श्रीपीताम्बरदशश्लोकी
॥ श्रीसर्वेश्वरो जयति ॥
॥ श्रीभगवन्निम्बार्काचार्याय नमः ॥
निम्बार्काचार्यपादाब्ज-परम्पराऽऽगतं भुवि ।
परशुरामदेवञ्चाऽऽचार्यं जगद्गुरुं भजे ॥ १॥
परशुरामदेवस्य पट्टशिष्यमतिप्रियम् ।
श्रीहरिवंशमाचार्यं ततः पीताम्बरं भजे ॥ २॥
इत्थञ्च तत्त्ववेत्तारं दाधीच-विप्रसत्तमम् ।
परशुरामदेवस्य शिष्यं नमामि सादरम् ॥ ३॥
इमे त्रयश्च शिष्या हि विरक्ताः सिद्धिसागराः ।
गुरोराज्ञां समादाय विचरन्तिस्म भूतले ॥ ४॥
एषु पीताम्बरोदेवः कृष्णदुर्गाऽन्तिके शुभे ।
दु-निर्झरयुतेऽद्रौतत्कन्दरे न्यवसत्पुरा ॥ ५॥
तन्नाम कन्दरा जाता श्रीपीताम्बरकन्दरा ।
कालान्तरे चला-ग्रामेऽवसत्सीकरमण्डले ॥ ६॥
तत्प्रभावं चलाक्षेत्रेऽवगच्छन्ति जनाः समे ।
इत्थं पीताम्बरं देवं वन्दे निम्बार्कभावनम् ॥ ७॥
राधाकृष्णपदाम्भोजे ध्यानलीनञ्च नित्यशः ।
एवं पीताम्बरं देवं नौमि गोपालसेवकम् ॥ ८॥
गोविप्रसाधुसेवायां तत्परं पूर्णनिष्ठया ।
श्रीमत्पीताम्बरं वन्दे गोपालमन्दिरे स्थितम् ॥ ९॥
निम्बार्कशास्त्रसिद्धान्त-द्वैताद्वैतप्रचारकम् ।
श्रीमत्पीताम्बरं देवं गौडविप्रं भजे हृदा ॥ १०॥
पीताम्बरसुदेवस्य दशश्लोकी सुखप्रदा ।
राधासर्वेश्वराद्येन शरणान्तेन निर्मिता ॥ ११॥
इति श्रीपीताम्बरदशश्लोकी समाप्ता ।
Proofread by Mohan Chettoor