राधाप्रार्थनाचतुःश्लोकी
राधा कैंकर्यप्रार्थनाचतुःश्लोकी
कृपयति यदि राधा बाधिताशेषबाधा
किमपरमवशिष्टं पुष्टिमर्यादयोर्मे ।
यदि वदति च किञ्चित्स्मेरहासोदितश्री-
र्द्विजवरमणिपङ्क्त्या भुक्तिशुक्त्या तदा किम् ॥ १॥
श्यामसुन्दर शिखण्डशेखर
स्मेरहास्य मुरलीमनोहर ।
राधिकारसिक मां कृपानिधे
स्वप्रियाचरणकिङ्करं कुरुष्व ॥ २॥
प्राणनाथ वृषभानुनन्दिनी
श्रीमुखाब्जरसलोलषट्पद ।
राधिकापदतले कृतस्थिति-
स्त्वां भजामि रसिकेन्द्रशेखर ॥ ३॥
संविधाय दशने तृणं विभो
प्रार्थये व्रजमहेन्द्रनन्दन ।
अस्तु मोहन तवातिवल्लभा
जन्मजन्मनि मदीश्वरी प्रिया ॥ ४॥
इति श्रीविठ्ठलेश्वरविरचिता राधाप्रार्थनाचतुःश्लोकी सम्पूर्णा ।
Proofread by PSA Easwaran