श्रीहनुमद्गीतम्
विनुतदैवते विश्वसद्गुरो हनुमदाख्य भो हन्त ते नमः ।
मनुजतां गते प्रेमतः सदा जनुरलङ्कलं जायतां ध्रुवम् ॥ १॥
विमलगौतमीवारिमज्जनैः सुमतिभिः सदा सेवितं भजे ।
विमलचेतसा वायुनन्दनं कमललोचनं कामितार्थदम् ॥ २॥
रघुपतिप्रियं राक्षसाप्रियं त्वघविदारकं स्वाङ्घ्रिसेविनाम् ।
जगदधीश्वरं जानकीहितं नगवराहरं नौमि सादरम् ॥ ३॥
वटतरोरधोऽवस्थितं हरिं कटकपूर्वकाकल्पभूषणम् ।
शठकुठारकं शङ्करं सतां भटतमं हरिं भावयाम्यहम् ॥ ४॥
कविवरेण सत्कृष्टनामिना सुतपसाञ्जना स्थापितं किल ।
क्षितिसुधाशिनां क्षेमदं सदा गतिसुतं स्तुवे गेयचर्यकम् ॥ ५॥
वनधिलङ्घनावाप्तसद्यशाः कनकदीधिते कामिते दिशाम् ।
सुनयने सुरेशार्चकादृशे हनुमदाख्य मे हे मरुत्सुत ॥ ६॥
कपिगणाधिपं कल्पपादपं स्वपदसेविनां सन्ततं सताम् ।
विपणिभूतपैर्वन्दितं सुराधिपतिभिर्भजे धीकृतेऽनिलम् ॥ ७॥
भीम मध्व मे भो त्वदागमे रमणमञ्जसा रामतुष्टिदम् ।
श्रमनिवारकं शान्तिदायकं त्वमनुसेवितुस्त्वां दिशेरज ॥ ८॥
सोन्नमित्यभिधोपेतग्रामसंस्थहनूमतः ।
इमां साङ्कर्षिणीं गीतां पठन् कामितमाप्नुयात् ॥ ९॥
From Hanumatstutimanjari, Mahaperiaval Publication
Proofread by PSA Easwaran psaeaswaran at gmail