श्रीदत्तात्रेयाष्टोरशतनामस्तोत्रम्
%१२७
ॐ अनसूयासुतोऽनन्त आद्य आत्रेय आत्मदः ।
इडापतिरिलेशार्च्य ईश ईडितसद्गुणः ॥ १॥
उन्मत्त उत्तमयशा ऊकृदूर्ध्वगतिप्रियः ।
ऋणहर्ता ऋषिश्रेष्ठो ॠवन्द्यो ॠजशिक्षकः ॥ २॥
लृस्थवन्द्यो लृगतिदो लॄवन्द्यो लॄपुरःसरः ।
एष्यदिष्टज्ञ एकार्थ ऐक्यात्मप्रद ऐक्यदृक् ॥ ३॥
ओङ्कारवाच्य ओजोद औदासीन्यद औषधः ।
अण्डस्थोन्तःकरणपा अश्चास्तनिजहृन्मलः ॥ ४॥
कर्मातीतः कार्तवीर्येट् खलहा खगपूजितः ।
गतिगङ्गाजलस्नायी घोरहा घनचित्प्रभः ॥ ५॥
ङशिक्षको ङेतमना चतुरश्चन्द्रमोऽग्रजः ।
छन्दपूरश्छन्दीड्यो जयदाता जगत्पतिः ॥ ६॥
झञ्झाकरो झरस्नायी ञहर्ता ञविवर्जितः ।
टीकाकृट्टिट्टिभकृट् ठवादिमतहृठ्ठवित् ॥ ७॥
डामरेड्यो डमरुधृक् ढक्काकृढ्ढुण्डिराट्प्रियः ॥
णवीक्षणो णगम्यश्च तत्त्ववित्तापशामकः ॥ ८॥
थैथैकृत्थृत्कृतानार्यो दत्तो दाता दयानिधिः ।
धनप्रदो धर्मगोप्ता नग्नो नष्टार्थलाभदः ॥ ९॥
परशक्तिः पापहर्ता फलदः फणिसूत्रभृत् ।
बन्धछिद्बलवज्जेता भयकृद्भयहृद्भवः ॥ १०॥
मत्तहा माहुरस्थानो यज्ञभोक्ता यदूद्वहः ।
रसदो रिपुसंहर्ता लाभदो लयसिद्धिदः ॥ ११॥
वशी वरेण्यो वरदः शान्तः श्रीपुरभिक्षुकः ।
षड्बाहुः षण्मतगतिः संसारारिश्च सह्यगः ॥ १२॥
हर्षप्रदो हिताशंसी ळान्तार्णो ळविवर्जितः ।
क्षराक्षरातिगः क्षन्ता ज्ञानदो ज्ञानिसद्गतिः ॥ १३॥
एवं वर्णक्रमेणेदं श्रीदत्तस्य महात्मनः ।
अष्टोत्तरशतं नाम्ना प्रसीदेत्पठतां प्रभुः ॥ १४॥
इति श्रीवासुदेवानन्दसरस्वतीविरचितं
दत्तात्रेयाष्टोत्तरशतनामस्तोत्रं सम्पूर्णम् ।