां सर्वार्थदाय नमः । (११.२९.५)
३२५४. ॐ जगत् क्रीडनकाय नमः । (११.२९.७)
३२५५. ॐ गृहीतमूर्तित्रयाय नमः । (११.२९.७)
३२५६. ॐ मनोहरस्मिताय नमः । (११.२९.७)
३२५७. ॐ सर्वभूतेष्वात्मनि बहिरन्तरपावृताय नमः । (११.२९.१२)
३२५८. ॐ यदुप्रवीराय नमः । (११.२९.३६)
३२५९. ॐ जगदेकबन्धवे नमः । (११.२९.४७)
३२६०. ॐ योगेश्वरसेविताङ्घ्रये नमः । (११.२९.४८)
यदुकुलसंहारवर्णनं भगवतः परन्धामगमनञ्च
३२६१. ॐ यादवर्षभाय नमः । (११.३०.२)
३२६२. ॐ सर्वनेत्राणां प्रेयसीं तनवे नमः । (११.३०.२)
३२६३. ॐ मानुष्यं लोकं त्यक्तवते रामाय नमः । (११.३०.२६)
३२६४. ॐ भ्राजिष्णु स्वया प्रभया दिशो वितिमिराः कुर्व्वते नमः । (११.३०.२८)
३२६५. ॐ बिभ्रत्चतुर्भुजरूपाय नमः । (११.३०.२८)
३२६६. ॐ श्रीवत्साङ्काय नमः । (११.३०.२९)
३२६७. ॐ तप्तहाटकवर्च्चसे नमः । (११.३०.२९)
३२६८. ॐ कौशेयाम्बरयुग्मेन परिवीताय नमः । (११.३०.२९)
सुमङ्गलाय नमः
३२६९. ॐ नीलकुन्तलमण्डितसुन्दरस्मितवक्त्राब्जाय नमः । (११.३०.३०)
३२७०. ॐ पुण्डरीकाभिरामाक्षाय नमः । (११.३०.३०)
३२७१. ॐ स्फुरन्मकरकुण्डलाय नमः । (११.३०.३०)
३२७२. ॐ कटिसूत्रब्रह्मसूत्रकिरीटकटकाङ्गदैः हारनूपुरमुद्राभिः कौस्तुभेन विराजमानाय नमः । (११.३०.३१)
३२७३. ॐ वनमालापरीताङ्गाय नमः । (११.३०.३२)
३२७४. ॐ दक्षिणोरौ पङ्कजारुणपादं कृत्वा उपविष्टाय नमः । (११.३०.३२)
३२७५. ॐ मूर्तिमद्भिर्निजायुधैः परीताय नमः । (११.३०.३२)
३२७६. ॐ इच्छाशरीरिणे नमः । (११.३०.४०)
३२७७. ॐ अश्वत्थमूले कृतकेतनाय नमः । (११.३०.४२)
३२७८. ॐ तिग्मद्युभिरायुधैर्वृताय नमः । (११.३०.४२)
३२७९. ॐ पद्मनेत्राय नमः । (११.३१.५)
३२८०. ॐ लोकाभिरामतनवे नमः । (११.३१.६)
३२८१. ॐ धारणाध्यानमङ्गलाय नमः । (११.३१.६)
३२८२. ॐ विशन्तं स्वधामनि अविज्ञातगतये नमः । (११.३१.८)
३२८३. ॐ ब्रह्मरुद्रादिभिः योगगतिं दृष्ट्वा प्रशंसिताय नमः । (११.३१.१०)
३२८४. ॐ अशेषस्थितिसम्भवाप्ययेष्वनन्यहेतवे नमः । (११.३१.१३)
३२८५. ॐ अशेषशक्तिधृचे नमः । (११.३१.१३)
३२८६. ॐ अर्जुनप्रेयससख्ये नमः । (११.३१.२१)
३२८७. ॐ अशेषाशुभहराय नमः । (११.३१.२४)
३२८८. ॐ सर्वमङ्गलमङ्गलाय नमः । (११.३१.२४)
३२८९. ॐ रुचिरावतारवीर्याय नमः । (११.३१.२८)
कलियुगराजवंशवर्णनं कलिधर्मनिरूपणं कल्क्यवतारश्च
३२९०. ॐ यदुवंशविभूषणाय नमः । (१२.१.१)
३२९१. ॐ जनं खरधर्मिणि कलौ गतप्राये धर्मत्राणायावतरिष्यमाणाय नमः । (१२.२.१६)
३२९२. ॐ चराचरगुरवे नमः । (१२.२.१७)
३२९३. ॐ साधूनां जन्मकर्मापनुत्तये प्रादुर्भविष्यमाणाय नमः । (१२.२.१७)
३२९४. ॐ हृदिस्थिते सत्वमूर्तये नमः । (१२.२.२२)
३२९५. ॐ धर्मपतये नमः । (१२.२.२३)
भूमिगीता कलिदोषनिरासोपायः युगधर्मनिरूपणं हरिनामकीर्तनमाहात्म्यञ्च
३२९६. ॐ अमङ्गलघ्नाय नमः । (१२.३.१५)
३२९७. ॐ जगतां परमगुरवे नमः । (१२.३.४३)
३२९८. ॐ त्रिलोकनाथानतपादपङ्कजाय नमः । (१२.३.४३)
३२९९. ॐ पुंसां कलिकृतान् सर्वदोषहन्त्रे नमः । (१२.३.४५)
३३००. ॐ योगिनामशुभाशयहन्त्रे नमः । (१२.३.४७)
३३०१. ॐ म्रियमाणैरभिध्येयाय नमः । (१२.३.५०)
३३०२. ॐ सर्वसंश्रयाय नमः । (१२.३.५०)
चतुर्विधप्रलयवर्णनं ब्रह्मोपदेशश्च
३३०३. ॐ विश्वं आत्मसात्कृत्य अनन्तासने शयानाय नमः । (१२.४.४)
३३०४. ॐ विश्वसृजे नमः । (१२.४.४)
३३०५. ॐ जगद्विधात्रे नमः । (१२.४.३८)
३३०६. ॐ संसारसिन्धुतरणप्लवाय नमः । (१२.४.३९)
३३०७. ॐ अनन्तोपमाय नमः । (१२.५.८)
३३०८. ॐ आकाश इव आधाराय नमः । (१२.५.८)
३३०९. ॐ मृत्यूनां मृत्यवे नमः । (१२.५.१०)
३३१०. ॐ परस्मै धाम्ने नमः । (१२.५.११)
३३११. ॐ निष्कलात्मने नमः । (१२.५.११)
परीक्षितः देहत्यागः तस्य पुत्रेण सर्पसत्रं वेदशाखाविभजनञ्च
३३१२. ॐ अनादिनिधनाय नमः । (१२.६.२)
३३१३. ॐ अकुण्ठमेधसे नमः । (१२.६.३५)
३३१४. ॐ परात्मनः ब्रह्मणः लिङ्गाय नमः । (१२.६.३९)
३३१५. ॐ त्रिवृदोङ्काराय नमः । (१२.६.३९)
३३१६. ॐ सर्वोपनिषदः वेदबीजाय नमः । (१२.६.४१)
३३१७. ॐ परमात्मनः ब्रह्मणः साक्षाद्वाचकाय नमः । (१२.६.४१)
३३१८. ॐ लोकभावनाय नमः । (१२.६.४८)
मार्कण्डेयोपाख्यानम्
३३१९. ॐ वटपत्रपुटे शयानाय बालकाय नमः । (१२.८.४)
३३२०. ॐ अद्भुतपुरुषाय नमः । (१२.८.४)
३३२१. ॐ ध्वस्तक्लेशान्तरात्मना मार्कण्डेयमहर्षिणा ध्याताय नमः । (१२.८.१३)
३३२२. ॐ शुक्लकृष्णाभ्यां ऋषिभ्यां नमः । (१२.८.३३)
३३२३. ॐ नवकञ्जलोचनाभ्यां ऋषिभ्यां नमः । (१२.८.३३)
३३२४. ॐ चतुर्भुजाभ्यां ऋषिभ्यां नमः । (१२.८.३३)
३३२५. ॐ रौरववल्कलाम्बराभ्यां ऋषिभ्यां नमः । (१२.८.३३)
३३२६. ॐ पवित्रपाणिभ्यां नमः । (१२.८.३३)
३३२७. ॐ कमण्डलुःऋजुवैणवदण्डधराभ्यां नमः । (१२.८.३३)
३३२८. ॐ त्रिवृत् उपवीतकधारिभ्यां नमः । (१२.८.३३)
३३२९. ॐ पद्माक्षमालाधराभ्यां नमः । (१२.८.३४)
३३३०. ॐ तपः एव रूपिभ्यां नमः । (१२.८.३४)
३३३१. ॐ तपत्तडिद्वर्णपिशङ्गरोचिषा भासमानाभ्यां नमः । (१२.८.३४)
३३३२. ॐ विबुधर्षभार्चिताभ्यां नमः । (१२.८.३४)
३३३३. ॐ भजतां भावबन्धुभ्यां नमः । (१२.८.४०)
३३३४. ॐ त्रिलोक्याः क्षेमाय तापविरमाय मृत्युजित्यै च तनूधराभ्यां नमः । (१२.८.४१)
३३३५. ॐ वेदहृदयाभिः मुनिभिः नितरां भज्यमानाय नमः । (१२.८.४२)
३३३६. ॐ स्थिरचरेशाय नमः । (१२.८.४२)
३३३७. ॐ अपवर्गमूर्तये नमः । (१२.८.४३)
३३३८. ॐ आत्मगुरवे नमः । (१२.८.४४)
३३३९. ॐ आत्मबन्धवे नमः । (१२.८.४५)
३३४०. ॐ परदैवताय नमः । (१२.८.४७)
३३४१. ॐ नरोत्तमाय नमः । (१२.८.४७)
३३४२. ॐ संयतगिरे नमः । (१२.८.४७)
३३४३. ॐ निगमेश्वराय नमः । (१२.८.४७)
३३४४. ॐ आत्मनि गूढबोधाय नमः । (१२.८.४९)
३३४५. ॐ सर्ववादविषयप्रतिरूपशीलाय नमः । (१२.८.४९)
३३४६. ॐ अम्बुजपत्राक्षाय नमः । (१२.९.६)
३३४७. ॐ पर्णपुटके शयानाय नमः । (१२.९.२१)
३३४८. ॐ प्रभया तमः ग्रसते शिशवे नमः । (१२.९.२१)
३३४९. ॐ महामरतकश्यामाय नमः । (१२.९.२२)
३३५०. ॐ श्रीमद्वदनपङ्कजाय नमः । (१२.९.२२)
३३५१. ॐ श्वासैजदलकाभाताय नमः । (१२.९.२३)
३३५२. ॐ कम्बुश्रीकर्णदाडिमाय नमः । (१२.९.२३)
३३५३. ॐ विद्रुमाधरभासेषच्छोणायितसुधास्मिताय नमः । (१२.९.२३)
३३५४. ॐ पद्मगर्भारुणापाङ्गाय नमः । (१२.९.२४)
३३५५. ॐ हृद्यहासावलोकनाय नमः । (१२.९.२४)
३३५६. ॐ श्वासैजद्वलिसंविग्ननिम्ननाभिदलोदराय नमः । (१२.९.२४)
३३५७. ॐ चार्वङ्गुलिभ्यां पाणिभ्यामुन्नीयमानचरणाम्बुजं मुखे निधाय धयन्तं नमः । (१२.९.२५)
३३५८. ॐ मार्कण्डेयमहर्षये निजोदरे विश्वरूपं दर्शयितवते नमः । (१२.९.२८-३१)
३३५९. ॐ प्रेमसुधास्मितापाङ्गनिरीक्षकाय नमः । (१२.९.३१)
३३६०. ॐ प्रपन्नाभयदाय नमः । (१२.१०.२)
भगवतः साङ्गोपाङ्गस्वरूपवर्णनं सूर्यव्यूहवर्णनञ्च
३३६१. ॐ वैष्णवीविभूतिभ्यो नमः । (१२.११.४)
३३६२. ॐ स्वयं दृशे नमः । (१२.११.२४)
३३६३. ॐ ब्रह्मयोनये नमः । (१२.११.२४)
३३६४. ॐ स्वमहिमपरिपूर्णाय नमः । (१२.११.२४)
३३६५. ॐ तत्परैरात्मलभ्याय नमः । (१२.११.२४)
३३६६. ॐ सूर्यात्मने व्यूहरूपाय नमः । (१२.११.२८)
३३६७. ॐ सर्वदेहिनां आत्मने नमः । (१२.११.२९)
३३६८. ॐ लोकानां आदिकृते नमः । (१२.११.३०)
३३६९. ॐ कालरूपधराय नमः । (१२.११.३२)
संक्षिप्त श्रीमद्भागवतोक्तविषयाः
३३७०. ॐ महते धर्माय नमः । (१२.१२.१)
३३७१. ॐ सर्वपापहराय नमः । (१२.१२.३)
३३७२. ॐ कीर्तितलीलावतारकर्मणे नमः । (१२.१२.४६)
३३७३. ॐ सर्वपातकमोचकाय नमः । (१२.१२.४७)
३३७४. ॐ सङ्कीर्त्यमानाय नमः । (१२.१२.४८)
३३७५. ॐ श्रुतानुभावाय नमः । (१२.१२.४८)
३३७६. ॐ रम्याय नमः । (१२.१२.५०)
३३७७. ॐ रुचिराय नमः । (१२.१२.५०)
३३७८. ॐ शश्वत् महोत्सवाय नमः । (१२.१२.५०)
३३७९. ॐ शोकार्णवशोषणाय नमः । (१२.१२.५०)
३३८०. ॐ उत्तमश्लोकयशसे नमः । (१२.१२.५०)
३३८१. ॐ श्रीधरपादपद्माभ्यां नमः । (१२.१२.५४)
३३८२. ॐ कृष्णपदारविन्दाभ्यां नमः । (१२.१२.५५)
३३८३. ॐ अदेवाय नमः । (१२.१२.५६)
३३८४. ॐ अखिलात्मभूताय नमः । (१२.१२.५६)
३३८५. ॐ कथनीयोरुकर्मणे नमः । (१२.१२.५८)
३३८६. ॐ सर्वाशुभविनाशकाय नमः । (१२.१२.५८)
३३८७. ॐ कलिमलसंहतिकालनाय नमः । (१२.१२.६६)
३३८८. ॐ अखिलेशाय नमः । (१२.१२.६६)
३३८९. ॐ जगदुदयस्थितिसंयमात्मशक्तये नमः । (१२.१२.६७)
३३९०. ॐ अजशक्रशङ्करादिभिः द्युपतिभिः दुरवसितस्तवाय नमः । (१२.१२.६७)
३३९१. ॐ उपचितनवशक्तिभिः स्व आत्मन्युपरचितस्थिरजङ्गमालयाय नमः । (१२.१२.६८)
३३९२. ॐ उपलब्धिमात्रधाम्ने नमः । (१२.१२.६८)
३३९३. ॐ सुरऋषभाय नमः । (१२.१२.६८)
विभिन्नपुराणानां श्लोकसङ्ख्या श्रीमद्भागवतमाहात्म्यं भागवतसमापनञ्च
३३९४. ॐ ब्रह्मावरुणेन्द्ररुद्रमरुद्भिः दिव्यैः स्तवैः स्तुताय नमः । (१२.१३.१)
३३९५. ॐ ध्यानावस्थितद्गतेन मनसा योगिभिः दर्शिताय नमः । (१२.१३.१)
३३९६. ॐ सामगाभिः वेदैः साङ्गपदक्रमोपनिषदैर्गीयमानाय नमः । (१२.१३.१)
३३९७. ॐ यस्यान्तं सुरासुरगणा न विदुः तस्मै नमः । (१२.१३.१)
३३९८. ॐ सर्वपापप्रणाशनाय नमः । (१२.१३.२३)
३३९९. ॐ दुःखशमनाय नमः । (१२.१३.२३)
३४००. ॐ भक्तिप्रदाय नमः । (१२.१३.२३)
इति श्रीमद्भागवतमहापुराणाधिष्ठिता सकल देवता नामावलिः सम्पूर्णा ।
भवे भवे यथाभक्तिः पादयोस्तवजायते ।
तथा कुरुष्व देवेश नाथस्त्वं नो यतः प्रभो ॥
नामसङ्कीर्तनं यस्य सर्वपापप्रणाशनम् ।
प्रणामो दुःखशमनस्तं नमामि हरिं परम् ॥
नमोस्तु ते महायोगिन्! प्रपन्नमनुशाधि माम् ।
यथा त्वत्चरणाम्भोजे रतिः स्यादनपायिनी ॥
श्रीकृष्णार्पणमस्तु ।
कायेन वाचा मनसेन्द्रियैर्वा
बुध्यात्मना वा प्रकृतेर्स्वभावात् ।
करोमि यद्यद्सकलं परस्मै
नारायणायेति समर्पयामि ॥
ॐ तत् सत् ।
स वाग्विसर्गो जनताघसम्प्लवो यस्मिन् प्रतिश्लोकमबद्धवत्यपि नामान्यनन्तस्य यशोऽङ्कितानि यत् श्रुण्वन्ति गायन्ति गृणन्ति साधवः ।
शुभमस्तु ।
विष्णुकृपया नामसमाहरणं - मठत्तिल् नरेन्द्रन्
कृतज्ञता - सम्पूज्य स्वामि शिवानन्द सरस्वति (सिद्धाश्रमं, आलत्तूर्, पालक्काट्), सम्पूज्य स्वरूपानन्द सरस्वति (शिवानन्दाश्रमं, पालक्काट्), श्री मोहन् चेट्टूर्, श्रीमति रश्मि राजकृष्णन्, श्रीमति जानकि विजयन्, श्रीमति सरस्वति नरेन्द्रन्
``Compiler Contact Details: Madathil Narendran, Nama Sivaya, Near Siva Temple,
Kallekulangara, Palakkad-678009, Kerala, India.
Tel. (91) 94950-35516. Email: madathilnarendran@gmail.com''
Note : Shloka numbers shown are indicative only. They differ from book to book.