अद्वैतं दत्तात्रेयवर्मस्तोत्रम्
ध्यात्वा भक्ताभयकरं समष्टिव्यष्टिचालकम् ।
दत्तात्रेयं पठेद्वर्म सर्वरक्षाकरं परम् ॥ १॥
स्वसत्तनुप्रणामे मे प्रणमय्य शिरोऽवतु ।
व्यर्थात्तिरः पुरःकम्पाद् दुर्भराच्च द्युमूर्धकः ॥ २॥
स्वपादतुलसीगन्धप्रीतिदानेन पातु मे ।
नासत्यनासिको घ्राणमितरघ्राणतर्पणात् ॥ ३॥
नेत्रे स्वसाधुमूर्तीर्मे भास्कराक्षः प्रदर्श्य च ।
रूपलावण्यसौन्दर्यवीक्षणात्परिरक्षतु ॥ ४॥
सुश्लोको दिक्ष्रुतिः श्रोत्रे श्रावयित्वा स्वकं यशः ।
श्राव्यं च द्विविधं पातु शब्दात्कर्णकषायदात् ॥ ५॥
उच्चारयित्वा मधुरान्स्वगुणान्लोकशोकहान् ।
जिह्वां पावकवाक्पातु रसास्वाददुरुक्तितः ॥ ६॥
स्वालयक्षेत्रतीर्थेषु गमयित्वा पदौ मम ।
उरुक्रमपदः पातु व्यर्थपर्यटनादकात् ॥ ७॥
रजोहरः स्वसत्पादरजस्तीर्थाप्लुतानि मे ।
कृत्वाङ्गानि हरिः पातु सुस्पर्शालेपनादितः ॥ ८॥
चन्द्रचेताः स्वमननाह्लाददानेन मे मनः ।
दुःखदाद्यन्तवत्स्पर्शसङ्कल्पायासतोऽवतु ॥ ९॥
चित्तं साक्ष्यनुसन्धानं कारयित्वा पुमीश्वरः ।
मरीचिकोपमद्वैतानुसन्धानात्सदावतु ॥ १०॥
ग्राहयित्वातीन्द्रियकं बुद्धिं मे निश्चयात्मिकाम् ।
दुस्तर्कात्पातु जीवात्मा धीव्याप्त्यस्ततमाः स्वभूः ॥ ११॥
हरो देहेन्द्रियप्राणमनोधीभ्यो विलक्षणः ।
सोऽहमित्यनुभाव्याहङ्कारात्पातु दुराग्रहात् ॥ १२॥
सर्वाशाभ्यः सदा माव्याद्विष्णुः सर्वात्मकोऽपि च ।
वर्जितं कवचेनाव्याद्रक्षाहीनं च यत्स्थलम् ॥ १३॥
यो नह्यादात्मनीदं सन्सनद्धः कवची भवेत् ।
साम्राज्यसंस्थः कामाद्यरीन् जित्वा द्वैतसंविदि ॥ १४॥
संसारदुःस्वप्नहरं नष्टात्मधनदायकम् ।
त्रिदोषोत्पातशमनं दुर्दृग्बाधादिवारणम् ॥ १५॥
यस्याङ्गे वर्म कण्ठे च माला गीतायुधं करे ।
जराप्रदर्शितपथं प्रचण्डामयसैनिकम् ॥ १६॥
प्राप्तं मृत्युरिपुं चाप्यविगणय्य स एव हि ।
पदाक्रम्य सुखी यायात्प्रसिद्धं ब्रह्मलोककम् ॥ १७॥
इति श्री परमपूजनीय श्रीवासुदेवानन्दसरस्वतीविरचितं
श्रीदत्तात्रेयवर्माख्यकवचं सम्पूर्णम् ॥
Proofread by Sunder Hattangadi