श्रीगुरुसुवर्णमालास्तोत्रम्
श्रीमातृचिन्तनरतः श्रीशाङ्करभाष्यजलधिराकेन्दुः
श्रीबोधदाननिरतः श्रीमान्मम मनसि देशिकः स्फुरतु ॥ १॥
नृपमौलिराजिताङ्घ्रिर्नृहरिपदाम्भोजपूजनासक्तः ।
नृवराराधितचरणो नृत्यतु गुरुराण्मदीयहृद्रङ्गे ॥ २॥
सिन्धुरसमानगमनः सिन्धुतरङ्गाभनैजवाक्प्रसरः ।
सिंहः प्रतिवादिगजे सिन्दूरसदृक्षवस्त्रयुग्जयति ॥ ३॥
हसितविनिर्जितचन्द्रो हरिदन्तविराजमानसर्त्कार्तिः ।
हरतादघमखिलं मे हतरिपुषट्कः सदानन्दः ॥ ४॥
भाति नरोऽल्पविदां यो भारत्येव प्रकृष्टबुद्धीनाम् ।
भाधीशतुल्यकान्तिर्भातु स मे चित्तसरसिजे गुरुराट् ॥ ५॥
रतिरमणगर्वहारी रजताचलसदनसक्तचेतस्कः ।
रचयतु मम हृदयाब्जं रजसा तमसा विहीनमाशु गुरुः ॥ ६॥
तीर्णभववारिराशिस्तीर्थाटनलोलहृदयकञ्जातः ।
तीव्राज्ञानमिदं मे तीर्थेट् शमयेद्द्रुतं दयया ॥ ७॥
जडताम्बुधिबडवाग्निर्जनकमहीपादितुल्यबोधयुतः ।
जनयतु तत्त्वज्ञानं जगदेकगुरुर्नृसिंहयतिराण्मे ॥ ८॥
यतिपतिनिषेव्यपादो यमनियमाद्यङ्गयुक्तयोगज्ञः ।
यमभयवारणदक्षो यच्छतु मह्यं गुरूत्तमो योगम् ॥ ९॥
तिष्ठति यदीयचित्तं तिर्यग्बुधाग्रिमेषु समदर्शि ।
तिर्यक्त्रिपुण्ड्रफालस्तिरयतु सोऽन्तर्बहिश्व शत्रून्मे ॥ १०॥
इति शृङ्गेरि श्रीजगद्गुरु श्रीसच्चिदानन्दशिवाभिनवनृसिंह-
भारतीस्वामिभिः विरचितं श्रीगुरुसुवर्णमालास्तोत्रं सम्पूर्णम् ।
Proofread by PSA Easwaran