महामायाष्टकम्
सत्स्वन्येष्वपि दैवतेषु बहुषु प्रायो जना भूतले
यामेकां जननीति सन्ततममी जल्पन्ति तादृग्विधा ।
भक्तस्तोमभयप्रणाशनचणा भव्याय दीव्यत्वसौ
देवी स्फोटविपाटनैकचतुरा माता महामायिका ॥ १॥
मातेत्याह्वय एव जल्पति महद् वात्सल्यमस्मासु ते
कारुण्ये तव शीतलेति यदिदं नामैव साक्षीयते ।
इत्थं वत्सलतादयानिधिरिति ख्याता त्वमस्मानिमान्
मातः कातरतां निवार्य नितरामानन्दितानातनु ॥ २॥
प्रत्यक्षेतरवैभवैः किमितैरैर्देवव्रजैस्तादृशै-
र्निन्दायामपि च स्तुतावपि फलं किञ्चिन्न ये तन्वते ।
या निन्दास्तवयोः फलं भगवती दत्सेऽनुरूपं क्षणा-
न्नूनं तादृशवैभवा विजयसे देवि त्वमेका भुवि ॥ ३॥
वृत्तान्तं विविधप्रकारमयि ते जल्पन्ति लोके जना-
स्तत्त्वं नोपलभे तथैव न विधिं जाने त्वदाराधने ।
तस्मादम्ब कथं पुनः कलयितुं शक्तास्मि ते पूजनं
नूनं वच्मि दयानिधेऽवतु जडानस्मान् भवत्यादरात् ॥ ४॥
रोदंरोदमुदीर्णबाष्पलहरीक्लिन्नानने ते शिशा -
वस्मिन् तप्यति किञ्चिदत्र करुणादृष्टिं विधत्से न चेत् ।
पातुं स्फोटगदात् पटुत्वमिव ते कस्यास्ति मातर्वद
क्वायं गच्छतु कस्य पश्यतु मुखं का वा गतिर्लभ्यताम् ॥ ५॥
धर्म्यानुच्चरतां पथः कलयतां दोषांस्तथा चात्मनः
स्वैरं निन्दनमातनोतु सततं द्वेष्येपथे तिष्ठतु ।
एतावत्यपि वत्सके किल शुचं याते मनाक् तत्क्षणं
तत्त्राणे जननी प्रयास्यति हि तन्मातस्त्वमस्मानव ॥ ६॥
आबालस्थविरं प्रसिद्धमयि ते मातेति यन्नाम तद्
गोप्तुं नैव हि शक्यमम्ब तदसौ तादृग्विधा त्वं यदि ।
अस्मिन् खिद्यति वत्सके न तनुषे मातुर्गुणं चेत्तदा
नूनं स्यादपवादपात्रमयि तन्मातस्त्वमस्मानव ॥ ७॥
मुक्ताहारमनोहरद्युतियुतां मूर्तिं नरास्तावकीं
ये ध्यायन्ति मृणालतन्तुसदृशीं नाभीहृदोरन्तरे ।
ते घोरज्वरभारजातविषमस्फोटस्फुटद्धुः सह-
क्लेदोद्यत्कटुपूतिगन्धमयि नो जानन्त्यमी जात्वपि ॥ ८॥
कारुण्याम्बुधिशीतलापदपयोजातद्वयीभावना-
जातस्फीतहृद(म्बुजा)मितसुधानिर्यासरूपामिमाम् ।
ये मर्त्या स्तुतिमादराद् गणपतेर्वक्त्राम्बुजान्निःसृतां
विश्वासेन पठन्ति ते न दधते स्फोटव्यथां जातुचित् ॥ ९॥
इति (पैङ्गनाडु) गणपतिशास्त्रिकृतं श्रीमहामायाष्टकं सम्पूर्णम् ।
स्तोत्रसमुच्चयः २ (९५)
Painnanadu Ganapatisastrin is a recent author
(A.D. 1871-1913) and a reputed scholar, being a
disciple of Mm. Mannargudi Rajusastrin ( alias
Tyagarajamakhin) belonging to Appayadiksita’s
family. Mahamayasiaka (95) is probably on some
local deity who is described as the protector
against the sphota (boils; perhaps some kind of
epidemic like smallpox is meant).
Proofread by Rajesh Thyagarajan