श्रीसर्वेश्वर प्रातः स्तवम्
ब्रह्मेन्द्रवृन्दारकवन्दिताय वृन्दाटवीधामविराजिताय ।
सर्वेश्वराय श्रुतिगोचराय प्रातर्नमस्ते प्रणतप्रियाय ॥ १॥
सनत्कुमारादिकसेविताय देवर्षि-निम्बार्कसमर्चिताय ।
सर्वेश्वराय श्रुतिगोचराय प्रातर्नमस्ते प्रणतप्रियाय ॥ २॥
श्रीराधिकावल्लभ माधवाय चित्राऽऽदिसख्यावलिरञ्जिताय ।
सर्वेश्वराय श्रुतिगोचराय प्रातर्नमस्ते प्रणतप्रियाय ॥ ३॥
अनन्तचिन्मङ्गलविग्रहाय सर्वार्थविद्यावरसम्प्रदाय ।
सर्वेश्वराय श्रुतिगोचराय प्रातर्नमस्ते प्रणतप्रियाय ॥ ४॥
प्रातः स्तोत्रं सुधापूर्ण सर्वेश्वरप्रभोरिदम् ।
राधासर्वेश्वराद्येन शरणान्तेन निर्मितम् ॥ ५॥
इति निखिल महीमण्डलाचार्य चक्रचूड़ामणि सर्वतन्त्रस्वतन्त्रान्तानन्त
श्रीविभूषित जगद्गुरु श्रीनिम्बार्काचार्यपीठाधिपति श्री
``श्रीजी'' श्री श्रीराधासर्वेश्वरशरणदेवाचार्यजी महाराज
द्वारा विनिर्मित ॐ श्रीसर्वेश्वर प्रातः स्तवं सम्पूर्णम् ।
Encoded and proofread by Saritha Sangameswaran