श्रीधरस्वामिध्यानश्लोकाः
ध्यायेत् काषायवासं स्मितमुखशशिं सुप्रसन्नं दयालुं
शान्तं दिव्यं विशालं सकलविदितं सत्यधर्मस्य मूर्तिम् ।
तृप्तं स्वानन्दसिन्धुं मधुरवचनं भक्तसन्तापचन्द्रं
भावातीतं महेशं त्रिगुणरहितं सद्गुरुं श्रीधरार्यम् ॥ १॥
श्रीधरो भगवान् विष्णुः श्रीधरः शिवशङ्करः ।
श्रीधरस्सद्गुरुर्ब्रह्मा तस्मै ब्रह्मात्मने नमः ॥ २॥
जयतु जयतु दिव्यो वत्सलः श्रीधरोऽयं
निजजनपरितापं यः करोति प्रशान्तम् ।
वरदपुरनिवासो यो महामौनधारी
निरतघनतपोऽयं भूतये भारतस्य ॥ ३॥
इति ध्यानम् ।
इति श्रीमत् परम पूज्य सद्गुरु भगवान
श्रीधरस्वामिध्यानश्लोकाः सम्पूर्णाः ।
(-- श्रीधरदास भावे, पुणे १५-३-८६)
Proofread by Paresh Panditrao