महाशास्त्रनुग्रहकवचम्
श्रीगणेशाय नमः ।
अथ महाशास्त्रनुग्रहकवचं प्रारभ्यते ॥
श्रीदेव्युवाच
भगवन् देवदेवेश सर्वज्ञ त्रिपुरान्तक ।
प्राप्ते कलियुगे घोरे महाभूतैः समावृते ॥ १॥
महाव्याधिमहाव्याळघोरराजैः समावृते ।
दुःस्वप्नघोरसन्तापैः दुर्विनीतैः समावृते ॥ २॥
स्वधर्मविरते मार्गे प्रवृत्ते हृदि सर्वदा ।
तेषां सिद्धिं च मुक्तिं च त्वं मे ब्रूहि वृषध्वज ॥ ३॥
ईश्वर इवाच
शृणु देवि महाभागे सर्वकल्याणकारणे ।
महाशास्तुश्च देवेशि कवचं पुण्यवर्धनम् ॥ ४॥
अग्निस्तम्भजलस्तम्भसेनास्तम्भविधायकम् ।
महाभूतप्रशमनं महाव्याधिनिवारणम् ॥ ५॥
महाज्ञानप्रदं पुण्यं विशेषात्कलितापहम् ।
सर्वरक्षाकरं दिव्यमायुरारोग्यवर्धनम् ॥ ६॥
किमतो बहुनोक्तेन यं यं कामयते द्विजः ।
तं तमाप्नोत्यसन्देहो महाशास्तुः प्रसादतः ॥ ७॥
कवचस्य ऋषिर्ब्रह्मा गायत्रीश्छन्द उच्यते ।
देवता श्रीमहाशास्ता देवो हरिहरात्मजः ॥ ८॥
षडङ्गमाचरेद्भक्त्या मात्रया जातियुक्तया ।
ध्यानमस्य प्रवक्ष्यामि शृणुष्वावहिता प्रिये ॥ ९॥
अस्य श्रीमहाशास्तुः कवचस्तोत्रमहामन्त्रस्य ब्रह्मा ऋषिः ।
गायत्रीः छन्दः । महाशास्ता देवता ।
(ह्रां)प्रां बीजम् । (ह्रीं)प्रीं शक्तिः । (ह्रूं)प्रूं कीलकं
श्रीमहाशास्तुः प्रसादसिद्धर्थे जपे विनियोगः ।
(ह्रां)प्रां इत्यादि षडङ्गन्यासः ॥
अथ ध्यानम् ।
तेजोमण्डलमध्यगं त्रिनयनं दिव्याम्बरालङ्कृतं
देवं पुष्पशरेक्षुकार्मुकलसन्माणिक्यपात्राभयम् ।
बिभ्राणं करपङ्कजे मदगजस्कन्धाधिरूढं विभुं
शास्तारं शरणं व्रजामि सततं त्रैलोक्यसम्मोहनम् ॥
(लमित्यादि पञ्चोपचारपूजा ।)
महाशास्ता शिरः पातु भालं हरिहरात्मजः ।
कामरूपी दृशौ पातु सर्वज्ञो मे श्रुती सदा ॥ १॥
घ्राणं पातु कृपाध्यक्षो मुखं गौरीप्रियः सदा ।
वेदाध्यायी च मे जिह्वां पातु मे चिबुकं गुरुः ॥ २॥
कण्ठं पातु विशुद्धात्मा स्कन्धौ पातु सुरार्चितः ।
बाहू पातु विरूपाक्षः करौ तु कमलाप्रियः ॥ ३॥
भूताधिपो मे हृदयं मध्यं पातु महाबलः ।
नाभिं पातु महावीरः कमलाक्षोऽवतात्कटिम् ॥ ४॥
अपानं पातु विश्वात्मा गुह्यं गुह्यार्थवित्तमः ।
(समीपं पातु विश्वेशो गुह्यं गुह्यार्थवित्सदा)
ऊरू पातु गजारूढो वज्रधारी च जानुनी ॥ ५॥
जङ्घे पाशाङ्कुशधरः पादौ पातु महामतिः ।
सर्वाङ्गं पातु मे नित्यं महामायाविशारदः ॥ ६॥
इतीदं कवचं पुण्यं सर्वाघौघनिकृन्तनम् ।
महाव्याधिप्रशमनं महापातकनाशनम् ॥ ७॥
ज्ञानवैराग्यदं दिव्यमणिमादिविभूषितम् ।
आयुरारोग्यजननं महावश्यकरं परम् ॥ ८॥
यं यं कामयते कामं तं तं प्राप्नोत्यसंशयः ।
त्रिसन्ध्यं यः पठेद्विद्वान् स याति परमां गतिम् ॥ ९॥
इति श्रीगुह्यरत्नचिन्तामणौ श्रीमहाशास्त्रनुग्रहकवचं सम्पूर्णम् ।
Proofread by PSA Easwaran