श्रीतुरजासहस्रनामस्तोत्रम्
वरिष्ठ उवाच -
कथं नामसहस्रन्तु रामप्रोक्तं वदस्वमे ।
यानि गौणानि नामानि योगिकानि च शङ्कर ॥ १॥
तानि सर्वाणि कृपया साकल्येन तु कीर्तय ।
श्रुत्वाहं देव परमां सिद्धिं यास्यामि शाश्वतीम् ॥ २॥
श्रीशङ्कर उवाच -
नामानि ते प्रवक्ष्यामि तुरजायाः शुभानि च ।
एतानि प्रपठेद्विद्वान्नमो तानि मुनेश्वर ॥ ३॥
विनियोगः अङ्गन्यासश्च -
ॐ अस्य श्रीतुरजासहस्रनामस्तोत्रमन्त्रस्य
श्रीरामचन्द्रऋषीः शिरसि ।
अनुष्टुपछन्दसे नमः मुखे ।
श्रीतुरजादेवतायै नमः हृदये ।
श्रीं बीजायै नमः गुह्ये ।
ह्रीं शक्तये नमः पादयोः ।
क्लीं कीलकाय नमः सर्वाङ्गे ।
श्रीतुरजाप्रीत्यर्थे जपे विनियोगः ॥
अथ करन्यासः -
ॐ ह्रीं तुरजायै अङ्गुष्ठाभ्यां नमः ।
ॐ श्रीं तमजायै तर्जनीभ्यां नमः ।
ॐ क्लीं तीव्रायै मध्यमाभ्यां नमः ।
ॐ ब्रीं भैरव्यै अनामिकाभ्यां नमः ।
ॐ घ्रीं कालिकायै कनिष्ठिकाभ्यां नमः ।
ॐ फ्रीं भ्रीं स्वाहा सिद्धिप्रदायै करतलकरपृष्ठाभ्यां नमः ॥
अथ हृदयादिन्यासः ।
ॐ ह्रीं तुरजायै नमः हृदयाय नमः ।
ॐ श्रीं तमजायै नमः शिरसे स्वाहा ।
ॐ क्लीं तीव्रायै नमः शिखायै वषट् ।
ॐ ब्रीं भैरव्यै नमः कवचाय हुम् ।
ॐ घ्रीं कालिकायै नमः नेत्रत्रयाय वौषट् ।
ॐ फ्रीं भ्रीं स्वाहा सिद्धिप्रदायै नमः अस्त्राय फट् ।
ॐ भूर्भुवः स्वरोमिति दिग्बन्धः ॥
अथ ध्यानं -
श्यामां पूर्णेन्दुवदनां श्वेताम्बरधरां शिवाम् ।
महामेघनिनादान्तां निर्वाते दीपवत् स्थिराम् ।
भुजाष्टकयुतां बाणचापशूलगदाधराम् ।
खड्गं शङ्खं तथा चक्रं वरदां भयहारिणीम् ॥ १॥
शङ्करप्रियवामाङ्के वैष्णवी भयहारिणी ।
एवं रूपां तु तुरजां नमामि परमेश्वरीम् ॥ २॥
अथ सहस्रनामस्तोत्रम् ।
श्रीरामचन्द्र उवाच -
ॐ तुरजा तमजा तीव्रा त्रिविधा त्रिगुणात्मिका ।
पङ्कजा पद्मिनी पद्मा सुगन्धा गन्धवर्धिनी ॥ १॥
रसजा मूलजा धारा घटजा घटसंस्थिता ।
घटोदरी घटाकारा कर्णिका च निकुम्भिका ॥ २॥
गिरिजा शैलसंस्था च दुर्गजा दुर्गवासिनी ।
सिद्धिमार्गा मण्डलिनी उत्तरा तरला समा ॥ ३॥
अम्बष्ठा च शिरोनिष्ठा मनोनिष्ठा तु घोषिता ।
वाटिका मालिनि पुष्पा सुगन्धा मधुपा मधूः ॥ ४॥
बलादिका बलकरी पार्थिवी पार्थिवद्रुमा ।
रसाधिका तु निरसा स्वादुग्रा हितकाङ्क्षिणी ॥ ५॥
विजिता कुलिता शाखा छाया जटिलमूलिका ।
विस्तारा स्थावरा मौर्वी जङ्गमा निगमा गमा ॥ ६॥
भवानी भैरवी भूतिः प्रतिमा प्राणदा बलिः ।
दीपरूपा धूपगन्धा ज्वालामालाप्रकाशिनी ॥ ७॥
पञ्चानना च तिमिरा अरुणा श्यामला शुभा ।
पानप्रिया भुक्तिदा च पूजादि बलिभक्षिणी ॥ ८॥
महादेवी महामूर्धा दीर्घा चैव कुमारिका ।
महोदरी महानाभी बलदन्ती महाबला ॥ ९॥
सुरनिद्रा घोरनिद्रा भोगनिद्रा तु भोगदा ।
महानिद्रा मोहनिद्रा सुखनिद्रा सुखोद्भवा ॥ १०॥
खेटहस्ता पाशहस्ता गदाहस्ता च तोमरा ।
चक्रहस्ता शङ्खहस्ता चापहस्ता च बाणभृत् ॥ ११॥
सिन्दूरवर्णा उदिता अन्हा अन्धकघातिनी ।
अपर्णा च विकर्णा च परा चन्द्रकला तथा ॥ १२॥
पूर्णछिन्ना कौमुदी च निरस्ता च नवग्रहा ।
अक्षानक्ता कङ्कुमाभा कान्ता चैव कुमारिका ॥ १३॥
ॐ क्लीं कुमार्यै नमः ।
भ्रान्ता तरङ्गिणी काली कङ्काली नलकूबरी ।
कपालिनी काकमूर्धा करतन्त्री त्रिवादिनी ॥ १४॥
शालिका यन्त्रिणी दण्डी नाठिनी तुम्बरी तथा ।
तालनादप्रिया चैव मृदङ्गध्वनितत्परा ॥ १५॥
ॐ ह्रां ह्रीं ह्रूं ह्रैं ह्रौं ह्रः ।
रक्तपा रक्तलिप्ता च रक्तबीजनिपातिनी ॥
रक्ताक्षी रक्तसर्वा च रक्तदन्ती सुदन्तिका ॥ १६॥
रक्तदन्ता रक्तबिम्बा रक्तधाराप्रवाहिका ।
रक्तमूर्धा रक्तजिह्वा रसना भद्रकालिका ॥ १७॥
भद्रा सुभद्रा रुद्रार्द्रा सर्वाभद्रविनाशिनी ।
हिङ्गुला चैव हेमाङ्गी हयग्रीवा तपस्विनी ॥ १८॥
तर्पणा कर्षणा होमा सङ्कल्पा होत्रमन्त्रिका ।
स्रुवा दर्वी च द्रोणी च स्वाहा कलशवेदिका ॥ १९॥
आहुतिश्च समिद्दर्भा स्रुवा पिङ्गललोचना ।
प्रकृष्टा फलदा शान्ता पिता वेदोदया तथा ॥ २०॥
अपर्णा सुफला यज्ञा यज्ञाङ्गफलदायिनी ।
विश्वमाता विश्वबला विश्वगर्भा प्रवर्तिका ॥ २१॥
विश्वोदरी विश्वमुखी विश्वसम्भूतिकारिणी ।
विश्वेश्वरी विश्वधरा मरुद्भूता च सर्पिणी ॥ २२॥
पृथ्वीधरा पद्मिनी च नागी चैव तथोरगा ।
पक्षिणी मलयावासा धत्तूरकुसुमप्रिया ॥ २३॥
सलिलार्घ्यप्रिया शैला लिङ्गनिष्ठा च घण्टिका ।
शिखा दीक्षा च तुलसी सेवासंयमतत्परा ॥ २४॥
निवृत्ता शयना सुप्तासौ सुप्तिकजनप्रिया ।
वृत्तमाला च नियमा यज्ञिया चैव नन्दिनी ॥ २५॥
नारायणी तथामोघा प्रकटा तरुणी प्रिया ।
समुद्रा सङ्गमा पूर्णा कल्लोला ऊर्मिमालिनी ॥ २६॥
मुमूर्षा रोषरुष्टा च जुगुप्सितविरोधिनी ।
इन्दिरा ईडिता इन्द्रा नुता निलाम्बरा तथा ॥ २७॥
महाकृष्णा कृष्णवर्णा कृष्णस्रुक् कृष्णवासिनी ।
शुक्लाम्बरा कोटिचन्द्रा मार्तण्डा अग्निरुक्तथा ॥ २८॥
रत्नदन्ती रत्ननासा रत्नमालाविभूषणा ।
रत्नाम्बरा रत्नकञ्चु रत्नाक्षी रत्नकुण्डला ॥ २९॥
रत्नहस्ता रत्ननखा रत्नकङ्कणमण्डिता ।
रत्नछत्रा रत्नवर्णा रत्नेशा रत्नहेलिका ॥ ३०॥
रत्नासना रत्नराशी रत्नोष्ठी रत्नजिह्वीका ।
जगत्कर्त्री जगत्कार्या जगद्वासा जगन्निधिः ॥ ३१॥
जगत्प्राणा जगद्द्रष्टा जगज्जिह्वा जगद्रसा ।
जगच्चक्षुर्जगत्प्राणा जगच्छ्रोत्रा जगन्मुखी ॥ ३२॥
जगद्वन्द्या जगद्रूपा जगत्स्वप्ना च जागृती ।
जगच्छत्रा जगद्धात्री जगद्भर्त्री जगत्पिता ॥ ३३॥
जगत्पत्नी जगन्माता जगद्भ्राता तथा जगत् ।
जगज्जाया जगद्वन्द्या जगद्धर्मी जगन्मयी ॥ ३४॥
जगद्धात्री जगत्प्राणा जगद्योनिर्जगन्मयी ।
जगत्स्थितिर्जगत्सर्गो जगत्सर्वा जगन्मयी ॥ ३५॥
जगच्छाया जयन्ती च जगन्मोहा च जागृती ।
सर्वस्तम्भी महामाया जगद्दीक्षा तथा जया ॥ ३६॥
भक्तैकलभ्या द्विविधा त्रिविधा च चतुर्विधा ।
इन्द्राक्षी पञ्चरूपा च सहस्ररूपधारिणी ॥ ३७॥
रुद्राक्षी कमलाक्षी च तिमिरा दीपिका तथा ।
वर्तिरूपा हडा तैला प्रख्या निर्वाणिका शिवा ॥ ३८॥
मूलाद्रिवासिनी चैव वराटी मूलिका परा ।
ॐ ह्रां ह्रीं ह्रूं महाकाल्यै नमः ।
मूलज्वाला मूलमन्त्रा मधुकैटभघातिनी ॥ ३९॥
सप्तज्वाला महाज्वाला तथा वै ज्वालमालिनी ।
नवकुम्भा नवरुचिः कामज्वाला नवानना ॥ ४०॥
गर्भज्वाला तथा बाला चक्षुर्बाला नवाम्बरा ।
नवभूतिर्नवबला नवरक्ता नवावृता ॥ ४१॥
नवखण्डा तथा देशा नवदण्डा नवाक्षरा ।
नवजङ्घा सुवीर्या च नवदुर्गा च जाग्रतिः ॥ ४२॥
नवमार्गा च नवमी नवसस्या नवेश्वरी ।
नवरूपा नवकला नवनाडी नवानना ॥ ४३॥
नवक्रीडा नवविधा नवयोगिनिका तथा ।
नवमी मङ्गला चैव विजया दशमी तथा ॥ ४४॥
ॐ ऐं ह्रीं क्लीं त्रिमूर्त्यात्मिकायै नमः ।
याम्या दिग्वासिनी चैव विदिशा च दिशा तथा ।
कुलुपाद्यन्तरिक्षा च तथा वै दक्षिणामुखी ॥ ४५॥
दधिवर्णा रामवरदा दशास्यवंशभेदिनी ।
विन्ध्यासिनी सिद्धिहस्ता अन्नपूर्णा च सुन्दरी ॥ ४६॥
अष्टाक्षरपरानन्दा चामुण्डा मुण्डवाहिनी ।
पीताम्बरा दीप्तिहस्ता मङ्गला मङ्गलोदया ॥ ४७॥
कालनाशा कर्मनाशा कलिनाशा च कालिका ।
एणरूपा वृषाश्वा च अजा क्रोडा च कुक्कुटी ॥ ४८॥
सुकण्ठा कोकिला काली मुखरी वैखरी मृगी ।
मयूरी माक्षिणी गृध्री बलाका च करालिनी ॥ ४९॥
जलनिष्ठा काकजङ्घा निर्गुणा गुरुवन्दिता ।
भ्रामरी अम्बिका मन्दा अदन्ता च सुदन्तिका ॥ ५०॥
उत्तुङ्गा कलशा शोका चतुर्दन्ता भुशुण्डिनी ।
ऊर्ध्वनेत्रा ऊर्ध्वमुखी तेजिष्ठा त्राटिका रविः ॥ ५१॥
रथिनी रथसंस्था च चक्रिका रथवाहिनी ।
भ्रामिता सप्ततुण्डा च भीमा हयमुखी तथा ॥ ५२॥
प्रथिका प्रखुरा अङ्का दक्षिणा परिदक्षिणा ।
रचना रोचना रामा रमिता शमिता शमा ॥ ५३॥
लता च ललिता लक्ष्मीः कामिता कामना तथा ।
अग्निधारा सप्तधारा भगधारा त्रिधा स्मृता ॥ ५४॥
अष्टप्रकृत्यष्टभुजा वरदा त्वष्टनायका ।
अर्धधारा मूलधारा दशधारा तथैव च ॥ ५५॥
गदादि जलदा चैव निगडा मारणा तथा ।
अविलम्बा तथा वाग्मी प्राखुरा वाग्विवादिनी ॥ ५६॥
उड्डीयमाना ऊर्ध्वाक्षी बुद्बुदा बर्बराम्बरा ।
धूर्णाक्षी पटला कोपा उत्तीर्णा उल्लसानना ॥ ५७॥
कल्लोला उन्नता बाला शुभा कल्लोलमालिनी ।
उपलक्षा उमालक्षा परिक्षा रक्षिका तथा ॥ ५८॥
उपेन्द्रा इन्द्रवरदा महाकाली निशाचरी ।
पापहा पापनाशा च ब्रह्मघ्नी शापमोचनी ॥ ५९॥
शर्वा तृष्णा च उच्छिष्टा चाण्डाली परिघायुधा ।
ॐ ऐं ह्रीं श्रीं उच्छिष्टचाण्डालिन्यै नमः ।
अपर्णा पर्णवलिता पतिः पतितपावनी ॥ ६०॥
महाद्वन्द्वा महावादी एकवीरा जगज्जया ।
पञ्चाली पञ्चपाञ्चाली प्रपञ्ची च प्रचोदयात् ॥ ६१॥
त्रिपदी वेदमाता च त्रिगुणा गुणशाम्भवी ।
ॐकारी वेदिका वाचा ह्रीङ्कारी सकलागमा ॥ ६२॥
त्रीङ्कारी त्रिपुरा पूजा श्रीङ्कारी सर्वसुन्दरी ।
क्लीङ्कारी कालिका केशी घ्रीङ्कारी घटवासिनी ॥ ६३॥
ब्रीङ्कारी बगला बाला फ्रीङ्कारी फणिभूषणा ।
भ्रीङ्कारी भैरवी भूतिर्भगदात्री भगा तथा ॥ ६४॥
ज्रीङ्कारी जलजिह्वा च जृम्भिका जलयोगिनी ।
दिगम्बरी जटाजूटिः कुमारी पिङ्गकेशिनी ॥ ६५॥
कन्या प्रकन्या कन्दर्पा वेदना वाल्मिकी गुणा ।
चतुर्भुजा चतुर्वासा चर्चिका चतुरानना ॥ ६६॥
अर्चिता चर्चिका चित्रा चक्रस्था चक्ररूपिणी ।
आवाह्या च विसर्गा च लिङ्गरूपा विसर्जनी ॥ ६७॥
लिङ्गनिष्ठा लिङ्गसेव्या मथिता लिङ्गसेवया ।
कर्मरेखा चन्द्ररेखा चित्ररेखा वसन्तिका ॥ ६८॥
सदोदया तालवासा खर्जूरा तालमूर्ध्निका ।
खण्डजङ्घा ऋतुपदा अङ्गुष्ठा दृढबन्धिनी ॥ ६९॥
ॐ श्रीं क्लीं सिद्धिप्रदायै नमः ।
प्रबोधा गृन्थिका गाधा ऊहावितर्कवादिनी ।
विनायकी विनम्रा च प्रसिद्धा विजया जया ॥ ७०॥
लम्बोदरी शिखोर्ध्वा च चित्रवस्त्रावलम्बिनी ।
षोडशी नारसिंही च शीतला परिशीतला ॥ ७१॥
गुहा किराता कदली कदलीवनवासिनी ।
महाव्याघ्रवरारोहा धनुर्बाणधराधरा ॥ ७२॥
लम्बिनी च विपाशा च क्षुधा सन्देशिका तथा ।
विलासिनी विपुलिका कालिका च प्रवेशिका ॥ ७३॥
वाणिका वनवासा च बर्बरा खर्परासना ।
मौञ्जी भुजङ्गिनी चारा प्रभुघण्टा जलाजरा ॥ ७४।
बालाजरा योगवेणी सुकेशी वेणिका तथा ।
रम्भा प्रखण्डा खंवासी स्वागता स्थानदायका ॥ ७५॥
ॐ ह्रीं श्रीं सरस्वत्यै नमः ।
श्यामा प्रसन्ना सुमुखी वर्मिका कर्णिका तथा ।
शुचिका मुग्धिका गाधा भोगदा सुभगा तथा ॥ ७६॥
भुक्तिदा मुक्तिदा देवी ऋद्धिदा सुखदायिनी ।
सिद्धिदा बुद्धिदा माता वर्मिणी फलदायिनी ॥ ७७॥
क्षुरिका जिरिका जङ्घा आणिका गूढखड्गिनी ।
ध्वजिनी वाजिनी वाजी पताका वर्मिणी तथा ॥ ७८॥
हस्तिनी कालिका बाणा अत्रिजा वज्रधारिणी ।
छत्रिणी रणिका रोषा अजिता दलभाजिनी ॥ ७९॥
वाग्देवी छिन्नमूर्धा च गुढेन्द्रा पथिका तथा ।
लोलिका धूर्णिका धूर्णा स्वशिका निश्वासा व्यथा ॥ ८०॥
हाहा च परिहा चैव वश्यका निर्भया भया ।
वर्मिणी परिवीरा च उत्कण्ठा मुखमण्डिता ॥ ८१॥
कोटिनी दलिनी दीर्घा धूसुरा बलराक्षसी ।
ॐ ह्रीं क्रौं भ्रौं अघोररूपिण्यै नमः ।
नाविका छिद्रिका क्षेपा दुर्गन्धा घोरवासिनी ॥ ८२॥
अघोरा परिघोरा च महाघोरा तिघस्मरा ।
सुवीर्या घोरमन्त्रा च किरीटी घोरभक्षिणी ॥ ८३॥
पूर्णवक्त्रा पूर्णमुखी परमा परमेश्वरी ।
मौलिनी बिम्बिनी बिम्बा तर्षिणी तुरजा तृषा ॥ ८४॥
तृतीया चतुरीया च तुरजा भवतारिणी ।
सुदर्शा तरुणी तारा चरिता चैव दैत्यजा ॥ ८५॥
दक्षिणा कर्णिका काली कङ्काली नलकूबरी ।
ॐ क्लीं वागीश्वर्यै नमः ।
नैऋत्या नलिका नित्या नैमित्या निमिषा निशा ॥ ८६॥
इच्छापूर्णा विन्ध्यका च हिङ्गुला पाश्चिमा परा ।
वायव्या वरदा वन्द्या वृन्दिका वृन्दवर्धिनी ॥ ८७॥
उच्चाटा उत्तरा चण्डी नीलकण्ठी जलाश्रया ।
दक्षिणा चैव कामाक्षी कामना भुवनेश्वरी ॥ ८८॥
प्रकाशा पिङ्गला पूर्णा श्रीः श्रीम्बीजकरी तथा ।
अग्निका रुचिका वाचा अज्ञा प्रज्ञा प्रसाददा ॥ ८९॥
चकमा विहङ्गा माण्डा राजका रज्जुका रजा ।
गौरी च गोमया गेया मातङ्गी महिषाहली ॥ ९०॥
सदातुष्टा सदापुष्टा सन्दिष्टा च सदाशिवा ।
तिलका रोचना वृक्षा गम्बीजा त्रिपुरा तथा ॥ ९१॥
ईहा च कल्परचना यमुना गिरिवासिनी ।
दुर्लभाऽतिदुराराध्या दुर्गमा गगनेश्वरी ॥ ९२॥
अरण्या परिरण्या च संयम्या संयमा तथा ।
कमला कुलजा चैव लवणा सुरघातिनी ॥ ९३॥
दधिजा कल्पसंस्था च कर्मजा फलदायिनी ।
कामजा केलिजा केशी कर्षा कर्बुरजालिजा ॥ ९४॥
गिरिजा गर्वगोत्रा च अकुला कुलजा तथा ।
दिनजा दिनमानी च वेदजा वेदसम्भृता ॥ ९५॥
क्रोधजा कुटजा धारा परमा बलगर्विता ।
शान्ता भ्रान्ता दिगन्ता च गुरुजा छत्रवासिनी ॥ ९६॥
भयान्ता विभ्रमा भ्रान्ता पशुपाला च शूरिणी ।
भूसुरा भासुरी चैव भग्नदैत्या छिन्दाम्भिदा ॥ ९७॥
क्रोधा क्रोधमुखी दंष्ट्री वज्रदन्ती सुदन्तिका ।
सस्याचरा जला मेघा प्रवाहा सुरवृक्षजा ॥ ९८॥
ब्रह्मिष्टा ब्रह्मजा ब्राह्मी चतुःशीर्षा चतुर्मुखी ।
चिरद्वैता द्वैतरूपा अद्वैतप्रतिपादिनी ॥ ९९॥
वेदान्ता वेदवन्द्या च आनन्दी नन्ददानवा ।
पुरुछाया मखा धुर्या दुर्जया पापहा तथा ॥ १००॥
भीतिर्गतिर्जागरिष्टा हर्म्याक्षी शुक्लहर्मिणी ।
मेरुजा मेरूसंस्था च कल्लारी कलिकल्पना ॥ १०१॥
किरातिनी भिल्लिरूपा प्रचण्डा चण्डवासिनी ।
अत्यन्तगुणयुक्ता च चन्द्रास्या चन्द्रवासिनी ॥ १०२॥
चलाचलपदा शऋङ्गी चन्द्रघण्टा घटध्वनी ।
पार्श्वस्था प्रभुसेव्या च गूढहास्यप्रवर्धिनी ॥ १०३॥
ब्रह्माणी वृत्तसंस्था च चतुर्वर्णा चतुर्विधा ।
शिवरूपा शैलपुत्री शैलस्था शिववन्दिता ॥ १०४॥
खण्डवादरता खण्डा खण्डिता ब्रह्मचारिणी ।
नवखण्डा प्रखण्डा च स्वरूपा सर्वरूपिणी ॥ १०५॥
रत्नमण्डलमध्यस्था रत्नकुण्डलमालिनी ।
क्रौञ्चस्था कुचसंस्था च मत्तमातङ्गगामिनी ॥ १०६॥
ॐ ऐं क्लीं सौः बालायै नमः ।
कूटस्था नवसंस्था च कदली वज्रकङ्कणा ।
विदेहा विमला क्रूरा चौण्डा कर्नाटकी तथा ॥ १०७॥
त्रिमात्रा उत्कला गौण्डी वीरेशा वीरवन्दिता ।
शामला गौरी विपिना मागधेश्वरवन्दिता ॥ १०८॥
गण्डकी कौशिकी गङ्गा नर्मदा यमुना तथा ।
पार्वती कर्मनाशा च कैलासव्यापिका तथा ॥ १०९॥
कपालमोचना चैव हेमगर्भा शिला तथा ।
शालग्रामशिलावल्ली शार्दूला पिङ्गकेशिनी ॥ ११०॥
मुग्धबोधप्रवर्गा च कामिता कामना तथा ।
पुण्याङ्गी पुण्यगन्धा च कुरुक्षेत्रकृतालया ॥ १११॥
केदारस्था भारतस्था मूलस्था मूलदुर्गजा ।
पुरुदुर्गा मोहदुर्गा प्रज्वाला ज्वालिनी तथा ॥ ११२॥
भस्मकुण्डा तथा गेहा अम्बिका अम्बिकालया ।
शारदा नारदा चैव रेणुका गगनेश्वरी ॥ ११३॥
धेनुरूपा रुक्मिणी च गोपिका यमुनाश्रया ।
भूश्रयोन्नताङ्गुष्ठा नखराङ्गविरागिणी ॥ ११४॥
सुकण्ठा कोकिला मैना चिरानन्दा शिवात्मिका ।
कन्दर्पकोटिलावण्या सुन्दरा सुन्दरस्तनी ॥ ११५॥
विश्वपक्षा विश्वरक्षा विश्वनाथप्रिया सती ।
भेरिरूपा शङ्खरूपा पणवानकगोमुखी ॥ ११६॥
उर्वशी उरुगर्भा च विवरा पृष्ठसंस्थिता ।
लहरी महिमा शङ्खा विमला मेखला तथा ॥ ११७॥
क्षमा शीघ्रा चिदानन्दा धराधारा धनुर्धरी ।
मालिका प्रखुरा छाया प्रणामा अजितापरा ॥ ११८॥
वटरूपा वटाभा च वरारोहा महातपा ।
शङ्खादि निधिरूपा च औषधी भगमालिनी ॥ ११९॥
पुत्रदा पौत्रदा पौत्री दिव्यादा दिव्यभोगदा ।
आशापूर्णा चिरञ्जीवी लङ्काभयविवर्धिनी ॥ १२०॥
ॐ सां सीं सुं सैं सौं सः अमृतेश्वर्यै नमः ।
सुतीक्ष्णा रूक्षलवणा कटुतिक्ता विदाहिनी ।
प्रतिपन्ना घृता तैला रसारसविवर्धिनी ॥ १२१॥
योगासना योगपीठा मैथिलीशपदानुगा ।
रुदिता विमला शोका अन्तस्था रसना तथा ॥ १२२॥
दीर्घा स्थूला च सूक्ष्मा च भृशुण्डी च गणेश्वरी ।
द्वितीया पूर्णकमला पूर्णजा इति कीर्तिता ॥ १२३॥
ॐ श्रीं क्लीं भ्रीं तुरजायै नमः ।
श्रीशङ्कर उवाच -
इति नाम्नां सहस्रं तु रामेण परिकीर्तितम् ।
यः पठेत्प्रयतो भक्त्या सन्ध्याकाले द्विजोत्तमः ॥ १२४॥
सर्वान्कामानवाप्नोति नात्रकार्या विचारणा ।
नवरात्रं जिताहारो शतावृत्या पठेन्नरः ॥ १२५॥
रात्रौ मूर्तिमयीं देवीं तद्दिने वाञ्छितं फलम् ।
विद्याकामस्तु यो मर्त्यः षण्मासं च जितेन्द्रियः ॥ १२६॥
जपन् लभेत् परमां विद्यां लोकोत्तरां तथा ।
अपुत्रो लभते पुत्रं निर्धनो धनमाप्नुयात् ॥ १२७॥
कुष्टरोगस्तथा दद्रू क्षयापस्मारचर्चिकाः ।
ते सर्वे नाशमायान्ति पायूपस्थव्रणानि च ॥ १२८॥
बधिरत्वं दिवान्धत्वं मूकत्वं पङ्गुलं तथा ।
नश्यन्ति तत्क्षणादेव यथा सूर्योदये तमः ॥ १२९॥
दशधा यः पठेन्नित्यं देव्यग्रे स्वस्थमानसः ।
सर्वानेताँलभेत्कामान् देवैरपि सुदुष्करान् ॥ १३०॥
राजद्वारे पठेद्यस्तु चोरव्याघ्राकुले पथि ।
पठनात्सिद्धिमाप्नोति विघ्नेभ्योऽपि प्रमुच्यते ॥ १३१॥
अनेन सदृशी विद्या नास्ति त्रैलोक्यमन्दिरे ।
धर्मार्थी लभते धर्मं कामार्थी लभते सुखम् ॥ १३२॥
धनार्थी लभते द्रव्यं मोक्षार्थी मोक्षमाप्नुयात् ।
पुरश्चरणधर्मेण पठेन्नामसहस्रकम् ॥ १३३॥
दशांशहवनं कुर्यात् पायसं शर्करान्वितम् ।
कुमारीं भोजयेद्विप्रान्यथा विभवसारतः ॥ १३४॥
कुबेरसदृशो लक्ष्म्या बुध्या धिषणवान्नरः ।
भवेत्त्रैलोक्यजठरे देवैरपि सुपूजितः ॥ १३५॥
किमत्र बहुनोक्तेन देवी सायुज्यमाप्नुयात् ।
इतीदं कथितं विप्र देव्या नामसहस्रकम् ॥ १३६॥
अधिष्वावहितो भूत्वा सर्वैः कामैः सुपूज्यते ।
इति श्रीस्कन्दपुराणे सह्याद्रिखण्डे तुरजामहात्म्ये
श्रीशङ्करवसिष्ठसंवादे तुरजासहस्रनामस्तोत्रं सम्पूर्णमस्तु ॥
अनेन पूर्वसङ्कल्पित श्रीतुरजासहस्रनामपाठाङ्ग ओं तत्सत् ।
श्रीजगदम्बाप्रणमस्तु । श्रीकृष्णर्पणमस्तु ।
अपराधसहस्रभाजनं पतितं देवि भवार्णभूतले ।
आगतं शरणागतं शिवे कृपया केवलमात्मसात्कुरु ॥ १॥
माता भवानी जनको भवानी
बन्धुर्भवानी भगिनी भवानी ।
गोत्रं भवानी सकलं भवानी
वीना भवानी नहि किञ्चिदस्ति ॥ २॥
या माता मधुकैटभप्रमथिनी या माहिषोन्मूलिनी
या धूम्रेक्षणचण्डमुडमथिनी या रक्तबीजाशनी ।
शक्तिः शुम्भनिशुम्भदैत्यदलनी या सिद्धलक्ष्मीप्रदा ।
सा चण्डी नवकोटिशक्तिसहिता मां पातु विश्वेश्वरी ॥ ३॥
मन्दारमालाऽऽकुलितालकायै
भाले च मालाङ्कित शेखरायै ।
दिव्याम्बरायै च दिगम्बराय
नमः शिवायै च नमः शिवाय ॥ ४॥
यत्रैव यत्रैव मनो मदीयं
तत्रैव तत्रैव तवः स्वरूपम् ।
यत्रैव यत्रैव शिरो मदीयं
तत्रैव तत्रैव पदद्वयं ते ॥ ५॥
इति श्रीस्कन्दपुराणे सह्याद्रिखण्डे तुरजामहात्म्ये
श्रीशङ्करवसिष्ठसंवादे श्रीतुरजासहस्रनामस्तोत्रं सम्पूर्णमस्तु ।
शुभं भवन्तु ।
श्रीजगदम्बार्पणमस्तु ।
इति श्रीतुरजासहस्रनामस्तोत्रं समाप्तम् ।
तुलजासहस्रनामस्तोत्रम्, तुळजासहस्रनामस्तोत्रं