श्रीरामकृष्णस्तोत्रम्
ओङ्कार ज्ञान-वेद्यो यः सच्चिदानन्द-मूर्तिकः
ब्रह्माम्भोधि-समुद्भूत तरङ्गो वेद विग्रहः ।
भेद-द्वन्द्व-गुणातीतो माया-धृत-कलेवरः
चरण-प्रणताय मे विदधातु शिवं सदा ॥ १॥
न-लिन-नयन-नाथं चानुकम्पाधिवासं
निखिल-नर-शरण्यं दीनबन्धुं दयालुम् ।
निरवधि विनतानां दुःखनाशे नियुक्तं
भव-जलनिधिपोतं नौमि नित्यमनन्तम् ॥ २॥
मोह-मेघ-समाच्छन्न-मानसाकाश-भास्करः!
कल्मष-तमसाच्छन्न-रजन्याश्चन्द्रमाश्च यः ।
हरति करुणा यस्य सकलं दुष्कृतं कृत-
मविरत-कृपाराशिर्वृष्टोऽस्तु तस्य मे सदा ॥ ३॥
भ-वति च भव-भङ्गो भावतो यस्य नित्यं
भव-विधि-सुर सङ्घाः यस्य वै मूर्ति-भेदाः ।
भुवन-भवन-बीजं यत्र सर्वं समुप्तं
भवतु हि मम तस्मिन् भावनं सर्वदैव ॥ ४॥
ग-गन-सदृशमीशं वाङ्मनोबुद्ध्यगम्यं
गिरिवर-हिमराज-सन्निभं धैर्य-वासम् ।
सकल-भुवन-संस्थं वारिनाथ-प्रशान्तं
धृत-नरहित-कायं सततं संस्मरामि ॥ ५॥
व-हति वपुषि विश्वं विस्तरं वीर्ययोनि-
र्धरति विमल-वेशं दीन-सन्तान-जन्यम् ।
विषम-विषय-बाण-प्रोज्झितं भक्तिपूतं
चरण-शरणमेवं मानसं मे प्रयातु ॥ ६॥
ते-जोभिरस्पष्ट-दिगन्तमाप्तं
भास्वद् विभाषा जगदन्तमाप्तम् ।
ज्योतिर्निवासं चरणान्तमाप्तं
मुहुर्मनो ध्यान-निमग्नमस्तु ॥ ७॥
रा-शौ कृपावारिनिधेर्जलस्य
स्नातो विशुद्धो विमलान्तरात्मा ।
पिबामि रूपामृतमेव सम्यक्
भक्त्यञ्जनाभृन्नयनस्तु देव ॥ ८॥
म-नुष्य-देवेन्द्र-प्रसेव्यमानं
तापत्रयोन्मूलनमिष्टमीड्यम् ।
उद्वेजितः सन् जनिमृत्यु जालैः
पादारविन्दं शरणं प्रपद्ये ॥ ९॥
कृ-तान्तक-त्रास -प्रणाशनास्त्रं
समस्त -लोकस्य परायणं वै ।
संशृत्य शान्ता हि भवन्तु सर्वे
कृशानुवत्तावदतर्प्यकामाः ॥ १०॥
ष्णा-न्तं सुमिष्टं हि निरस्तपापं
सन्दोह -सन्देह-विनाशमन्त्रः ।
त्वन्नाम सत्यं सुमहद्वरेण्यं
विराजतां नित्य मुखाम्बुजे मे ॥ ११॥
य-स्यैव कारुण्यमजस्र धारं
विज्ञप्तवद्धर्म-समन्वयं वै ।
योषिद्धनानां परिवर्जनञ्च
तमेव वन्दे भुवि रामकृष्णम् ॥ १२॥
इति श्रीवामदेव भट्टाचार्य प्रणीतं ``श्रीरामकृष्णस्तोत्रम्'' सम्पूर्णम् ।
Proofread by Aruna Narayanan