सरस्वतीस्तुतिः ३
ॐ सितवर्णालङ्कारे सरस्वति समस्तवाङ्मयाधारे ! ।
कमलजमानसवरटे मृगाङ्कधवले नमस्तुभ्यम् ॥ १॥
धन्यः स एव लोके स एव पूज्यः स एव सर्वगुरुः ।
यस्य मुखकमलकोशे वाङ्मया कुलदेवते वससि ॥ २॥
कस्त्वां विना विवेकी विवेकविकलस्य निष्फलं जन्म ।
तस्माद्भारति भविनां त्वमेव हेतुर्विवेकेऽपि ॥ ३॥
लक्ष्मीवानपि पुरुषः शूरः सुभगोऽपि कामसमरूपः ।
वृष इव विबुधसभायां प्रतिभात्यमले त्वया रहितः ॥ ४॥
मुनिमनुजमाननीयो मातर्मूर्खोऽपि मानवो दक्षः ।
निःशेषशास्त्रवक्ता त्वन्मन्त्रध्यानतो भवति ॥ ५॥
कुवलयदृशः क्व तावद्वेश्मनि विलसन्ति कुचभरानम्राः ।
यावदसिताब्जनयने न त्वं तुष्टासि देवि भुवि भविनाम् ॥ ६॥
जित्वा नरोरिराजकमगगुरुगजवाजिपुरुषबलसहितः ।
यदुपैति तत्समग्रं त्वच्चरणनुतेः फलं तस्य ॥ ७॥
आवर्जितापि कष्टैरिह जन्मनि मुञ्चति नरं श्रीः ।
न त्वं सप्तभवेष्विति मत्वा को नौति नो भवतीम् ॥ ८॥
कविवरवदनसरोरुहविहरणविस्रम्भविभ्रमद्भ्रमरि ।
भगवति पञ्चमुखीश्वरि वागीश्वरि नमस्तेऽस्तु ॥ ९॥
शम्भुप्रणतां वाणीं भक्त्या यः स्तौति सोऽचिरेणैव ।
अवहितबुद्धिप्रसरः कविराजो जायते मनुजः ॥ १०॥
इति सरस्वतीस्तुतिः समाप्ता ।
Proofread by Aruna Narayanan narayanan.aruna at gmail.com