श्रीरुक्मिणीस्तवनम्
ॐ श्री ।
श्रीशङ्कर ।
लक्ष्मी स्वयंवरहृतां हरिलग्नचित्तां
सौदर्यसुन्दरकरी करुणामृताब्धिम् ।
विभ्रत्सुधाकरकराधिकान्तकान्तिं
श्रीरुक्मिणीं स्वजन कल्पलतां नमामि ॥ १॥
यत्पादपङ्कजरजः कण पाविताङ्गः
पापोऽपि शर्म लभते वृजिनाद्विमुक्तः ।
राजेश्वरी कुटिलकुन्तलशोभितां तां
श्रीरुक्मिणीं स्वजन कल्पलतां नमामि ॥ २॥
यत्सम्प्रसादमधुरक्षणदृष्टिपातो
रङ्कं करोति धनदेन समं समृद्धम् ।
तां सर्वमङ्गलकरी वरदां वरेण्यां
श्रीरुक्मिणीं स्वजन कल्पलतां नमामि ॥ ३॥
पीताम्बरां कनकमौक्तिकदीप्तकाञ्चीं
ताटङ्ककुण्डलपरिष्कृतकर्णपालीम् ।
काश्मीरजन्मतिलकाङ्कितभव्यभालां
श्रीरुक्मिणीं स्वजन कल्पलतां नमामि ॥ ४॥
नारायणीं करसरोजधृताणुमध्यां
वात्सल्यकुम्भललितोत्तमरत्नहाराम् ।
सिञ्जत्सुवर्णमणिनूपुरमण्डिताङ्घ्रिं
श्रीरुक्मिणीं स्वजन कल्पलतां नमामि ॥ ५॥
उत्फुल्लपद्मदलचारुविलोलनेत्रां
सौभाग्यदाननिपुणां सुमुखीं प्रसन्नाम् ।
देवाधिदेवगणपूजितपादपद्मां
श्रीरुक्मिणीं स्वजन कल्पलतां नमामि ॥ ६॥
यां शारदेति कवयो गिरिजेति शैवाः
वेदान्तिनो परशिवां प्रकृतिं वदन्ति ।
तां सर्वलोकजननीं परमां दयालुं
श्रीरुक्मिणीं स्वजन कल्पलतां नमामि ॥ ७॥
श्रीपाण्डुरङ्गमहिषीं दुरितापहत्रं
सर्वार्थदां सुखमयीं सुमनोभिरामाम् ।
भीमातटे नतजनोद्धरणाय दक्षां
श्रीरुक्मिणीं स्वजन कल्पलतां नमामि ॥ ८॥
श्लोक (पृथ्वी)
विदर्भनृपनन्दिनी कठिणविष्टरोपस्थितां
मुकुन्ददयितां शुभां कनकभूषणालङ्कृताम् ।
स्वभक्तजनतारिणीं कलिमलौघविध्वंसिनीं
``अनन्त'' वरदायिनीं अविरतं भजे रुक्मिणीम् ॥ ९॥
इति स्वामी वरदानन्दभारतीविरचितं श्रीरुक्मिणीस्तवनं सम्पूर्णम् ।
भावार्चना (प्राचार्य अ. दा. आठवले)
https://www.santkavidasganu.org, https://www.youtube.com/@varad-vani1496
Encoded and proofread by Arun Parlikar