श्रीरामकृष्णसुप्रभातम्
लीला मनुष्यो भगवन् क्षुदिराम सूनो
श्री शारदारमण, चन्द्रमणी तनूज ।
सर्वावतार तिलकायित-पुण्यकीर्ते
श्रीरामकृष्ण भवतस्तव-सुप्रभातम् ॥ १॥
कालीपदाम्बुज समर्चनलालसस्य
तद्विप्रयोग कठिनव्यसनातुरस्य ।
निःशेष रोमविवरशृतरक्तबिन्दो-
र्मूर्छामिभूतमनसस्तव-सुप्रभातम् ॥ २॥
त्यक्तान्नपानशयनादि शरीर धर्मान्,
शश्वद्धरातललुण्ठन-कमनीयमूर्ते ।
अम्बाभिधान मुखरीकृत पुण्यकण्ठ
त्रैलोक्य पावनविभो, तव सुप्रभातम् ॥ ३॥
खड्गेण कण्ठदलनाय समुद्यतस्य
सद्योविलोकित जगज्जननीमुखस्य ।
तत्कान्तिवीचि कवलीकृत विग्रहस्य
सम्मूर्च्छया प्रपततस्तव सुप्रभातम् ॥ ४॥
कालीनिरन्तरनिरीक्षणानन्दितस्य
वातात्मजेन परमैक्यमुपागतस्य ।
कामोपधावन परस्य साक्षात्-
कारानुरञ्जितधियस्तव सुप्रभातम् ॥ ५॥
निष्कामलोभमदमत्सरमानसस्य
सत् शिक्षणार्थकृतदारपरिग्रहस्य ।
वैतृष्ण्य विस्मृत विवाहकथस्य साधोः
श्रीशारदामणिपतेस्तव सुप्रभातम् ॥ ६॥
सर्वाङ्गदाहशमनार्थ मुदप्लुतस्य
श्रीभैरवी विहित भेषज निर्वृतस्य ।
तन्त्रोक्तसाधन सहस्रनिषेवकस्य
सर्वेषु सिद्धिमयतस्तव सुप्रभातम् ॥ ७॥
स्वस्याङ्गतः सुकृतपातकरूप पुंसो-
निर्वाणमुत्कटपरस्परमल्लयुद्धम् ।
पुण्येन पापहननं च निशाम्य साक्षा-
च्छान्तज्वरस्य सुखिनस्तव सुप्रभातम् ॥ ८॥
स्वर्णे तृणे मलयते विषतुल्यदृष्टे-
र्जीवे शवे नृषु मृगेषु समानबुद्धेः ।
भिक्षौ गृहिण्य विषमं प्रसमीक्ष्यमाण
स्यान्तर्बहिः समदृशस्तव सुप्रभातम् ॥ ९॥
भोगेषु योगविभवेषु विरागशालिन्
क्षेत्रेषु वेशभवनेषु परार्थदर्शिन् ।
शिष्टेषु दुष्टनिकरेषु कृपाभिवर्षिण
त्रैलोक्यपावनयशस्तव सुप्रभातम् ॥ १०॥
अन्तर्बहिश्च भुवनत्रितयं समस्तं
सर्वेश्वरस्य महसातिमितं ततं च ।
आलक्ष्य हर्षजवधर्षित मानसस्य
मत्तप्रणर्तन कृतस्तव सुप्रभातम् ॥ ११॥
आलोक्य लोकजननी प्रतिमान् प्रदीपा-
नाराधनोपकरणानि समर्चकांश्च ।
देवालयं च सकलानि चिदात्मकानि
विश्वक्सुमानिकिरतस्तव सुप्रभातम् ॥ १२॥
राधाप्रविष्टहृदयस्य, तदात्मकस्य
माधुर्यभावमधुपान मदोत्कटस्य ।
प्रेयावियोगद्रवतप्तकलेवरस्य
निर्जीवसाम्यमयतस्तव सुप्रभातम् ॥ १३॥
गोपालनन्दननिरीक्षणविज्वरस्य
तन्नित्ययोगपरमोत्सवनिर्वृतस्य ।
सर्वत्रतत्तनुविलोकनविस्मितस्य
तत्सात्मताङ्गतवतस्तव सुप्रभातम् ॥ १४॥
भक्तोत्तमो महित भागवतं पुराणं
तत्संश्रयश्च भगवानिति कीर्तितस्य ।
वस्तुत्रयैक्य परमैक्य महारहस्यं
साक्षाद्विलोकितवतस्तव सुप्रभातम् ॥ १५॥
अन्यादृशात्मतपसामनुभावहेतो-
रेकैक रोमविवरात् स्वतनोर्गलन्तीम् ।
आलोक्य कान्तिमभिनन्दितुमक्षमस्य
तन्नष्टयेस्पृहयतस्तव सुप्रभातम् ॥ १६॥
अस्तेयसत्यकरुणादियमैर्युतस्य
कार्त्स्नेन साधनचतुष्टय पुष्कलस्य ।
अज्ञानतोऽपि कनकादिसमस्तलोह-
स्पर्शाक्षमस्य भगवन्स्तव सुप्रभातम् ॥ १७॥
पूगादियत् किमपि वस्तुकरारविन्दे
सङ्गृह्यते यदि कदापि निजोपयुक्त्यै ।
तर्ह्यजसा कुरूटतामतिमूढ़तां च
सम्प्राप्य कश्मलभुजस्तव सुप्रभातम् ॥ १८॥
सन्ताड़नस्य परकायनिपातितस्य
सुस्पष्टचिह्नमखिलात्मतया स्वदेहे ।
सङ्क्रान्तमद्भुतविमोहित मानुषाणां
नेत्रस्य गोचरयतस्तव सुप्रभातम् ॥ १९॥
तोतापुरीचरणभक्त, ततोगृहीत
संन्यासदीक्ष विदितस्वपरात्मभाव ।
मासान् षडुज्झित विकल्पमहासमाधौ
निर्मज्य संस्थित विभो, तव सुप्रभातम् ॥ २०॥
आचारपूतकरणस्य शुभाशयस्य
बद्धासनस्य विजितानिलपञ्चकस्य ।
प्रत्याहृतेन्द्रियगणस्य, समाहितस्य
ब्रह्मामृतं रसयतस्तव सुप्रभातम् ॥ २१॥
स्वेच्छागृहीत मधुरप्रमदामयस्य
वर्षार्धभुक्तबहुदुःसहयातनस्य ।
इत्थं शनैर्जड़समाधि समुत्थितस्य,
स्थानत्रयं गतवतस्तव सुप्रभातम् ॥ २२॥
इस्लामतोत्सुक मोहम्मदमूर्तिदर्शिन्
ईशोर्निरीक्षक, विलोकित गौर कृष्ण ।
तेषामशेषवपुषां स्वतनोः प्रवेशं
निवर्ण्य विस्मितमते, तव सुप्रभातम् ॥ २३॥
साक्षात्कृतेशगिरिजाच्युतरामराधा
सीताञ्जनेयनविकृस्तुशचीतनूज ।
अन्यैरदृष्टचरयोगरहस्यवेदिन्
सङ्क्षुण्ण सर्वसरणे तव सुप्रभातम् ॥ २४॥
त्यक्त्वा विकल्परहितां जड़योगनिद्रा-
मम्बाज्ञया कुशलभावमुखस्थितस्य ।
लोकं महेश्वरमपि स्फुटमेककाले
सम्पश्यतोऽखिल गुरोस्तव सुप्रभातम् ॥ २५॥
लीलासहायविरहव्यथितान्तरङ्ग
तेषामुपागमनदर्शनसुप्रसन्न ।
तेषां पुरः प्रकटितात्ममहाप्रभाव
स्वामिन् जगत्रयगुरो, तव सुप्रभातम् ॥ २६॥
सच्चिन्मूर्ते धृतनरतनोर्लीलया धर्मगुप्त्यै
कृत्वा दीर्घं बहुविधतपां स्येषुसम्प्राप्यसिद्धिः ।
निक्षिप्यान्ते स्वयमुपचितं ज्ञानवित्तं स्वशिष्ये,
ष्वन्तर्धातुं व्यवसितमतेरस्तु ते सुप्रभातम् ॥ २७॥
सच्चित्सौख्येकमूर्ते निजमहिमरतेर्भूरिकारुण्यराशे-
र्विप्राग्य्राल्लब्धजातेर्बहुविधतपसि व्यापृतस्वान्तवृत्तेः ।
प्राप्तब्रह्मानुभूतेः सहचरनिहित स्वीयतेजोविभूते-
रानाकव्यापिकीर्तेरखिलजनपतेरस्तु ते सुप्रभातम् ॥ २८॥
इति ओट्टुरौन्निनम्मूतिरिप्पाद विरचितं
``श्रीरामकृष्णसुप्रभातगीतम्'' सम्पूर्णम् ।
Proofread by Aruna Narayanan