श्रीपरमानन्दाचार्याष्टकम्
आनन्दभाष्यवेत्तारं रामब्रह्मावबोधकम् ।
पूर्णविराठिनं वन्दे द्वाराचार्यं जगदुरुम् ॥ १॥
आत्मानात्मपरात्मज्ञं रामानन्दानुयायिनम् ।
पूर्णर्णीवराठिनं वन्दे द्वाराचार्यं जगदुरुम् ॥ २॥
राममन्त्रोपदेष्टारं मुक्तिदं भक्तिदानतः ।
पूर्णविराठिनं वन्दे द्वाराचार्यं जगद्गुरुम् ॥ ३॥
वैष्णवधर्मगोप्तारं वादिवादनिरासकम् ।
पूर्णविराठिनं वन्दे द्वाराचार्यं जगद्गुरुम् ॥ ४॥
सदाचाररतं सिद्धं सदाचारप्रबोधकम् ।
पूर्णविराठिनं वन्दे द्वाराचार्यं जगद्गुरुम् ॥ ५॥
सीतारामपदाम्भोजसमाराधनतत्परम् ।
पूर्णविराठिनं वन्दे द्वाराचार्यं जगद्गुरुम् ॥ ६॥
कल्पवृक्षं रहस्यानां सद्रहस्यावबोधकम् ।
पूर्णविराठिनं वन्दे द्वाराचार्यं जगदुरुम् ॥ ७॥
मालामन्त्रादिसंस्कार-माहात्म्यवेदिनं बुधम् ।
पूर्णविराठिनं वन्दे द्वाराचार्यं जगदुरुम् ॥ ८॥
इति श्रीपरमानन्दाचार्याष्टकं सम्पूर्णम् ।
Encoded and proofread by Mrityunjay Pandey