गुर्वष्टकम्
॥ श्रीगणेशाय नमः ॥
अज्ञाननाशकं वन्द्यं पूज्यपाद सरोरुहम् ।
मोक्षदं ज्ञानदातारं प्रणमामि गुरुं परम् ॥ १॥
संसारसागरात् शीघ्रमुद्धर्तुमागतं प्रभुम् ।
शिष्याय ज्ञानदं पूज्यं प्रणमामि गुरुं परम् ॥ २॥
कैवल्यज्ञानमूर्तिश्च तत्त्वमस्यादि वाक्यदम् ।
मोक्षार्थपरमाधारं प्रणमामि गुरुं परम् ॥ ३॥
आज्ञाचक्रे स्थितं नित्यं द्विदलं रक्तवर्णकम् ।
द्वयक्षरं हंसरूपाख्यं प्रणमामि गुरुं परम् ॥ ४॥
ब्रह्मा विष्णुश्च रुद्रश्च गुरुरेव न संशयः ।
सच्चिदानन्दरूपं त्वां प्रणमामि गुरुं परम् ॥ ५॥
असाररूपसंसारादुद्धृत्य परमं पदम् ।
तत्त्वदं ब्रह्मरूपं त्वां प्रणमामि गुरुं परम् ॥ ६॥
कुलालचक्रवन्नित्यं भ्रमन्ति च सदा जनाः ।
नौरिव तारकं तेषां प्रणमामि गुरुं परम् ॥ ७॥
हे गुरो परमानन्द परमं पददर्शनम् ।
कर्तुमिच्छामि तत्त्वज्ञ प्रणमामि गुरुं परम् ॥ ८॥
गुर्वष्टकमिदं स्तोत्रं ये पठन्ति नराः सदा ।
ते नराः गुरु शिक्षातः गच्छन्ति परमं पदम् ॥ ९॥
इति गायत्रीस्वरूप ब्रह्मचारीविरचितं श्रीगुर्वष्टकं सम्पूर्णम् ॥
Proofread by Vani V