श्रीमदय्यप्पगीता
॥ ॐ ॥
॥ शरणमय्यप्प ॥
अनुक्रमणिका
१. अय्यप्पयोगो नाम प्रथमोऽध्यायः ।
२. शास्तृयोगो नाम द्वितीयोऽध्यायः ।
३. अध्यात्मयोगो नाम तृतीयोऽध्यायः ।
४. भक्तियोगो नाम चतुर्थोऽध्यायः ।
५. ज्ञानविज्ञानयोगो नाम पञ्चमोऽध्यायः ।
६. विरागयोगो नामषष्ठोऽध्यायः ।
७. विचारयोगो नाम सप्तमोऽध्यायः ।
८. निर्ममयोगो नामाष्टमोऽध्यायः ।
९. मन्त्रयोगो नाम नवमोऽध्यायः ।
१०. धर्मयोगो नाम दशमोऽध्यायः ।
११. कर्मयोगो नामैकादशोऽध्यायः ।
१२. गुणयोगो नाम द्वादशोऽध्यायः ।
१३. ब्रह्मदर्शनयोगो नाम त्रयोदशोऽध्यायः ।
१४. अमरासुरसम्पद्विभागयोगो नाम चतुर्दशोऽध्यायः ।
१५. विश्वासयोगो नाम पञ्चदशोऽध्यायः ।
१६. भूमिकायोगो नाम षोडशोऽध्यायः ।
१७. शरणागतियोगो नाम सप्तदशोऽध्यायः ।
१८. अय्यप्पदर्शनयोगो नामाष्टादशोऽध्यायः ।
अथ प्रथमोऽध्यायः ।
सम्बुध्यर्थाऽयिशब्दप्रकटितमहिमा सानुरागं समन्तात्
यो भूयोऽपः प्रपाति प्रणतसुरनरानाशुशोकार्णवेभ्यः ।
यश्शास्ता सर्वभूतं निजजनसुखरान् भीतिराशीन् हिनस्ति ।
अय्यप्पन्तन्नमामो हरिहरतनयं बोघसौन्दर्यगात्रम् ॥ १॥
जीवनेन विना जीवा न जीवन्ति जगत्त्रये ।
ततो जीवनगोप्तारमय्यप्पं प्रणमाम्यहम् ॥ २॥
वैष्णव्यां मोहिनीदेव्याम्मृडवीर्येण तेजसा ।
पुरा बभूव चाय्यप्पो धर्मरक्षणहेतवे ॥ ३॥
प्रत्यङ्ङात्मस्वरूपे दृढतरकृतचिन्मुद्रया भद्रया हि
सिद्धश्रीवस्त्रबन्धे स्थिरतरविधिना संस्थितश्शान्तमूर्तिः ।
वाराणस्यां महत्यां स्वचरणरजसा पावयन् भक्तवर्गान्
अय्यप्पो धर्मशास्ता विलसति सुचिरं केशवेशात्मजोऽयम् ॥ ४॥
पुराऽऽसीत्पन्तलो भूपः प्रजापालनतत्परः ।
प्रसिद्धः केरले देशे भक्तो भक्तजनप्रियः ॥ ५॥
एकदा तु महारण्ये मृगया सम्भ्रमन्नृपः ।
दिव्यं तं बालकं वीक्ष्य नयनानन्दमाययौ ॥ ६॥
शुद्धस्फटिकसङ्काशं कर्णान्तगतलोचनम् ।
प्रस्फुरन्मञ्जुचन्द्रास्यं मायानिर्मितविग्रहम् ॥ ७॥
शान्तस्वरूपं सरितामधीश्वरे
बालं शयानं प्रलये सुरेश्वरम् ।
तं पुण्डरीकाक्षमिव स्थितं परं
सस्वर्णहारं विपिने विलोकने ॥ ८॥
दिव्यं तं बालकं नीत्वा राजा स्वगृहमाययौ ।
लालितः पालितस्तेन विशेषेण जनप्रियः ॥ ९॥
स वृद्धिमगमत्तत्र शुक्लपक्षे यथोडुराट् ।
मापजोऽतिविशालाक्षः समुद्रकरशोमितः ॥ १०॥
सुतस्य लीलापटुतां विलोकयन्
सर्वे प्रसन्ना भुवि तस्य भूपतेः ।
तद्द्रोहिणं मन्दमतिं तु मन्त्रिणं
अज्ञातभावञ्च विना निरीश्वरम् ॥ ११॥
अपुत्रस्य सुतो जातः अय्यप्पस्य प्रभावतः ।
तेन पुत्रवती जाता राज्ञी राजमनोरमा ॥ १२॥
दुर्मन्त्री मन्त्रयामास मर्मवाक्यगणैरलम् ।
राज्ञ्यै पन्तलराजस्य कैकय्या इव मन्धरा ॥ १३॥
युवराजपदे राजा चाय्यप्पस्याभिषेचनम् ।
करिष्यति सुशीलस्य शूरवीरस्य साम्प्रतम् ॥ १४॥
त्वत्पुत्रोपस्थितौ देवि परपुत्रस्य शासनम् ।
कथं सहे विशालाक्षि स्वदेशस्य दुरात्मनः ॥ १५॥
तद्विघ्नस्तु त्वया कार्यो युवराजाभिषेचने ।
न चेदय्यप्पदासत्वं त्वत्पुत्रस्योररीकुरु ॥ १६॥
उपायं कथये तुम्यं तस्य विघ्नकरं परम् ।
कुक्षौ मे शूलपीडास्ति चेति राज्ञे निवेदय ॥ १७॥
अहं कपटवैद्यानां मेलनं कारये तव ।
तैस्तु वर्णितभैषज्यं शार्दूलीपय एव हि ॥ १८॥
वैद्योक्तं तु नृपं गत्वा कथयिष्यामि शोभने ।
राज्ञीपीडानिवृत्यर्थं शार्दूलीपय औषधम् ॥ १९॥
अनेन विधिना देवि चाय्यप्यस्य विनाशनम् ।
भवेत्तत्क्षीरलाभाय गमने गिरिकानने ॥ २०॥
अप्येतदहितं वाक्यं हितं मत्वा तु भामिनी ।
कापट्यं दर्शयामास स्वपत्युस्सन्निधौ सती ॥ २१॥
कुक्षौ शूलरुजं निरूप्य रमणी भूपस्य पार्श्वं गता
व्याघ्रीस्तन्यरसेन शूलशमनं सम्बोधयन्ती शुचा ।
सत्यं तद्वचनं विचार्य नृपतिः स्तन्याय संसेवकान्
सर्वत्राशु दिशासु तत्क्षणमहो सम्प्रेषयन्प्रोक्तवान् ॥ २२॥
शार्दूलप्रवरेभसेवितवनं गत्वा तु यूयं भटाः
शार्दूलीपयसो हरेत सुचिरं राज्ञीमनोमोदकम् ।
अप्राप्तं यदि तत्पयोऽश्वकदिनादूर्ध्वं भवन्तो गृहान्
आयास्यन्ति तदा भवेन्मदसिना पञ्चत्वमत्रैव वः ॥ २३॥
राजाज्ञाञ्च निशम्य भीतिमगमन् सर्वे च तत्सेवकाः
भीतान् सर्वजनान् निरीक्ष्य भगवान् प्रोवाच तत्र स्थितान् ।
यूयं स्वीयगृहेषु तिष्ठत सुखं गच्छाम्यहं केवलं
शार्दूलीस्तनजन्यशुभ्रपयसा सन्तोषये स्वामिनम् ॥ २४॥
शूराणां कुलभूषणं निखिलविच्छास्ता स्वधर्मस्य च
अय्यप्पो भगवान् दयापरवशो गन्तुं वनं निर्ययौ ।
मार्गे भक्तजनैः समर्चिततनोः कान्त्या तमः संहरन्
सह्याद्रेः पुलिनं पुरा सुविमलं प्राप्तःपरार्थेच्छया ॥ २५॥
तस्मिन्काननमध्यदेशविलसच्छायां गतश्छागिनां
शङ्खं पूरितवान् मुकुन्दतनयः पाणौ स्थितं तत्क्षणम् ।
व्याघ्रास्तस्य निशम्य निष्ठुरतराः शब्दं समन्तादहो
वव्रुस्तं सुरनायकं व्रजवने गोपीकुमारं यथा ॥ २६॥
श्रीकृष्णस्तु यथा व्रजादिविपिने गोभिश्च संवेष्टितः
लक्ष्मीः सत्कमलोदरे भगवती भृङ्गैरलं वेष्टिता ।
चन्द्रश्चन्द्रिकया च सूर्यकिरणैरग्निस्तु धूमव्रजैः
अय्यप्पश्च सुपुण्डरीकनिकरैर्बन्यैरसङ्ख्यैश्विरम् ॥ २७॥
श्रोत्रादीन्द्रियपुण्डरीकदमने दक्षस्तु योगी जनः
अय्यप्पो ह्युभयोरलं सुदमने दृष्टप्रमाणं गतः ।
कर्षन् व्याघ्रकुलं मतङ्गसहितं वर्णी सदा शासकः
सारासारविचारनीतिनिपुणः श्रीपन्तलं प्राप्तवान् ॥ २८॥
आश्चर्यं खलु पन्तलस्य नगरी संवेष्टिता सर्वशः
व्याघ्रादिप्रवरैः प्रसारितनखैर्वन्यैर्महानिष्ठुरैः ।
अय्यप्पस्तु जहास भूमिपतितान् प्राणावशेषान् जनान्
दृष्ट्वा मन्त्रिगणश्च राजमहिषी राजा च मोहं गतः ॥ २९॥
निश्शब्दां नगरीं विलोक्य दयया सत्वं गृहीत्वा वनं
क्षिप्रं सोऽपि ययौ ततः शिवसुतः सह्यस्य मूर्ध्नि स्थितम् ।
यत्राद्यापि समाधियोगकलितो जेगीयमानो जनैः
धर्मायाद्रिनिकेतने प्रतिदिनं सञ्चेष्टयन् वीक्ष्यते ॥ ३०॥
नारदस्तु समायातो राजशेखरपत्तने ।
शम्भोस्तनयवृत्तान्तं सर्वं तस्मै न्यवेदयत् ॥ ३१॥
गणेशः कार्तिकेयश्च अय्यप्पो मोहिनीसुतः ।
शङ्करस्य त्रयःपुत्राः पितृतुल्यपराक्रमाः ॥ ३२॥
मायामानुषरूपेण त्वद्दास्यमुररीकृतम् ।
हरिशङ्करभक्तानां कलहं वीक्ष्य भूतले ॥ ३३॥
तयोर्भेदनिरासाय चावतीर्णो विशाम्पते ।
कपटं तव भामिन्या कारितं देवमायया ॥ ३४॥
मनुष्यबुद्धिमय्यप्पे त्यक्त्वा देवत्वमाचर ।
तेन ते कीर्तिरत्यन्ता भविष्यति महीतले॥। ३५॥
देवर्षेर्वाक्यमाकर्ण्य ज्ञातं तद्वैभवं पुनः ।
दर्शनायाथ देवस्य प्रयत्नं कृतवान् तदा ॥ ३६॥
अय्यप्पस्य वियोगेन दुःखितः पन्तलः प्रभुः ।
जलान्नानि परित्यज्य स शिश्ये स्थण्डिले चिरम् ॥ ३७॥
स्वरूपं दर्शयामास अय्यप्पोऽपि महामनाः ।
मा शोकं कुरु भूप त्वं वसामि शबरीगिरौ ॥ ३८॥
कुम्भसम्भवमाहूय यज्ञं कारय ॥ यत्नतः ।
मदीयं मन्दिरं तत्र कारयेर्विश्वकर्मणा ॥ ३९॥
तन्मध्ये विग्रहं रम्यं पञ्चलोहेन कारय ।
तस्मिन्प्रतिष्ठा कर्तव्या ऋषिभिर्वेदपारगैः ॥ ४०॥
अवश्यं मम सानिध्यं भवेत्तत्र न संशयः ।
एतेन विधिनाराजन् मयि भक्तिःप्रजायते ॥ ४१॥
प्रतिवर्षन्तु सङ्क्रान्तौ माघमासस्य पार्थिव ।
महोत्सवस्त्वया कार्थः सह्यपृष्ठे ममाश्रमे ॥ ४२॥
आगमिष्यन्ति ये तत्र चोत्सवे ममसनिधौ ।
सर्वे ते सुखिनो भूप भविष्यन्ति न संशयः ॥ ४३॥
नारिकेलं च कर्पूरं पुष्पदीपादिपानकम् ।
एतानि प्रियवस्तूनि पूजने मम भूपते ॥ ४४॥
घृतस्नानेन सन्तुष्टो भविष्यामि विशेषतः ।
गोपयोमथितेनाशु पुनः पञ्चामृतेन च ॥ ४५॥
धर्मभ्रष्टास्तु या नार्यः पांशुला दोषदूषिताः ।
तासान्नैवाधिकारोऽस्ति प्रवेशे मम सन्निधौ ॥ ४६॥
पुरुषाणां गृहस्थानां ब्रह्मचर्यञ्च मण्डलम् ।
विधीयते प्रवेशार्थमुत्सवे दर्शने मम ॥ ४७॥
सदा हि दर्शनं पुण्यं माघमासे विशेषतः ।
मयि भक्तिञ्च लभते ततःशोकं परित्यज ॥ ४८॥
इत्युक्त्वान्तर्दधौ देवो वसतौ पन्तलप्रभोः ।
अथ दर्शनसन्तुष्टो देवदेव शिवात्मनः ॥ ४९॥
अय्यप्पतत्त्वविज्ञानी जातः पन्तलभूपतिः ।
गतशोकोऽतिधर्मात्मा भक्तस्तस्य महात्मनः ॥ ५०॥
यदुक्तं देवदेवेन कुम्भसम्भवयोगतः ।
तेन पन्तलभूपेन तत्सर्वं कृतमादरात् ॥ ५१॥
देवदानवगन्धर्वसिद्धचारणगुह्यकाः ।
आजग्मुर्दशने तस्य ऋषयो नारदादयः ॥ ५२॥
ईडिरेऽस्य यशोराशीनय्यप्पस्य महात्मनः ।
जातकौतुकरूपास्ते मणिकण्ठावलोकने ॥ ५३॥
इति श्रीमदय्यप्पगीतायां अय्यप्पयोगो नाम प्रथमोऽध्यायः ॥ १॥
अथ द्वितीयोऽध्यायः ।
शबरस्य गृहे जाता शबरी भाग्यशालिनी ।
चिरकालेन सह्याद्रौ ज्ञानाय तपसि स्थिता ॥ १॥
मोक्षेच्छया च सम्पन्ना शमादिगणशोभिता ।
नित्यानित्यविवेकेन फलभोगविरागतः ॥ २॥
सुशीला च सुरूपा च सुन्दरी चारुभाषिणी ।
प्रसन्नवदनाम्भोजा गुरुभक्तिपरायणा ॥ ३॥
आस्वाद्य पुष्पनिर्यासमुन्मत्ता भ्रमराङ्गना ।
तथा भक्तिरसेनेयं मत्ता सा शबरी वने ॥ ४॥
वाचक्नवीव सा पूर्वं याज्ञवल्क्यं शुचिस्मिता ।
जन्ममृत्युभिया देवी शास्तारं शरणं ययौ ॥ ५॥
पटबन्धासने शुद्धे स्थितं काञ्चनसन्निभम् ।
सम्पूज्य भूरिपुष्पेण पप्रच्छ त्वम्पदस्थितिम् ॥ ६॥
श्री अय्यप्प उवाच -
आत्मा जीवस्तु गोस्वामी कर्ता क्षेत्रज्ञ इत्यपि ।
विश्वश्च वैजसः प्राज्ञस्त्वम्पदेन प्रकाशिताः ॥ ७॥
न जायते म्रियते वा कदाचिदात्मा तु देहे विमलप्रकाशः ।
प्रज्ञानराशिःपुरुषः पुराणः आकाशकल्पोऽविकृतोऽप्रमेयः ॥ ८॥
अवस्थात्रयवस्तूनि वेत्त्यसौ करणं विना ।
सौषुप्तस्थमभावश्च शृणु त्वं ब्रह्मचारिणि ॥ ९॥
नाहं जानामि चेत्यत्र ज्ञानमेव प्रकाशते ।
अहं जानामि चेत्यस्मिन् वाक्येऽपि ज्ञानमुच्यते ॥ १०॥
ज्ञानधारा त्वविच्छिन्ना वीक्ष्यते तत्त्वदर्शिभिः ।
नोदेति नास्तमेत्येषा सैवात्मा त्वं विचारय ॥ ११॥
यथा दधिगतं सर्पिस्तिलेषु च रसो वरः ।
पुष्पेषु पुष्पनिर्यास आत्मा देहे व्यवस्थितः ॥ १२॥
नित्यः सर्वगतोऽनन्तः सत्तामात्रैकगोचरः ।
शाश्वतोऽतिपुराणोयमचलोऽयं सनातनः ॥ १३॥
सव्यान्याक्षिमुखे विश्वो मनस्यन्तस्तु तैजसः ।
हृद्देशे तु पुनः प्राज्ञस्त्रिधा देहे व्यवस्थितः ॥ १४॥
स्थूलभोगेन विश्वस्य सूक्ष्मेण तैजसस्य च ।
आनन्देन तु प्राज्ञस्य त्रिधा तृप्तिं निबोधय ॥ १५॥
शास्ता गोस्वाम्यहं देहे कर्ताहमिति मां विदुः ।
ये जनास्ते तु जीवज्ञाः पण्डितास्तत्त्वदर्शने ॥ १६॥
श्रीकृष्णोऽहं शिवःसाक्षी क्षेत्रज्ञश्शाश्वतोऽस्म्यहम् ।
अय्यप्पोऽहमनन्तोऽहमात्मारामोऽहमच्युतः ॥ १७॥
त्वम्पदस्य तथावाच्यो लक्ष्योऽहं प्रकृतेः परः ।
सच्चिदानन्दरूपोऽहं विश्वात्मा विश्वसम्भवः ॥ १८॥
इति श्रीमदय्यप्पगीतायां शास्तृयोगो नाम द्वितीयोऽध्यायः ॥ २॥
अथ तृतीयोऽध्यायः ।
श्री शबरी उवाच -
व्यवहारे सदा सर्वैभेदतो युष्मदस्मदी ।
प्रयुज्यते सदा योगिन्नभेदः कथमेतयोः ॥ १॥
श्री अय्यप्प उवाच -
अहं त्वमिति निर्देशे द्वैतमेव प्रकाशते ।
सोऽहमित्यपि निर्देशे चाद्वैतं प्रतिपाद्यते ॥ २॥
शिवो भवति पूजारिः वन्दते च शिवं शिवः ।
अशिवः को भवेत्कर्ता शिवः कर्म कदाभवेत् ॥ ३॥
अद्वैतचिन्तापरमेशभक्तिर्द्वैतस्यनिन्दा विषये विरक्तिः ।
मनोजवं बाधितुमात्तशक्तिर्यस्यैव तस्यैव जनस्य मुक्तिः ॥ ४॥
माण्डूक्यश्रुतिगीतेन तत्त्वेनात्मा प्रपद्यते ।
द्वैतजातं तथा सर्वं गगने नीलिमादिवत् ॥ ५॥
आत्मानमखिलाधारमवाङ्मनसगोचरम् ।
अव्यक्तं निर्गुणं सत्यं मत्वा धीरो न शोचति ॥ ६॥
मेघो नश्यति वर्षेण भोजनेन तथा क्षुधा ।
द्वैतं नश्यति बोधेन यथा स्वप्नमनोरथः ॥ ७॥
ब्रह्मभिन्नं जगन्नास्ति नास्ति जन्मजरामृतिः ।
सुखदुःखादिकं नास्ति अस्तिब्रह्मनिरामयम् ॥ ८॥
प्रपञ्चरहितं विष्णुं निरीहं निरुपद्रवम् ।
निरञ्जनं निराकारं मत्वा धीरो न शोचति ॥ ९॥
यथा पटगतं चित्रं पटादन्यन्न विद्यते ।
तथाचात्मगतं विश्वमात्मनोऽन्यन्न विद्यते ॥ १०॥
मायामलिनसत्त्वेन कल्पितां भेदभावनाम् ।
मायायाः शुद्धसत्त्वेन दूरीकुरु महामते ॥ ११॥
ब्रह्मा विष्णुः शिवः शक्तिर्जीवोगणपती रविः ।
देवतान्नञ्च प्राणादिर्मायया खलु निर्मितम् ॥ १२॥
जीमूतेन विना वृष्टिर्भूतलेन विना कृषिः ।
मायया च विना सृष्टिः पयसा रहितं दधि ॥ १३॥
तावाञ्जननसम्भीतिः पुरुषस्य विशेषतः ।
आत्मानमजरं नित्यं यावन्नैवावगच्छति ॥ १४॥
शुष्कतर्कविवादेन व्यर्थं नयति पूरुषः ।
कालं कालाहिनाऽऽत्मानं कोऽन्यस्त्रातुमिहेश्वरः ॥ १५॥
अध्यात्मचिन्तया नूनं सत्सङ्गेनाथ विद्यया ।
यतेत स्वात्मलाभाय धीरो मोक्षपरायणः ॥ १६॥
विचारेण विना देवि प्रपञ्चो न हि नश्यति ।
तस्माद्विचारः कर्तव्यः स्वात्मलाभस्य हेतवे ॥ १७॥
इयं वेदशिरोविद्या प्रोक्ता दुःखनिवृत्तये ।
अनया विलयं याति सञ्चितं कर्म यत्कृतम् ॥ १८॥
इति श्रीमदय्यप्पगीतायां अध्यात्मयोगो नाम तृतीयोऽध्यायः ॥ ३॥
अथ चतुर्थोऽध्यायः ।
मणिकण्ठोपदेशेन न तृप्तां वनचारिणी ।
भूयः पप्रच्छ सम्पूज्य मायामनुजविग्रहम् ॥ १॥
श्री शबरी उवाच -
कर्मशान्तिर्मनश्शान्तिर्वासनाक्षय एव च ।
कथं भवेत्सरोजाक्ष अय्यप्प वदतांवर ॥ २॥
श्री अय्यप्प उवाच -
भक्तिज्ञानविरागेण विचारेण च शोभने ।
अयमासाद्यते देवि अथवा गुरुसेवया ॥ ३॥
भजनं भक्तिरित्याहुर्निर्गुणे सगुणेऽपि च ।
ईश्वरे चारविन्दाक्षि मायाविनि वनेचरि ॥ ४॥
श्रवणं कीर्तनं तस्य चार्चनं पादसेवनम् ।
वन्दनं स्मरणं देवि सख्यञ्चात्मनिवेदनम् ॥ ५॥
नवधा सगुणे प्रोक्ता सप्तधाऽगुणशालिनी ।
सर्वोपकारिणी नूनं सेवनीया प्रयत्नतः ॥ ६॥
यस्य देवे परा भक्तिर्यथा देवे तथा गुरौ ।
तस्यैते कथिता ह्यर्थाः प्रकाशन्ते महात्मनः ॥ ७॥
बीजाद्वृक्षस्ततो बीजं भक्तेर्ज्ञानं ततश्च सा ।
साधूनां सङ्गतिर्बीजं भक्तिवृक्षस्य भामिनि ॥ ८॥
भक्तिज्ञानविरागाणां वर्षयन् जगतीतले ।
चरतीह महाभागो नभोमण्डलमेघवत् ॥ ९॥
छायापुष्पफलैश्शाखी सेवते शरणागतान् ।
साधुस्त्वनागतांश्चापि भक्तिज्ञानधनादिभिः ॥ १०॥
सज्जनो दुर्जनश्चेति भेदतो मन्यते जनः ।
सर्वं च स्वजनं साधुर्मन्यतेऽभेदचिन्तया ॥ ११॥
दहनात्मप्रकाशेन सूर्यो। वारयते तमः ।
वचोभिश्शीतलैस्साधुर्हृत्स्थं वारयते हि तत् ॥ १२॥
जन्मक्लेशो जराक्लेशः क्लेशो दुर्जनमित्रता ।
शम्भोर्भजनमक्लेशः क्लेशोभूरिधनस्पृहा ॥ १३॥
मद्भक्तं दयया युक्तं धर्मात्मानं शुभे भज ।
भक्तिशास्त्रप्रवक्तारं सन्तं सन्ततमादरात् ॥ १४॥
यतितीर्थं सतीतीर्थं तीर्थं साधुसमागमः ।
वेदवाक्यं सदातीर्थं नान्यत्तीर्थं भजेन्नरः ॥ १५॥
पूजा विप्रस्य कर्तव्या चान्नवस्त्रजलादिभिः ।
विप्रस्यैव प्रभावेण तरेत्संसारसागरम् ॥ १६॥
सूर्योदयं विना देवि शर्वरी न प्रयास्यति ।
विना भक्त्युदयं नॄणामहङ्कारो न यास्यति ॥ १७॥
आत्मवत्प्रेम कर्तव्यं सर्वप्राणिषु निर्मले ।
तस्य पावनभावेन संसारं तारयेज्जनः ॥ १८॥
मदात्मकं जगत्सर्वं वीक्ष्य मत्पूजनं कुरु ।
मन्मना मन्नमस्कारा पत्रपुष्पफलादिभिः ॥ १९॥
इति श्रीमदय्यप्पगीतायां भक्तियोगो नाम चतुर्थोऽध्यायः ॥ ४॥
अथ पञ्चमोऽध्यायः ।
श्रीअय्यप्पौवाच -
परोक्षञ्चापरोक्षञ्च द्विविधं ज्ञानमुच्यते ।
वैदिकं लौकिकञ्चेति तदपि द्विविधं भवेत् ॥ १॥
वेदे परोक्षं प्रायेणानुमानादौ च लौकिकम् ।
अपरोक्षं महावाक्ये लौकिकन्तु घटादिषु ॥ २॥
तत्रापि द्विविधं प्रोक्तं दृढं चाप्यदृढं शुमे ।
अपरोक्षं दृढं ज्ञानमलं निःसृतिहेतवे ॥ ३॥
अस्तिब्रह्मेति यज्ज्ञानं परोक्षं परिकीर्तितम् ।
अखण्डानन्दरूपोऽहं शिवोऽहमितिचापरम् ॥ ४॥
अभेदेऽपि च भेदोऽस्ति जीवात्मपरमात्मनोः ।
तुषारजलभेदोऽपि विद्यते जगतीतले ॥ ५॥
अमेदवोधो विमलो भेदो मायाप्रकल्पितः ।
विद्याविद्यास्वरूपेण व्यापिनी सा च मोहिनी ॥ ६॥
शरणागतिहीनस्य नरस्य दुरतिक्रमा ।
शरणागतभक्तस्य माया दूरनिवासिनी ॥ ७॥
ज्ञानेन सदृशं लोके पावनं न हि भामिनि ।
तत्स्वयं योगसंसिद्धहृदये जायते शुमे ॥ ८॥
अभेददर्शनं ज्ञानमज्ञानं भेददर्शनम् ।
आद्यं स्यान्मोक्षलाभाय द्वितीयं जन्ममृत्यवे ॥ ९॥
गवामनेकवर्णानां क्षीरस्येवैकवर्णता ।
क्षीरवत्पश्यते ज्ञानं लिङ्गिनस्तु गवां यथा ॥ १०॥
निष्क्रियं वासनाहीनं भेदत्रयविलक्षणम् ।
आत्मानं वेद वेदेन सद्गुरोश्चिरसेवया ॥ ११॥
आदौ नास्ति हि यद्वस्तु चान्तकालेऽपि नास्ति तत् ।
मध्यकाले कथं जातं रज्जुसर्प इवस्थितम् ॥ १२॥
ताप्यतापकभेदेन सुविभात्यखिलं जगत् ।
प्रत्यगात्मतयाभाति ज्ञानाद्वेदान्तवाक्यजात् ॥ १३॥
शुद्धमीश्वरचैतन्यं जीवचैतन्यमेव च ।
प्रमाताचप्रमाणञ्च प्रमेयञ्च फलं तथा ॥ १४॥
इति सप्तविधो भेदश्चैतन्ये व्यवहारतः ।
सुविजानीहि देवि त्वं वर्तते न तु सत्यतः ॥ १५॥
श्री शबरी उवाच -
कथं सप्तविधो भेदः प्रत्यगात्मनि शाश्वते ।
भगवन् सर्ववेदज्ञ सर्वं चर्णय सद्गुरो ॥ १६॥
श्री अय्यप्प उवाच -
मायोपाधिविनिर्मुक्तं शुद्धमित्यभिधीयते ।
मायासम्बन्धतश्चेशो जीवश्चाविद्यया युतः ॥ १७॥
प्रमातृचैतन्यमपि प्रसङ्गतः प्रमातृचैतन्यमतःपरं शुभे ।
निरूप्यतेऽन्तःकरणेन संयुतं अन्यच्च तद्वृत्तियुतं प्रमाणकम् ॥ १८॥
अज्ञातमपि चैतन्यं प्रमेयमिति कथ्यते ।
फलं प्रोक्तं सुविज्ञातं चैतन्यं श्रुतिसम्मतम् ॥ १९॥
इति सप्तविधो भेदश्चैतन्ये व्यवहारतः ।
ऐक्यं ब्रह्मणि सर्वस्यानैक्यं भवति मायया ॥ २०॥
इति श्रीमदय्यप्पगीतायां ज्ञानविज्ञानयोगो नाम पञ्चमोऽध्यायः ॥ ५॥
अथ षष्ठोऽध्यायः ।
श्री अय्यप्पौवाच -
दृष्टानुश्रविकेष्वेष विषयेषु शुभप्रदः ।
वितृष्णस्य वशीकारसंज्ञा वैराग्यमुच्यते ॥ १॥
तरणीव तु वैराग्यं तरुणि भवसागरे ।
तरणाय दृढा नूनं गुणवैतृष्ण्यमप्यथ ॥ २॥
अवश्यं गन्तारोऽधिकदिनमुषित्वापि विषयाः
वियोगे को भेदस्त्यजति न जनो यः स्वयममून् ।
व्रजन्तस्स्वातन्त्र्यादतुलपरिदुःखाय मनसः
स्वयं त्यक्त्वा ह्येते शमसुखमनन्तं विदधति ॥ ३॥
अनेककाले स्वर्गीयान्भोगान् भुक्त्वापि चाब्रवीत् ।
ऐलः सम्राड्विनिर्विण्णो गाथां वैराग्यकारिणीम् ॥ ४॥
किं विद्यया किं तपसा किं त्यागेन श्रुतेन वा ।
किं विविक्तेन मौनेन स्त्रीभिर्यस्य मनो हृतम् ॥ ५॥
स्वार्थस्याकोविदं धिङ्मां मूर्खपण्डितमानिनम् ।
योऽयमीश्वरतां प्राप्य स्त्रीभिर्गोखरवज्जितः ॥ ६॥
शिवप्रसादो निर्वेदः सुखशान्तिप्रदो महान् ।
येनानुबन्धं निहृत्य पुरुषः शममृच्छति ॥ ७॥
तीव्रवैराग्ययोगेन धर्ममेघः समाधिराट् ।
कालज्ञस्य निरीहस्य योगिराजस्य जायते ॥ ८॥
समाधौ जातमात्रे तु समुदेत्यात्मचन्द्रमाः ।
वर्षयन्निव पीयूषं क्षुभिताम्बोधिमध्यगात् ॥ ९॥
मातापितृसुतादीनामस्तित्वं नास्ति चात्मनः ।
व्यर्थं विषयगर्तेषु पतन्ति सुरमानवाः ॥ १०॥
मोषणे ज्ञानरत्नानां प्रविष्टा देहपत्तने ।
कामः क्रोधो मदो लोभो देहिनामविवेकिनाम् ॥ ११॥
माता कस्य पिता कस्य कस्य भार्या प्रिये वद ।
जन्माभावे तु मातृत्वं पितृत्वञ्चात्मनः कथम् ॥ १२॥
हरिणश्च गजो मत्तः पतङ्गश्चापि भृङ्गराट् ।
एकैकविषयोन्मत्ता म्रियन्ते शफरी पुनः ॥ १३॥
विषयेष्वपि सर्वेषु मत्ता मरणधर्मिणः ।
जीवन्ति कथमल्पेऽपि चेत्याश्चर्यं हि मानवाः ॥ १४॥
मानवस्य शरीरं हि न जातं क्षुद्रकर्मणे ।
कृच्छ्राय तपसे चैव प्रेत्यानन्तसुखाय च ॥ १५॥
वैराग्यन्तु विना देवि भक्तिमागोपजीविनः ।
ते यथा सुखमिच्छन्ति मरीचिजलमज्जनात् ॥ १६॥
कामिनीकाञ्चनत्यागी त्यागी भवितुमर्हति ।
व्याघ्रचर्मावृतेनैव खरो नास्ति मृगेश्वरः ॥ १७॥
कनकघटपटानां स्वच्छमुर्वीरुहाणां
पनसपरिमलानामन्धसां भाजनानाम् ।
गजतुरगभटानां वर्जनं वर्जनं नो
अपि तु सुयुवतीनां वर्जनं वर्जनं स्यात् ॥ १८॥
इति श्रीमदय्यप्पगीतायां विरागयोगो नामषष्ठोऽध्यायः ॥ ६॥
अथ सप्तमोऽध्यायः ।
श्रीअय्यप्प उवाच -
कोऽहं कथमिदं जातं को वा कर्तास्य विद्यते ।
उपादानं किमस्तीह विचारोऽयं विधीयते ॥ १॥
विनिश्चयो भवेन्नित्या नित्यवस्तुविवेकतः ।
नित्यबोधस्वरूपोऽहमात्माहं प्रकृतेः परः ॥ २॥
प्रकृतिश्च प्रधानञ्च माया गुणवती तु या ।
विद्याऽविद्यास्वरूपेण व्यापिनी जगदम्बिका ॥ ३॥
प्रकृतिर्विकृतिश्चैव भवेत्तन्मात्रपञ्चकम् ।
अहङ्कारमहत्तत्वे मूला चाविकृतिस्स्वयम् ॥ ४॥
महत्तत्त्वादहकारस्ततस्तन्मात्रपञ्चकम् ।
भूतात्मकं ततो जज्ञे व्योमादिजगदात्मकम् ॥ ५॥
ज्ञानकर्मेन्द्रियाणि स्युर्दशैकञ्च मनस्स्मृतम् ।
विकाराः षोडश प्रोक्तास्ततोऽन्यः पुरुषस्स्मृतः ॥ ६॥
मायान्तु प्रकृतिं विद्यान्मायिनन्तु महेश्वरम् ।
तस्यावयवभूतैस्तु व्याप्तं सर्वमिदं जगत् ॥ ७॥
ऊर्णनाभिर्व विश्वस्य कारणं परमेश्वरः ।
उपादानं निमित्तञ्च वैलक्षण्यन्तु साङ्ख्यतः ॥ ८॥
क्लेशकर्मविपाकाद्यैरपरामृष्ट ईश्वरः ।
पुंविशेषोऽत्र योगेऽपि पुरुषोत्तम उच्यते ॥ ९॥
ईश्वरस्सर्वभूतानां शबर्यात्मनि तिष्ठति ।
विहितप्रतिषिद्धेषु प्रवृत्तिष्वपि प्रेरयन् ॥ १०॥
ब्रह्म केवलमद्वैतं न यत्करणगोचरम् ।
अलक्षणमरूपञ्च वेदान्तेषु सुनिश्चितम् ॥ ११॥
तद्विष्णुस्तच्छिवस्साक्षादादित्यस्तच्च चन्द्रमाः ।
तदेव शाश्वतं सत्यं तदहं त्वञ्च भामिनि ॥ १२॥
बिम्बत्वं प्रतिबिम्बत्वं यथा पूषणि कल्पितम् ।
जीवत्वमीश्वरत्वञ्च तथा बह्मणि कल्पितम् ॥ १३॥
मोक्षद्वारे द्वारपालाश्चत्वारः परिकीर्तिताः ।
शमो विचारस्सन्तोषश्चतुर्थस्साधुसङ्गमः ॥ १४॥
विचारेण विना देवि नान्योपायोऽस्ति सौकरः ।
जिज्ञासोरात्मलाभाय वेदे वादे च मानिनि ॥ १५॥
इदं सर्वं जगद्वस्तु रज्ज्वां सर्प इवात्मनि ।
जन्ममृत्युयुतं शान्ते हाटके कटकादिवत् ॥ १६॥
जलन्न पुनरायाति सुपीतमयसा खलु ।
द्वैतन्न पुनरायाति चाद्वैतेन सुबाधितम् ॥ १७॥
ब्रह्मसत्यं जगन्मिथ्या मायामयमनादिमत् ।
सुविचारेण यत्सत्यं तदात्म त्वं मनीषिणि ॥ १८॥
इति श्रीमदय्यप्पगीतायां विचारयोगो नाम सप्तमोऽध्यायः ॥ ७॥
अष्टमोऽध्यायः ।
अय्यप्पगीतां सुश्रोतुं नारदादिमुनीश्वराः ।
सह्यपर्वतमायाता विनीताः पुष्पपाणयः ॥ १॥
साधुसाध्विति सम्बुध्या प्रणमन्तः परस्परम् ।
बन्धमोक्षव्यवस्थार्थमय्यप्पशरणङ्गताः ॥ २॥
सुभगा शबरी श्रोत्री प्रणम्य हरिमातृकम् ।
जगाद वचनं तस्मै सखी दुःखेन दुर्मनाः ॥ ३॥
इयन्तु युवती देव मत्सखी चारुभाषिणी ।
विरौति पतिशोकेन सेवाभक्तिपरायणा ॥ ४॥
उपदेशामृतेनैनां सिञ्च त्वं त्रिजगद्गुरो ।
अन्योपायन्न पश्यामि शोकमोहनिवृत्तये ॥ ५॥
श्री अय्यप्प उवाच -
किं रोदिपि वरारोहे भर्ता कुत्र गतस्तव ।
जडेषु यदि भर्तृत्वं सर्वमेतज्जडात्मकम् ॥ ६॥
चैतन्ये यदि भर्तृत्वं चैतन्यन्तु त्वमेव हि ।
उभयोरपि भतृत्वमगतं किं वियुज्यते ॥ ७॥
माता कस्य पिता कस्य कस्य भार्या प्रियो वद ।
जन्माभावे तु मातृत्वं पितृत्वञ्च कथं भवेत् ॥ ८॥
सर्वशोकान् परित्यज्य मामेकं शरणं व्रज ।
अहं त्वां सर्वशोकेभ्यस्तारयिष्यामि शोभने ॥ ९॥
मरणं प्रकृतिस्वभावतो विकृतिर्जीवनमम्बुजेक्षणे
यदि चाल्पमपि श्वसन्नसावसुभृद्भाग्यपरम्परावृतः ॥१०॥
अतस्त्वं प्रभजात्मानं शान्तमव्यक्तमच्युतम् ।
भयशोकविनिर्मुक्तं सर्वदुःखनिवृत्तये ॥ ११॥
सारासारविशेषज्ञाः परापरविदो जनाः ।
न शोचन्ति मृते देवि नापि शोचन्ति जीविते ॥ १२॥
शोकमोहौ जराव्याधिः कामक्रोधदुरात्मताः ।
ममत्वञ्च वियोगश्च देहधर्मो न चात्मनि ॥ १३॥
सर्वं दुःखमयं विद्धि सुखं वैषयिकं हि यत् ।
संयोगेऽमृतमेवास्तु वियोगे विषमेव तत् ॥ १४॥
विषं हन्ति हि भोक्तारं द्रष्टारं नास्ति हन्ति तत् ।
द्रष्टारमपि भोक्तारं विषयो हन्ति तत्क्षणम् ॥ १५॥
देहात्मबुद्धियोगेन लभन्ते जननम्मृतिम् ।
ब्रह्मात्मबुद्धियोगेन शाश्वतं पदमव्ययम् ॥ १६॥
परमानन्दचिन्मात्रमाद्यन्तरहितं शिवम् ।
निजस्वरूपमात्मानं भावयेच्छोकशान्तये ॥ १७॥
धर्मशास्त्रोपदेशेन शोकमोहविवर्जिता ।
प्रसन्नातिसुशीलासौ बभूव शबरी सखी ॥ १८॥
इति श्रीमदय्यप्पगीतायां अय्यप्पशबरीसंवादे
निर्ममयोगो नामाष्टमोऽध्यायः ॥ ८॥
अथ नवमोऽध्यायः ।
शयरी उवाच -
सर्वेषामपि मन्त्राणां को मन्त्रश्श्रेयसे प्रभो ।
बद मामरविन्दाक्ष अय्यप्प विदुषां वर ॥ १॥
श्री अय्यप्प उवाच -
हंसमन्त्रो महामन्त्रः प्राणमन्त्रोऽयमुच्यते ।
प्राणानां गतिमध्ये तु स्वयम्भूर्मन्त्रसम्मतः ॥ २॥
प्रपञ्चमतिविस्तीर्णं जराव्याधिसुपीडितम् ।
जन्ममृत्युजराव्याघ्रैर्नादितं गहनं वनम् ॥ ३॥
हित्वा ब्रह्मणि संशुद्धे हन्ति यातीतिविद्यया ।
अस्मिंल्लोके सतां वृन्दैस्स हंस इति कथ्यते ॥ ४॥
व्यत्ययेन तु सोऽहं स्यादद्वैतश्रुतिभास्करः ।
सर्वद्वैतमृगं हन्तुं मृगराडिव शोभने ॥ ५॥
हंसमन्त्रो महामन्त्रः सोऽहं तेनैव निर्मितः ।
हकारश्च सकारश्च हित्वा भवति मन्त्रराट् ॥ ६॥
विंशत्येकसहस्त्राणि षट्शतानि भवार्णवे ।
जीवो जपति सर्वेषु शरीरेषु दिवानिशम् ॥ ७॥
हकारेण बहिर्याति सकारेण विशेत्पुनः ।
हंस हंसेत्यमुं मन्त्रं जीवो जपति सर्वदा ॥ ८॥
प्रणवो धनुश्शरो ह्यात्मा ब्रह्म तल्लक्ष्यमुच्यते ।
अप्रमत्तेन वेद्धव्यं शरवत्तन्मयो भवेत् ॥ ९॥
प्रणवं हीश्वरं विद्यात्सर्वस्य हृदि संस्थितम् ।
सर्वव्यापिनमोङ्कारं मत्वा धीरो न शोचति ॥ १०॥
ॐ च द्वादशसाहस्रं प्रत्यहं यो जपेन्नरः ।
तस्य द्वादशभिर्मासैः परमात्मा प्रकाशते ॥ ११॥
प्रणवार्थश्शिवस्साक्षी विष्णुरूपोऽहमव्ययः ।
ये येऽर्थाः प्रणवे भान्ति ते सर्वे मयि संस्थिताः ॥ १२॥
एतद्ध्येवाक्षरं ब्रह्म एतद्ध्येवाक्षरं परम् ।
एतद्ध्येवाक्षरं ज्ञात्वा यो यदिच्छति तस्य तत् ॥ १३॥
प्राणिनां सर्वधर्माणां शास्तारमपि कारणम् ।
प्रणवेशं हि मां ज्ञात्वा सर्वपापैः प्रमुच्यते ॥ १४॥
प्रणवेन प्रणश्यन्ति जन्मदुःखजरादयः ।
सुशीले प्रणवे चित्तं स्थापय त्वं प्रयत्नतः ॥ १५॥
एकाक्षरस्वरूपेण वेदशास्त्रेषु मानिनि ।
सर्वसिद्धिप्रदानाय तिष्ठामि भगवत्प्रिये ॥ १६॥
आचारः प्रथमो धर्मो धर्मसंशासकोऽस्म्यहम् ।
नैवाचारविहीनस्य सिद्धिर्मन्त्रेण सत्वरम् ॥ १७॥
आचारेण तु पूतस्य पुरुषस्य विशेषतः ।
सिद्धिस्सञ्जायते शीघ्रं वेदशास्त्रानुसारतः ॥ १८॥
इति श्रीमदय्यप्पगीतायां अय्यप्पशबरीसंवादे
मन्त्रयोगो नाम नवमोऽध्यायः ॥ ९॥
अथ दशमोऽध्यायः ।
श्री शबरी उवाच -
को धर्मस्सर्ववर्णानां बन्धविध्वंसकारकः ।
वक्तव्यं भगवन्मह्यमन्यः को वक्तुमीश्वरः ॥ १॥
श्री अय्यप्प उवाच -
निःश्रेयसं यतस्सिध्येत्पुनरभ्युदयो यतः ।
दशलक्षणधर्मस्तु सर्वेषामुपकारकः ॥ २॥
सुखे दुःखे गते धैर्यं तथा मानापमानयोः ।
इन्द्रियाणां स्वधर्मेषु चालनं दमनं दमः ॥ ३॥
प्रतीकारक्षमत्वेऽपि विद्रोहसहनं क्षमा ।
परस्वहरणं चौर्यमस्तेयं तदभावतः ॥ ४॥
कस्यचित्किमपि नो हरणीयं मर्मवाक्यमपि नोचरणीयम् ।
मापतेः पदयुगं स्मरणीयं लीलया भववनं तरणीयम् ॥ ५॥
महती शुद्धता शौचं स्वदेहमनसोरपि ।
शममृज्जलगन्धैश्च अनुष्ठेयं सदा नृभिः ॥ ६॥
इन्द्रियाणामधर्मेषु प्रवृत्तीनां निवारणम् ।
प्रवर्तनं स्वधर्मेषु निग्रहञ्चावधारय ॥ ७॥
निर्लज्जस्य च लोकेऽस्मिन्निन्दा भवति सन्ततम् ।
ततो लज्जा स्वधर्मश्च कीर्तिता नितरांशुमे ॥ ८॥
अङ्गानि वेदाश्चत्वारो मीमांसान्यायविस्तरः ।
अर्थशास्त्रं पुराणश्च विद्या ह्येताश्चतुर्दश ॥ ९॥
कार्याकार्यविचारेषु शास्त्रमेव विशिष्यते ।
अतो विद्या स्वधर्मस्य लक्षणं कीर्तिता मया ॥ १०॥
यथार्थकथनं सत्यं भूतानां हितमेव च ।
लौकिके परमार्थे च हरिश्चन्द्रेतिहासवत् ॥ ११॥
क्रोधो द्वेषो महापापी नरकद्वारविश्रुतेः ।
एतस्माद्विपरीतोऽसावक्रोधो धर्मलक्षणम् ॥ १२॥
क्रोधमूलो मनस्तापः क्रोधस्संसारबन्धनम् ।
धर्मक्षयकरः क्रोधस्ततः क्रोधं परित्यजेत् ॥ १३॥
धर्मनाशो यदा देवि चाधर्मश्चैधते यदा!
तदा धर्मस्य शास्ताहं भविष्यामि मनोहरे ॥ १४॥
अकामश्चात्मकामो वा मां भजेद्धर्मपालकम् ।
शरणागतशास्तारं शबरीगिरिनायकम् ॥ १५॥
मातरं पितरं वापि भजेद्भक्तिपरायणः ।
गुरूणां गुरुपत्नीनामतिथीनां गवामपि ॥ १६॥
कर्माशुभं परित्यज्य शुभं कर्म समाचरेत् ।
अन्यस्य गुणदोषाणामविचार्य दिवानिशम् ॥ १७॥
साधूनां समचित्तानां सेवा कार्या तपस्विनि ।
कामक्रोधादिदोषाणां शमनं तेन जायते ॥ १८॥
अन्येषामपि धर्माणां सेवाधर्मों विशिष्यते ।
सेवया वशमायाति त्रैलोक्यं सचराचरम् ॥ १९॥
यत्र धर्मस्तु तत्राहं यत्राहं तत्र देवताः ।
विभूतयस्सुरा यत्र वसन्ति वरवर्णिनि ॥ २०॥
इति श्रीमदय्यप्पगीतायां अय्यप्प शबरीसंवादे
धर्मयोगो नाम दशमोऽध्यायः ॥ १०॥
अथैकादशोऽध्यायः ।
श्री शबरी उवाच -
कर्म किञ्च शुभं प्रोक्तमशुभ कर्म किम्प्रभो ।
सर्वं मे सुविनीतायै वद त्वं करुणाकर ॥ १॥
श्री अय्यप्प उवाच -
सकामैस्स्वर्गसाम्राज्यमकामैश्चात्मतोषणम् ।
शुभं कर्म च निष्कामं सकाममशुभं स्मृतम् ॥ २॥
कर्मणा बध्यते जन्तुर्विद्यया च विमुच्यते ।
तस्मात्कर्म न कुर्वन्ति चात्मवन्तो यतीश्वराः ॥ ३॥
न कर्मणा प्रजावित्तैस्त्यागेनैवामृतं शुभे ।
कर्मणामपरित्यागे फलत्यागो विशिष्यते ॥ ४॥
श्री शबरी उवाच -
वैदिकं कर्म देवेश सकामाय निरूपितम् ।
अशुभं तत्कथं प्रोक्तं भवता केवलात्मना ॥ ५॥
श्री अय्यप्प उवाच -
स्वर्गकामो यजेतात्र सकामाय निरूपितम् ।
वैदिकं कर्म वामाक्षि यद्यपि श्रुतिचोदितम् ॥ ६॥
कर्माकमविकर्मेति वेदवादो न प्राकृतः। ॥
वेदस्येश्वररूपत्वात्तत्र मुह्यन्ति पण्डिताः ॥ ७॥
परोक्षवादो वेदोऽयमनभिज्ञानुशासनम् ।
कर्माणि कर्ममोक्षाय विधत्ते ह्यौषधं यथा ॥ ८॥
एवं लोकं परं विद्यान्नश्वरं कर्मनिर्मितम् ।
सतुल्यातिशयध्वंसं यथामण्डलवर्तिनाम् ॥ ९॥
स्वर्गादिकफलं तुच्छं कामिनां विषयात्मनाम् ।
नश्वरञ्च भयव्याप्तं शुभे तच्च शुभेतरत् ॥ १०॥
न ज्ञानभेदं जनयेदज्ञानां कर्मसङ्गिनाम् ।
तोषयेत्सर्वकर्माणि ज्ञानी तानि समाचरन् ॥ ११॥
आलस्यं हि मनुष्याणां शरीरस्थो महारिपुः ।
नास्त्युद्यमसमो बन्धुर्यं कृत्वा नावसीदति ॥ १२॥
अहङ्कारं परित्यज्य कर्ताहमिति शोभने ।
कर्तव्यं कुरु लोकानां कल्याणाय निरन्तरम् ॥ १३॥
रक्षणाय च वेदानां शिक्षणाय सुरद्विषाम् ।
अवतीर्णोऽस्मि देशेऽस्मिन् चन्द्रशेखरतेजसा ॥ १४॥
पापं हन्ति विषं हन्ति विषयानपि दुर्गुणान् ।
शूलरोगादि सर्व च हन्ति मे दर्शनं शुभम् ॥ १५॥
चतुर्णां पुरुषार्थानां साधिका जगतीतले ।
चरित्रस्यापि कीर्तेर्मे सुभगे शरणागतिः ॥ १६॥
कर्मासक्तो यजेच्छक्तिं ज्ञानासक्तो यजेद्गुरुम् ।
मोक्षासक्तो यजेच्छम्भुं सर्वासक्तस्तु मां यजेत् ॥ १७॥
फलेच्छारहितं कर्म यत्तु निष्कामिना कृतम् ।
तत्सर्वं मङ्गलं देवि सर्वमन्यद्विडम्बनम् ॥ १८॥
इति श्रीमदय्यप्पगीतायां कर्मयोगो नामैकादशोऽध्यायः ॥ ११॥
अथ द्वादशोऽध्यायः ।
श्री अय्यप्प उवाच -
अद्रोही पुण्यशीलश्च ब्रह्मचारिव्रते स्थितः ।
मन्नामजपचित्तात्मा गुरुसेवापरायणः ॥ १॥
ज्ञानविज्ञानपूतात्मा सुराणामपि दुर्लभम् ।
प्राप्नोति परमं स्थानं चिन्मयं निर्गुणं शिवम् ॥ २॥
शुभवैराग्यमास्थाय प्राणायामविधानतः ।
अहिंसया च भूतानां मुनिवृत्या जितेन्द्रियः ॥ ३॥
पञ्चक्लेशनिवृत्यर्थं पुण्येन बहुजन्मनाम् ।
यतते स्वात्मलाभाय विचारेण समाधिना ॥ ४॥
मद्भक्तलक्षणं देवि प्राणिनामुपकारिता ।
कर्मणा मनसा वाचा सर्वान्प्रति च नम्रता ॥ ५॥
काम एव महाशत्रुस्सर्वेषामुपरि स्थितः ।
भक्त्यास्य जयमायाति भक्तस्य मम भामिनि ॥ ६॥
जिते कामे जितः सर्वः क्रोधादिर्दुर्गुणः शुमे ।
अमलात्मा ततश्शान्तो योगिराजो भविष्यति ॥ ७॥
ब्रह्मचर्येण तपसा देवा मृत्युमुपाघ्नत ।
इति वैदिकसिद्धान्ते विशदं विपिनेचरि ॥ ८॥
अन्योन्यमुपकारेण जीवनं शुद्धजीवनम् ।
अतो दानं प्रशंसन्ति देवा गन्धर्वमानवाः ॥ ९॥
सुवर्णं रजतं वस्त्रं मञ्जूषापशुकम्बलम् ।
वापी च सदनं क्षेत्रं भूषणं वाहनादिकम् ॥ १०॥
नैतानि सममन्नेन दत्तेनापि विवेकिने ।
अन्नदानेन सन्तुष्टो भविष्यामि विशेषतः ॥ ११॥
आत्मा तु निर्गुणस्साक्षान्निर्विकारोऽयमव्ययः ।
मायामयमिदं विश्वं त्रैगुण्यं वेत्ति पण्डितः ॥ १२॥
गुणातीतपदं प्राप्य शान्तो भवति योगिराट् ।
तस्मात्त्वमरविन्दाक्षि स्वात्मानं निर्गुणं स्मर ॥ १३॥
आत्मतत्त्वं न जानाति लोकतत्त्वविचक्षणः ।
पण्डितोऽपि स मूर्खो हि जन्ममृत्युवशङ्गतः ॥ १४॥
रजो धूनय सत्त्वेन रजसा च तमो जय ।
समाधिना जयेस्सत्त्वं तत्त्वं वनचरेश्वरि ॥ १५॥
सत्त्वतो ज्ञानमायाति रजसो लोभतस्करः ।
प्रमादमोहौ भवतस्तथाज्ञानं तमोगुणात् ॥ १६॥
सत्त्वादूर्ध्वगतिर्भन्द्रे रजसा मध्यवर्तनम् ।
तमसोऽधोगतिर्देवि गुणानां वशवर्तिनाम् ॥ १७॥
गुणेभ्योऽन्यन्न कर्तारं दर्शकश्चानुपश्यति ।
आत्मानं वेत्ति तत्त्वेन तदा ब्रह्मपदं व्रजेत् ॥ १८॥
कर्ताहञ्च सुमोक्ताहं सुखितो दुःखजीवनः ।
इति तद्गुणमाहात्म्यात् ज्ञायते व्यवहारतः ॥ १९॥
इति श्रीमदय्यप्पगीतायां गुणयोगो नाम द्वादशोऽध्यायः ॥ १२॥
अथ त्रयोदशोऽध्यायः ।
श्री अय्यप्प उवाच -
यथा वृक्षस्य बीजेऽस्मिन्महान् वृक्ष उपस्थितः ।
तथा ब्रह्मणि सर्वे च भूचराः खेचरादयः ॥ १॥
बीजादपि सुसूक्ष्माया शक्तिरत्र विराजते ।
तथा ब्रह्माणि माया तु चानिर्वाच्यपदे स्थिता ॥ २॥
बीजाद्भिन्ना न तच्छक्तिर्विचारेण विना तु या ।
दृश्यते तु तथा माया ब्रह्मभिन्ना न दृश्यते ॥ ३॥
वृक्षश्शाखा ततः पत्रं कुसुमानि फलानि च ।
हिरण्यगर्भस्सूत्रात्मा चेश्वरो जीवको विराट् ॥ ४॥
वृक्षाधस्स्था यथा छाया वातेन परिवर्तिता ।
सुखदुःखे तथा विश्वे कर्मणा परिवर्तिते ॥ ५॥
ब्रह्म वीजं जगद्वृक्षो जनितो मायया पुरा ।
अस्य बीजविचारेण पूर्णोऽहं पुरुषोत्तमः ॥ ६॥
अपो विना न वृक्षस्य जीवन जगदन्तरे ।
अय्यप्पेन विना जीवा न जीवन्ति जगत्त्रये ॥ ७॥
क्षुत्पिपसे च प्राणानां धर्मो दुःखं सुखं तथा ।
स्वान्तस्यैव न देहस्य सूक्ष्मस्य न हि देहिनः ॥ ८॥
जपाकुसुमसंसर्गान्मणौ तिष्ठति रक्तिमा ।
तथा हि देहसंसर्गात्सुखं दुःखमिहात्मनि ॥ ९॥
सत्सङ्गेन कुठारेण विचारेण च मानवि ।
मूलाज्ञानमहावृक्षं छित्वा कैवल्यमाचर ॥ १०॥
निर्वेदासिः करे यस्य संसारः किं करिष्यति ।
रागो यद्यस्ति पुन्देहे सच्छास्त्रं किङ्करिष्यति ॥ ११॥
रागद्वेषविहीनस्य भक्तस्य परमात्मनः ।
निर्वेदासिः करे यस्य सफलं वेद शासनम् ॥ १२॥
नित्यमेकाक्षरं योगी व्याहरन् ब्रह्म चोमिति ।
तदर्थं च हृदि ध्यायन् प्रयाणे परमं पदम् ॥ १३॥
जपयज्ञो महायज्ञो ज्ञानयज्ञस्ततः परम् ।
अग्निसेवनयज्ञस्तु स्वर्गमात्रफलप्रदः ॥ १४॥
ज्ञानेनाध्यात्मिकं दुःखमाधिभौतिकमेव च ।
अधिदैवं च हे देवि समूलञ्च प्रणश्यति ॥ १५॥
श्रवणं मननं तस्य निदिध्यासनमेव च ।
साधनानि मुमुक्षूणां श्रुतीनां गुरुवाक्यतः ॥ १६॥
गुरुतीर्थाम्भसि स्नातो विरागतिलकीकृतः ।
विचारधनुरादाय हिनस्त्यज्ञानतस्करम् ॥ १७॥
अनेन कृतकृत्यत्वमाप्नुयात्साधको यदि ।
सुशीलश्चाकृतद्रोहः सर्वभूतहिते रतः ॥ १८॥
इति श्रीमदय्यप्पगीतायां ब्रह्मदर्शनयोगो नाम त्रयोदशोऽध्यायः ॥ १३॥
अथ चतुर्दशोऽध्यायः ।
श्री अय्यप्प उवाच -
यस्य दानं दमो हिंसा तपस्सत्यमपैशुनम् ।
त्यागो दयाप्यलोलुप्त्वं क्षान्तिरक्रोधमार्दवम् ॥ १॥
हीरचापलमद्रोहो शुचित्वन्नातिमानिता ।
आर्जवञ्चाभयं यज्ञो ज्ञानयोगदृढा मतिः ॥ २॥
स्वाध्यायश्चित्तनैर्मल्यं क्षमा तेजो धृतिश्शुभे ।
मोक्षधर्मस्य तस्यैता दैवीप्रकृतिसम्पदः ॥ ३॥
पुण्यशीलस्य विप्रस्य तपसा बहुजन्मना ।
भाग्येन जायते दैवी प्रकृतिर्मोक्षदायिनी ॥ ४॥
दर्पोऽभिमानताज्ञानं क्रोधः परुषभाषणम् ।
अनीश्वरत्वं विश्वस्य ममत्वं भोगवस्तुषु ॥ ५॥
अधर्मेण धनप्राप्तौ रुचिस्सज्जनशत्रुता ।
विष्णुभक्तः शिवद्रोही शिवभक्तो हरिद्रुहः ॥ ६॥
कलहित्वञ्च दुर्बुद्धिः कामिन्यां काञ्चने रतिः ।
मायावी च सुरद्रोही परमार्थपराङ्मुखः ॥ ७॥
आसुरीप्रकृतेर्जातलक्षणं ह्यनुवर्णितम् ।
समासेन विशालाक्षि मोक्षमार्गभयङ्करम् ॥ ८॥
अनाचारेण शास्तारं भगवन्तं न पश्यति ।
अतो धर्मविचारेण कालं नयति बुद्धिमान् ॥ ९॥
माता धर्मः पिता धर्मो धर्मो नौर्भवसागरे ।
लोकेऽस्मिन्परलोके च धर्मस्सर्वस्य रक्षकः ॥ १०॥
प्राणत्यागे भयं नास्ति धर्मत्यागे भयं स्मृतम् ।
तस्मात्स्वधर्मो न त्याज्या सुखसाम्राज्यभास्करः ॥ ११॥
आसुरीं प्रकृतिं हित्वा दैवीं प्रकृतिमाश्रयेत् ।
आसुरी कुटिला दुष्टा दैवी मङ्गलशालिनी ॥ १२॥
प्रतिबिम्बं जले शुद्धे दृश्यते च कलानिधेः ।
परिशुद्धमनस्यात्मा दृश्यते तु तथा सताम् ॥ १३॥
सुभूषणादिकं व्यर्थं केवलं वसनं विना ।
सुव्याख्यानादिकं व्यर्थं निजात्मानुभवं विना ॥ १४॥
स्वात्मानुभवयुक्तस्य चाचार्यस्य प्रसन्नवाक् ।
सफला तु भवेदत्र शुक्तौ सुस्वातिबिन्दुवत् ॥ १५॥
सन्तोषेण विना सौख्यं न भूतं न भविष्यति ।
सन्तोषधनमादाय यथालाभेन तुष्यतु ॥ १६॥
आत्मा रामः क्षमा सीता क्रोधो रावणपत्तनम् ।
सागरः कामलोभादिर्हनुमान् ब्रह्मचिन्तनम् ॥ १७॥
सेवया जगदीशस्य गुरोश्च परमात्मनः ।
कामक्रोधादिकं सर्वं क्षणाज्जयति साधकः ॥ १८॥
इति श्रीमदय्यप्पगीतायां अमरासुरसम्पद्विभागयोगो
नाम चतुर्दशोऽध्यायः ॥ १४॥
अथ पञ्चदशोऽध्यायः ।
श्री अय्यप्प उवाच -
श्रद्धालवोऽत्र सर्वत्र वैदिकेवधिकारिणः ।
तेषाञ्चोक्तफलं शान्तिं लभते ब्रह्मवादिनि ॥ १॥
संशयात्मा तु पापिष्ठस्सर्वेषामुपरि स्थितः ।
लोकेऽस्मिन्परलोकेऽपि न सुखं संशयात्मनः ॥ २॥
गुरुशास्त्रेषुविश्वासः श्रद्धा भवति सात्विकी ।
स्वर्गादिफलविश्वासो राजसी सा निगद्यते ॥ ३॥
प्रेतादिफलविश्वासश्श्रद्धा भवति तामसी ।
एवं हि त्रिविधा श्रद्धा प्रकारान्तरवर्णिता ॥ ४॥
अश्रद्धया कृतो यज्ञः पुण्यदानं तपश्च यत् ।
तत्सर्वं निष्फलं देवि श्रद्धाहीनेन कर्मणा ॥ ५॥
श्रद्धया देवदेवत्वमश्नुते दिवि सर्वदा ।
श्रद्धा प्रतिष्ठा लोकस्य श्रद्धा वित्तं महात्मनाम् ॥ ६॥
श्रद्धैव चक्षुर्लोकेऽस्मिन्प्रतिमा देवदर्शने ।
प्रत्यक्षेण च शास्त्रेण प्रत्यक्षं बाध्यते न हि ॥ ७॥
वृष्टिं विना यथा वर्षः कासारश्च जलं विना ।
श्रद्धां विना तथा धर्मी शोभते न शिवप्रिये ॥ ८॥
सर्वं दोषमयं विद्धि मायया रचितं हि यत् ।
परमात्मनि निर्दोषे श्रद्धा कार्या प्रयत्नतः ॥ ९॥
दोषोऽप्यस्ति गुणोऽप्यस्ति अदोषो नैव विद्यते ।
सुकोमलस्य पद्मस्य नाले भवति कण्टकः ॥ १०॥
गुणेषु रमते विद्वान् दोषेषु रमते शठः ।
पुष्पेषु रमते भृङ्गो गर्तेषु ग्रामसूकरः ॥ ११॥
शिवमक्षरमव्यक्तं करणानामगोचरम् ।
आत्मानमाखिलाधारं भावयेच्छान्तचेतसा ॥ १२॥
मन एव मनुष्याणां कारणं बन्धमोक्षयोः ।
बन्धने विषयासक्तं मोक्षायाविषयं मनः ॥ १३॥
हित्वा तु विषयाभ्यासं ब्रह्माभ्यासेन सन्ततम् ।
मनोमर्कटवद्भ्रान्तमात्मनि स्यात्स्थिरं यदा ॥ १४॥
शुभ्रं ज्योतिर्मयं दिव्यं शाश्वतं निर्गुणं परम् ।
योगाग्निक्षालितस्वान्तस्तदा पश्यति साक्षिणम् ॥ १५॥
दृश्यते त्वग्रया बुद्ध्या सूक्ष्मया सूक्ष्मदर्शिभिः ।
इति वैदिकसिद्धान्ते दर्शितं नचिकेतसे ॥ १६॥
चतुर्णां पुरुषार्थानां मोक्षस्यैव प्रधानतः ।
नित्यत्वादरविन्दाक्षि त्रयाणां तदभावतः ॥ १७॥
श्रद्धया भज चात्मानं जरामरणवर्जितम् ।
सोऽहं सोऽहमिति प्राज्ञि जैगीषव्यं मुनिर्यथा ॥ १८॥
इति श्रीमदय्यप्पगीतायां विश्वासयोगो नाम पञ्चदशोऽध्यायः ॥ १५॥
अथ षोडशोऽध्यायः ।
श्री अय्यप्प उवाच -
अभूमिषु कथं सिद्धिः कुसूलस्थयवादिवत् ।
भूमिस्थस्य भवेत्सिद्धिर्बीजस्योर्वरभूमिषु ॥ १॥
श्री शबरी उवाच -
भूमयः कति तत्त्वज्ञ का सिद्धिर्विदुषां वर ।
मुमुक्षणां हरीशात्मन् सर्वं वर्णय विस्तरात् ॥ २॥
श्री अय्यप्प उवाच -
शुभेच्छा प्रथमा ज्ञेया द्वितीया सुविचारणा ।
तनुमानस्यपि ज्ञेया सत्त्वापत्तिश्चतुर्थिका ॥ ३॥
पुनः पञ्चम्यसंसक्तिः पदार्थाभावना पुनः ।
तुर्यगा सप्तमी देवि योगिनां मुक्तिदायिनी ॥ ४॥
शास्त्रसज्जनसम्पर्कान्मूढोऽहमिति या मतिः ।
वैराग्यपूर्विकेच्छायाश्शुमेच्छा सुमनोहरे ॥ ५॥
शास्त्रसद्गुरुसम्पर्कवैराग्याभ्यासपूर्विका ।
सदाचारप्रवृत्तिर्या सुभगे सुविचारणा ॥ ६॥
रक्तता चेन्द्रियार्थेषु विचारेण शुभेच्छया ।
यत्र सा तनुतामेयादनघे तनुमानसि ॥ ७॥
भूमित्रयकृताभ्यासाच्चित्ते च विरतेर्वशात् ।
सत्त्वात्मनि स्थिते शुद्धे सत्त्वापत्तिर्वरानने ॥ ८॥
भुवां चतुष्टयाभ्यासाद्या संसर्गयुता दशा ।
रूढसत्त्वचमत्काराद्देव्यसंसक्तिनामिका ॥ ९॥
भूमिकापञ्चकाभ्यासात्स्वात्मारामतया दृढम् ।
बाह्याभ्यन्तरवस्तूनां षष्ठी भूमिरभावनात् ॥ १०॥
पञ्चमी भूमिमध्ये तु जीवन्मुक्तो विराजते ।
ब्रह्मानन्दरसं पीत्वा मत्तभ्रमरराडिव ॥ ११॥
षष्ठं भूतलमारुह्य शुष्कपत्रवदास्थितिः ।
स्वयं नचेष्टते योगी यथा तत्पवनेरितम् ॥ १२॥
भूमिषट्कचिराम्यासाद्द्वैतस्यानुपलम्भनात् ।
या स्वभावैकनिष्ठा सा तुर्या ज्ञेया च भूमिका ॥ १३॥
इयं हि जीवन्मुक्तेषु तुर्य्यावस्था निरूपिता ।
विदेहमुक्तिविषयं तुर्यातीतमतः परम् ॥ १४॥
सप्तमी भूमिका देवि योगिनां मुक्तिदायिनी ।
तत्र गत्वा चिरं विद्वानात्मारामो विराजते ॥ १५॥
कृतस्य करणं नास्ति मृतस्य मरणं यथा ।
मुक्तस्य जननं नास्ति अमृतस्य मृतियथा ॥ १६॥
भूमिकानां स्वरूपन्तु मया साधु निरूपितम् ।
तुभ्यं कमलपत्राक्षि कैवल्यप्राप्तिसाधनम् ॥ १७॥
इयं वेदशिरो विद्या गोपनीया प्रयत्नतः ।
न चाशुश्रुषवे देया पुत्रायाप्यविवेकिने ॥ १८॥
मुमुक्षुगुरुभक्ताय सुशान्ताय विवेकिने ।
आहूयापि च देयेयं विद्या कल्याणकारिणी ॥ १९॥
इति श्रीमदय्यप्पगीतायां भूमिकायोगो नाम षोडशोऽध्यायः ॥ १६॥
अथ सप्तदशोऽध्यायः ।
श्री अय्यप्प उवाच -
साधनाभ्यासपाकेभ्यस्त्रिधा स्याच्छरणागतिः ।
तवैवाहं ममैवासौ स एवाहमिति स्थिता ॥ १॥
स्वामिसेवकभावेन चात्मभावनया पुनः ।
तव दासो मम स्वामी सोऽहमस्मि विचारतः ॥ २॥
नामगोत्रविनिर्मुक्तं सत्यमद्वैतभास्करम् ।
सोऽहं सोऽहमिति स्वान्ते भज मां चिन्मयं परम् ॥ ३॥
शुद्धोऽस्मि बुद्धोऽस्मि सनातनोस्मि
संसारमायापरिवर्जितोऽस्मि ।
ब्रह्मस्वरूपोऽस्मि निरञ्जनोऽस्मि
वेदान्ततत्त्वार्थविकासकोऽस्मि ॥ ४॥
सस्यानां शरणं वृष्टिर्मत्स्यानां शरणं जलम् ।
देवानां शरणं यज्ञः आर्तानां शरणं त्वहम् ॥ ५॥
सर्वोपनिषदां सारो ज्ञानविज्ञानसंयुतः ।
उपदिष्टो मया देवि त्वन्मोहो विगतो न वा ॥ ६॥
श्री शबरी उवाच -
तृप्ताऽस्मि पुण्डरीकाक्ष तववाक्यामृतेन तु ।
कृतकृत्या न सन्देहो दयासिन्धो सुरेश्वर ॥ ७॥
देहबुद्ध्या तु दासी ते जीवबुद्ध्या त्वदंशकः ।
ब्रह्मबुद्ध्या त्वमेवाहमिति मे निश्चिता मतिः ॥ ८॥
श्री अय्यप्प उवाच -
वेदसारं परित्यज्य चान्यसारं वृणोति यः ।
मुक्ताफलं विहायासौ लोष्टं गृह्णाति दुर्मतिः ॥ ९॥
शान्तितुल्यं तपो नास्ति लोभतुल्यो न दुर्गुणः ।
कामतुल्यस्सतां वैरी मातृतुल्या न देवता ॥ १०॥
गुरुशास्त्रं विना ज्ञानं व्यञ्जनं लवणं विना ।
सुसन्ततिं विना भार्या भूषणं वसनं विना ॥ ११॥
धर्मं विना न पाण्डित्यं विना शीलं न यौवनम् ।
न शोभते विशालाक्षि वृक्षस्तु च्छदनं विना ॥ १२॥
स्वसंवेद्यं हि तद्ब्रह्मा कुमारी श्रीमुखं यथा ।
अयोगी नैव जानाति जात्यन्धो हि यथा घटम् ॥ १३॥
न मोक्षो नभसः पृष्ठे न पाताले न भूतले ।
मोक्षो हि बिमलं चेतस्सम्यग्ज्ञानविबोधितम् ॥ १४॥
भक्तिभाजनमादाय गत्वा गुरुनदीतटे ।
विज्ञानपयसो देवि चात्मानमभिषेचय ॥ १५॥
आत्मानं चेद्विजानीयादहमस्मीति पूरुषः ।
किमिच्छन्कस्यकामाय शरीरमनुसञ्ज्वरेत् ॥ १६॥
सत्यं ज्ञानमनन्तं यद्ब्रह्मलक्षणमुच्यते ।
आत्मा तु सच्चिदानन्द एकत्वमुभयोरपि ॥ १७॥
तमेव शरणं गच्छ सर्वभावेन भामिनि ।
तत्प्रसादत्परां शान्तिमचिरेणाधिगच्छसि ॥ १८॥
इति श्रीमदय्यप्पगीतायां शरणागतियोगो नाम सप्तदशोऽध्यायः ॥ १७॥
अथाष्टादशोऽध्यायः ।
श्री शबरी उवाच -
श्रेणी ते प्रथमा तु सर्वजगतां सन्धारिणी मेदिनी
सोपानस्य तथाऽपरा सुविमला तत्त्वं जलं शोभनम् ।
तेजस्तस्य तृतीयका च तमसो राशेरलं भक्षकम् ।
भूयो वायुरलङ्करोति भगवन् व्योमस्थिता पञ्चमी ॥ १॥
षष्ठी तस्य विराजते तु रुचिरा श्रेणी तु वाणी शुभा
भूयः पाणियुगञ्च मङ्गलमयी सास्यादनङ्गारिज ।
पादौ चापि सुगण्यते सुरगुरो श्रेणीपुनश्चाष्टमी
पायुश्चेन्द्रियमस्य सुष्ठु नवमीसञ्जायते शङ्करी ॥ २॥
रम्यं ते खलु तस्य देव दशमी श्रेणी च शिश्नेन्द्रियं
श्रोत्रं चात्र प्रचण्डशास्त्रकुशलञ्चैकादशी श्रेणिका ।
त्वग्भूयोऽपि च शोभनारसपतेस्तत्त्वं परं द्वादशी
चक्षुश्चापि सुरूपदर्शनकरं जेगीयते श्रेणिका ॥ ३॥
घ्राणञ्चैव चतुर्दशी परतरं गन्धोद्वहं सा शुभा
स्वाद्वस्वादुविचारणे च रसना जिह्वाग्रदेशस्थिता ।
श्रीणी पञ्चदशी मनोमननकृच्छ्रेणी वरा षोडशी
बुद्धिर्बोधकरी सदाशुभकरी श्रेणी मनोमोदिनी ॥ ४॥
श्रेणी ते परिमार्जिता सकलदा कामप्रवाहानला
सोपानस्य विराजतेऽतिजयिनी जीवात्मतत्त्वेन या ।
श्रीशेशात्मजनस्य पन्तलपतेरीशस्य शान्तिप्रदा
इत्यष्टादशतत्त्वमच्युतपदस्थानं हि वन्दे मुदा ॥ ५॥
नीलालङ्करणैस्सुशोभिततनुर्विद्या विनोदप्रियो
ब्रह्मोद्योतलसन्मुखेन तिमिरं दूरीकरोति स्वयम् ।
हस्ताग्रे कृतमुद्रया निजसुखं सम्बोधयन् शाश्वतं
अय्यप्पो जयति प्रपञ्चपतितान् सन्तारयन् सन्ततम् ॥ ६॥
श्रीमाता परमात्मनो भगवतस्सम्मोहिनी मोहिनी
कैलासाद्रिनिकेतनोऽस्य जनकश्श्रीविश्वनाथः प्रभुः ।
उत्तुङ्गे शबरीगिरौ परिलसन्नीलाम्बराडम्बरः
अय्यप्पश्शरणागतान्निजजनान् रक्षन्मुदा शोभते ॥ ७॥
आत्मज्ञानविचारकार्यकुशले वेदार्थचिन्तामणौ
आकारादिविवर्जितेऽपि सगुणे भक्तप्रियार्थे विभो ।
कान्तारे मृगयार्थमत्र चरतः शान्तस्य भक्तात्मनः
आदौ पन्तलभूपतेर्निपतितं सच्चिसुखे दर्शनम् ॥ ८॥
लीलां तस्य नृपस्य वेश्मनि चिरं कृत्वा वनं संश्रितः
अत्र त्वत्पदपङ्कजे निपतितुं चायान्त्यसङ्ख्या जनाः ।
त्वत्पादस्मरणं विधाय विधिवन्मत्तेभहिंसात्मनां
श्रुत्वा शब्दमनन्यभक्तिविषया भक्ताश्शरण्ये त्वयि ॥ ९॥
पुत्रत्वं गतवान् भवानखिलविद्भूपस्य भाग्येन वै
शौर्यं त्वद्गुणशान्तिदान्तिनिकरं संवीक्ष्य राज्ञी भिया ।
अय्यप्पो यदि मद्गृहे निजसुतो नाप्नोति राज्यासनं
कापव्यं खलु निर्मितं भगवतश्शास्तुस्तया नाशने ॥ १०॥
अय्यप्पो जगतां गुरुस्सकलविद्वेदान्तवागीश्वरः
मायानिर्मितराज्यभारविषये बैराग्यवानात्मक् ।
अद्वैतं सकलं चराचरमिदं विज्ञायते विद्यया ।
आत्मारामपदप्रबुद्धमनसो राज्यादिलाभेन किम् ॥ ११॥
त्वल्लीलास्थलिका विभाति पशुभिर्दैवैश्व वृन्दावनं
भेदस्तत्र तु भोगरीतिरहिता वागीश्वरी राधिका ।
गोभिर्नैव तु पुण्डरीकनिचयैः पम्पा कलिन्दात्मजा ।
श्रीकृष्णस्तु न चेशविष्णुतनयो वंशी न वेदध्वनिः ॥ १२॥
आश्चर्यं तव विश्वनाथचरितं हत्वा सुरद्रोहिणं
तुल्यं देवमनुष्यभूतनिकरं रामेण विश्वं पपौ ।
धर्मोपद्रवकारिदेहदहने प्रत्यक्षदावानलः
त्वद्भक्तद्रुमकोटिरक्षणपटुः कादम्बिनीवात्मवान् ॥ १३॥
आनन्दाम्बुधिवर्धनं शिवगुरोः पापाग्निनिर्वापणं
ध्यानं तस्य महात्मनो हृदि सतां कल्याणकल्पद्रुमम् ।
त्वन्नामस्मरणं हि सर्वसुखदं रूपं सदा मङ्गलं
अय्यप्पस्य सुधर्मगोप्तुरमरैर्गीतस्य विश्वात्मनः ॥ १४॥
सत्यं शाश्वतमप्रमेयमनघं निर्वाणशान्तिप्रदं
कामक्रोधमदप्रभञ्जनकरं देदीप्यमानं सदा ।
चिन्मुद्रावलयेन वेष्टिततनोरानन्दराशेर्विभोः
अय्यप्पस्य पदारविन्दयुगलं वन्दे मुनीन्द्रैर्नुतम् ॥ १५॥
विज्ञानाणवमौक्तिकोऽसि भगवन् ज्ञानप्रवालोऽथवा
नीरक्षीरविवेकचारुकुशलो हंसोऽसि दुग्धार्णवे ।
त्वद्वक्त्रामलशीतला रसमयी वाणीशरच्चन्द्रिका
शुद्धब्रह्मपरात्परोऽसि शबरी प्राणप्रियो राजसे ॥ १६॥
श्री अय्यप्प उवाच -
सुसंवादात्मकं शास्त्रं प्रथतामावयोस्स्वयम् ।
कीर्तिस्त्वदीयालोकषु पर्वतायिष्यतेऽमुना ॥ १७॥
नमः श्रीविष्णुरूपाय शिवरूपाय तेजसे ।
अय्यप्पाय नमस्तुभ्यं नमः श्रीब्रह्मचारिणे ॥ १८॥
॥ इति श्रीपूज्यपादस्वामीनारायणगिरिशिष्य
अच्युतानन्दकृत श्रीमदय्यप्पगीतायां अय्यप्पशबरी-
संवादे अय्यप्पदर्शनयोगो नामाष्टादशोऽध्यायः ॥ १८॥
॥ शरणमय्यप्पा ॥
Proofread by PSA Easwaran