रामानुजस्तुतिपद्यानि
श्रीपराशरभट्टारकैरनुगृहीतानि
॥ श्रीः ॥
॥ श्रीमते रामानुजाय नमः ॥
॥ श्रीपराशरभट्टारकेभ्यो नमः ॥
श्रीपराशरभट्टार्यः श्रीरङ्गेशपुरोहितः ।
श्रीवत्साङ्कसुतः श्रीमान् श्रेयसे मेऽस्तु भूयसे ॥
रामानुजमुनिर्जीयात् यो हरेर्भक्तियन्त्रतः ।
कलिकोलाहलक्रीडामुधाग्रहमपाहरत् ॥ १॥
(श्रीरङ्गराजस्तवे)
श्रीरङ्गं करिशैलमञ्जनगिरिं तार्क्ष्याद्रिसिंहाचलौ
श्रीकूर्मं पुरुषोत्तमं च बदरीनारायणं नैमिशम् ।
श्रीमद्वारवतीप्रयागमधुरायोध्यागयाः पुष्करं
सालग्रामगिरिं निषेव्य रमते रामानुजोऽयं मुनिः ॥ २॥
(श्रीरङ्गनाथस्तोत्रे)
पुरा सूत्रैर्व्यासः श्रुतिशतशिरोऽर्थं ग्रथितवान्
विवव्रे तं श्राव्यं वकुलधरतामेत्य स पुनः ।
उभावेतौ ग्रन्थौ घटयितुमलं युक्तिभिरसौ
नर्जज्ञे रामावरज इति स ब्रह्ममुकुरः ॥ ३॥
(मुक्तकश्लोकः)
इति श्रीपराशरभट्टारकैरनुगृहीतानि रामानुजस्तुतिपद्यानि समाप्ता ।
श्रीपराशरभट्टार्यः श्रीरङ्गेशपुरोहितः ।
श्रीवत्साङ्कसुतः श्रीमान् श्रेयसे मेऽस्तु भूयसे ॥ ४॥
॥ श्री पराशरभट्टारकेभ्यो नमः ॥
Proofread by Aruna Narayanan