नरकोत्तारणस्तोत्रम्
ॐ नारायणं नमस्कृत्य नरं चैव नरोत्तमम् ।
देवीं सरस्वतीं व्यासं ततो जयमुदीरयेत् ॥ १॥
नारायणं जगद्बीजं पुराणं पुरुषोत्तमम् ।
परिपृच्छति धर्मात्मा पाण्डुपुत्रो युधिष्ठिरः ॥ २॥
श्रीयुधिष्ठिर उवाच -
किं जपन्पुरुषो मुच्येद्यमलोकैकशासनात् ।
तन्मे कथय तत्त्वेन भक्तस्य तव केशव ॥ ३॥
श्रीभगवानुवाच -
शृणु राजन्महाबाहो धर्मात्मन्पाण्डुनन्दन ।
अहं ते कथयिष्यामि नरकोत्तारणं महत् ॥ ४॥
ओङ्कारात्मन्नमस्तेऽस्तु ऋग्यजुःसामरूपिणे ।
यज्ञात्मने नमस्तेऽस्तु सर्वशास्त्रात्मने नमः ॥ ५॥
भूतभव्यजगन्नाथ सर्वभूत जगत्पते ।
नमस्ते सर्वलोकेश महापुरुष पूर्वज ॥ ६॥
नमोमत्स्याय कूर्माय मूलप्रकृतये नमः ।
नमो यज्ञवराहाय नरसिंहाय वै नमः ॥ ७॥
त्रिविक्रमाय रामाय वैकुण्ठाय नराय च ।
नमस्तेऽश्वमुखायापि कूटस्थायाक्षराय च ॥ ८॥
अनन्तायाच्युतायापि जामदग्न्याय वै नमः ।
मधुकैटभनाशाय शङ्कराय नमोनमः ॥ ९॥
रामाय विश्वरूपाय वासुदेवाय वै नमः ।
पीताम्बराय देवाय युगवर्णाय वै नमः ॥ १०॥
स्थित्युत्पत्तिविनाशानां हेतुरूपाय वै नमः ।
ब्रह्मणे वायुरूपाय रुद्ररूपाय वै नमः ॥ ११॥
धनदेशस्वरूपाय मोक्षरूपाय वै नमः ।
सोमाय सूर्यरूपाय हविर्गन्धाय वै नमः ॥ १२॥
परमेश्वररूपाय नमः श्रीवत्सधारिणे ।
बिभ्रत्सरस्वतीं वक्रे सर्वज्ञोऽसि नमोऽस्तु ते ॥ १३॥
लक्ष्मीप्रियाय देवाय ह्यतसीश्यामरूपिणे ।
प्रसीद मम दीनस्य भक्तियुक्तस्य माधव ॥ १४॥
रौरवान्नरकाद्घोरात्पाहि मां गरुडध्वज ।
असिपत्रवनात्पाहिशङ्खचक्रगदाधर ॥ १५॥
कुम्भीपाकान्महादेव पाहि मां शरणागतम् ।
अवीचेः कालसूत्राच्च पाहि मां दुःखनाशन ॥ १६॥
सूच्यागारादम्बरीषात्पाहि मां मधुसूदन ।
असृक्केशास्थिवाहिन्या वैतरण्याश्चतुर्भुज ॥ १७॥
पाहि मां कर्मसाक्षी त्वं शरणागतवत्सल ।
इक्षुपीडनकैर्यन्त्रैः पीड्यन्ते यत्र मानवाः ॥ १८॥
देशात्तस्माज्जगन्नाथ पाहि मां भक्तवत्सल ।
तप्तवालुकदेशश्च शल्मल्यायामवल्लितः ॥ १९॥
तद्देशात्पुण्डरीकाक्ष पाहि मां करुणानिधे ।
क्रकचैर्यत्र पाट्यन्ते मानुषा देवदारुवत् ॥ २०॥
तेभ्योऽपि रक्ष मां हंस शरणागतवत्सल ।
सारमेयैश्च खाद्यन्ते यामे वर्त्मनि मानवाः ॥ २१॥
महाभयात्प्रभो तस्मात्केशव क्लेशनाशन ।
अन्ये च नरका घोरा यमलोके प्रतिष्ठिताः ॥ २२॥
तेभ्योऽपि रक्ष मां हंस नमस्तेऽस्तु सहस्रशः ।
तिर्यग्योनिगतस्यापि भक्तिर्मे तव केशव ॥ २३॥
अचला स्याद्यथा कृष्ण तथा कुरु वरप्रद ।
बहुबाहूरुपादस्त्वं बहुकर्णाक्षिशीर्षवान् ॥ २४॥
सर्वतो रक्ष मां हंस सर्वात्मन् सर्वतोमुख ।
नमस्ते देवदेवेश यथा पास्यऽखिलं जगत् ॥ २५॥
स्थितौ तथा समस्तेभ्यो दोषेभ्यो मां समुद्धर ।
कृष्णाच्युत हृषीकेश सर्वभूतेश केशव ॥ २६॥
महात्मन् पाहि मां भक्तं वासुदेव नमोऽस्तु ते ।
इति स्तवन्नरो राजन्सदा नारायणं प्रभुम् ॥ २७॥
यमलोकं न पश्येच्च नरकं च कुतः पुनः ।
स्मरन्नपि सदा मर्त्यः शृण्वन्नपि युधिष्ठिर ॥ २८॥
महापातकजैर्घौरैर्मुच्यते सर्वकिल्बिषैः ।
आयुरारोग्यमैश्वर्यं श्रियं मेधां तथा बलम् ॥ २९॥
प्राप्नोति च पठेन्नित्यं तद्विष्णोः परमं पदम् ।
भयकान्तारदुर्गेषु तथा संसारसागरात् ॥ ३०॥
सत्यं सन्तरते मर्त्यः स्तवस्याप्यनुकीर्तनात् ।
अन्ते सायुज्यमाप्नोति तद्विष्णोः परमं पदम् ॥ ३१॥
इति श्रीनरकोत्तारणस्तोत्रं सम्पूर्णम् ।
Proofread by Aruna Narayanan narayanan.aruna at gmail.com