श्रीधरस्तुतिः
(स्त्रग्धरा वृत्तम्)
भक्तानां कामधेनुः कलियुगवरदो दत्तराजः स्वयम्भूः
लोकानां इष्टदानप्रणिहितहृदयः श्रीधराचार्यरूपः ।
वेदोक्तं धर्ममार्गं बुधजनमहितं बोधयन् भक्तवृन्दं
भात्यग्रे पूर्णकामः कविकुलमहितो सिद्धविद्याविशिष्टः ॥ १॥
श्रीमन्तः श्रीधराख्याः परमगुरुवरा दत्तराजांशजाताः
शान्ता दिव्यस्वरूपाः नतजनसुहिताः सत्यधर्मावताराः ।
मह्यां बेङ्गरूळराज्ये वृषभपुरतले कृष्णराजेन्द्रविध्यां
आयान्ति प्रेमपुराः भजकजनमुदे द्वारकानाथगेहे ॥ २॥
येषां पाण्डित्यपूर्णं सकलजनहितं वाक्यजातं महान्तः
श्रुत्वा मोदाब्धिमग्ना भवजलतरणे लब्धनौकाः सहर्षाः ।
रागद्वेषादिहीनाः हरगुरु परमा वश्यसर्वेन्द्रियान्ताः
सर्वे ते लब्धकामा यमनियमपराः सर्वतः तृप्तचित्ताः ॥ ३॥
(अनुष्टुप् छन्दः)
जयन्तु गुरवः शान्ताः श्रीधरा राजयोगिनः ।
पञ्चयज्ञपरा श्रेष्ठा भक्तानां कल्पशाखिनः ॥ ४॥
भद्र श्री श्रीधरेन्द्राय तपः सत्यरताय च ।
विश्ववन्द्याङ्घ्रिपद्माय विश्वानुग्रहकारिणे ॥ ५॥
इति श्रीधरतीर्थस्तुतिः समाप्ता ।
(रचयिता -- द्विवेदी एस्. सीतारामशास्त्री पावञ्जी)
Proofread by Paresh Panditrao