श्रीश्यामलासहस्रनामावलिः
विनियोगः ।
अस्य श्रीश्यामलापरमेश्वरीनामसाहस्रस्तोत्रमाला मन्त्रस्य,
सदाशिव ऋषिः । अनुष्टुप्छन्दः ।
श्रीराजराजेश्वरी श्यामला परमेश्वरी देवता ।
चतुर्विधपुरुषार्थसिद्ध्यर्थे नामपारायणे विनियोगः ।
ध्यानम् -
ध्यायेऽयं रत्नपीठे शुककलपठितं शृण्वतीं श्यामलाङ्गीं (ध्यायेऽहं)
न्यस्तैकाङ्घ्रिं सरोजे शशिशकलधरां वल्लकीं वादयन्तीम् ।
कह्लाराबद्धमालां नियमितविलसच्चोलिकां रक्तवस्त्रां
मातङ्गीं शङ्खपात्रां मधुरमधुमदां चित्रकोद्भासिभालाम् ॥
मातङ्गीं भूषिताङ्गीं मधुमदमुदितां नीपमालाढ्यवेणीं
सद्वीणां शोणचेलां मृगमदतिलकां इन्दुरेखाऽवतंसाम् ।
कर्णोद्यच्छङ्खपत्रां स्मितमधुरदृशा साधकस्येष्टदात्रीं
ध्यायेद्देवीं शुकाभां शुकमखिलकलारूपमस्याश्च पार्श्वे ॥
पञ्चपूजा -
लं पृथिव्यात्मिकायै गन्धं कल्पयामि ।
हं आकाशात्मिकायै पुष्पाणि कल्पयामि ।
यं वाय्वात्मिकायै धूपं कल्पयामि ।
रं अग्न्यात्मिकायै दीपं कल्पयामि ।
वं अमृतात्मिकायै अमृतं महानैवेद्यं कल्पयामि ।
सं सर्वात्मिकायै ताम्बूलादि समस्तोपचारान् कल्पयामि ।
अथ श्रीश्यामलासहस्रनामावलिः ।
ॐ सौभाग्यलक्ष्म्यै नमः ।
ॐ सौन्दर्यनिधये नमः ।
ॐ समरसप्रियायै नमः ।
ॐ सर्वकल्याणनिलयायै नमः ।
ॐ सर्वेश्यै नमः ।
ॐ सर्वमङ्गलायै नमः ।
ॐ सर्ववश्यकर्यै नमः ।
ॐ सर्वायै नमः ।
ॐ सर्वमङ्गलदायिन्यै नमः ।
ॐ सर्वविद्यादानदक्षायै नमः । (१०)
ॐ सङ्गीतोपनिषत्प्रियायै नमः ।
ॐ सर्वभूतहृदावासायै नमः ।
ॐ सर्वगीर्वाणपूजितायै नमः ।
ॐ समृद्धायै नमः ।
ॐ सङ्गमुदितायै नमः ।
ॐ सर्वलोकैकसंश्रयायै नमः ।
ॐ सप्तकोटिमहामन्त्रस्वरूपायै नमः ।
ॐ सर्वसाक्षिण्यै नमः ।
ॐ सर्वाङ्गसुन्दर्यै नमः ।
ॐ सर्वगतायै नमः । (२०)
ॐ सत्यस्वरूपिण्यै नमः ।
ॐ समायै नमः ।
ॐ समयसंवेद्यायै नमः ।
ॐ समयज्ञायै नमः ।
ॐ सदाशिवायै नमः ।
ॐ सङ्गीतरसिकायै नमः ।
ॐ सर्वकलामयशुकप्रियायै नमः ।
ॐ चन्दनालेपदिग्धाङ्ग्यै नमः ।
ॐ सच्चिदानन्दरूपिण्यै नमः ।
ॐ कदम्बवाटीनिलयायै नमः । (३०)
ॐ कमलाकान्तसेवितायै नमः ।
ॐ कटाक्षोत्पन्नकन्दर्पायै नमः ।
ॐ कटाक्षितमहेश्वरायै नमः ।
ॐ कल्याण्यै नमः ।
ॐ कमलासेव्यायै नमः ।
ॐ कल्याणाचलवासिन्यै नमः ।
ॐ कान्तायै नमः ।
ॐ कन्दर्पजनन्यै नमः ।
ॐ करुणारससागरायै नमः ।
ॐ कलिदोषहरायै नमः । (४०)
ॐ काम्यायै नमः ।
ॐ कामदायै नमः ।
ॐ कामवर्धिन्यै नमः ।
ॐ कदम्बकलिकोत्तंसायै नमः ।
ॐ कदम्बकुसुमप्रियायै नमः ।
ॐ कदम्बमूलरसिकायै नमः ।
ॐ कामाक्ष्यै नमः ।
ॐ कमलाननायै नमः ।
ॐ कम्बुकण्ठ्यै नमः ।
ॐ कलालापायै नमः । (५०)
ॐ कमलासनपूजितायै नमः ।
ॐ कात्यायन्यै नमः ।
ॐ केलिपरायै नमः ।
ॐ कमलाक्षसहोदर्यै नमः ।
ॐ कमलाक्ष्यै नमः ।
ॐ कलारूपायै नमः ।
ॐ कोकाकारकुचद्वयायै नमः ।
ॐ कोकिलायै नमः ।
ॐ कोकिलारावायै नमः ।
ॐ कुमारजनन्यै नमः । (६०)
ॐ शिवायै नमः ।
ॐ सर्वज्ञायै नमः ।
ॐ सन्ततोन्मत्तायै नमः ।
ॐ सर्वैश्वर्यप्रदायिन्यै नमः ।
ॐ सुधाप्रियायै नमः ।
ॐ सुराराध्यायै नमः ।
ॐ सुकेश्यै नमः ।
ॐ सुरसुन्दर्यै नमः ।
ॐ शोभनायै नमः ।
ॐ शुभदायै नमः । (७०)
ॐ शुद्धायै नमः ।
ॐ शुद्धचित्तैकवासिन्यै नमः ।
ॐ वेदवेद्यायै नमः ।
ॐ वेदमय्यै नमः ।
ॐ विद्याधरगणार्चितायै नमः ।
ॐ वेदान्तसारायै नमः ।
ॐ विश्वेश्यै नमः ।
ॐ विश्वरूपायै नमः ।
ॐ विरूपिण्यै नमः ।
ॐ विरूपाक्षप्रियायै नमः । (८०)
ॐ विद्यायै नमः ।
ॐ विन्ध्याचलनिवासिन्यै नमः ।
ॐ वीणावादविनोदज्ञायै नमः ।
ॐ वीणागानविशारदायै नमः ।
ॐ वीणावत्यै नमः ।
ॐ बिन्दुरूपायै नमः ।
ॐ ब्रह्माण्यै नमः ।
ॐ ब्रह्मरूपिण्यै नमः ।
ॐ पार्वत्यै नमः ।
ॐ परमायै नमः । (९०)
ॐ अचिन्त्यायै नमः ।
ॐ परायै शक्त्यै नमः ।
ॐ परात्परायै नमः ।
ॐ परानन्दायै नमः ।
ॐ परेशान्यै नमः ।
ॐ परविद्यायै नमः ।
ॐ परापरायै नमः ।
ॐ भक्तप्रियायै नमः ।
ॐ भक्तिगम्यायै नमः ।
ॐ भक्तानां परमायै गत्यै नमः । (१००)
ॐ भव्यायै नमः ।
ॐ भवप्रियायै नमः ।
ॐ भीरवे नमः ।
ॐ भवसागरतारिण्यै नमः ।
ॐ भयघ्न्यै नमः ।
ॐ भावुकायै नमः ।
ॐ भव्यायै नमः ।
ॐ भामिन्यै नमः ।
ॐ भक्तपालिन्यै नमः ।
ॐ भेदशून्यायै नमः । (११०)
ॐ भेदहन्त्र्यै नमः ।
ॐ भावनायै नमः ।
ॐ मुनिभावितायै नमः ।
ॐ मायायै नमः ।
ॐ महेश्वर्यै नमः ।
ॐ मान्यायै नमः ।
ॐ मातङ्ग्यै नमः ।
ॐ मलयालयायै नमः ।
ॐ महनीयायै नमः ।
ॐ मदोन्मत्तायै नमः । (१२०)
ॐ मन्त्रिण्यै नमः ।
ॐ मन्त्रनायिकायै नमः ।
ॐ महाऽऽनन्दायै नमः ।
ॐ मनोगम्यायै नमः ।
ॐ मतङ्गकुलमण्डनायै नमः ।
ॐ मनोज्ञायै नमः ।
ॐ मानिन्यै नमः ।
ॐ माध्वीसिन्धुमध्यकृतालयायै नमः ।
ॐ मधुप्रीतायै नमः ।
ॐ नीलकचायै नमः । (१३०)
ॐ माध्वीरसमदालसायै नमः ।
ॐ पूर्णचन्द्राभवदनायै नमः ।
ॐ पूर्णायै नमः ।
ॐ पुण्यफलप्रदायै नमः ।
ॐ पुलोमजार्चितायै नमः ।
ॐ पूज्यायै नमः ।
ॐ पुरुषार्थप्रदायिन्यै नमः ।
ॐ नारायण्यै नमः ।
ॐ नादरूपायै नमः ।
ॐ नादब्रह्मस्वरूपिण्यै नमः । (१४०)
ॐ नित्यायै नमः ।
ॐ नवनवाकारायै नमः ।
ॐ नित्यानन्दायै नमः ।
ॐ निराकुलायै नमः ।
ॐ निटिलाक्षप्रियायै नमः ।
ॐ नेत्र्यै नमः ।
ॐ नीलेन्दीवरलोचनायै नमः ।
ॐ तमालकोमलाकारायै नमः ।
ॐ तरुण्यै नमः ।
ॐ तनुमध्यमायै नमः । (१५०)
ॐ तटित्पिशङ्गवसनायै नमः ।
ॐ तटित्कोटिसमद्युतये नमः ।
ॐ मधुरायै नमः ।
ॐ मङ्गलायै नमः ।
ॐ मेध्यायै नमः ।
ॐ मधुपानप्रिया सख्यै नमः ।
ॐ चित्कलायै नमः ।
ॐ चारुवदनायै नमः ।
ॐ सुखरूपायै नमः ।
ॐ सुखप्रदायै नमः । (१६०)
ॐ कूटस्थायै नमः ।
ॐ कौलिन्यै नमः ।
ॐ कूर्मपीठस्थायै नमः ।
ॐ कुटिलालकायै नमः ।
ॐ शान्तायै नमः ।
ॐ शान्तिमत्यै नमः ।
ॐ शान्त्यै नमः ।
ॐ श्यामलायै नमः ।
ॐ श्यामलाकृत्यै नमः ।
ॐ शङ्खिन्यै नमः । (१७०)
ॐ शङ्कर्यै नमः ।
ॐ शैव्यै नमः ।
ॐ शङ्खकुण्डलमण्डितायै नमः ।
ॐ कुन्ददन्तायै नमः ।
ॐ कोमलाङ्ग्यै नमः ।
ॐ कुमार्यै नमः ।
ॐ कुलयोगिन्यै नमः ।
ॐ निगर्भयोगिनीसेव्यायै नमः ।
ॐ निरन्तररतिप्रियायै नमः ।
ॐ शिवदूत्यै नमः । (१८०)
ॐ शिवकर्यै नमः ।
ॐ जटिलायै नमः ।
ॐ जगदाश्रयायै नमः ।
ॐ शाम्भव्यै नमः ।
ॐ योगिनिलयायै नमः ।
ॐ परचैतन्यरूपिण्यै नमः ।
ॐ दहराकाशनिलयायै नमः ।
ॐ दण्डिनीपरिपूजितायै नमः ।
ॐ सम्पत्करीगजारूढायै नमः ।
ॐ सान्द्रानन्दायै नमः । (१९०)
ॐ सुरेश्वर्यै नमः ।
ॐ चम्पकोद्भासितकचायै नमः ।
ॐ चन्द्रशेखरवल्लभायै नमः ।
ॐ चारुरूपायै नमः ।
ॐ चारुदत्यै नमः ।
ॐ चन्द्रिकायै नमः ।
ॐ शम्भुमोहिन्यै नमः ।
ॐ विमलायै नमः ।
ॐ विदुष्यै नमः ।
ॐ वाण्यै नमः । (२००)
ॐ कमलायै नमः ।
ॐ कमलासनायै नमः ।
ॐ करुणापूर्णहृदयायै नमः ।
ॐ कामेश्यै नमः ।
ॐ कम्बुकन्धरायै नमः ।
ॐ राजराजेश्वर्यै नमः ।
ॐ राजमातङ्ग्यै नमः ।
ॐ राजवल्लभायै नमः ।
ॐ सचिवायै नमः ।
ॐ सचिवेशान्यै नमः । (२१०)
ॐ सचिवत्वप्रदायिन्यै नमः ।
ॐ पञ्चबाणार्चितायै नमः ।
ॐ बालायै नमः ।
ॐ पञ्चम्यै नमः ।
ॐ परदेवतायै नमः ।
ॐ उमायै नमः ।
ॐ महेश्वर्यै नमः ।
ॐ गौर्यै नमः ।
ॐ सङ्गीतज्ञायै नमः ।
ॐ सरस्वत्यै नमः । (२२०)
ॐ कविप्रियायै नमः ।
ॐ काव्यकलायै नमः ।
ॐ कलौ सिद्धिप्रदायिन्यै नमः ।
ॐ ललितामन्त्रिण्यै नमः ।
ॐ रम्यायै नमः ।
ॐ ललिताराज्यपालिन्यै नमः ।
ॐ ललितासेवनपरायै नमः ।
ॐ ललिताज्ञावशंवदायै नमः ।
ॐ ललिताकार्यचतुरायै नमः ।
ॐ ललिताभक्तपालिन्यै नमः । (२३०)
ॐ ललितार्धासनारूढायै नमः ।
ॐ लावण्यरसशेवधये नमः ।
ॐ रञ्जन्यै नमः ।
ॐ लालितशुकायै नमः ।
ॐ लसच्चूलीवरान्वितायै नमः ।
ॐ रागिण्यै नमः ।
ॐ रमण्यै नमः ।
ॐ रामायै नमः ।
ॐ रत्यै नमः ।
ॐ रतिसुखप्रदायै नमः । (२४०)
ॐ भोगदायै नमः ।
ॐ भोग्यदायै नमः ।
ॐ भूमिप्रदायै नमः ।
ॐ भूषणशालिन्यै नमः ।
ॐ पुण्यलभ्यायै नमः ।
ॐ पुण्यकीर्त्यै नमः ।
ॐ पुरन्दरपुरेश्वर्यै नमः ।
ॐ भूमाऽऽनन्दायै नमः ।
ॐ भूतिकर्यै नमः ।
ॐ क्लीङ्कार्यै नमः । (२५०)
ॐ क्लिन्नरूपिण्यै नमः ।
ॐ भानुमण्डलमध्यस्थायै नमः ।
ॐ भामिन्यै नमः ।
ॐ भारत्यै नमः ।
ॐ धृत्यै नमः ।
ॐ नारायणार्चितायै नमः ।
ॐ नाथायै नमः ।
ॐ नादिन्यै नमः ।
ॐ नादरूपिण्यै नमः ।
ॐ पञ्चकोणस्थितायै नमः । (२६०)
ॐ लक्ष्म्यै नमः ।
ॐ पुराण्यै नमः ।
ॐ पुररूपिण्यै नमः ।
ॐ चक्रस्थितायै नमः ।
ॐ चक्ररूपायै नमः ।
ॐ चक्रिण्यै नमः ।
ॐ चक्रनायिकायै नमः ।
ॐ षट्चक्रमण्डलान्तःस्थायै नमः ।
ॐ ब्रह्मचक्रनिवासिन्यै नमः ।
ॐ अन्तरभ्यर्चनप्रीतायै नमः । (२७०)
ॐ बहिरर्चनलोलुपायै नमः ।
ॐ पञ्चाशत्पीठमध्यस्थायै नमः ।
ॐ मातृकावर्णरूपिण्यै नमः ।
ॐ महादेव्यै नमः ।
ॐ महाशक्त्यै नमः ।
ॐ महामायायै नमः ।
ॐ महामत्यै नमः ।
ॐ महारूपायै नमः ।
ॐ महादीप्त्यै नमः ।
ॐ महालावण्यशालिन्यै नमः । (२८०)
ॐ माहेन्द्र्यै नमः ।
ॐ मदिरादृप्तायै नमः ।
ॐ मदिरासिन्धुवासिन्यै नमः ।
ॐ मदिरामोदवदनायै नमः ।
ॐ मदिरापानमन्थरायै नमः ।
ॐ दुरितघ्न्यै नमः ।
ॐ दुःखहन्त्र्यै नमः ।
ॐ दूत्यै नमः ।
ॐ दूतरतिप्रियायै नमः ।
ॐ वीरसेव्यायै नमः । (२९०)
ॐ विघ्नहरायै नमः ।
ॐ योगिन्यै नमः ।
ॐ गणसेवितायै नमः ।
ॐ निजवीणारवानन्द-निमीलितविलोचनायै नमः ।
ॐ वज्रेश्वर्यै नमः ।
ॐ वश्यकर्यै नमः ।
ॐ सर्वचित्तविमोहिन्यै नमः ।
ॐ शबर्यै नमः ।
ॐ शम्बराराध्यायै नमः ।
ॐ शाम्बर्यै नमः । (३००)
ॐ सामसंस्तुतायै नमः ।
ॐ त्रिपुरामन्त्रजपिन्यै नमः ।
ॐ त्रिपुरार्चनतत्परायै नमः ।
ॐ त्रिलोकेश्यै नमः ।
ॐ त्रयीमात्रे नमः ।
ॐ त्रिमूर्त्यै नमः ।
ॐ त्रिदिवेश्वर्यै नमः ।
ॐ ऐङ्कार्यै नमः ।
ॐ सर्वजनन्यै नमः ।
ॐ सौःकार्यै नमः । (३१०)
ॐ संविदीश्वर्यै नमः ।
ॐ बोधायै नमः ।
ॐ बोधकर्यै नमः ।
ॐ बोध्यायै नमः ।
ॐ बुधाराध्यायै नमः ।
ॐ पुरातन्यै नमः ।
ॐ भण्डसोदरसंहर्त्र्यै नमः ।
ॐ भण्डसैन्यविनाशिन्यै नमः ।
ॐ गेयचक्ररथारूढायै नमः ।
ॐ गुरुमूर्त्यै नमः । (३२०)
ॐ कुलाङ्गनायै नमः ।
ॐ गान्धर्वशास्त्रमर्मज्ञायै नमः ।
ॐ गन्धर्वगणपूजितायै नमः ।
ॐ जगन्मात्रे नमः ।
ॐ जयकर्यै नमः ।
ॐ जनन्यै नमः ।
ॐ जनदेवतायै नमः ।
ॐ शिवाराध्यायै नमः ।
ॐ शिवार्धाङ्ग्यै नमः ।
ॐ शिञ्जन्मञ्जीरमण्डितायै नमः ।
ॐ सर्वात्मिकायै नमः । (३३१)
ॐ हृषीकेश्यै नमः ।
ॐ सर्वपापविनाशिन्यै नमः ।
ॐ सर्वरोगहरायै नमः ।
ॐ साध्यायै नमः ।
ॐ धर्मिण्यै नमः ।
ॐ धर्मरूपिण्यै नमः ।
ॐ आचारलभ्यायै नमः ।
ॐ स्वाचारायै नमः ।
ॐ खेचर्यै नमः । (३४०)
ॐ योनिरूपिण्यै नमः ।
ॐ पतिव्रतायै नमः ।
ॐ पाशहन्त्र्यै नमः ।
ॐ परमार्थस्वरूपिण्यै नमः ।
ॐ पण्डिता परिवाराढ्यायै नमः ।
ॐ पाषण्डमतभञ्जन्यै नमः ।
ॐ श्रीकर्यै नमः ।
ॐ श्रीमत्यै नमः ।
ॐ देव्यै नमः ।
ॐ बिन्दुनादस्वरूपिण्यै नमः । (३५०)
ॐ अपर्णायै नमः ।
ॐ हिमवत्पुत्र्यै नमः ।
ॐ दुर्गायै नमः ।
ॐ दुर्गतिहारिण्यै नमः ।
ॐ व्यालोलशङ्खताटङ्कायै नमः ।
ॐ विलसद्गण्डपालिकायै नमः ।
ॐ सुधामधुरसालापायै नमः ।
ॐ सिन्दूरतिलकोज्ज्वलायै नमः ।
ॐ अलक्तकारक्तपादायै नमः ।
ॐ नन्दनोद्यानवासिन्यै नमः । (३६०)
ॐ वासन्तकुसुमापीडायै नमः ।
ॐ वसन्तसमयप्रियायै नमः ।
ॐ ध्याननिष्ठायै नमः ।
ॐ ध्यानगम्यायै नमः ।
ॐ ध्येयायै नमः ।
ॐ ध्यानस्वरूपिण्यै नमः ।
ॐ दारिद्र्यहन्त्र्यै नमः ।
ॐ दौर्भाग्यशमन्यै नमः ।
ॐ दानवान्तकायै नमः ।
ॐ तीर्थरूपायै नमः । (३७०)
ॐ त्रिनयनायै नमः ।
ॐ तुरीयायै नमः ।
ॐ दोषवर्जितायै नमः ।
ॐ मेधाप्रदायिन्यै नमः ।
ॐ मेध्यायै नमः ।
ॐ मेदिन्यै नमः ।
ॐ मदशालिन्यै नमः ।
ॐ मधुकैटभसंहर्त्र्यै नमः ।
ॐ माधव्यै नमः ।
ॐ माधवप्रियायै नमः । (३८०)
ॐ महिलायै नमः ।
ॐ महिमासारायै नमः ।
ॐ शर्वाण्यै नमः ।
ॐ शर्मदायिन्यै नमः ।
ॐ रुद्राण्यै नमः ।
ॐ रुचिरायै नमः ।
ॐ रौद्र्यै नमः ।
ॐ रुक्मभूषणभूषितायै नमः ।
ॐ अम्बिकायै नमः ।
ॐ जगतां धात्र्यै नमः । (३९०)
ॐ जटिन्यै नमः ।
ॐ धूर्जटिप्रियायै नमः ।
ॐ सूक्ष्मस्वरूपिण्यै नमः ।
ॐ सौम्यायै नमः ।
ॐ सुरुचये नमः ।
ॐ सुलभायै नमः ।
ॐ शुभायै नमः ।
ॐ विपञ्चीकलनिक्वाण-विमोहितजगत्त्रयायै नमः ।
ॐ भैरवप्रेमनिलयायै नमः ।
ॐ भैरव्यै नमः । (४००)
ॐ भासुराकृत्यै नमः ।
ॐ पुष्पिण्यै नमः ।
ॐ पुण्यनिलयायै नमः ।
ॐ पुण्यश्रवणकीर्तनायै नमः ।
ॐ कुरुकुल्लायै नमः ।
ॐ कुण्डलिन्यै नमः ।
ॐ वागीश्यै नमः ।
ॐ नकुलेश्वर्यै नमः ।
ॐ वामकेश्यै नमः ।
ॐ गिरिसुतायै नमः । (४१०)
ॐ वार्तालीपरिपूजितायै नमः ।
ॐ वारुणीमदरक्ताक्ष्यै नमः ।
ॐ वन्दारुवरदायिन्यै नमः ।
ॐ कटाक्षस्यन्दिकरुणायै नमः ।
ॐ कन्दर्पमदवर्धिन्यै नमः ।
ॐ दूर्वाश्यामायै नमः ।
ॐ दुष्टहन्त्र्यै नमः ।
ॐ दुष्टग्रहविभेदिन्यै नमः ।
ॐ सर्वशत्रुक्षयकर्यै नमः ।
ॐ सर्वसम्पत्प्रवर्धिन्यै नमः । (४२०)
ॐ कबरीशोभिकल्हारायै नमः ।
ॐ कलशिञ्जितमेखलायै नमः ।
ॐ मृणालीतुल्यदोर्वल्ल्यै नमः ।
ॐ मृडान्यै नमः ।
ॐ मृत्युवर्जितायै नमः ।
ॐ मृदुलायै नमः ।
ॐ मृत्युसंहर्त्र्यै नमः ।
ॐ मञ्जुलायै नमः ।
ॐ मञ्जुभाषिण्यै नमः ।
ॐ कर्पूरवीटीकबलायै नमः । (४३०)
ॐ कमनीयकपोलभुवे नमः ।
ॐ कर्पूरक्षोददिग्धाङ्ग्यै नमः ।
ॐ कर्त्र्यै नमः ।
ॐ कारणवर्जितायै नमः ।
ॐ अनादिनिधनायै नमः ।
ॐ धात्र्यै नमः ।
ॐ धात्रीधरकुलोद्भवायै नमः ।
ॐ स्तोत्रप्रियायै नमः ।
ॐ स्तुतिमय्यै नमः ।
ॐ मोहिन्यै नमः । (४४०)
ॐ मोहहारिण्यै नमः ।
ॐ जीवरूपायै नमः ।
ॐ जीवकार्यै नमः ।
ॐ जीवन्मुक्तिप्रदायिन्यै नमः ।
ॐ भद्रपीठस्थितायै नमः ।
ॐ भद्रायै नमः ।
ॐ भद्रदायै नमः ।
ॐ भर्गभामिन्यै नमः ।
ॐ भगानन्दायै नमः ।
ॐ भगमय्यै नमः । (४५०)
ॐ भगलिङ्गायै नमः ।
ॐ भगेश्वर्यै नमः ।
ॐ मत्तमातङ्गगमनायै नमः ।
ॐ मातङ्गकुलमञ्जर्यै नमः ।
ॐ राजहंसगत्यै नमः ।
ॐ राज्ञ्यै नमः ।
ॐ राजराजसमर्चितायै नमः ।
ॐ भवान्यै नमः ।
ॐ पावन्यै नमः ।
ॐ काल्यै नमः । (४६०)
ॐ दक्षिणायै नमः ।
ॐ दक्षकन्यकायै नमः ।
ॐ हव्यवाहायै नमः ।
ॐ हविर्भोक्त्र्यै नमः ।
ॐ हारिण्यै नमः ।
ॐ दुःखहारिण्यै नमः ।
ॐ संसारतारिण्यै नमः ।
ॐ सौम्यायै नमः ।
ॐ सर्वेश्यै नमः ।
ॐ समरप्रियायै नमः । (४७०)
ॐ स्वप्नवत्यै नमः ।
ॐ जागरिण्यै नमः ।
ॐ सुषुप्तायै नमः ।
ॐ विश्वरूपिण्यै नमः ।
ॐ तैजस्यै नमः ।
ॐ प्राज्ञकलनायै नमः ।
ॐ चेतनायै नमः ।
ॐ चेतनावत्यै नमः ।
ॐ चिन्मात्रायै नमः ।
ॐ चिद्घनायै नमः । (४८०)
ॐ चेत्यायै नमः ।
ॐ चिच्छायायै नमः ।
ॐ चित्स्वरूपिण्यै नमः ।
ॐ निवृत्तिरूपिण्यै नमः ।
ॐ शान्त्यै नमः ।
ॐ प्रतिष्ठायै नमः ।
ॐ नित्यरूपिण्यै नमः ।
ॐ विद्यारूपायै नमः ।
ॐ शान्त्यतीतायै नमः ।
ॐ कलापञ्चकरूपिण्यै नमः । (४९०)
ॐ ह्रीङ्कार्यै नमः ।
ॐ ह्रीमत्यै नमः ।
ॐ हृद्यायै नमः ।
ॐ ह्रीच्छायायै नमः ।
ॐ हरिवाहनायै नमः ।
ॐ मूलप्रकृत्यै नमः ।
ॐ अव्यक्तायै नमः ।
ॐ व्यक्ताव्यक्तविनोदिन्यै नमः ।
ॐ यज्ञरूपायै नमः ।
ॐ यज्ञभोक्त्र्यै नमः । (५००)
ॐ यज्ञाङ्ग्यै नमः ।
ॐ यज्ञरूपिण्यै नमः ।
ॐ दीक्षितायै नमः ।
ॐ क्षमणायै नमः ।
ॐ क्षामायै नमः ।
ॐ क्षित्यै नमः ।
ॐ क्षान्त्यै नमः ।
ॐ श्रुत्यै नमः ।
ॐ स्मृत्यै नमः ।
ॐ एकस्यै नमः । (५१०)
ॐ अनेकस्यै नमः ।
ॐ कामकलायै नमः ।
ॐ कल्यायै नमः ।
ॐ कालस्वरूपिण्यै नमः ।
ॐ दक्षायै नमः ।
ॐ दाक्षायण्यै नमः ।
ॐ दीक्षायै नमः ।
ॐ दक्षयज्ञविनाशिन्यै नमः ।
ॐ गायत्र्यै नमः ।
ॐ गगनाकारायै नमः । (५२०)
ॐ गीर्देव्यै नमः ।
ॐ गरुडासनायै नमः ।
ॐ सावित्र्यै नमः ।
ॐ सकलाध्यक्षायै नमः ।
ॐ ब्रह्माण्यै नमः ।
ॐ ब्राह्मणप्रियायै नमः ।
ॐ जगन्नाथायै नमः ।
ॐ जगन्मूर्त्यै नमः ।
ॐ जगन्मृत्युनिवारिण्यै नमः ।
ॐ दृग्रूपायै नमः । (५३०)
ॐ दृश्यनिलयायै नमः ।
ॐ द्रष्ट्र्यै नमः ।
ॐ मन्त्र्यै नमः ।
ॐ चिरन्तन्यै नमः ।
ॐ विज्ञात्र्यै नमः ।
ॐ विपुलायै नमः ।
ॐ वेद्यायै नमः ।
ॐ वृद्धायै नमः ।
ॐ वर्षीयस्यै नमः ।
ॐ मह्यै नमः । (५४०)
ॐ आर्यायै नमः ।
ॐ कुहरिण्यै नमः ।
ॐ गुह्यायै नमः ।
ॐ गौर्यै नमः ।
ॐ गौतमपूजितायै नमः ।
ॐ नन्दिन्यै नमः ।
ॐ नलिन्यै नमः ।
ॐ नित्यायै नमः ।
ॐ नीत्यै नमः ।
ॐ नयविशारदायै नमः । (५५०)
ॐ गतागतज्ञायै नमः ।
ॐ गन्धर्व्यै नमः ।
ॐ गिरिजायै नमः ।
ॐ गर्वनाशिन्यै नमः ।
ॐ प्रियव्रतायै नमः ।
ॐ प्रमायै नमः ।
ॐ प्राणायै नमः ।
ॐ प्रमाणज्ञायै नमः ।
ॐ प्रियंवदायै नमः ।
ॐ अशरीरायै नमः । (५६०)
ॐ शरीरस्थायै नमः ।
ॐ नामरूपविवर्जितायै नमः ।
ॐ वर्णाश्रमविभागज्ञायै नमः ।
ॐ वर्णाश्रमविवर्जितायै नमः ।
ॐ नित्यमुक्तायै नमः ।
ॐ नित्यतृप्तायै नमः ।
ॐ निर्लेपायै नमः ।
ॐ निरवग्रहायै नमः ।
ॐ इच्छाज्ञानक्रियाशक्त्यै नमः ।
ॐ इन्दिरायै नमः । (५७०)
ॐ बन्धुराकृत्यै नमः ।
ॐ मनोरथप्रदायै नमः ।
ॐ मुख्यायै नमः ।
ॐ मानिन्यै नमः ।
ॐ मानवर्जितायै नमः ।
ॐ नीरागायै नमः ।
ॐ निरहङ्कारायै नमः ।
ॐ निर्नाशायै नमः ।
ॐ निरुपप्लवायै नमः ।
ॐ विचित्रायै नमः । (५८०)
ॐ चित्रचारित्रायै नमः ।
ॐ निष्कलायै नमः ।
ॐ निगमालयायै नमः ।
ॐ ब्रह्मविद्यायै नमः ।
ॐ ब्रह्मनाड्यै नमः ।
ॐ बन्धहन्त्र्यै नमः ।
ॐ बलिप्रियायै नमः ।
ॐ सुलक्षणायै नमः ।
ॐ लक्षणज्ञायै नमः ।
ॐ सुन्दरभ्रूलताञ्चितायै नमः । (५९०)
ॐ सुमित्रायै नमः ।
ॐ मालिन्यै नमः ।
ॐ सीमायै नमः ।
ॐ मुद्रिण्यै नमः ।
ॐ मुद्रिकाञ्चितायै नमः ।
ॐ रजस्वलायै नमः ।
ॐ रम्यमूर्त्यै नमः ।
ॐ जयायै नमः ।
ॐ जन्मविवर्जितायै नमः ।
ॐ पद्मालयायै नमः । (६००)
ॐ पद्मपीठायै नमः ।
ॐ पद्मिन्यै नमः ।
ॐ पद्मवर्णिन्यै नमः ।
ॐ विश्वम्भरायै नमः ।
ॐ विश्वगर्भायै नमः ।
ॐ विश्वेश्यै नमः ।
ॐ विश्वतोमुख्यै नमः ।
ॐ अद्वितीयायै नमः ।
ॐ सहस्राक्ष्यै नमः ।
ॐ विराड्रूपायै नमः । (६१०)
ॐ विमोचिन्यै नमः ।
ॐ सूत्ररूपायै नमः ।
ॐ शास्त्रकर्यै नमः ।
ॐ शास्त्रज्ञायै नमः ।
ॐ शस्त्रधारिण्यै नमः ।
ॐ वेदविदे नमः ।
ॐ वेदकृते नमः ।
ॐ वेद्यायै नमः ।
ॐ वित्तज्ञायै नमः ।
ॐ वित्तशालिन्यै नमः । (६२०)
ॐ विशदायै नमः ।
ॐ वैष्णव्यै नमः ।
ॐ ब्राह्म्यै नमः ।
ॐ वैरिञ्च्यै नमः ।
ॐ वाक्प्रदायिन्यै नमः ।
ॐ व्याख्यात्र्यै नमः ।
ॐ वामनायै नमः ।
ॐ वृद्ध्यै नमः ।
ॐ विश्वनाथायै नमः ।
ॐ विशारदायै नमः । (६३०)
ॐ मुद्रेश्वर्यै नमः ।
ॐ मुण्डमालायै नमः ।
ॐ काल्यै नमः ।
ॐ कङ्कालरूपिण्यै नमः ।
ॐ महेश्वरप्रीतिकर्यै नमः ।
ॐ महेश्वरपतिव्रतायै नमः ।
ॐ ब्रह्माण्डमालिन्यै नमः ।
ॐ बुध्न्यायै नमः ।
ॐ मतङ्गमुनिपूजितायै नमः ।
ॐ ईश्वर्यै नमः । (६४०)
ॐ चण्डिकायै नमः ।
ॐ चण्ड्यै नमः ।
ॐ नियन्त्र्यै नमः ।
ॐ नियमस्थितायै नमः ।
ॐ सर्वान्तर्यामिण्यै नमः ।
ॐ सेव्यायै नमः ।
ॐ सन्तत्यै नमः ।
ॐ सन्ततिप्रदायै नमः ।
ॐ तमालपल्लवश्यामायै नमः ।
ॐ ताम्रोष्ठ्यै नमः । (६५०)
ॐ ताण्डवप्रियायै नमः ।
ॐ नाट्यलास्यकर्यै नमः ।
ॐ रम्भायै नमः ।
ॐ नटराजप्रियाङ्गनायै नमः ।
ॐ अनङ्गरूपायै नमः ।
ॐ अनङ्गश्रियै नमः ।
ॐ अनङ्गेश्यै नमः ।
ॐ वसुन्धरायै नमः ।
ॐ साम्राज्यदायिन्यै नमः ।
ॐ सिद्धायै नमः । (६६०)
ॐ सिद्धेश्यै नमः ।
ॐ सिद्धिदायिन्यै नमः ।
ॐ सिद्धमात्रे नमः ।
ॐ सिद्धपूज्यायै नमः ।
ॐ सिद्धार्थायै नमः ।
ॐ वसुदायिन्यै नमः ।
ॐ भक्तिमत्कल्पलतिकायै नमः ।
ॐ भक्तिदायै नमः ।
ॐ भक्तवत्सलायै नमः ।
ॐ पञ्चशक्त्यर्चितपदायै नमः । (६७०)
ॐ परमात्मस्वरूपिण्यै नमः ।
ॐ अज्ञानतिमिरज्योत्स्नायै नमः ।
ॐ नित्याह्लादायै नमः ।
ॐ निरञ्जनायै नमः ।
ॐ मुग्धायै नमः ।
ॐ मुग्धस्मितायै नमः ।
ॐ मैत्र्यै नमः ।
ॐ मुग्धकेश्यै नमः ।
ॐ मधुप्रियायै नमः ।
ॐ कलापिन्यै नमः । (६८०)
ॐ कामकलायै नमः ।
ॐ कामकेल्यै नमः ।
ॐ कलावत्यै नमः ।
ॐ अखण्डायै नमः ।
ॐ निरहङ्कारायै नमः ।
ॐ प्रधानपुरुषेश्वर्यै नमः ।
ॐ रहःपूज्यायै नमः ।
ॐ रहःकेल्यै नमः ।
ॐ रहःस्तुत्यायै नमः ।
ॐ हरप्रियायै नमः । (६९०)
ॐ शरण्यायै नमः ।
ॐ गहनायै नमः ।
ॐ गुह्यायै नमः ।
ॐ गुहान्तःस्थायै नमः ।
ॐ गुहप्रसवे नमः ।
ॐ स्वसंवेद्यायै नमः ।
ॐ स्वप्रकाशायै नमः ।
ॐ स्वात्मस्थायै नमः ।
ॐ स्वर्गदायिन्यै नमः ।
ॐ निष्प्रपञ्चायै नमः । (७००)
ॐ निराधारायै नमः ।
ॐ नित्यानित्यस्वरूपिण्यै नमः ।
ॐ निर्मदायै नमः ।
ॐ नर्तक्यै नमः ।
ॐ कीर्त्यै नमः ।
ॐ निष्कामायै नमः ।
ॐ निष्कलायै नमः ।
ॐ कलायै नमः ।
ॐ अष्टमूर्त्यै नमः ।
ॐ अमोघायै नमः । (७१०)
ॐ उमायै नमः ।
ॐ नन्द्यादिगणपूजितायै नमः ।
ॐ यन्त्ररूपायै नमः ।
ॐ तन्त्ररूपायै नमः ।
ॐ मन्त्ररूपायै नमः ।
ॐ मनोन्मन्यै नमः ।
ॐ शिवकामेश्वर्यै नमः ।
ॐ देव्यै नमः ।
ॐ चिद्रूपायै नमः ।
ॐ चित्तरङ्गिण्यै नमः । (७२०)
ॐ चित्स्वरूपायै नमः ।
ॐ चित्प्रकाशायै नमः ।
ॐ चिन्मूर्त्यै नमः ।
ॐ चिन्मय्यै नमः ।
ॐ चित्यै नमः ।
ॐ मूर्खदूरायै नमः ।
ॐ मोहहन्त्र्यै नमः ।
ॐ मुख्यायै नमः ।
ॐ क्रोडमुखीसख्यै नमः ।
ॐ ज्ञानज्ञातृज्ञेयरूपायै नमः । (७३०)
ॐ व्योमाकारायै नमः ।
ॐ विलासिन्यै नमः ।
ॐ विमर्शरूपिण्यै नमः ।
ॐ वश्यायै नमः ।
ॐ विधानज्ञायै नमः ।
ॐ विजृम्भितायै नमः ।
ॐ केतकीकुसुमापीडायै नमः ।
ॐ कस्तूरीतिलकोज्ज्वलायै नमः ।
ॐ मृग्यायै नमः ।
ॐ मृगाक्ष्यै नमः । (७४०)
ॐ रसिकायै नमः ।
ॐ मृगनाभिसुगन्धिन्यै नमः ।
ॐ यक्षकर्दमलिप्ताङ्ग्यै नमः ।
ॐ यक्षिण्यै नमः ।
ॐ यक्षपूजितायै नमः ।
ॐ लसन्माणिक्यकटकायै नमः ।
ॐ केयूरोज्ज्वलदोर्लतायै नमः ।
ॐ सिन्दूरराजत्सीमन्तायै नमः ।
ॐ सुभ्रूवल्ल्यै नमः ।
ॐ सुनासिकायै नमः । (७५०)
ॐ कैवल्यदायै नमः ।
ॐ कान्तिमत्यै नमः ।
ॐ कठोरकुचमण्डलायै नमः ।
ॐ तलोदर्यै नमः ।
ॐ तमोहन्त्र्यै नमः ।
ॐ त्रयस्त्रिंशत्सुरात्मिकायै नमः ।
ॐ स्वयम्भुवे नमः ।
ॐ कुसुमामोदायै नमः ।
ॐ स्वयम्भुकुसुमप्रियायै नमः ।
ॐ स्वाध्यायिन्यै नमः । (७६०)
ॐ सुखाराध्यायै नमः ।
ॐ वीरश्रियै नमः ।
ॐ वीरपूजितायै नमः ।
ॐ द्राविण्यै नमः ।
ॐ विद्रुमाभोष्ठ्यै नमः ।
ॐ वेगिन्यै नमः ।
ॐ विष्णुवल्लभायै नमः ।
ॐ हालामदालसद्वाण्यै नमः ।
ॐ लोलायै नमः ।
ॐ लीलावत्यै नमः । (७७०)
ॐ रत्यै नमः ।
ॐ लोपामुद्रार्चितायै नमः ।
ॐ लक्ष्म्यै नमः ।
ॐ अहल्यापरिपूजितायै नमः ।
ॐ आब्रह्मकीटजनन्यै नमः ।
ॐ कैलासगिरिवासिन्यै नमः ।
ॐ निधीश्वर्यै नमः ।
ॐ निरातङ्कायै नमः ।
ॐ निष्कलङ्कायै नमः ।
ॐ जगन्मय्यै नमः । (७८०)
ॐ आदिलक्ष्म्यै नमः ।
ॐ अनन्तश्रियै नमः ।
ॐ अच्युतायै नमः ।
ॐ तत्त्वरूपिण्यै नमः ।
ॐ नामजात्यादिरहितायै नमः ।
ॐ नरनारायणार्चितायै नमः ।
ॐ गुह्योपनिषदुद्गीतायै नमः ।
ॐ लक्ष्मीवाणीनिषेवितायै नमः ।
ॐ मतङ्गवरदायै नमः ।
ॐ सिद्धायै नमः । (७९०)
ॐ महायोगीश्वर्यै नमः ।
ॐ गुरवे नमः ।
ॐ गुरुप्रियायै नमः ।
ॐ कुलाराध्यायै नमः ।
ॐ कुलसङ्केतपालिन्यै नमः ।
ॐ चिच्चन्द्रमण्डलान्तःस्थायै नमः ।
ॐ चिदाकाशस्वरूपिण्यै नमः ।
ॐ अनङ्गशास्त्रतत्त्वज्ञायै नमः ।
ॐ नानाविधरसप्रियायै नमः ।
ॐ निर्मलायै नमः । (८००)
ॐ निरवद्याङ्ग्यै नमः ।
ॐ नीतिज्ञायै नमः ।
ॐ नीतिरूपिण्यै नमः ।
ॐ व्यापिन्यै नमः ।
ॐ विबुधश्रेष्ठायै नमः ।
ॐ कुलशैलकुमारिकायै नमः ।
ॐ विष्णुप्रसवे नमः ।
ॐ वीरमात्रे नमः ।
ॐ नासामणिविराजितायै नमः ।
ॐ नायिकानगरीसंस्थायै नमः । (८१०)
ॐ नित्यतुष्टायै नमः ।
ॐ नितम्बिन्यै नमः ।
ॐ पञ्चब्रह्ममय्यै नमः ।
ॐ प्राञ्च्यै नमः ।
ॐ ब्रह्मात्मैक्यस्वरूपिण्यै नमः ।
ॐ सर्वोपनिषदुद्गीतायै नमः ।
ॐ सर्वानुग्रहकारिण्यै नमः ।
ॐ पवित्रायै नमः ।
ॐ पावनायै नमः ।
ॐ पूतायै नमः । (८२०)
ॐ परमात्मस्वरूपिण्यै नमः ।
ॐ सूर्येन्दुवह्निनयनायै नमः ।
ॐ सूर्यमण्डलमध्यगायै नमः ।
ॐ गायत्र्यै नमः ।
ॐ गात्ररहितायै नमः ।
ॐ सुगुणायै नमः ।
ॐ गुणवर्जितायै नमः ।
ॐ रक्षाकर्यै नमः ।
ॐ रम्यरुपायै नमः ।
ॐ सात्त्विकायै नमः । (८३०)
ॐ सत्त्वदायिन्यै नमः ।
ॐ विश्वातीतायै नमः ।
ॐ व्योमरूपायै नमः ।
ॐ सदार्चनजपप्रियायै नमः ।
ॐ आत्मभुवे नमः ।
ॐ अजितायै नमः ।
ॐ जिष्णवे नमः ।
ॐ अजायै नमः ।
ॐ स्वाहायै नमः ।
ॐ स्वधायै नमः । (८४०)
ॐ सुधायै नमः ।
ॐ नन्दिताशेषभुवनायै नमः ।
ॐ नामसङ्कीर्तनप्रियायै नमः ।
ॐ गुरुमूर्त्यै नमः ।
ॐ गुरुमय्यै नमः ।
ॐ गुरुपादार्चनप्रियायै नमः ।
ॐ गोब्राह्मणात्मिकायै नमः ।
ॐ गुर्व्यै नमः ।
ॐ नीलकण्ठ्यै नमः ।
ॐ निरामयायै नमः । (८५०)
ॐ मानव्यै नमः ।
ॐ मन्त्रजनन्यै नमः ।
ॐ महाभैरवपूजितायै नमः ।
ॐ नित्योत्सवायै नमः ।
ॐ नित्यपुष्टायै नमः ।
ॐ श्यामायै नमः ।
ॐ यौवनशालिन्यै नमः ।
ॐ महनीयायै नमः ।
ॐ महामूर्त्यै नमः ।
ॐ महत्यै सौख्यसन्तत्यै नमः । (८६०)
ॐ पूर्णोदर्यै नमः ।
ॐ हविर्धात्र्यै नमः ।
ॐ गणाराध्यायै नमः ।
ॐ गणेश्वर्यै नमः ।
ॐ गायनायै नमः ।
ॐ गर्वरहितायै नमः ।
ॐ स्वेदबिन्दूल्लसन्मुख्यै नमः ।
ॐ तुङ्गस्तन्यै नमः ।
ॐ तुलाशून्यायै नमः ।
ॐ कन्यायै नमः । (८७०)
ॐ कमलवासिन्यै नमः ।
ॐ शृङ्गारिण्यै नमः ।
ॐ श्रियै नमः ।
ॐ श्रीविद्यायै नमः ।
ॐ श्रीप्रदायै नमः ।
ॐ श्रीनिवासिन्यै नमः ।
ॐ त्रैलोक्यसुन्दर्यै नमः ।
ॐ बालायै नमः ।
ॐ त्रैलोक्यजनन्यै नमः ।
ॐ सुधिये नमः । (८८०)
ॐ पञ्चक्लेशहरायै नमः ।
ॐ पाशधारिण्यै नमः ।
ॐ पशुमोचन्यै नमः ।
ॐ पाषण्डहन्त्र्यै नमः ।
ॐ पापघ्न्यै नमः ।
ॐ पार्थिवश्रीकर्यै नमः ।
ॐ धृत्यै नमः ।
ॐ निरपायायै नमः ।
ॐ दुरापायै नमः ।
ॐ यस्यै नमः । (८९०)
ॐ सुलभायै नमः ।
ॐ शोभनाकृत्यै नमः ।
ॐ महाबलायै नमः ।
ॐ भगवत्यै नमः ।
ॐ भवरोगनिवारिण्यै नमः ।
ॐ भैरवाष्टकसंसेव्यायै नमः ।
ॐ ब्राह्म्यादिपरिवारितायै नमः ।
ॐ वामादिशक्तिसहितायै नमः ।
ॐ वारुणीमदविह्वलायै नमः ।
ॐ वरिष्ठायै नमः । (९००)
ॐ वश्यदायै नमः ।
ॐ वश्यायै नमः ।
ॐ भक्तार्तिदमनायै नमः ।
ॐ शिवायै नमः ।
ॐ वैराग्यजनन्यै नमः ।
ॐ ज्ञानदायिन्यै नमः ।
ॐ ज्ञानविग्रहायै नमः ।
ॐ सर्वदोषविनिर्मुक्तायै नमः ।
ॐ शङ्करार्धशरीरिण्यै नमः ।
ॐ सर्वेश्वरप्रियतमायै नमः । (९१०)
ॐ स्वयञ्ज्योतिः स्वरूपिण्यै नमः ।
ॐ क्षीरसागरमध्यस्थायै नमः ।
ॐ महाभुजगशायिन्यै नमः ।
ॐ कामधेन्वै नमः ।
ॐ बृहद्गर्भायै नमः ।
ॐ योगनिद्रायै नमः ।
ॐ युगन्धरायै नमः ।
ॐ महेन्द्रोपेन्द्रजनन्यै नमः ।
ॐ मातङ्गकुलसम्भवायै नमः ।
ॐ मतङ्गजातिसम्पूज्यायै नमः ।
ॐ मतङ्गकुलदेवतायै नमः । (९२१)
ॐ गुह्यविद्यायै नमः ।
ॐ वश्यविद्यायै नमः ।
ॐ सिद्धविद्यायै नमः ।
ॐ शिवाङ्गनायै नमः ।
ॐ सुमङ्गलायै नमः ।
ॐ रत्नगर्भायै नमः ।
ॐ सूर्यमात्रे नमः ।
ॐ सुधाशनायै नमः ।
ॐ खड्गमण्डलसम्पूज्यायै नमः ।
ॐ सालग्रामनिवासिन्यै नमः । (९३१)
ॐ दुर्जयायै नमः ।
ॐ दुष्टदमनायै नमः ।
ॐ दुर्निरीक्ष्यायै नमः ।
ॐ दुरत्ययायै नमः ।
ॐ शङ्खचक्रगदाहस्तायै नमः ।
ॐ विष्णुशक्त्यै नमः ।
ॐ विमोहिन्यै नमः ।
ॐ योगमात्रे नमः ।
ॐ योगगम्यायै नमः । (९४०)
ॐ योगनिष्ठायै नमः ।
ह्रीश्यामलासहस्रनामावलिःं सुधास्रवायै नमः ।
ॐ समाधिनिष्ठैः संवेद्यायै नमः ।
ॐ सर्वभेदविवर्जितायै नमः ।
ॐ साधारणायै नमः ।
ॐ सरोजाक्ष्यै नमः ।
ॐ सर्वज्ञायै नमः ।
ॐ सर्वसाक्षिण्यै नमः ।
ॐ महाशक्त्यै नमः ।
ॐ महोदारायै नमः । (९५०)
ॐ महामङ्गलदेवतायै नमः ।
ॐ कलौ कृतावतरणायै नमः ।
ॐ कलिकल्मषनाशिन्यै नमः ।
ॐ सर्वदायै नमः ।
ॐ सर्वजनन्यै नमः ।
ॐ निरीशायै नमः ।
ॐ सर्वतोमुख्यै नमः ।
ॐ सुगूढायै नमः ।
ॐ सर्वतोभद्रायै नमः ।
ॐ सुस्थितायै नमः । (९६०)
ॐ स्थाणुवल्लभायै नमः ।
ॐ चराचरजगद्रूपायै नमः ।
ॐ चेतनाचेतनाकृत्यै नमः ।
ॐ महेश्वरप्राणनाड्यै नमः ।
ॐ महाभैरवमोहिन्यै नमः ।
ॐ मञ्जुलायै नमः ।
ॐ यौवनोन्मत्तायै नमः ।
ॐ महापातकनाशिन्यै नमः ।
ॐ महानुभावायै नमः ।
ॐ माहेन्द्र्यै नमः । (९७०)
ॐ महामरकतप्रभायै नमः ।
ॐ सर्वशक्त्यासनायै नमः ।
ॐ शक्त्यै नमः ।
ॐ निराभासायै नमः ।
ॐ निरिन्द्रियायै नमः ।
ॐ समस्तदेवतामूर्त्यै नमः ।
ॐ समस्तसमयार्चितायै नमः ।
ॐ सुवर्चलायै नमः ।
ॐ वियन्मूर्त्यै नमः ।
ॐ पुष्कलायै नमः । (९८०)
ॐ नित्यपुष्पिण्यै नमः ।
ॐ नीलोत्पलदलश्यामायै नमः ।
ॐ महाप्रलयसाक्षिण्यै नमः ।
ॐ सङ्कल्पसिद्धायै नमः ।
ॐ सङ्गीतरसिकायै नमः ।
ॐ रसदायिन्यै नमः ।
ॐ अभिन्नायै नमः ।
ॐ ब्रह्मजनन्यै नमः ।
ॐ कालक्रमविवर्जितायै नमः ।
ॐ अजपायै नमः । (९९०)
ॐ जाड्यरहितायै नमः ।
ॐ प्रसन्नायै नमः ।
ॐ भगवत्प्रियायै नमः ।
ॐ इन्दिरायै नमः ।
ॐ जगतीकन्दायै नमः ।
ॐ सच्चिदानन्दकन्दल्यै नमः ।
ॐ श्रीचक्रनिलयायै नमः ।
ॐ देव्यै नमः ।
ॐ श्रीविद्यायै नमः ।
ॐ श्रीप्रदायिनी नमः । (१०००)
पञ्चपूजा -
लं पृथिव्यात्मिकायै गन्धं कल्पयामि ।
हं आकाशात्मिकायै पुष्पाणि कल्पयामि ।
यं वाय्वात्मिकायै धूपं कल्पयामि ।
रं अग्न्यात्मिकायै दीपं कल्पयामि ।
वं अमृतात्मिकायै अमृतं महानैवेद्यं कल्पयामि ।
सं सर्वात्मिकायै ताम्बूलादि समस्तोपचारान् कल्पयामि ।
इति श्रीश्यामलासहस्रनामावलिः समाप्ता ।
Proofread by Srikrishnan Sankarasubramanian