श्रीशारदागीतिका
अयि शारदे ! मदीये हृदि मन्दिरे स्वकीये ।
कमनीयपादपद्मे कृपया त्वया निधेये ॥ १॥
श्रुतसाधनेन हीनाः शिशवस्तवाऽतिदीनाः ।
इह सन्ति तापलीना विविधाऽऽपदामधीनाः ॥ २॥
महदे ! शुभागमन्ते विदधामहे निशान्ते ।
कथनं त्विदं तवान्ते दययेहि दिव्यकान्ते ! ॥ ३॥
करुणाकटाक्षदानैर्दुरितोदधौ निमग्नान् ।
कथमीक्षसे न बालान् जगदम्ब ! पादलग्नान् ॥ ४॥
वसनं न चाऽशनन्ते सकलाः सुता लभन्ते ।
अत एव चास्थिशेषा विकलाः क्षुधा म्रियन्ते ॥ ५॥
पददर्शने कृताऽऽशा इह पुत्रकास्त्वदीयाः ।
त्वरया दयस्व मातः ! विलपन्ति भारतीयाः ॥ ६॥
भवजालमालयाऽलं तव लङ्घिताऽङ्घ्रिकार्ये ।
शिवशङ्करेऽतिदीने कलुषं न धार्यमार्ये ! ॥ ७॥
इति श्रीशारदागीतिका समाप्ता ।
१९९६ विक्रमाब्दीयवसन्तपञ्चम्यां
श्री शारदापूजोपलक्ष्ये मटिहानी विद्यालये छात्रवृन्दैर्गीता
From Suryodaya Magazine, April-May 1940
Encoded and proofread by Megha Jogithaya