गुरुपरम्परा २
श्रीमते रामानुजाय नमः
श्रीदक्षिण अहोविल आश्रम (पुरानीलङ्का)
गुरुपरम्परा
श्रीमान् वेङ्कटनाथार्यः कवितार्किककेसरी ।
वेदान्ताचार्यवर्यो मे सन्निधत्तां सदा हृदि ॥ १॥
वेदान्ताचार्यसिद्धान्तविख्यातविजयध्वजम् ।
कौशिकं श्रीनिवासार्यं विद्यानिधिमहं भजे ॥ २॥
श्रीरङ्गनाथयतिवर्यकृपाप्तबोधं
श्रीवासुदेवशिखरार्यदयावलम्बम् ।
वैराग्यभक्तिमुखसद्गुणसागरं
श्रीनारायणं श्रुतिशिरो गुरुमाश्रयामः ॥ ३॥
वेदान्तनारायणयतीन्द्रकृपावलम्बं
श्रीचित्रकूटगिरिकाननयोगनिष्ठम् ।
शान्त्यादि बोधपरिपूर्णविशुद्धवृत्तं
पुरुषोत्तमाख्यगुरुदेशिकमाश्रयामः ॥ ४॥
श्रीलक्ष्मीनृसिंहार्चनबद्धदीक्षं
पुरुषोत्तमेन गुरुणा सुकटाक्षणीयम् ।
तत्त्वत्रयस्य परिशीलनमेकनिष्ठं
श्रीवेदमूर्तिबलभद्रगुरुं भजामि ॥ ५॥
श्रीनारायणपादपद्मयुगलं ध्यात्वा स्वरूपङ्गतः,
श्रीरङ्गेशसमर्चने प्रतिदिनं लग्नं मुनिं देशिकम् ।
पूर्वाचार्यपदे नियोज्य मनसं प्राप्तं रहस्यत्रयं
शालिग्राममुनिं भजामि सततं श्रीचित्रकूटाश्रयम् ॥ ६॥
वेदान्तदेशिकपदे विनिषक्तचित्तं,
अष्टाक्षरं सचरमं द्वयमाश्रयन्तम् ।
श्रीव्येङ्कटेश करुणापरिपूर्णबोधं,
घनश्याम देशिकपदं सततं नमामि ॥ ७॥
श्रीराघवेन्द्रपदपङ्कजप्रीतिभाजं,
श्रीवैष्णवादि जनसेवितपादपद्मम् ।
शान्त्यादि धैर्यशमयोगयुतं सुशीलं,
वैराग्यमूर्तिपुरुषोत्तममाश्रयामि ।
वैराग्यज्ञानहरिप्रीतियुतं शरण्यं,
रामप्रपन्नवरदेशिकमाश्रयामि ॥ ८॥
श्रीजानकीसाङ्घ्रिसरोजचित्त-
मौदार्यशान्तिपरिपूर्णयुतप्रवीणम् ।
वन्येन जीवनकृतं तपसा ज्वलन्तं,
श्रीरामदेशिकगुरुं शरणं प्रपद्ये ॥ ९॥
श्रीवैष्णवान्वयसुसेवनभक्तचित्तं
श्रीरामदेशिककृपाप्तसमस्तबोधम् ।
श्री श्रीनिवासचरणाम्बुजचञ्चरीकं
श्रीदेशिकार्यबलरामगुरुं भजामि ॥ १०॥
श्रीरामानुजदेशिकस्य रागनिष्ठ-रङ्गेश-योगीन्द्र यो प्राप्तज्ञान-
विरागभक्तिमतुलं श्रीरामदेशिकगुरुं बलरामप्रपन्नदेशिकं
देशिकदयाकैङ्कर्यसेवारतं श्रीजगन्नाथगुरुं प्रपन्नवरदं
नित्यं भजेत्सादरम् ॥ ११॥
श्रीमदहोबिलनृसिंहपदाब्जभक्तं
श्रीरामदेशिकद्व मन्त्ररत्नम् ।
श्रीदेशिकालबलरामपदे नियुक्तं
श्रीमते जगन्नाथगुरुं भजामि ॥ १२॥
काश्यपगोत्रसमुद्भवे द्विजवरं वेदान्तसेवारतम् ।
स्वामिन् श्रीरामानुजरामदेशिकपदे कैङ्कर्यनिष्ठावृतम् ॥ १३॥
स्वामिन् श्रीजगन्नाथपादशशिने किरणै रसे वर्द्धितम् ।
स्वमिन् श्रीमज्जगद्गुरुं रोहिणीश्वरप्रपन्न-
भक्तसुलभं नित्यं भजे सादरम् ॥ १४॥
इति गुरुपरम्परा २ समाप्ता ॥
Proofread by PSA Easwaran