श्रीसरस्वतीस्तोत्रम्
कुन्दालिद्युतिमन्दहाससुमुखी राकेन्दुबिम्बानना
मल्लीतल्लजमालतीसुमनसां सौभाग्यपाटच्चरी ।
फुल्लेन्दीवर वृन्दष ट्पदतमःसन्दोहसन्देहकृ-
द्वेणीका विधिसुन्दरी मम भवेदानन्दसन्दोहिनी ॥ १॥
यत्पादाम्बुजसेवयैव ससुरो लोकः समर्त्यासुरो
वागौन्नत्यमगाहत श्रुतिवचोवीथीषु या गीयते ।
या श्वेताम्बुजमध्यवासरसिका या नम्ररक्षामणिः
धातुः कापि कुटुम्बिनी वितरतात् सा निर्वृतिं नोऽतुलाम् ॥ २॥
कस्तूरीघनसारगन्धलहरीसंवासितोरःस्थला
संवीता स्फुटकाशपुष्पसदृशक्षौमांशुकेनानिशम् ।
पुस्तं हस्तचतुष्टये जपवटीं शस्तां शुकीं वल्लकीं
बिभ्राणा गृहिणी विधातुरवतान्नः सेवया तोषिता ॥ ३॥
शुभ्रं दभ्रवलग्नमभ्रतनु तेऽदभ्रप्रमोदप्रदं
विभ्रान्ते भ्रमदन्धपरय सततं तैस्तैर्निजैर्विभ्रमैः ।
शब्दब्रह्ममये जगत्यनितरापेक्षाधिकारक्रियं
किञ्चित्कुञ्चितकेशमद्य जयति स्रष्टुर्भुविष्ठं महः ॥ ४॥
इति श्रीसरस्वतीस्तोत्रं सम्पूर्णम् ।
Proofread by Rajesh Thyagarajan