नमस्ते हे दुर्गे
नमस्ते हे स्वस्तिप्रद-वरद-हस्ते ! सुहसिते !
महासिंहासीने ! दर-दुरित-संहारण-रते ! ।
सुमार्गे मां दुर्गे ! जननि ! तव भर्गान्वित-कृपा
दहन्ती दुश्चिन्तां दिशतु विलसन्ती प्रतिदिशम् ॥ १॥
अनन्या गौरी त्वं हिमगिरि-सुकन्या सुमहिता
पराम्बा हेरम्बाकलित-मुखबिम्बा मधुमती ।
स्वभावै-र्भव्या त्वं मुनि-मनुज-सेव्या जनहिता
ममान्तः-सन्तापं हृदयगत-पापं हर शिवे ! ॥ २॥
अपर्णा त्वं स्वर्णाधिक-मधुर-वर्णा सुनयना
सुहास्या सल्लास्या भुवन-समुपास्या सुलपना ।
जगद्धात्री पात्री प्रगति-शुभदात्री भगवती
प्रदेहि त्वं हार्दं परम-समुदारं प्रियकरम् ॥ ३॥
धरा दुष्टै-र्भ्रष्टैः परधन-सुपुष्टैः कवलिता
दुराचार-द्वारा खिल-खल-बलोद्वेग-दलिता ।
महाकाली त्वं वै कलुष-कषणानां प्रशमनी
महेशानी हन्त्री महिष-दनुजानां विजयिनी ॥ ४॥
इदानीं मेदिन्या हृदयमतिदीनं प्रतिदिनं
विपद्-ग्रस्तं त्रस्तं निगदति समस्तं जनपदम् ।
महाशङ्कातङ्कै-र्व्यथित-पृथिवीयं प्रमथिता
नराणामार्त्तिं ते हरतु रणमूर्त्तिः शरणदा ॥ ५॥
समग्रे संसारे प्रसरतु तवोग्रं गुरुतरं
स्वरूपं संहर्त्तुं दनुज-कुल-जातं कलिमलम् ।
पुनः सौम्या रम्या निहित-ममता-स्नेह-सुतनु-
र्मनोव्योम्नि व्याप्ता जनयतु जनानां हृदि मुदम् ॥ ६॥
अनिन्द्या त्वं वन्द्या जगदुरसि वृन्दारकगणैः
प्रशान्ते मे स्वान्ते विकशतु नितान्तं तव कथा ।
दया-दृष्टि-र्देया सकल-मनसां शोक-हरणी
सदुक्त्या मे भक्त्या तव चरण-पद्मे प्रणतयः ॥ ७॥
भवेद् गुर्वी चार्वी चिरदिवसमुर्वी गतभया
सदन्ना सम्पन्ना सरस-सरणी ते करुणया ।
समुत्साहं हासं प्रिय-दशहरा-पर्व-सहितं
सपर्या ते पर्यावरण-कृतकार्या वितनुताम् ॥ ८॥
-- रचयिता : डाॅ हरेकृष्ण-मेहेरः
Copyright Dr.Harekrishna Meher