श्रीशारदास्तवः ३
(शिष्याशीर्वचनात्मकस्तवाः)
श्रीरामलक्ष्मणाविव सौहार्दं प्राप्य सुस्थिरं सुचिरम् ।
श्रीचामराजपुत्रौ जीयास्तां शारदाम्ब तव कृपया ॥ १॥
भारति सम्पद्भरितौ बुद्ध्या चैवातितीक्ष्णया पूर्णौ ।
आयुष्मन्तौ सुखिनौ भूयास्तां चामराजसुकुमारौ ॥ २॥
राज्याभिवृद्धिमतुलां प्रापय्याश्वेभपत्तिवृद्धिं च ।
पालय कमलजजाये चामक्षितिपालवर्यसुकुमारौ ॥ ३॥
गजतुरगवाहनस्थावपि रथमध्येषु सुस्थितौ वाणि ।
संरक्ष सन्ततं बहुकरुणे श्रीचामराजसुकुमारौ ॥ ४॥
देवद्विजगुरुभक्तिं सुदृढां दत्त्वा च विनयसम्पत्तिम् ।
पालय पद्मजमानिनि सततं श्रीचामराजसुकुमारौ ॥ ५॥
गिरिसानुषु गहनेष्वपि मार्गेष्वनिशं समस्तदेशेषु ।
सर्वापद्भ्यः पालय विधिभामिनि चामराजसुकुमारौ ॥ ६॥
वाक्पाटवमतिदृढतां नीरोगत्वं च वपुषि सुयशश्च ।
दत्त्वाब्जयोनिजाये कारुण्यात्पाहि चामनृपपुत्रौ ॥ ७॥
वश्यान्विधाय नृपतीन्दत्त्वा चैकातपत्रसाम्राज्यम् ।
श्रीचक्रकृतनिवासे वाण्यव चामावनीपसुकुमारौ ॥ ८॥
श्रीनाथमुखनिषेव्ये श्रीविद्यादानदक्षपदविनुते ।
श्रीशारदाम्ब पाहि श्रीमन्तौ चामराजसुकुमारौ ॥ ९॥
वाणि तावकविलाससमुत्थौ पाणिनिर्जितपयोरुहगर्वौ ।
सामवेदनुतदिव्यचरित्रे चामभूपतनयौ परिपाहि ॥ १०॥
यद्यस्ति मयि कृपा तव विनुता स्तुत्यानया गिरां देवि ।
शिष्याविमौ मदीयौ पाहि श्रीचामराजसुकुमारौ ॥ ११॥
इति शृङ्गेरि श्रीजगद्गुरु श्रीसच्चिदानन्दशिवाभिनवनृसिंह-
भारतीस्वामिभिः विरचितः शारदास्तवः (३) सम्पूर्णः ।
Proofread by PSA Easwaran