चित्रकूट मङ्गलानुशासनम्
शरणागतसन्त्राणनिपुणाय महात्मने ।
अयोध्याजनभाग्याय रामचन्द्राय मङ्गलम् ॥ १॥
कौसल्यानन्दकन्दाय कल्याणगुणसिन्धवे ।
शरण्याय वरेण्याय रामभद्राय मङ्गलम् ॥ २॥
कौशिकाख्यमहायोगिसन्देशसफलीकृते ।
कृतिने नातितुष्टाय रामभद्राय मङ्गलम् ॥ ३॥
वैदेहीवदनाम्भोजलोलम्बायितचेतसे ।
भद्राणामपि भद्राय रामभद्राय मङ्गलम् ॥ ४॥
गौतमाश्रमसाफल्यनिदानपदपांसवे ।
दाशकीशादिमित्राय रामभद्राय मङ्गलम् ॥ ५॥
महापातकनिर्मुक्तिहेतुसेतुविधायिने ।
शिक्षितासुरजालाय रामभद्राय मङ्गलम् ॥ ६॥
विभीषणपरित्राणसंहृष्टमनसेविताम् ।
प्राप्तसीताय रामय रामभद्राय मङ्गलम् ॥ ७॥
इति चित्रकूट मङ्गलानुशासनं सम्पूर्णम् ।
Proofread by PSA Easwaran