अनुभूतिस्वरूपाचार्यकृतं सरस्वतीस्तोत्रम्
॥ श्रीः ॥
कलमरालविहङ्गमवाहना
सितदुकूलविभूषणभूषिता ।
प्रणतभूमिरुहामृतसारिणी
प्रवरदेहविभा१ भरहारिणी ॥ १॥
अमृतपूर्णकमण्डलधारिणी
त्रिदशदानवमानवसेविता ।
भगवती परमैव सरस्वती
मम पुनातु सदा नयनाम्बुजे ॥ २॥
जनयति प्रथिताखिलवाङ्मयं१
गणधराननमण्डपनर्तकी ।
गुरुमुखाम्बुजखेलनहंसिका
विजयते जगति श्रुतिदेवता ॥ ३॥
अमृतदीधितिबिम्बसमाननां
त्रिजगतीजननिर्मितमाननाम् ।
नवरसामृतवीचि सरस्वतीं (नदी)
प्रमुदितः प्रणमामि सरस्वतीम् ॥ ४॥
विकचकेतकपत्रविलोचने
विहितसंस्कृतदुष्कृतमोचने५।
धवलपक्षविहङ्गमलाञ्छने
जय सरस्वति पूरितवाञ्छने ॥ ५॥
भवदनुग्रहलेशतरङ्गिताः
तदुचितं प्रवदन्ति विपश्चितः ।
नृपसभासु यतः कमलाबला-
कुचकलाकलितानि वितन्वते ॥ ६॥
गतधनापि हि त्वदनुग्रहात्
कलितकोमलवाक्यसुधोर्मयः ।
चकितबालकुरङ्गःविलोचना२-
जनमनांसि३ हरन्तितरां नराः ॥ ७॥ ३ युवतिजनमनांसीत्यर्थः ।
करसरोरुहखेलनचञ्चला
तव विभाति वरा जपमालिका ।
श्रुतपयोनिधिमध्यविकस्वरो-
ज्ज्वल५तरङ्गःकलाग्रहसङ्ग्रहा ॥ ८॥
द्विरद-केसरि-मारि-भुजङ्गम-
ज्वलन-तस्कर-राज७-रुजां भयम् ।
तव गुणावलिगानतरङ्गिणां
न भविनां८- भवति श्रुतिदेवते ॥ ९॥
ॐ ह्रां क्लीं क्रूं ततः श्रीं तदनु हसकलां ह्रीमथो ऐं नमोऽन्ते
लक्षं सख्यं जपन् (योऽ)? नमकरविधिना सत्तपा ब्रह्मचारी ।
निर्षान्तं (निष्क्रान्तं ?) चन्द्रविम्बात्कलयति मनसा त्वाम्बुजे१ चन्द्रकाभां
सत्यर्थं ३ब्रह्मकुण्डे विहितघृठहति(घृतहुतिः?) स्यादृशां (सिम?) विद्वान् ॥ १०॥
रे रे लक्षण-काव्य-नाटक-कथा-चम्प्पूसमालोकने
क्वायासं वितनोषि बालिश मुधा किं नम्र६वक्याप्युजः ।
भक्त्याराधय मन्त्रराजमहसानेनानिश७ भारतीं
तेन त्वं कवितावितानसविताऽद्वैतप्रबुद्धायसे ॥ ११॥
चञ्चच्चन्द्रमुखी प्रसिद्धमहिमा स्वच्छन्दराज्यप्रदाऽ-
नायासेन सुरासुरैर्नरगणै१०रभ्यर्चिता भारती११।
देवी सत्कृतवैभवामलगुणा स्वच्छाङ्गरागद्युतिः
सा मां पातु सरस्वती१२ भगवती त्रैलोक्यसञ्जीवनी ॥ १२॥
स्तवनमेतदनेकगुणान्वितं
पठति यो १३भविकं ??? १४।
स सहसा मधुरैर्वचनामृतै-
र्नृपगणानपि रञ्जयति स्फुटम् ॥ १३॥
इति श्रीअनुभूतिस्वरूपाचार्यकृतं सरस्वतीस्तोत्रं सम्पूर्णम् ॥
अनुभूतिस्वरूपाचार्यः प्रसिद्ध-सारस्वतव्याकरणकर्ता,
तथा अद्वैते प्रकटार्थविवरणादिबहुव्याख्याग्रन्थकर्ता
च । तं तत्कृतीश्चाधिकृत्य मया
भाण्डारकर-प्राच्यविद्यासंशोधन-संस्थापत्रिकाया
रजतोत्सवसञ्चिकायां (ABORI. Silver Jubilee Vol 1949, pp.352 to 368),
संस्कृतादिमातृकाबृहत्सूच्यां प्रथमभागे (New Catalogus Catalgarum
Vol I Revised edn pp. 208b, 209a) च विस्तरतो विचार्य लिखितम् ।
अत्र मुद्र्यमाणस्याचर्यस्य सरस्वतीस्तोत्रमितः पूर्वमज्ञातमिदं
प्रथमतया यदृच्छया
Please see scanned page for some details of the compositions
and footnote.
Encoded and proofread by Sunder Hattangadi