श्रीराधानामावलिः
(* अपूर्णा)
श्रीकृष्णदयिता श्रीड्या श्रीकण्ठस्तुतसद्गुणा ।
श्रीमती श्रीदपन्द्यान्निर्विधिमाता सुरार्चिता ॥ १॥
राधा महासती मान्या पुण्यकीर्तिसुधासरित् ।
भद्रादितिस्नुषाख्याता देवी त्रैलोक्यसुन्दरी ॥ २॥
व्यासादिसत्कविस्तव्या शुकयोगीन्द्रवर्णिता ।
भगवत्सस्कृतारामा सुभगा कोटिसंस्तुता ॥ ३॥
मधुभिन्मोहिनी मुख्या मानिनी मधुराकृतिः ।
ललना ललितानन्दप्राप्ताशीर्वृषभानुजा ॥ ४॥
यशोदालालिता लक्ष्मीसपत्नी लक्षणाश्रया ।
राजगोपाललीलोत्का गोपीवृन्दशिरोमणिः ॥ ५॥
कृष्णदर्शनसर्वस्वा कृष्णसर्वस्वदर्शना ।
वासुदेवसखी पुण्या वरेण्यपरदा वरा ॥ ६॥
धरालिरार्या स्वार्तिघ्नी सदाराध्या सनातनी ।
गोलोकवासिनी नित्यानन्दा नन्दात्मजानुगा ॥ ७॥
नर्मदा शर्मदा प्राज्ञा प्रभूतगुणशालिनी ।
प्रसन्नवदना प्राज्यलावण्या प्रभुसुप्रिया ॥ ८॥
पुराणपुरुषप्रीता परब्रह्मप्रसादिनी ।
बृहत्कीर्तिः परब्रह्मसहचर्यतिगौरवा ॥ ९॥
कलिन्दजाप्रियसखी कलिकल्मषनाशिनी ।
महाविदग्धा कालिन्दीतीरकुञ्जविहारिणी ॥ १०॥
कलावती रासरक्ता रम्याकृतिरुदारधीः ।
गोविन्दाङ्कासनासीना गोविन्दाश्लेषनिर्वृता ॥ ११॥
विलासिनी विशालाक्षी मदिराक्षी मदालसा ।
तन्वी तनूदरी सुभ्रूः सुमुखी सुदती सुवाक् ॥ १२॥
सुकुमारी सुखखनिः सुतनुः सुज्ञसश्नुताता ।
सुकेशी सुप्रभा सुज्ञा सुमासीरप्रजावती ॥ १३॥
सुवर्णवर्णा सुमतिः सुमनोलङ्कृताकृतिः ।
कुञ्जगा कुञ्जरगतिः कुन्ददामविभूषिता ॥ १४॥
कुम्भस्तनी कुङ्कुमाभा कुन्तलालिजितालिनी ।
वेणुनादहतस्वान्ता कान्तकान्तिः कलध्वनिः ॥ १५॥
कान्तकल्पितकल्पद्रुमसूनानल्पप्रगा (?) ।
कर्णपूरीकृतप्रेष्ठप्रेमार्पितशिखिच्छदा ॥ १६॥
वंशतीष्टार्वंशभूषा हंसगद्गदभाषिणी ।
श्रीराऽभिसारिका नैकयुक्तवेषा प्रियंवदा ॥ १७॥
समयज्ञा पुण्यशीला वेदज्ञा वन्द्यवन्दिता ।
सुरङ्गनागीतकेलिर्गुणाढ्या गणिसङ्गता ॥ १८॥
गन्धर्वगीतचरिता मेनकाद्यप्सरःस्तुता ।
सर्वशीकृतसरकारा घृताचीरचिताञ्जलिः ॥ १९॥
रम्भासंवीजितापादपद्मप्रह्ला तिलोत्तमा ।
missing
गोपीश्वरी गोपलक्षमीर्गोमती गोकुलोद्भवा ।
कृष्णचेतोहरा कृष्णसहगानधुरन्धरा ॥ २४॥
कृष्णस्कन्धार्पितभुजा कृष्णास्थनिहितेक्षणा ।
कृष्णाननात्तताम्बूला कृष्णाश्लेषनिमीलिता ॥ २५॥
कृष्णस्तुता कृष्णहृता कृष्णचित्तप्रमाथिनी ।
कृष्णानुकारकुशला कृष्णप्राणेश्वरीश्वरी ॥ २६॥
रत्युत्तमा रतीशाक्षी रसश्रेष्ठैकमानसा ।
रात्रीशरश्मिधवला धवलाम्बरधारिणी ॥ २७॥
तमिस्रदीपिकाकान्तिस्तारुण्यामृतनिम्नगा ।
कात्यायन्यर्चनपरा कृष्णेभालानदृक्छटा ॥ २८॥
गम्भीरनाभिर्गम्भीरभावा गम्भीरभाषणा ।
कृष्णप्रसाधिता कृष्णहस्तलब्धविशेषका ॥ २९॥
स्तनभारनमन्मध्या नखदन्तक्षताञ्चिता ।
प्रेमक्रीताच्युता प्राज्यप्रीतपीताम्बरप्रभुः ॥ ३०॥
पक्ष्मलाक्षी पनपत्रव्यजनानिलसेविनी ।
पुरुषायितसम्प्रीतप्रियाकृष्टमनोघना ॥ ३१॥
विहारिणी विशदधीर्विश्ववाहृविनोदिनी ।
वीक्षाविध्वस्तस्वविपद् विष्णुसाक्षाकृतिप्रवा ॥ ३२॥
दीर्घदृष्टिदग्धदासदैन्या विश्वस्तवत्सला ।
धर्मलभ्या धैर्यदात्री धुतारिर्धूपितालका ॥ ३३॥
फणीन्द्रतल्पा फलिता स्फारभा स्फटिकद्विजा ।
यज्ञसिद्धिर्यशोराशिर्यतिसेव्या यमाधिदा ॥ ३४॥
यतीष्टदा यत्नदृश्य योगिध्येयाऽथ नाजिता(?) ।
यदुनन्दनयत्नात्ता ॥।पतिगमीरहृत् ॥ ३५॥
मोहहन्त्री मोहदात्री मोमासाविञ्युपासिता ।
मोहिनी मोचितासङ्ख्या मोघाहितमनोरथा ॥ ३६॥
उरुक्रमानतिक्रान्तमानोर्व्युन्नतमस्तका ।
उद्योगिन्युद्धतापाङ्गच्छटोपद्रवनाशिनी ॥ ३७॥
उद्दामरूपसम्पत्तिरुल्लसन्मणिमेखला ।
उत्कणश्रीरुदात्तर्धिरुपस्थितमहोदया ॥ ३८॥
उदारोदाहृतकथा प्रशस्तिरुचितोचिता ।
हर्यक्षमध्या हरिणीप्रेक्षणा हीरमण्डना ॥ ३९॥
हेलानिर्जितदिव्वस्त्रीहेमतालफलस्तनी ।
कृष्णहृस्पञ्जरशुकी कृष्णमेघशतह्रदा ॥ ४०॥
कृष्णचेतोङ्गणनटी कृष्णसत्तरुसल्लता ।
कृष्णलोचनकर्पूरशलाकायितविग्रहा ॥ ४१॥
श्रीकृष्णशशभृज्ज्योत्स्ना श्रीकृष्णद्युमणियुतिः ।
श्रीकृष्णब्रह्मसावित्री श्रीकृष्णेश्वरपार्वती ॥ ४२॥
श्रीकृष्णाब्धिमहासिन्धुः श्रीकृष्णाम्नायसत्क्रिया ।
श्रीकृष्णहिमभृन्मेना श्रीकृष्णैरावणाभ्रमुः ॥ ४३॥
श्रीकृष्णदेवेन्द्रशची कृष्णश्रीरामजानकी ।
श्रीकृष्णशूरासिलता श्रीकृष्णब्राह्मणश्रुतिः ॥ ४४॥
कृष्णहृच्चातकप्रावृट् कृष्णबर्ह्यभ्रमालिका ।
गोविन्दचक्षुस्तृषितचकोरस्मितचन्द्रिका ॥ ४५॥
पुण्यश्लोकप्रणयिनी परमात्मप्रलोभिनी ।
शारदिदुव्रीडदास्या शारदातिविशारदा ॥ ४६॥
शृङ्गारसिन्धुलहरी श्रृङ्गारारण्यसिंहिका ।
शृङ्गारेन्दुशरद्राका श्रृङ्गाराभ्युदयोद्भवा ॥ ४७॥
असङ्ख्यपीतोर्वरिताऽनन्तपुण्यकथासुधा ।
अनादिनिधना द्योत्या छद्मबल्लवदारिका ॥ ४८॥
शाश्वन्निःसीमसौभाग्या शश्वद्भरविदञ्चिता ।
निरन्तरानन्दपूर्णा निरन्तरनवस्तुतिः ॥ ४९॥
प्रहर्षिणीरोमराजित्रिवलीललितोदरी ।
जारस्त्वहरजारत्वा जगत्पावनपावनी ॥ ५०॥
लीलानरानन्तशक्तिर्लीलाकैवल्यजारिणी ।
योषिल्ललाम श्रीमूर्तिः सर्वरामादिनायिका ॥ ५१॥
सर्वभावविभावानुभावसात्विकभावभूः ।
मणिमालामुद्रितादिपुंशिरोमण्युरस्थला ॥ ५२॥
स्वमुखाम्बुजसौरभ्यलुब्धभृंङ्गात्तसाध्वसा ।
दूतीकृतभ्रमद्भृङ्गदुःखदावदवस्मृतिः ॥ ५३॥
दुग्धफेनमृदुस्वच्छशय्यातलविहारिणी ।
स्वाङ्गरागसुगन्धार्ककन्याजलविहारिणी ॥ ५४॥
स्वभावभव्यसौरभ्या सहजद्युत्यलङ्कृता ।
अशिक्षितातिचातुर्या वञ्चनाञ्जितलोचना ॥ ५५॥
दामोदरोरःशयना कृष्णबाहूपधानका ।
कृष्णोत्तरीयव्यजना कृष्णाङ्घ्रिनखदर्पणा ॥ ५६॥
श्रुतिस्तुतस्तुतगुणा ज्ञातिमानितमानिता ।
योगिध्येयध्येयमूर्तिर्विश्वपूजितपूजिता ॥ ५७॥
वृत्तोन्मतारक्तनखा विद्योतन्मणिमुद्रिका ।
महाविभूतिमानार्हा महती मन्मथारणिः ॥ ५८॥
राजरामा रतिश्वश्रूर्गुर्वी कृष्णाम्रकोकिला ।
नित्यप्राप्तासङ्गसङ्गा निरातङ्का निरञ्जना ॥ ५९॥
निर्निमेषा निर्विशेषा निरीहार्चा निरामया ।
सिन्दूरगर्भसीमन्ता सिन्दूरतिलकालिका ॥ ६०॥
सीमन्तिनी सृष्टिसीमा+सीतिक्रान्तवैभवा (?) ।
भामिनी शालिनी श्यामा मेघश्यामा तिलालसा ॥ ६१॥
महामण्यङ्गदभुजा मणिकाञ्चनकङ्कणा ।
अमृतस्राविताटङ्का मुक्ताचोला सुवासिनी ॥ ६२॥
वरारोहेभनासोरुर्नतभ्रूर्मत्तकाशिनी ।
नित्यानन्दस्वरूपानुभूतिर्भूतिलकायिता ॥ ६३॥
कृष्णकर्णामृतोदन्ता कृष्णनेत्रालिपद्मिनी ।
हातश्रीकृष्णरमिता यमितापघ्नकीर्तमा ॥ ६४॥
देदीप्यमाना दुर्दैवदुर्लभस्मृतिवन्दना ।
दयमानमना दासत्रासनाशधृतव्रता ॥ ६५॥
भक्तेक्षणक्षणप्राल्पप्राणप्रियतमास्मृतिः ।
अनन्यभक्तसर्वस्वा निजभक्ताभिमानिनी ॥ ६६॥
भुक्तिमुक्तिप्रदपदा भुजपाशसिताच्युता ।
नेत्राधरप्रभागुञ्जीभूतनासाग्रमौक्तिका ॥ ६७॥
निरीहेहाकरीरम्भरीतिरीश्वररीतिभृत् ।
शुद्धसत्वोत्कर्षवती सर्वसात्विकसन्नुता ॥ ६८॥
ब्रह्माण्डमण्डपस्तम्भस्तम्भना सकलेक्षणा ।
वंशीनिनादश्रवणक्षणत्यक्ताशनालया ॥ ६९॥
मुरलीनादजीवातुर्मुरलीध्वनिनिस्रपा ।
सायंवेणुरवप्रीता प्रातर्वेणुरवाकुला ॥ ७०॥
दिवावंशीकथानीतयुगयामचर्तुदया ।
कृष्णचुम्बितवंशीर्ष्या वंशीकुत्साकृतादरा ॥ ७१॥
वंशीसपत्नी वंश्याप्तमहाभाग्योत्सवासहा ।
वंश्यायत्तप्रियप्राप्तिर्वंशीदूतीप्रबोधिता ॥ ७२॥
वंशीसखीसमाहूता वंशीज्वरहरौषधिः ।
वंशीनादनिरस्ताधिर्वंशीलज्जासरित्तारिः ॥ ७३॥
वनमालिपरिष्वङ्गाऽज्ञातनिर्गतयामिनी ।
भगवद्विरहाऽशीतरश्मीभूतसुधाकरा ॥ ७४॥
भीमसमागमानन्दचन्द्रीभूतदिवाकरा ।
भगवरसङ्गमोत्कर्षपल्लवीकृतबल्लवी ॥ ७५॥
मृद्धङ्गी नागनासोरुः कुञ्जारण्याधिदेवता ।
गुञ्जद्भृङ्घनध्वान्सपुञ्जकुञ्जमहर्षिणी ॥ ७६॥
वैकुण्ठीकृतकालिन्दीतटारण्यलतागृहा ।
निकुञ्जबन्धुः सर्वाङ्गमञ्जुला वञ्जुलालया ॥ ७७॥
वर्शवदरमारङ्गा गङ्गाच्छागुणगर्विता ।
कीरनासा चक्रवाकस्तनी खञ्जनलोचना ॥ ७८॥
जपाप्रसूनरसना विद्रुमाधरपल्लवा ।
ग्रीष्मकालहिमस्पर्शा हिमकालोष्णविग्रहा ॥ ७९॥
दामोदरकरस्पर्शश्लथनीविः स्खलद्गतिः ।
श्लक्ष्णदृष्टिदृडस्नेहा दुग्धमुग्धस्मिताधरा ॥ ८०॥
भक्तप्रेमद्रवच्चित्ता भगवद्भक्तिजीवना ।
गोविन्दसख्यप्रख्याता दामोदरमणिप्रभा ॥ ८१॥
कृष्णलक्ष्मीभ्रमकरीगोपालफणभृन्मणिः ।
कृष्णबद्धोल्लसद्वेणी केशवाक्ष्यर्षिताञ्जना ॥ ८२॥
कृष्णारचितपत्रालिः कृष्णदत्ताङ्घ्रियावका ।
कृष्णोत्तरीयव्यजना कृष्णोत्सङ्गवरासना ॥ ८३॥
भगवत्कौस्तुभादर्शा गोविन्दाधरकज्जला ।
मानग्रहनमत्कृष्णालिकलग्नाङ्घ्रियावका ॥ ८४॥
कृष्णानिमिषदृक्पीतवदनाम्बुरुहासवा ।
पूर्णकाममनःकाम्या स्वात्माराममनोरमा ॥ ८५॥
सदातृप्तसदारब्धकेलिर्नित्यहरीहिता ।
गुहगम्या गुणातीता सद्गुणप्रतिपादिनी ॥ ८६॥
चुम्बनोत्कप्रियस्पृष्टचिबुका चपलेक्षणा ।
कृष्णमार्जितरत्यन्तमर्मबिन्दुभृदानना ॥ ८७॥
श्रीकान्तस्य पदन्यस्तक्रीडा बिस्रस्तभूषणा ।
श्रियपादाम्बुजापास्तविन्यस्तमणिनूपुरा ॥ ८८॥
कृष्णार्पितस्वङ्गरागा कृष्णबद्धनगम्बरा ।
प्रसाधकप्रेष्ठदत्तरसाज्ञापारितोषिका ॥ ८९॥
दन्तकान्तिजितज्योत्स्ना सुधोत्तमरसाधरा ।
स्वपादपद्मसौभाग्यजितसौगन्धिकाम्बुजा ॥ ९०॥
कल्पद्रुपल्लवानल्पस्मयघ्नकरपल्लवा ।
वाङ्मूकीकृतगर्वाढ्यशारदाशुकसारिका ॥ ९१॥
कृष्णच्छायासहचरी कृष्णदृष्ट्यास्पदानना ।
यज्ञपत्नी पूज्यचित्रानन्दसर्वस्वरक्षिणी ॥ ९२॥
पुत्ररञ्जनसम्प्रीतयशोदाविहितादरा ।
व्रजेश्वरार्पितापत्यनिर्विशेषाङ्कसंस्थितिः ॥ ९३॥
कृष्णास्यार्पितसंयावा राजगोपालभोजिता ।
प्रीतिपीतप्रीतपीतचेलेषत्पीतपायसा ॥ ९४॥
कृष्णार्पितस्वनेपथ्या कृष्णनेपथ्यधारिणी ।
?? अपूर्णा
इति श्रीरामनन्दनमयूरेश्वरकृता श्रीराधानामावलिः समाप्ता ।
* इयनामावलिः कविलिखिता चासम्पूर्णा चोपलभ्यते । नामाप्यस्या आवत्या अस्माभिरेव विषयमवलोच्य प्रकल्पितम् । बहुषु स्थलेष्वस्या मातृका यन्त्रादिसाहाय्येनापि नावगन्तुं शक्येति तत्र दुरूह एवार्थः । इतरत्र तु सुगम एव नाम्नामर्थ इत्युपेक्ष्य व्याख्यानम् ।
Proofread by Rajesh Thyagarajan