श्रीव्यासराजनवरत्नपद्यमाला
श्रीनववृन्दावनस्थगुरुपरम्परास्तोत्रसहितम्
श्रीवेदव्यासाय नमः ॥ हरिः ॐ ॥
गोपालकृष्णो जयति सत्यारुक्मिणिसंयुतः ।
ब्रह्मण्यतीर्थसम्भूतव्यासराजवरप्रदः ॥ १॥
कल्याणं वितनोतु कंसमथनो गोपालकृष्णोऽनिशं
सत्यापाण्डवपूजितो यदुपतिस्स व्यासतीर्थाग्रतः ।
भैष्मीसेवितदक्षिणाघ्रिकमले विन्यस्य वामं पदं
बालस्सुन्दरभङ्गिभावमधुरो यो नृत्यति स्माद्भुतम् ॥ २॥
पातु ब्रह्मण्यतीर्थव्रतिवरतिलकस्तत्वविद्याप्रदाता
ध्यायन् ब्रह्मण्यदेवं प्रकटितमहिमा भूसुरैर्वन्धपादः ।
सर्वाभीष्टप्रदाता सकलभयहरः सर्वरोगापहर्ता
भास्वान्स्वांशावतीर्णो महितमहिमभाक् व्यासराजस्तुतोऽस्मान् ॥ ३॥
कण्वापगातटगुहोदितगर्जितेन
प्रोद्वेजिता निखिलवादिगजा हि येन ।
विद्राविताः सपदि सङ्करदुर्मतान्धाः
तं व्यासतीर्थमृगराजमिमं नमामि ॥ ४॥
श्रीकृष्णदेवपृथिवीपतिना स्वराज्य
लक्ष्म्याश्रितश्च गुरुवत्प्रभुणा सुराणाम् ।
विद्याधिराट् विजयविठ्ठलभक्तिभाग् यः
स व्यासराट् दिशतु शं सततं प्रसन्नः ॥ ५॥
श्रीवेङ्कटेशपदपङ्कजदिव्यगन्ध-
संसेवनात्समुदितप्रतिभाप्रभाय ।
ब्रह्मण्यतीर्थचरणाम्बुजबम्भराय
श्रीव्यासराजगुरवेऽस्तु नमश्शुभाय ॥ ६॥
योगीश्वराय सुखतीर्थकरार्चितश्री
योगासनस्थनृहरेः समुपासकाय ।
शान्ताय शश्वदपरोक्षितशौरयेऽस्मै
श्रीव्यासराजगुरवेऽस्तु नमश्शुभाय ॥ ७॥
गोपालकृष्णकृतनर्तनरञ्जिताय ।
रागादिदोषरहिताय दृढव्रताय ।
स्वस्थापितान्धुहनुमत्परवेङ्कटार्च-
श्रीव्यासराजगुरवेऽस्तु नमश्शुभाय ॥ ८॥
श्रीशप्रसादकरमानसपूजनाय
सज्ज्ञानभक्तिसुविरक्तिसुखप्रदाय ।
प्रह्लादकाय भजतां हि सुरद्रुमाय
श्रीव्यासराजगुरवेऽस्तु नमश्शुभाय ॥ ९॥
श्रीमत्समीरसमयाब्धिसुधाकराय
मिथ्याकुशास्त्रतमसो हि विभाकराय ।
व्यासत्रयामृतदुहे भुवि देवताभ्यः
श्रीव्यासराजगुरवेऽस्तु नमश्शुभाय ॥ १०॥
अक्षादिसिद्धजगतोऽस्य यथोर्णनाभि-
जन्मादिमोक्षदहरेः परमप्रियाय ।
श्रीमज्जयीन्द्रपदवीपरिवर्धकाय
श्रीव्यासराजगुरवेऽस्तु नमश्शुभाय ॥ ११॥
क्षेत्रेऽब्बुरौ ह्युपगुहं पुरुषोत्तमाख्ये
ब्रह्मण्यतीर्थगुरुभिर्द्विकविठ्ठलाचैः ।
वेदान्तराज्यनिजराज्यपदेऽभिषिक्त
राजाधिराजगुरवेस्तु नमो नमस्ते ॥ १२॥
वैय्याघ्रपादपुरमध्यसुशोभमान
श्रीव्यासराजहृदयाब्जसुमध्यवर्ती ।
लक्ष्मीनिवासगुरुणा प्रणुतस्सलक्ष्मी-
नारायणश्च हनुमान् मुदितोऽस्तु कृष्णः ॥ १३॥
श्रीव्यासराजमुनिगायनतृप्तचेता
नृत्यन्सुरेन्द्रसुतपूजितपादपद्मः ।
कुन्दापुरीयमठभिक्षुवरार्च्यमान
भैष्मीसमेतमुरलीधरमाधवोऽव्यात् ॥ १४॥
श्रीमद्ब्रह्मण्यतीर्थव्रतिवरतिलकालब्धजन्मापरोक्ष्यः
लक्ष्मीनारायणार्यान्निजगुरुचरणात्प्राप्तविद्याधिलक्ष्मीः ।
सोऽयं श्रीव्यासराजो विजयसखहरि पूजयन्भावपुष्पैः
अग्र्ये वृन्दावनेऽस्मिन् सुखयति सुजनान् सर्वदाऽभीष्टवृष्ट्या ॥ १५॥
ब्रह्मण्यार्यस्ततोऽभून्नरहरिमनिशं पूजयन्कण्वनद्यां
स्नायन्शिष्याहृतान्नं युदजगमुदकं प्रोक्ष्य तप्तं विधाय ।
स्नात्वा भुक्त्वा पुनश्च क्वचिदुपगतवान् भूस्थितां विठ्ठलार्चा
शिष्येभ्यो मध्वशास्त्रं ह्यनिशमुपजगौ विठ्ठलप्रीतिमिच्छन् ॥ १६॥
अर्थिकल्पितकल्पोऽयं प्रत्यर्थिकरिकेसरी ।
व्यासतीर्थगुरुभूयादस्मदिष्टार्थसिद्धये ॥ श्रीः ॥
पद वाक्यप्रमाणज्ञान् संप्रदायार्थकोविदान् ।
व्यासतीर्थमुनीन्वन्दे दुर्वादिफाणिपक्षिपान् ।
इति श्रीवेङ्कटरमणाचार्यविरचितं
श्रीव्यासराजकोमलकरकमलार्चितश्रीरुक्मिणी-
सत्यभामासमेतश्रीवेणुगोपालकृष्णः प्रीयताम् ॥
अथ श्रीनववृन्दावनस्थगुरुपरम्परास्तोत्रम् ।
प्रीतो वरदो भवतु । श्रीकृष्णार्पणमस्तु ।
श्रीशं मध्वं पद्मनाभं वादिद्विपमृगाधिपम् ।
कवीन्द्र कुमतारण्यपावाकं तत्त्वदीपपकम् ॥ १॥
समीरशास्त्रवागीशं वागीशाख्यं गुरुं परम् ।
ब्रह्मण्यतीर्थसम्भूतं ज्ञानवैराग्यदायकम् ।
जगद्गुरुं व्यासराजं वादिराजगुरुं भजे ॥ २॥
रघुवर्यं सुधीन्द्रं च श्रीनिवासं परं गुरुम् ।
दुर्वादिफणिविद्वेषे गुरुमन्तं तपोनिधिम् ॥ ३॥
रामतीर्थगुरुं वन्दे गोविन्दाख्यं यतिं पुनः ।
तुङ्गभद्रामध्यगतं नववृन्दावनस्थितम् ॥ ४॥
रमणोपपदेनेयं वेङ्कटेन कृता शुभा ।
व्यासराजस्तुतिर्भूयात्प्रीत्यै माधवमध्वयोः ॥ ५॥
इति श्रीवेङ्कटरमणाचार्यविरचितं
श्रीनववृन्दावनस्थगुरुपरम्परास्तोत्रं सम्पूर्णम् ॥
॥ श्रीकृष्णार्पणमस्तु ॥
॥ इति ॥
Encoded and proofread by Mandar Mali aryavrutta at gmail.com