दयाशतकम्
श्रेयांसि सन्दिशति कन्दळयत्यमन्दं
आनन्दमस्य दळयत्यघवृन्दमार्तीः ।
धूनोति, किङ्करयति द्रुहिणादिकांश्च
मातस्तवैष उदयो हि दये पुरारेः ॥ १॥
कल्याणि शैलतनयाकमनानुकम्पे
त्वं यत्र यत्र वितनोषि पदार्पणानि ।
प्रागेव पद्मजवलोन्मथनादिलक्ष्म्यः
प्रादुर्भवन्त्यवहिताः खलु तत्र तत्र ॥ २॥
मन्दस्मितं मदनसुन्दरमिन्दुरेखा-
सन्नद्धशेखरमुमासखमुद्वहन्ती ।
दिव्यं वपुः किमपि दृक्पथगाऽनघानां
मातर्मुदं हि तनुषे महतीं दये त्वम् ॥ ३॥
दिव्यं वपुस्तदनुसन्दधतः पुरारेः
कांश्चित् गुणान् जगति केचन निर्विशन्ति ।
आख्यामृतोर्मिरसिकास्त्वपरेऽभिनन्द-
न्त्यस्ताधयः शिवदयेऽम्ब तवावलम्बात् ॥ ४॥
आखण्डलोऽयमिति कश्चिदखण्डितश्रीः
वित्तेश्वरोऽयमिति विश्रुतवैभवोऽन्यः ।
धातेति कोऽपि जगतां जनकस्तवामी
कल्याण्युमेशकरुणे परिणामभेदाः ॥ ५॥
ईशो हरः स जगतां ननु तस्य च त्वं
ईशा परार्तिविनिराकृतिराकृतिस्ते ।
तन्मामकार्तिहरणं करुणे न चेत्त्वं
धत्से कथं कथय देवि तवात्मलाभः ॥ ६॥
दाक्षायणीसहचरे गरळग्रहेण
दत्ताभये विरचितेऽम्ब दये भवत्या ।
अश्वद्विपाप्तिरमरेशितुरच्युतस्य
श्रीकान्तता दिविषदाममृताशिता च ॥ ७॥
क्रूरेण हन्त गरळेन गळेऽनलेन
फाले शिरस्यपि तरङ्गवतीझरेण ।
क्रान्तं त्वदध्वगतमातनुषे दये स्वा-
धीनेश्वरा भवसि कः किमिहाभिधत्ताम् ॥ ८॥
काचित् त्वदीयकणिका मणिकाञ्चनाद्यैः
अर्थैर्धिनोत्यमुमिहारुचिहेतुरन्या ।
उल्लासयत्युडुपतिश्रितमौळिसीम्नि
त्वद्धाम्नि ते हि करुणे सरणिर्विचित्रा ॥ ९॥
भीषामहद्भयगिरोऽतिभयङ्करत्वं
यस्याहुरुग्र इति भीम इति प्रथा च ।
क्षिप्त्वैव दासयसि देवि दये तमेनं
हा जिह्वयैतदभिधास्पृशि पुल्कसेऽपि ॥ १०॥
नान्यो मदस्त्यगतिकोऽगतिकस्तव स्वं
शम्भोर्दयेऽघपिशुना मयि शश्वदास्ते ।
सर्वज्ञता विदधती तव दुर्लभं मां
सज्जस्व मा जननि भूरपदे तु निःस्वा ॥ ११॥
स्वाधीनितेन्दुमकुटाऽसि समर्थितोप-
मन्युप्रभृत्यभिमता जगति श्रुताऽसि ।
आयुष्मती जननि मन्तुभिरेव चासि
हा हन्त मां न करुणे कथमभ्युपैषि ॥ १२॥
शम्भो त्वमेव शरणं मम चन्द्रचूडे-
त्याद्या गिरस्तदुचितस्थितिहानितो नः ।
सत्येतरा अपि विभुर्भजनाय यद्यत्
गृह्णाति तद्धि करुणे चरितं भवत्याः ॥ १३॥
यदेशः कुप्येन्मे दुरितविसरैदैन्यधुरया
तदा मे हूताविर्भवतु भवती तस्य च पुरः ।
मदीयांहः संहत्यपलपनरंहः प्रथयति
त्वदाविर्भावेऽसावलमिह दये किं कलयितुम् ॥ १४॥
महेशे सङ्क्रुद्धे मदघविदि मह्यं श्रितजन-
श्रमाक्षन्त्री देवि त्वमयि सहसाऽऽविर्भव दये ।
मदीयांहस्संहत्यपलपनरंहः प्रथयति
त्वदाविर्भावेऽसावलमिह दये किं कलयितुम् ॥ १५॥
त्वया भाव्यं मातर्मयि शशिकलोत्तंसकरुणे
प्रणम्य त्वां याचे कति कति भवत्या न हि भृताः ।
जगत्येको वर्ते क्वचिदपि गतिं काश्चिदपि न-
न्वपश्यन्नैवेदं सदृशमगतीनां तव गतेः ॥ १६॥
तवाध्वन्या धन्यास्तव हि भवनादन्तकरिपोः
यदेष्वेकेनैनं शिरसि धनुषा घातमदयम् ।
तथान्येन ग्राव्णां किरणमपरेणासिलतया
दयेऽनैषीन्मूर्धप्रविदळनमप्यम्ब भवती ॥ १७॥
प्रियोऽर्थोऽयं शम्भोः प्रसदनविधेयाधिगम
इत्यथ द्वेष्योऽयं तत्प्रसदनविधेयक्षतिरिति ।
परोऽयं तत्रायोदय इति च तद्धीकृदखिलं
न मे तद्धीर्मैवं मयि विमुखता ते शिवदये ॥ १८॥
क्षिपन् कामिन्यादिष्वनवधि मिथोवैशसधुरा-
दुरापेष्वेष्वक्षप्रकरमधिबालेयवदनम् ।
मधुस्यन्दिद्राक्षाफलकुलमिवायुर्वितथयन्
कियत्कालं सीदान्ययि मयि कदा स्याः शिवदये ॥ १९॥
कदा गौरीनेत्राञ्चलसमुदितानङ्गचकितान्
कटाक्षांस्तांस्तच्च स्मितमधरबिम्बे कृतपदम् ।
मुखं शम्भोस्तच्चोन्मृदितशरदिन्दुप्रियसखं
पुरस्तादादध्याः पुरभिदनुकम्पे जननि मे ॥ २०॥
असावर्थः श्रेयानयमितर इत्यच्छमतिदाः
प्रजानां शर्माप्तावसुखविरहे च प्रतिभुवः ।
विभान्ति श्वासा यद्विधुशकलमौळेर्भगवतः
तदेतत् कल्याण्यास्तव विलसितं किं न करुणे ॥ २१॥
स्मराराते शम्भो पुरहर शिवोमाधव हरे
मुरारे गोविन्दामरवर मुकुन्देत्यविरतैः ।
शिवाख्यापीयूषोर्मिभिरयि दये मां कबळितं
कदा वा कुर्वीरंस्तव गुणझरा मज्जितहराः ॥ २२॥
समुन्मीलज्ज्वालज्वलनकलितस्यान्तिकगतो
यथा तद्वद्दाराद्यभिरतिहतस्यान्तिकगतः ।
असावीष्टे नोज्जीवितुमहह का तस्य तु कथा
किमन्यज्जीवातुस्त्वमसि जगतोऽस्येशकरुणे ॥ २३॥
मयीशानं वामाशयमतितरां मज्जयतु ते
कदा पूरः स्वैरं कबळिततटो देवि करुणे ।
तथा द्रागुत्कर्षन् विघटितविघातव्यतिकरः
कदेशप्रेमाख्ये महति च पदे स्थापयतु माम् ॥ २४॥
प्रियो द्वेष्योऽप्यर्थस्तुदति मम बुद्धिं तदितरे-
ऽप्यमी स्वैरं निघ्रन्त्यहह गिरिशालिङ्गनसुखे ।
प्रसक्तिः का वा स्याद् भगवति नमस्तेऽर्हसि न मां
इयद्दूरीकर्तुं गिरिशकरुणेऽनन्यशरणम् ॥ २५॥
दये शम्भोस्तद्भक्त्यमृतलहरीं तावकझराः
कदेहोपानेष्यन्त्यलमपनयन्तः प्रतिहतीः ।
तया चात्मा मेऽसावतिशिशिरितो हास्यति कदा
मनोजाद्युन्मीलद्गहनदहनोत्थं परिभवम् ॥ २६॥
महेशस्य प्रज्ञासमुचितविधानक्षमतया
ममाप्येनोराशेरपि समवमर्शे सति न मे ।
समाश्वासस्याशा निजलहरिभिस्तन्ननु विभुं
वितन्वाना मग्नं विहरसि यदि त्वं न करुणे ॥ २७॥
दशायामेतस्यामपि शिवदये ते विमुखता
मयीत्थं चेन्मग्नो महति विपदब्धावहमसौ ।
अकीर्त्यब्धौ मग्ना त्वमपि मम यत्किञ्चन भव-
त्वपि स्वोद्धारे वा भवतु भवती प्रोद्यमवती ॥ २८॥
कमलभवपदं वा कैटभारिश्रियं वा
मदनभिदनुकम्पे मङ्क्षु दातुं क्षमा त्वम् ।
किमु न दिशसि वीतक्लेशिकामासिकां मे
क्वचन शिवशिवेत्याख्यानधारैकतानाम् ॥ २९॥
हितमहितमवैतुं वर्तितुञ्चानुरूपं
न पुनरलमबोधानीशताभ्यां हतोऽहम् ।
प्रमथपतिदयेऽये पालयेस्त्वं कथं मां
कथमिव न च ते स्यात् ख्यातिभङ्गो न जाने ॥ ३०॥
तव भवति निवासस्तारकाधीशमौलिः
स च मदघभवोग्रामर्षपर्याकुलात्मा ।
समव तमनुकम्पे त्वद्रसौघावसेकैः
मम तदलमयि त्वं नावने मेऽर्थनीया ॥ ३१॥
अभिलपतु शिवाख्यामाहरेत्यादिदम्भात्
अपि सकृदयमेतस्याखिलार्तिं हरिष्ये ।
इति सततविनिद्रामिन्दुमौळेर्दये य-
द्यहमिव न जडः कोऽनन्यधीर्नाश्रयेत् त्वाम् ॥ ३२॥
चरति समनुरुन्धन् प्रेरणाधोरणीं ते-
ऽनिलगतिमिव तूलो ह्येष दोषं कुतोऽस्मिन् ।
गणयसि परतन्त्रे मन्नियोगादव द्राग्-
अमुमिति करुणे तं त्वादिशेशं मदर्थे ॥ ३३॥
मदघविततिरन्तः सत्वमाविश्य शम्भोः
प्रविघटयति योगं तस्य ते चानुकम्पे ।
तदपि निरुपमा मद्दैन्यसम्पत्तिरेषा
प्रतिभवति पुनर्वां निर्भराश्लेषसन्धौ ॥ ३४॥
दळयतु दिगिभौघो दन्तकाण्डैः कठोरैः
दहतु दहनमाला दारयत्वस्त्रजालम् ।
अपि धुरि परिवृण्वन्त्वब्धयो नैनमार्तिः
स्पृशति शिवदये यः स्पृश्यते तेऽनिलेन ॥ ३५॥
अधिजटमसुरारात्यापगा क्वापि लीना
मनसिजविनिहन्तुर्मज्जितोऽयं झरैस्ते ।
कबळयति निमङ्क्तुस्सा श्रमं त्वं त्वमङ्क्तुः
कथमिव न दये ते स्वर्धुनीतो विशेषः ॥ ३६॥
प्रभवति न हि दातुं भद्रमीशो विना त्वां
अलमपि तददातुं नाम्ब सत्यां भवत्याम् ।
वितरति च शुचं त्वद्विप्रकर्षे सतीशः
कथयितुमनुकम्पे कस्तवालं प्रभावम् ॥ ३७॥
मदनशतमनोज्ञं मञ्जुहासाननाब्जं
शरदुडुपतिगौरं साम्बमर्धेन्दुचूडम् ।
द्रविणमयि मदीयं दृक्पथे धत्स्व मे तत्
तव खलु वशवर्तीत्यर्थयेऽहं दये त्वाम् ॥ ३८॥
त्वमसि मदवनार्थं नार्थनीया दये यः
तव भवति निवासो दुस्सहं तस्य शम्भोः ।
प्रशमय तममर्षोष्मातिरेकं ममागः
प्रभवमयि भवत्या निर्झरैस्तन्ममालम् ॥ ३९॥
पशुरिव परिभूतीरश्नुवानोऽपि शश्वत्
विषयविसरमेतं हातुमप्यप्रगल्भः ।
विष इव विमुखस्ते वेश्मनीशे तथाऽहं
कथमिव करुणेऽङ्गीकारपात्रं तवाहम् ॥ ४०॥
अवितरि पुरहन्तर्यस्य सर्वस्य जन्तोः
मम गतिरबलाद्या नन्वमी सोऽहमेषाम् ।
इति कुमतिहतस्तं चिन्तये हन्त नेशं
स तु कथमनुकम्पे स्यान्मयि त्वद्विधेयः ॥ ४१॥
विसृमरदहनार्चिर्विप्लुतोऽह्नाय शीतं
जलमिव करुणे सन्त्यक्तसर्वः कदाऽहम् ।
तव पदमुडुराडुत्तंसमानन्दसिन्धुं
श्रमहरमवगाहे दत्तहस्तो भवत्या ॥ ४२॥
मकुटगविधुनि त्वन्मन्दिरे स्थित्यलाभः
स्थितिरियमितरव्यासङ्गदावानले च ।
फलमहह दयेऽदः कस्य पापस्य वा द्राक्
तदिदमुदसनीयं दौःस्थ्यमम्ब त्वया मे ॥ ४३॥
तनुकरणकदम्बं दक्षमेवं मनस्त्वद्-
ग्रहचणमनुकम्पे नन्वदाः शङ्कराख्ये ।
प्रदिशसि मम किं न त्वन्निवेशे प्रवेशं
प्रददति भुवने किं प्राणशून्याय कन्याम् ॥ ४४॥
सगरळमधिकण्ठं सानलं भालदेशे
सदनमहिपरीतं सर्वतस्तेऽनुकम्पे ।
तदिदमुपगता ये तानिमांस्तन्वती त्वं
विहरसि जितमृत्यून् वीक्षितानप्यमीभिः ॥ ४५॥
न वितर पदमैन्द्रं न श्रियं वैधसीं वा
श्रितभुजगकुलेऽपि क्ष्वेळखेलद्गळेऽपि ।
मम घटय दये त्वन्मन्दिरे सम्प्रवेशं
विगलितविविधव्यासङ्गमेतन्ममालम् ॥ ४६॥
तव समुदयरोधं तत्परोऽसौ विधत्ते
स्वकचरितमहिम्ना स्वात्मघाती तमेनम् ।
भगवति ननु भर्तुं भ्राम्यसीशानुकम्पे
तव परहितनिष्ठा तादृशी स्तौतु कस्त्वाम् ॥ ४७॥
कियदिव विमुखत्वं चित्सुखात्मन्युमेशे
रतिरपि कियती मेऽन्यत्र धिङ्मां ममास्य ।
असदपि न दये त्वं हास्यसि त्राणमद्धा
तव क इह निरोद्धा दासयन्त्यास्तमीशम् ॥ ४८॥
अश्रूद्गमगद्गदवागविरलपुलकाढ्यया भवे भक्त्या ।
कति न रमन्ते मां शिवकरुणे कुरु तदनुगं ममैतदलम् ॥ ४९॥
करुणे तरुणेन्दुधरस्त्वद्वशवर्तीति तव निशम्य यशः ।
तस्यावलम्बमीहे तद्घटने प्रतिभुवा त्वया भाव्यम् ॥ ५०॥
जनिमृतिदहनार्चिश्शान्तिदिव्यामृतौघे
जननि शशिविभूषे त्वद्गृहे सम्प्रवेशम् ।
विघटयदनुकम्पे विघ्नवृन्दं विभिन्दन्
मयि पततु कदा त्वन्निर्झरः श्रान्तिहारी ॥ ५१॥
त्वमभिज्ञशिखामणौ महेशे भजदत्यङ्कुशमन्तुसन्ततीनाम् ।
यदपह्नुतिपण्डिता दये तन्निरवद्यं तव वेद्मि साहसिक्यम् ॥ ५२॥
करुणे कथये किमाज्ञया ते
ह्यनुधावत्यहह स्मरन्ति ये तान् ।
मकुटव्यतिषङ्गिचन्द्ररेखं
मदनध्वंसि मदीयभागधेयम् ॥ ५३॥
हरिणार्भकमानने तरक्षोरिव कान्तादिमुखे भयानके माम् ।
विनिपात्य शिवो विलोकमानः करुणे किन्न कदर्थ्यते भवत्या ॥ ५४॥
करुणे तरुणेन्दुधारिणो मद्भरणे शंस तवाम्ब को विळम्बः ।
गणितोऽयमहं किलाखिलाङ्गिष्वयि किं तेषु न मामलेखयस्त्वम् ॥ ५५॥
अघवानिति मय्यसङ्गृहीते
सकलाघापहजातुनामवादः ।
अपि दीनजनावितेति कीर्त्योः
अवसादं करुणेऽभिधेहि शम्भोः ॥ ५६॥
मम शम्भुदये त्वदर्हतायां अहमन्यन्न विलोकयाम्युपायम् ।
मम चोदितयार्तिभिस्त्वयैव श्रयणीया तदुपायता ब्रुवे किम् ॥ ५७॥
पुरभित्करुणे पुरन्दराद्यैः त्वमुपास्या सुलभा न नस्तथापि ।
प्रचकास्ति परातिदुर्लभत्वत्पददर्शी ननु दीनताऽऽश्रयो नः ॥ ५८॥
भवतीशदये पयोदमाला भवतीव्रानलशान्तिदाश्रितेषु ।
तमसामवसादिकाः शिवेक्षातटितश्चित्रमचञ्चलाः प्रसूते ॥ ५९॥
करुणे शिवचन्द्रचन्द्रिकाऽसौ भवती सन्मणिसौधसंसदीव ।
प्रसृताऽपि मयीह तुच्छकुड्ये तिमिरं लुम्पतु तावता क्षतिः का ॥ ६०॥
कुतुकपरवशैरुमाकटाक्षैः कुवलयभाजि नवोडुपावतंसे ।
जननि तव झरे निमग्नमस्तज्वरभरमारचयेर्दये कदा माम् ॥ ६१॥
बत सहविहरद्दरस्मितानां
परिचरणाधिकृतारविन्दभासाम् ।
भगवति करुणे त्वयेरितानां पथि
किमसान्यहमीशवीक्षितानाम् ॥ ६२॥
सर्वज्ञत्वादिगुणाः स्वात्मत्राणैकलम्पटा बहवः ।
शर्वस्य शङ्कराख्यानिर्वहणं तद्दये त्वदायत्तम् ॥ ६३॥
श्रीकण्ठाय क्ष्वेळं रोचितवत्या दये ननु भवत्या ।
मामकमन्तुकदम्बे केवलमम्बेह वद विलम्बः कः ॥ ६४॥
शिव इति तद्भक्तिरिति स्मृतिरस्य च सेति सार्तिहन्त्रीति ।
इयदवगमय्य शेषे विरतिरियं शिवदये न ते सदृशी ॥ ६५॥
अब्ज्जयितुमच्युतयितुमपि शिवयितुमलमुमेशकरुणे त्वम् ।
अलमसि शिवरसिकानामक्षिपथे किन्न मां प्रवर्तयितुम् ॥ ६६॥
विजयस्व सिद्ध्यतात्तव विधुशेखरविप्रलम्भनैपुण्यम् ।
मन्मन्तुभिरुन्मिषतु च मातः करुणे पिचण्डिलत्वं ते ॥ ६७॥
करुणे यदि मन्मन्तून् कबळयसि न विप्रलब्धगिरिशा त्वम् ।
का मम गतिस्तवापि च का गतिरागोभिरेव जीवन्त्याः ॥ ६८॥
करुणे त्वदध्वगानां कामाद्या ये द्विषस्तदुन्मथने ।
गिरिशं त्वयेरयन्त्या कृतोऽस्य भीमोग्रनामसंसर्गः ॥ ६९॥
शर्वं प्रति मन्मन्तुषु सर्वज्ञतया निवेद्यमानेषु ।
आधूयताममुं दृढमालिङ्ग्य दये नयाशु परवशताम् ॥ ७०॥
अहह गिरिशैकतानामभिलषितस्थितिमनाप्तवति मयि ताम् ।
आर्तिषु मज्जति वर्तितुमर्हसि न स्तब्धमेवमीशदये ॥ ७१॥
नागांसि यन्महान्त्यपि गण्यन्ते गुणकणो बहु क्रियते ।
गिरिशेन तदनुगैरपि तद् गिरिशे त्वन्निवेशतः करुणे ॥ ७२॥
मतिवागपदेऽनन्ते महेश्वरे मनननमनपूजाभिः ।
आगोभिरभावि गुणैरनुकम्पे तस्य तव परिष्वङ्गात् ॥ ७३॥
अवरुन्धत्या करुणे हरं त्वया तस्य मामकस्वान्तम् ।
गेहं क्रियतामयि मे साहङ्क्रियताज्वरं जिहीर्षसि चेत् ॥ ७४॥
कामारिणा निविष्टैः कामादिभिरशरणस्त्वहं करुणे ।
ताड्ये किल किन्न त्वं तत् ज्ञपयसि तच्च किन्न वारयसि ॥ ७५॥
अन्तकहरं पदं तव हन्त दये घ्रातुमप्यनर्हं माम् ।
अकरोद्दुर्विधिरस्तु तदपनयने तव विलम्बनं नार्हम् ॥ ७६॥
दृष्टे मया त्वदोकसि दृशाऽनया सर्वमङ्गळाश्लिष्टे ।
करुणे का तव हानिः कति कति तद्दर्शिनस्त्वया न कृताः ॥ ७७॥
दुग्धार्थिनो मुनिशिशोर्दुग्धाम्बुनिधिर्वशं नीतः ।
जलधिरपरस्य हस्ते जलकणतां शिवदये न तेऽस्ति भरः ॥ ७८॥
अवतंसितेन्दुकन्दळमाज्ञावशवर्तिपवनतपनादिम् ।
कलये दये तव झरं कर्मपरब्रह्मगन्धिनिश्वासम् ॥ ७९॥
करुणेऽङ्गीकुर्या मां कदाऽम्ब तमुमासखं चिदाकारम् ।
गलहस्तितविषयान्तरमासीनं मन्मतौ कदा कुर्याः ॥ ८०॥
भयविरहमन्तकात्त्वं प्रदिश परस्येव न मम किन्तु भयम् ।
येन शिवेऽभिरतस्स्यां शिवानुकम्पे प्रसीद तदलं मे ॥ ८१॥
गौरीसखमुडुगौरं कन्दर्पसहस्रसुन्दराकारम् ।
नीलग्रीवमुदारं निधेहि मन्मनसि तव दये पूरम् ॥ ८२॥
क्रन्देयं बत कं प्रतीह बलिना कामेन कामान्तकः
कामं पश्यति पीड्यमानमपि मां कालेन कालान्तकः ।
त्वं चेत्तस्य विभोर्भवत्कृतपरिष्वङ्गैरपाङ्गैर्दये
मामामोदयसे क्षतिस्तव तु का किं स्याच्च मेऽसौ दशा ॥ ८३॥
निद्रालस्यभरो वपुष्यतिजरादुस्सङ्ग ईर्ष्या मतिः
यत्र क्वापि हि कैश्चिदित्थमशुभैर्विघ्नैः परीतस्य मे ।
ईशानेऽभिरतिश्च निर्वृतिकथा क्वेशानुकम्पे कदा
दीनान्वेषिणि मां त्वदभ्युपगमो दीनाग्रगण्यं स्पृशेत् ॥ ८४॥
तरणे भवस्य शरणैषिणा मया दुरितानि हन्त चरितान्यलं दये ।
उचितानि नैव रुचितानि मानसे लपितानि चैव कुपिताकृतीनि मे ।
शमनावलेपदमनावहाऽम्ब
किन्वपुषत् न खिन्नवपुषं मृकण्डुजम् ।
भवती मदीयभवतीव्रतापहृत्
तरुणेन्दुचूड करुणे न किं भवेत् ॥ ८६॥
उचितं तवोपरचितं दये न किं
प्रबलापराधकबळार्पणं मया ।
अयि शर्वमम्ब मयि शर्मदं न किं
वितनोषि शंस बत नो यशोऽस्त्यतः ॥ ८७॥
गरळे हरस्य तरळेतरां रुचिं
भवती दयेऽर्पितवती न मेऽम्हसि ।
उदितादराऽत्र विदिता कराळता
महिता न सा किमहितावहा तव ॥ ८८॥
कलिनाऽमुनाऽतिबलिना कदर्थितः
स्वहिते क्षमो न विहितेऽस्मि मादृशाम् ।
अवने श्रमस्तु तव नेशितुर्दये जगति
त्वयैव सगतिस्तदस्म्यहम् ॥ ८९॥
वलभेदनादिसुलभेतरं हरं
स्मरतो दळाम्बु किरतोऽपि निर्वसोः ।
नयसे वशं कलयसेऽद्भुतं दये-
ऽहमसावपीह किमसानि ते पदम् ॥ ९०॥
स्मरणं प्रणामकरणं तथाभिधा-
गदनञ्च जातुचिदनङ्गवैरिणः ।
परमं भवार्तिहरमम्ब देहिनां
त्वदये गतिस्तव दये गरीयसी ॥ ९१॥
भवतापभीतमवताऽखिलं जनं
पुरमर्दनेन परमर्ज्यते यशः ।
घनमम्ब यद्भुवनमङ्गळं दये
तदये श्रमच्छिदुदये त्वदाश्रयात् ॥ ९२॥
भुवने तवाम्ब नवने पटुर्दये
परमत्र को नु झरमज्जितः स ते ।
श्रितमन्तुशैलशतमन्तकान्तको-
ऽखिलवेदिता न किल वेदितुं क्षमः ॥ ९३॥
मनसेह सर्वमनसेव यद्वहे
हरमेकमेव न रमे हि विस्मरन् ।
तदिमं त्वमेव हृदि मन्तुमाशु मे
करुणे यतस्व तरुणेन्दुशेखरम् ॥ ९४॥
किमतो ममाम्ब विमतो भवार्णवः
तुदतीह मां न नुदतीदृशं शुचम् ।
गिरिजापतेरुपरि जातु मे दये
हृदयं कुरुष्व सदयञ्च तञ्च माम् ॥ ९५॥
चरणं नतार्तिहरणं विभोर्दये
नृतमो भजेत कतमो विना त्वया ।
तदमुं तवाम्ब पदमुन्नतं नय
प्रभवे मदर्थिविभवेऽर्थिनी भव ॥ ९६॥
कमलासनश्च कमलापतिश्च ते
कलयाऽऽप्नुतां हि तुलया विहीनताम् ।
स्वकरावलम्बसुकरामृतश्रियं
कुरु मे कुलेशितुरुमेशितुर्दये ॥ ९७॥
अपराधजालमपरा नुदेत का
भवतीं विनोद्धृतवती जगद्दये ।
जननीं प्रमोदजननीमृते शिशोः
शमलं प्रमार्जितुमलं परा तु का ॥ ९८॥
उमापतिरमापती मम शिवौ जहीतां मनो
न जातु करुणे यथा कुरु तथैव बुद्धिं दृढाम् ।
तथैव रसनाममूं शिव शिवेति वागुद्धरां
न चैतदुभयं विना किमपि मेऽभिलाषास्पदम् ॥ ९९॥
प्रसीद करुणेऽधुना मनसि मे शिवं स्थापया-
नपायिनमुमासखं कुरु च मय्यनुग्राहकम् ।
तथाऽनिशमिहासनं शिवपदस्य जिह्वाञ्चले
ददस्व मम काङ्क्षितद्वयमिदं त्वदेकायनम् ॥ १००॥
कालेऽन्तिमे शिवदये मम ते प्रसादाद्
एतावदेव हृदये दृढमाविरस्तु ।
यद्-द्वयक्षरं शिव शिवेति तवास्पदीय
मोक्षप्रदं भुवनमङ्गळनामधेयम् ॥ १०१॥
एवं दयास्तवमिमं पठतां हि भक्तयाऽऽ-
रोग्यायुरच्छशिवभक्तिधनर्द्धिविद्याः ।
अग्र्यान् सुतानपि यशश्च विमुक्तिमन्ते
श्रीपार्वतीशकरुणा दिशति प्रहृष्टा ॥ १०२॥
इति श्रीश्रीधरवेङ्कटशार्यविरचितं दयाशतकं सम्पूर्णम् ।
Proofread by Aruna Narayanan