हनुमत्प्रसादस्तोत्रम्
विलासो वैदेहीहृदयकमलोन्मीलनकला-
विदग्धो वाचां यः समभवदशोकावनितले ।
प्रमाद्यल्लङ्केशस्मयविदलनोद्दाममहिमा
स दद्यादस्माकं सुरभिरिह वाचां मधुरताम् ॥ १॥
त्विषामीशं देवं वियति समुदञ्चत्स्वकिरणं
सुरद्रोर्मन्वानः फलमिति परीपाकमधुरम् ।
ग्रहीतुं तं मातुर्बहिरवतरन्नेव जठरात्
समुद्युक्तो योऽभूत् स वितरतु घाटीं मम गिराम् ॥ २॥
तुरासाहि स्तोकं रचितवति यस्मिन्नविनयं
वितन्वन्तं स्तब्धं बधिरमवशं लोकमखिलम् ।
समाधातुं कॢप्तं कति कति समीरं स्तुतिगिरः
समन्ताद्वैधात्र्यो दिवि समुदिता नः स शरणम् ॥ ३॥
तपस्तप्त्वा तीव्रं जगति शरदां यच्छतमहो
सुराणां सर्वेषां समभिलषितं चाप्यसुलभम् ।
तदस्मिन् ब्रह्मास्त्रं समजनि यया कुण्ठितबलं
नमस्तस्यै शक्त्यै प्रणतजनगत्यै भवतु मे ॥ ४॥
पुरस्तादुल्लोलोच्चलदलघुवीचीतरलितं
पयोधिं संवीक्ष्य द्रुतगलितधैर्ये कपिकुले ।
जजृम्भे गम्भीरा तनुरधिमहेन्द्रक्षितिधरं
यदीया दिव्या सा भवतु मम भव्याय महते ॥ ५॥
महावेगे तस्मिन् तरति जलधिं साह्यविधये
समायाताः केचिन्न परिगणिताः कार्यवशतः ।
विनश्यद्विश्वासे मरणशरणे दुर्गतजने
सुखं वा दुःखं वा किमु कलयते कार्यपरता ॥ ६॥
गभीरप्रोन्मीलन्नतवलितनाभीविलसितं
मदोद्यल्लोलम्बद्युतिरुचिररोमावलियुतम् ।
समुन्मीलत्सान्द्रत्रिवलिजितगङ्गाम्बुललितं
नताङ्गीवृन्दं को भवति विमुखो वीक्ष्य यदृते ॥ ७॥
स्फुटन्मल्लीमालाकलितकबरीभाररुचिराः
समञ्चद्वक्षोजद्वयविहतकोकीमदभराः ।
समृध्यत्तारुण्या निशि विवसना वीक्ष्य युवती-
र्विना तं धीराग्र्यं जगति गणयेत् तुच्छमिह कः ॥ ८॥
त्रिलोकीकल्याणी त्रिषवणपराणामभिमता
त्रयीवेद्या स्तुत्या त्रिदशपतिसन्त्राणनिपुणा ।
दिदीपे शाखेव क्षितिनिपतिता प्रोन्नततरो-
रशोकोद्याने यन्नयनसुभगा दीप्तिकलिका ॥ ९॥
दयासारद्रोणी दरदलितपङ्केरुहरुचिः
शरज्ज्योत्स्नाधारा शमधनजनानन्दजननी ।
अशोकोद्यानेऽर्चिःकलितकरुणी कापि रुरुचे
यदग्रे कल्याणी कलयतु स नः कामितमिह ॥ १०॥
विलुप्ते विश्वासे विगतवति धैर्ये द्रुमतले
निरूपाभिर्हंहो विनयरहिताभिः परिवृतौ ।
निदेशे यो भावः समजनि रहो भूषणवरे
चिराद् दृष्टे देव्या तमनुगदितुं को नु चतुरः ॥ ११॥
पटीयान् पाथोधेः सलिलमखिलं शोषकलिलं
विधातुं लङ्कां वा भसितकलुषां मारुतसखः ।
यदीयं वालाग्रं स्वयमधिगतो नादहदहो
स मे देवो हार्दं व्यपनयतु गाढान्धतमसम् ॥ १२॥
समुत्साहं ब्रूमः कथमिव कपीनां यदुदिते
समुत्कण्ठा सर्वङ्कषपटुनि गम्भीरवचसि ।
अहो दृष्टा सीतेत्यमृतरसनिष्यन्दमधुरे
निषोदद्बालानामिव स जयतान्मातृवचने ॥ १३॥
यदानीते सान्द्रस्फुरदनुपमानन्दलहरी
यथा धेनोर्वत्सेऽस्रवदिव जगन्मूर्तिहृदये ।
स देवीमूर्धालङ्करणमहिते दृष्टिविषये
मणौ स्यान्मे भूत्यै प्रणतजनचिन्तामणिवरे ॥ १४॥
जयतु जयतु रम्यं ब्रह्मचर्यस्य भाग्यं
जयतु जयतु देव्या अञ्जनायाश्च भाग्यम् ।
जयतु च रघुवीरे भक्तिमद्भागधेयं
जयतु विशरणानां पक्त्रिमं भागधेयम् ॥ १५॥
भैरोजीरङ्गनाथेन कृतं स्तोत्रं हनूमतः ।
भूयाद् भूत्यै रसविदां भक्तिभाजां हनूमति ॥ १६॥
इति (भैरोजी) रङ्गनाथकृतं श्रीहनुमत्प्रसादस्तोत्रं सम्पूर्णम् ।
स्तोत्रसमुच्चयः २ (९९)
Proofread by Rajesh Thyagarajan