श्रीमारुतिस्तवः
॥ श्रीमत रामाय नमः ॥
एतत्स्तवीयपचैकैकपादप्रथमाऽक्षरैरुच्चार्यमाणा
रामरक्षास्तोत्रीयाएते श्लोकाः -
शिरो मे राघवः पातु भालं दशरथात्मजः ।
कौशल्येयो दृशौ पातु विश्वामित्रप्रियः श्रुती ॥ १॥
घ्राणं पातु मखत्राता मुखं सौमित्रिवत्सलः ।
जिह्वां विद्यानिधिः पातु कण्ठं भरतवन्दितः ॥ २॥
स्कन्धौ दिव्यायुधः पातु भुजौ भग्नेशकार्मुकः ।
करौ सीतापतिः पातु हृदयं जामदग्न्यजित् ॥ ३॥
मध्यं पातु खरध्वंसी नाभिं जाम्बवदाश्रयः ।
सुग्रीवेशः कटी पातु सक्थिनी हनुमत्प्रभुः ॥ ४॥
उरू रघूत्तमः पातु रक्षःकुलविनाशकृत् ।
जानुनी सेतुकृत् पातु जङ्घे दशमुखान्तकः ॥ ५॥
पादौ विभीषणश्रीदः पातु रामोऽखिलं वपुः ।
इति शम् ।
॥ श्रीः ॥
अथ श्रीमारुतिस्तवः ।
॥ श्रीगणेशाय नमः ॥
मङ्गलाचरणम् ।
राजतेजौपमे विराजते याऽऽसने महति राजतेऽत्र सा ।
सर्वदानवकदध्नि सर्वदा सर्वदा दधिमथी मथीनतात् ॥ १॥
सहंसका हंसगतिप्रवीणा वीणामुपादाय निजां स्वपाणौ ।
सरस्वती सा मम चित्तरङ्गेऽरं गेयमारभ्य नटीव नृत्यात् ॥ २॥
माधवनन्दननित्यानन्दनतो नन्दनन्दनो नन्द्यात् ।
स्वपदारविन्दनन्दितमिन्दिन्दिरमिन्दिरेश ! चाऽऽनन्द्यात् ॥ ३॥
अथ स्तवप्रारम्भः -
शिञ्जानमञ्जमुकुटैः सुकुटैरिवोच्चै
रोचिर्भिरद्भिरिव रुद्धतराऽन्तरालैः ।
मेध्यैः सुरैः पदयुगं बहु सिच्यमानं
रामाऽनुगस्य विनुमो द्युततरूपमानम् ॥ १॥
घर्मोपमानभवतापजुषः पुमांसोऽ-
वः सत्यमेव सुखदः परिदर्श्यते वः ।
पादद्युपादप उदेति वनौकसोऽर्ति-
तुच्छाय एष इति तत्तलमाश्रयध्वम् ॥ २॥
भा यन्नखेभ्य उदिता मुदिता समुद्र-
लङ्घस्य साधु समये समयादधस्तात् ।
दर्वीकरेभ्य इव सूचयितुं प्रियं स्वं
शर्म प्रयच्छतु कपीशपदद्वयं तत् ॥ ३॥
रक्ता हि यत्र भृशमङ्गुलंयो रमन्तेऽ
थात्सारितेव रुचिरा रुचिराश्रयं यम् ।
मत्वा परं व्रजति रक्ततराऽपि सस्वौ-
जः संयुतो हनुमतो नु मतोंऽघ्रिपद्मः ॥ ४॥
कौ धावतेऽ तिगमिताम्बुधये तु यस्मै
शल्यादिभिर्विरहितां सहितां प्रकाशैः ।
येयामिव स्फुटयितं पदवीं यदीया
योज्येव याति पदरुक्पुरतः स पातु ॥ ५॥
दृष्ट्वा यदीयपदपङ्कजमेकवारं
शौटीर्यवीर्यसहितं जलराशिलङ्घे ।
पापात् प्रमुच्यत इहैव नरश्च पूज्योऽ
तुल्यो भवत्यऽवतु सोऽनिलनन्दनो नः ॥ ६॥
वित्यज्य याति जनकस्य गृहं हि जाता
श्वासारतां सुदधती स्वविवृद्धिकाले ।
मिथ्यात्वहीनमिति निर्दिशतीव यद्भाऽ
त्रस्थेनवेश्म भजते भज ते पदे हृत् ॥ ७॥
प्रिय सर्वदैव बहुरक्ततराऽङ्गुलीषु
यः श्रीमतो हनुमतोऽङ्घ्रियुगप्रकाशः ।
श्रुत्यादिकीर्तितगुणो दशदिक्षु सूर्योऽ-
तीन्धेऽयमित्यऽवगतः कविभिस्सवोऽव्यात् ॥ ८॥
घ्रातव्यभव्यसुरभिः सुरभिः सदा प्र-
णन्दन्मनोभिरमरैर्भ्रमरैरिवोच्चैः ।
पापप्रतापसुसमापनतापरः सोऽ-
तुल्यः पुनातु पुरु पावनिपादपद्मः ॥ ९॥
मय्युच्छ्रितात्मनि क एधत आ इतीव
खज्योतिषां समुदयाय रुषेव रक्ता ।
त्रासं प्रदातुमित एति हि यत्प्रभोर्द्ध्वं
तार्यात्स देव।भवतो भवतोंऽघ्रिपद्मः ॥ १०॥
इतिपादवर्णनं समाप्तम् ॥
मुञ्चन् फणामजगरोऽतिगरोऽयमित्थं
खं संस्पृशन्नुपरितः परितश्च यस्य ।
सौलभ्यतः परिचितः कविभिः सुपुच्छो
मिथ्यात्वमन्तयतु नः स समीरसूनुः ॥ ११॥
त्रिर्यं स्वपुच्छमलमच्छकशासुपट्ट-
वत् सन्ततं ह्युपरितः परितः प्रकम्प्य ।
सन्ताडिता हनुमता रिपवः स धूते-
लः कम्पयेत किमुनाऽस्मदरातिवर्गम् ॥ १२॥
जित्वाऽक्षमुच्छलितमन्यपरं प्रतीवाऽऽ-
ह्वां कर्त्तुमीहितवतः समदं समानम् ।
विर्वालधी रयत ऐदिव खं हि यस्याऽ-
द्याऽस्मान् प्रबोधयतु सोऽप्रथमोवनौकाः ॥ १३॥
निन्ये यमाशु शमितां शमितस्वभक्ताऽऽ-
धिः शान्त एव हि हरिस्मरणे हनूमान् ।
पापिद्विषां च शमने स्वयमुद्भटः स्व-
तुल्यं व्यधाच्छमिह गुच्छयतात्स पुच्छः ॥ १४॥
कन्दर्पदर्पदलनं गलनन्दिताऽहिं
ठं दध्युषोऽवतु कपेः स्तिमितः स पुच्छः ।
भव्योऽभवत्तदनु यस्य हि वालहस्तो
रक्षोदयाऽनुगतियन्त्रितसूत्रशाली ॥ १५॥
तन्यात्तमामतिमतिं विहितस्तुतीनां
वन्द्यस्य तद्धनुमतो ललितं सुलूमम् ।
दिष्टाऽहिबन्धनमरिव्रजमाशु येने
तःप्रक्षतोऽपि फणिनेव बबन्ध वीरः ॥ १६॥
स्कन्दाभ ईशजतया च सशक्तितायां
धौरेयतां कपिबले दधदेधतां सः ।
दिष्ट्या तु यस्य भवकूपनिमग्नजन्तून्
व्यामोहितानुपरि कर्षति पुच्छरज्जुः ॥ १७॥
युद्धे हि येन करटीव करेण वीरोऽ-
धः पातयन् विटपिनो नहि विघ्नमाप ।
पापं लुनातु मलमल्लकिनः सुमल्ल-
तुल्यस्य लूमममलं मम लम्बितं तत् ॥ १८॥
भुञ्जीत तत्फलमिहैव स यो यदञ्ज्याज्-
जौर्त्यप्रदं परहृदो निदिशन्नितीव ।
भव्यो हि योऽरिषु तमैक्षयतर्द्धिमाप्याऽ-
ग्नेः पूर्वमात्मनि स पातु कपीशपुच्छः ॥ १९॥
शक्तो निशाचरमहःशिथिलीकृतौ यः
कार्ये वशीकरण आशु च शूर एव ।
मुञ्चेद्वशेस्थितमरिं सुकशैव शोभौ-
कः प्रातु शौयमनिशं बहुशः स पुच्छः ॥ २०॥
इति पुच्छवर्णनं समाप्तम् ॥
कण्ठोत्तमाङ्गलसितौ सुसिताविवाऽही
रौप्याविव स्वतनुजाय हरेण दत्तौ ।
सीदद्भिरेवमरिभिः प्रवितर्कितौ यौ
तावत्र शं वितनुतां कपिराजबाहू ॥ २१॥
पद्मेशनामकथकान्प्रति नृन्प्रदत्तो-
तिःश्रीशदूत उदितं यमदूतमन्ते ।
पात्यं प्रपात्य मिषतो नु ययोर्दधे तत्-
तुच्छस्य मुद्गरयुगं भज तद्भजौ तौ ॥ २२॥
हृत्याऽङ्गतोऽरिसुदृशां मृतभर्तृकाणां
दस्योः पृथोः स्वसहसा सहसा च हृत्या ।
यन्त्रेण योंऽगदमणेर्भुजयोश्च तत्राऽ-
जानान्नु दाऽर्थचयमाशु विभुः स पायात् ॥ २३॥
मह्युद्भवाऽर्पितमणिग्रहणक्षणेऽनु-
दग्ग्राऽऽननस्य सुकपेर्नमितो भुजो यः ।
न्यस्य स्वकेऽहिसमतां नतपाणिकोष-
जित्। सन्मणीफणमणी मनुते स्तुवे तम् ॥ २४॥
मत्वा गिरिं तृणमिवोद्धृतवान्कपीशोऽ
ध्यङ्ग हि यस्य सहसा स हरीशबाहुः ।
पापैर्निशाचरचयैस्त्रपयैव दृष्टोऽ-
तुल्यः शुचं शमयतामयताञ्च शोभाम् ॥ २५॥
खद्योतमुद्गतमवेत्य रसालमेव
रत्या तमाप्तुमित उत्पततोऽति वातेः ।
ध्वञ्जद्धृणिर्भुजयुगल्यधिरोहिणी या
सीदन्नृणां दिवि गमायतता श्रये ताम् ॥ २६॥
नाभस्वतस्य च सदर्पकचेष्टितं तद्
भिन्दानमर्तिगणमुज्ज्वलचारुशोभम् ।
जाग्रत्पलाशपतनं मधुमाधवीया-
म्बह्वीं श्रियं तुलयदुच्यतु दोर्द्वयं वः ॥ २७॥
वन्येशितुर्भुजलताऽङ्गुलिशाखिकाऽव्या-
दासक्तपाणिदलकङ्कणिकाः च तत्र ।
श्रद्धेयमुत्पृथु दरस्फुटितं सुमं तद्
यः सार्थकः करधृतः खलु मुद्गरोऽस्ति ॥ २८॥
सष्ठु स्मराम्यऽपि च तौ सुकपिप्रवेष्टौ
ग्रीवासुकम्बुमति नाभिजलभ्रमाढ्ये ।
वेलोत्कटे हनुमतोऽङ्ग्युदधौ च यौ साऽऽ
शः सत्कविः सुमनुते तटभित्तिबन्धौ ॥ २९॥
कञ्जासनेन रचिता रिपुताडनाय
टीक्याविमौ हनुमतः किमु दीर्घदण्डौ ?।
पा स्तम्भको हरिरधादुत धर्तुमर्या-
तुन्नं जगन्न्विति मतौ नम वातिबाहू ॥ ३०॥
इति भुजवर्णनं समाप्तम् ॥
सक्तद्युतेर्द्युतिविभातविभातकालोत्-
थित्यऽच्छकच्छविधृतो रविमण्डलस्य ।
नीकाशभावमयमानमथाऽसमानं
हर्यच्छभल्लपतिमन्त्रिमुखं तदव्यात् ॥ ३१॥
नुत्यो रविः किमुदितो न तु पूर्वसानु-
मत्कूट एष किमु राजति पूर्णचन्द्रः ?।
प्रत्यक्षमेतदह रा मनितं तु यस्याऽऽ-
भुः। सम्मुदा जनकजाऽप्तिजयाऽऽन्तराणि ॥ ३२॥
ऊरू प्रताडयत एव हि तस्य वाते
रूढप्रसादमवलोक्यत आननाब्जम् ।
रत्येति संप्रथित ऋक्षमुखैः सदा स
घूतकृन्निशाटगणमेजयतां मुखेन्दुः ॥ ३३॥
तथ्यं भवेदजलजो यदि पद्म उद्यद्-
मः सर्वदाऽपि च स तापनमण्डलेन ।
पादोत्करेण न हि जात्वऽपि तापितः स्यात्
तुल्यत्वमात्मनि तदैव लभेत येन ॥ ३४॥
रत्या युतः सुकविवत्सुनिबन्धदत्ताऽ
क्षः किं कथञ्चन हठात्तपदप्रयोक्ता ।
कुञ्चन् भ्रुवौ विरचने कविवर्यमानी
लब्धुं कवीश्वरपदं प्रभवेन्मनुष्यः ? ॥ ३५॥
विज्ञाय हेतुत इतोऽतुलतां तु तस्य
नाऽमूदृशो गुणगणं हनुमन्मुखस्य ।
शक्नोमि वर्णयितुमर्णवपूर्णताऽनु-
कृत पार्थवं नु विरमामि नमामि यद्वा ॥ ३६॥
जातं यतो जनकजाऽधिगमोत्तरं चा-
नुध्वानि गर्जितमुदूर्जितमार्जवाढ्यम् ।
नीत्वा स्वकर्णपथमव्धितटे भटेन्द्राः
सेहुर्न कर्णयितुमर्णवपूर्णगीर्णम् ॥ ३७॥
तुष्टा वितर्क्य शिखिनो घनगर्जित्तं यत्
कृतस्नाश्च नैजललनाललनाविलोलाः ।
पाथोधिमाप्तवत आप्तविदेहजस्य
तुष्टिं हनूमत इवाऽऽतनितुंव्यनृत्यन् ॥ ३८॥
जन्तुव्रजोऽपि वनजो हृतभक्तसक्ताऽ-
घेहं हि यत्सपदि केसरिनन्दनस्य ।
दक्षं निशम्य मनसाऽवहितेन चित्रं
शर्मप्रकर्षमतुलं लभते सलीलम् ॥ ३९॥
मुख्यस्य मर्कटकुले बतयातुधानान्
खाण्ड्यं सुनीतवत आशुगजस्य यच्च ।
तथ्यं व्यबुध्यत तदा जयतोपशब्दं
कः सत्कविर्नहि कपीन्द्रमुखं तदव्यात् ॥ ४०॥
इति मुखवर्णनं समाप्तम् ॥
पादेन योऽरिशिरसि प्रहर्ति विधाय
दौःख्यप्रदां स्वचरणस्य च शोणिमानम् ।
विज्ञो न्यदर्शयत रक्तमिषेण नूनं
भीनाशकः कपिवरोऽस्तु स मे प्रसन्नः ॥ ४१॥
षट्रपभ्दिरीश्वरपदाम्बुजयोर्यकः प्र-
णत्य स्थितोऽलिरिति चाशुगजश्व नागैः ।
श्रीमन्मृगारिभिरु केसरिपुत्र इत्यऽ-
दः संप्रधार्य जगृहे स्वत एवमेभिः ॥ ४२॥
पातात्स पावनिरपावनपापपातात्-
तुन्नस्वकानिह भवे परिधिन्वितुन्नः ।
रागाऽऽत्तराम इति चाक्षजयी निरागा
मोक्षप्रदोऽप्यविहितस्वसुभक्तमोक्षः ॥ ४३॥
खिन्नत्वमाप्य रुदितेन च योऽस्त्रपत्वं
लङ्कौकसामृतमसाधयदाञ्जनेयः ।
वन्द्यः स्व ऐक्षत शिवोद्भवतां यया चाऽऽ-
पुः क्षेममात्मसुहृदः स करोतु भद्रम् ॥ ४४॥
इति श्रीहनुमद् वर्णनं समाप्तम् ॥
आद्याऽक्षरप्रकटितोत्तमरामरक्षा-
स्तोत्रीयपद्यमणिनाऽत्यऽमुना स्तवेन ।
रक्षा भवत्युभयतस्त्विति गेय इत्योऽ-
ष्टव्यस्तथैष पठनीय उचेलिमोऽर्च्यः ॥ ४५॥
दाधीचवंश उदये ह्युदियाय कास-
ल्योपाह्वयश्छिर इनो द्विजरामवक्षः ।
तस्यात्मजेषु किल पञ्चसु पूर्वजन्मा
श्रीमाधवोऽधरत धीरधुरन्धरत्वम् ॥ ४६॥
एकात्मवृत्तरचने विदधत्प्रतिज्ञा
शास्त्रार्थसंलपनमाधित यः सभासु ।
श्रीगट्टुलालबुधतर्कगिरेशतारा-
नाथादिभिर्गुणिवरैश्च बहुप्रशस्तः ॥ ४७॥
तत्पुत्रयोर्भगवतीतिपदादिलालो
ज्येष्ठोऽस्ति पण्डितवरः पितृलब्धविद्यः ।
तस्याऽनुजेन च सुशिष्यवरेण नित्या-
नन्दाभिधेन बुधपादसुकिङ्करेण ॥ ४८॥
एष स्तवोऽरचि मयोत्सववैजयन्त्यां
सम्पूर्णवासरमहाधुरि वै जयन्त्याम् ।
लोकान् प्रमोदजलधावनुमज्जयन्त्यां
वर्षेत्रिषण्नवकुगे हनुमज्जयन्त्याम् ॥ ४९॥
पुरोभागितया हीनाः पुरो भागितया युताः ।
उत्साहयेयुरत्राऽऽर्या दयादृक्पातनेन माम् ॥ ५०॥
इतिश्रीयोधपुरस्थदाधिमथ (दाहिमा) कासल्योपाख्य-
धीरधुरीणश्रीमाधवात्मजाऽऽशुकवि
पण्डित नित्यानन्दशास्त्रिरचितः
श्रीमारुतिस्तवः समाप्तः ॥ शुभं भवतात् ॥
Encoded and proofread by Shree Devi Kumar shreeshrii at gmail.com