श्रीगुरुस्तुतिः
ॐ नमो गुरुवे ।
यः सर्वात्माखिलजनविभुर्देवदेवो महेशः
स्वातन्त्र्यस्थो ध्रुवपदगतो निश्चलात्मा वरेण्यः ।
विश्वोत्तीर्णों भवभयहरः स्वेच्छया विश्वपूर्णः
तं श्रीरामं त्रिभुवनगुरुं स्वात्मरूपं नमामि ॥ १॥
यस्मादीशात्प्रसरति शिवतत्त्वप्रभृतिज्यान्त-
मेतद्विश्वं परमवपुषा स्थीयते येन सम्यक् ।
यस्मिंस्तोयमिव क्रमतया लीयते वारिराशौ
तं श्रीरामं त्रिभुवनगुरुं स्वात्मरूपं नमामि ॥ २॥
ब्राह्मीं मूर्तिं भुवनजनने राजसीं यो बिभर्ति
तद्रक्षायां परमदयया वैष्णवीं सात्विकीं च ।
तत्संहारेऽनलशततनुस्तामसीं रौद्रमूर्तिं
तं श्रीरामं त्रिभुवनगुरुं स्वात्मरूपं नमामि ॥ ३॥
संसाराब्धौ विषयमकरे दुस्तरे संप्रमग्ना-
नुद्धृत्यस्मात्परमकृपया भेददृष्टिं विभिद्य ।
शैवं स्थानमचलममलं प्रापिता येन भक्त्या
तं श्रीरामं त्रिभुवनगुरुं स्वात्मरूपं नमामि ॥ ४॥
अस्मिंल्लोके ह्यूपमन्युकुले यश्च मर्त्यावतार-
मायाति स्म तिमिरहरणः सज्जनानां हिताय ।
प्राकट्यार्थं स्वमतयशसः प्रेरितोरुद्रव्रातैः
तं श्रीरामं त्रिभुवनगुरुं स्वात्मरूपं नमामि ॥ ५॥
सूर्ये प्राप्ते धनुषि च गुरौ तारकेशे तुलाया-
माद्ये भौमे सुखगतबुधे शत्रुगे भार्गवेपि ।
पङ्गुराहौर्दशमसदने सिंहलग्ने तु जातः
तं श्रीरामं त्रिभुवनगुरुं स्वात्मरूपं नमामि ॥ ६॥
मूर्त्या शम्भुः परमसुखदः तेजसा द्वादशात्मा
प्रकृत्या तु शिशिरकिरणः पावनश्चित्रभानुः ।
शैवीदीक्षागलितवृजिनैर्लक्ष्यते यश्च सद्भिः
तं श्रीरामं त्रिभुवनगुरुं स्वात्मरूपं नमामि ॥ ७॥
रूपं यस्य निखिलजगतां हृत्प्रमोदस्य हेतु
यद्यन्तानां किरणपटलैः छात्रवृन्दा विरेजुः ।
व्याख्यानेन प्रहसितमुखः कर्तनः संशयानां
तं श्रीरामं त्रिभुवनगुरुं स्वात्मरूपं नमामि ॥ ८॥
बाल्यादेव परमतपसि दुःसह्ये वर्तते स्म
विश्वमेतत्परममहिमा यश्च स्वात्मन्यद्राक्षीत् ।
स्वात्मानं च जगति निखिले ज्ञानदृष्टया सदैव
तं श्रीरामं त्रिभुवनगुरुं स्वात्मरूपं नमामि ॥ ९॥
यः शैवाख्यं परममऽमृतं निर्गतं स्वाऽननाऽब्जात्
तत्पादाब्जानुगतमनसो भक्तवृन्दानपीप्यत् ।
एतद्देहं परित्यज्य ह्यगाच्छाश्वतं शैवधाम
तं श्रीरामं त्रिभुवनगुरुं स्वात्मरूपं नमामि ॥ १०॥
इति श्रीकाश्मीरिकमहामेश्वराचार्यवर्यं स्वामिवरश्रीरामभट्टारक
पादचरित्रण् राजानकविद्याधरेण विरचितं श्रीगुरुस्तुतिः समाप्ता ।
Encoded and proofread by Ganesh Kandu kanduganesh at gmail.com, NA