श्रीगुरुस्तुतिः
गुरुवरकरुणां हित्वा को वा स्वेष्टं लभेत लोकेऽस्मिन् ।
तस्माद्गुरुवरचरणं भज चेतः सर्वसौख्यमूलं त्वम् ॥ १॥
गुरुवर करुणासागर तरुणारुणवस्त्रसंवृताङ्ग विभो ।
कुरु करुणां मयि दीने सुरवरतरुगर्वहरणनिपुणकर ॥ २॥
हित्वा तव चरणं मम शरणं जानासि नान्यदस्तीति ।
गुरुवर नृसिंह तस्मात्पालय बुद्धिं सुनिश्चलां दत्त्वा ॥ ३॥
बहुशः कृतपापमपि क्रियमाणाघं गुरो पाहि ।
दोषाकरमपि शम्भुर्धत्ते शीर्षे न किं ब्रूहि ॥ ४॥
नावोचः किं पूर्वं त्वमपि भवेः श्रीसदाशिवेन्द्राभः ।
इति कस्मान्मम ममता देहे जागर्ति गुरुवर ब्रूहि ॥ ५॥
स्वप्ने ममोत्तमाङ्गे स्वयमाहूयातिकरुणया चरणौ ।
दधतस्तव निकटे मम गुरुवर नरसिंह याचना कास्ति ॥ ६॥
स्वप्नेऽपि रामनिकटे मच्छ्रेयः प्रार्थनाकर्तुः ।
गुरुवर तव निकटे मम कर्तव्या प्रार्थना कास्ति ॥ ७॥
नरसिंहापररूपे मत्पालनबद्धकङ्कणे भवति ।
जाग्रति सति मम निकटे गुरुवर भीतिर्भवेत्कस्मात् ॥ ८॥
कुत्र गतोऽत्रैवाहं तिष्ठामीत्यभयवितरणव्यग्रे ।
भवति भवतापहारिणि गुरुवर भीतिः कुतस्त्या मे ॥ ९॥
त्वच्चरणभक्तिपूरितमानसमेनं गुरो विधायाशु ।
सकलभयशून्यहृदयं कुरु करुणावारिधे नृसिंहगुरो ॥ १०॥
प्रणताद्वैतविबोधनमचिरात्कर्तुं गिरेव नाम्ना च ।
स्वीकृतनरसिंहाभिधमनिशं कलयामि गुरुवरं कञ्चित् ॥ ११॥
प्रत्यक्षं बहुकरुणं प्रविहाय त्वां गुरोऽन्यभजनं मे ।
करसंस्थान्नविसर्जनपूर्वकभिक्षाटनं न किमु ॥ १२॥
नैसर्गिककरुणाजनिभूमौ मन्मूर्तिमद्भाग्ये ।
त्वय्यपराधा मत्का गुरुवर कुर्वन्ति कल्मषं किं भो ॥ १३॥
चित्तं मामकमनिशं सच्चित्सुखरूपगं दृढं प्रभवेत् ।
यद्वत्तथाशु कृत्वा पालय सततं नृसिंहगुरो ॥ १४॥
विकृतिर्नैव मम स्यात्कायेऽस्मिंश्छिद्यमानेऽपि ।
चित्ते यथा तथा त्वं कुरु करुणावारिधे नृसिंहगुरो ॥ १५॥
सच्चित्सुखरूपोऽहं नैवेदं दृश्यमित्यचलाम् ।
बुद्धिं प्रयच्छ मह्यं करुणामृतवारिधे नृसिंहगुरो ॥ १६॥
अपुनःस्मरणं लोकं देहं शास्त्रं च विस्मृत्य ।
आनन्दं निरवधिकं प्राप्नोमि कदा नृसिंहगुरो ॥ १७॥
स्थूले सूक्ष्मे हेतौ देहेऽहन्तां समुत्सृज्य ।
चिषेऽहननन्ता मे समुदेति कदा नृसिंहगुरो ॥ १८॥
इति शृङ्गेरि श्रीजगद्गुरु श्रीसच्चिदानन्दशिवाभिनवनृसिंह-
भारतीस्वामिभिः विरचिता श्रीगुरुस्तुतिः सम्पूर्णा ।
Proofread by PSA Easwaran psaeaswaran at gmail.com