उतथ्यगीता भारतमञ्जर्यां क्षेमेन्द्रविरचिता
तस्मात्क्रमागतं कुर्याद्द्रष्टारं नृपतिर्हितम् ।
भवन्ति यद्भयात्सर्वे कायस्था भिन्नसंहताः ॥ १३.३५१॥
दासाधिपशतस्यैको भवेदुपरिचिन्तकः ।
तत्सहस्रस्य चाध्यक्षः सर्वं राज्ञो निवेदयेत् । १३.३५२॥
घोषं ग्रामं पुरं राष्ट्रं भक्षयन्त्यधिकारिणः ।
क्रियन्ते यदि न प्राज्ञौरुपर्युपरि चिन्तकाः ।
मलोपदानेनार्हाश्च तीव्रपाकानिवारिणः ॥ १३.३५३॥
शीत्कारकमलोत्कारविपर्यस्तलिपिक्रमैः ।
क एषां भृतभस्त्राणां चौर्यस्योद्भासने क्षमः ॥ १३.३५४॥
तेषां लुण्ठकवृत्तीनां जृम्भारम्भमृजा जुषाम् ।
नगराण्येव चुलकं गलगर्तगलद्गिराम् ॥ १३.३५५॥
तैर्घट्यमानां पृथिवीं रक्षेद्वेतालचेष्टितैः ।
येषां नरकपाकोग्रपर्यन्ते विषमा स्थितिः ॥ १३.३५६॥
यौवनाश्वं नरपतिं प्रागुतथ्योऽवदन्मुनिः ।
पृथिवीपालने राजन्कुरु कण्ठकशोधनम् ॥ १३.३५७॥
अनाथान्दुर्बलान्रक्षेत्कृपणांश्चानुलेपयेत् ।
राज्ञां हि कृपणाक्रन्दैर्मूलान्नश्यन्ति सम्पदः ॥ १३.३५८॥
अर्थोऽप्यनर्थतां याति भूभुजां जनपीडनात् ।
जनापवादपरशुं सहते श्रीलता कथम् ॥ १३.३५९॥
वदान्यः सभ्यवान्वीरः कृतज्ञः सत्यवाक्पटुः ।
अभिजातो भवत्येव प्रजानां सुकृतैर्नृपः ॥ १३.३६०॥
उतथ्येनेति कथिते मान्धाता पृथिवीपतिः ।
तथा शशास यशसा यथा जीवन्निव स्थितः ॥ १३.३६१॥
इति भारतमञ्जर्यां क्षेमेन्द्रविरचिता उतथ्यगीता समाप्ता ।
शान्तिपर्वणि राजधर्माः श्लोकानि ३५१-३६१